वाचस्पत्यम्/अरण्यजीव

विकिस्रोतः तः


पृष्ठ ०३५१

अरण्यजीव त्रि० अरण्येन तद्भवफलादिना जीवति जीव--क ।

वनस्थफलादिना जीविकावति वानप्रस्थादौ ।

अरण्यधर्म्म पु० अरण्ये आचरणीयो धर्मः । वानप्रस्थधर्म्मे । स च

धर्मः “गृहस्थस्तु यदा पश्येद्बलीपलितमात्मनः । अपत्यस्यैव
चापत्यं तदारण्यं समाश्रयेत् । सन्त्यज्य ग्राम्यमाहारं
सर्व्वञ्चैव परिच्छदम् । पुत्त्रेषु भार्य्यां निक्षिप्य वनं
गच्छेत् सहैव वा । अग्निहोत्रं समादाय गृह्यञ्चाग्निपरि-
च्छदम् । ग्रामादरण्यं निःसृत्य निवसेन्नियतेन्द्रियः ।
मुन्यन्नैर्व्विविघैर्म्मेध्यैः शाकमूलफलेन वा । एतानेव महा
यज्ञान्निर्व्वपेद्विधिपूर्ब्बकम् । वसीत चर्म्म चीरं वा सायं
स्नायात् प्रगे तथा । जटाश्च बिभृयान्नित्यं श्मश्रुलोम-
नखानि च । यद्भक्ष्यं स्यात्ततो दद्याद्बलिं भिक्षाञ्च
शक्तितः । अम्मूलफलभिक्षाभिरर्च्चयेदाश्रमागतान् । स्वा-
ध्याये नित्ययुक्तः स्याद्दान्तोमैत्त्रः समाहितः । दाता नित्य-
मनादाता सर्व्वभूतानुकम्यकः । वैतानिकञ्च जुहुयादग्नि-
होत्रं यथाविधि । दर्शमस्कन्दयन् पर्व्व पौर्णमासञ्च
योगतः । ऋक्षेष्ट्याग्रयणञ्चैव चातुर्म्मास्यानि चाहरेत् ।
उत्तरायणञ्च क्रमशो दक्षिणायनमेव च । वासन्तशारदैर्म्मे-
ध्यैर्मुन्यन्नैः स्वयमाहृतैः । पुरोडाशांश्चरूंश्चैब विधिबन्नि-
र्व्वपेत् पृथक् । देवताभ्यस्तु तद्धुत्वा वन्यं मेध्यतरं हविः ।
शेषमात्मनि युञ्चीत लवणञ्च स्वयंकृतम् । स्थलजो-
दकशाकानि पुष्पमूलफलानि च । मेध्यवृक्षोद्भवान्य-
द्यात् स्नेहांश्च फलसम्भवान् । वर्जयेन्मधुमांसञ्च भौमानि
कवकानि च । भूस्तृणं शिग्रुकञ्चैव श्लेष्मान्तकफलानि
च । त्यजेदाश्वयुजे मासि मुन्यन्नं पूर्व्वसञ्चितम् ।
जीर्णानि चैव वासांसि शाकमूलफलानि च । न
फालकृष्टमश्नीयादुत्सृष्टमपि केनचित् । न ग्रामजा-
न्यार्त्तोऽपि मूलानि च फलानि च । अग्निपक्वा-
शनोवा स्यात् कालपक्वभुगेव वा । अश्मकुट्टोभवेद्वापि
दन्तोलूखलिकोपि वा । सद्यःप्रक्षालको वा स्यान्मासस-
ञ्चयिकोऽपि वा । षण्मासनिचयोवा स्यात् समानिचय
एव वा । नक्तञ्चान्नं समश्नीयाद्दिवा वाहृत्य शक्तितः ।
चतुर्यकालिकोवा स्यात् स्याद्वाप्यष्टमकालिकः । चान्द्रा-
यणविधानैर्वा शुक्ले कृष्णे च वर्त्तयेत् । पक्षान्तयो-
र्वाप्यश्नीयाद्यवागूं क्वथितां सकृत् । पुष्पमूलफलैर्वापि
केवलैर्वर्त्तयेत् सदा । कालपक्वैः स्वयंशीर्णैर्वैखान-
समते स्थितः । भूमौ विपरिवर्त्तेत तिष्ठेद्वा प्रपदैर्द्दिनम् ।
स्थानासनाभ्यां विहरेत् सवने स्नपयन्नपः । ग्रीष्मे पञ्च-
तपास्तु स्याद्वर्षास्वभ्रावकाशिकः । आर्द्रवासास्तु हेमन्ते
क्रमशो वर्द्धयंस्तपः । उपस्पृशंस्त्रिषवणं पितॄन् देवांश्च
तर्पयेत् । तपश्चरंश्चोग्रतरं शोषयेद्देहमात्मनः । अग्नीना-
त्मनि वैतानान् समारोप्य यथाविधि । अनग्निरनिकेतः
स्यान्मुनिर्मूलफलाशनः । अप्रयत्नः सुखार्थेषु ब्रह्मचारी
धराशयः । शरणेष्वममश्चैव वृक्षमूलनिकेतनः । तापसेष्वेव
विप्रेषु यात्रिकं भैक्ष्यमाचरेत् । गृहमेधिषु चान्येषु
द्विजेषु वनवासिषु । ग्रामादाहृत्य वाश्नीयादष्टौ ग्रासान्
वने वसन् । प्रतिगृह्य पुटेनैव पाणिना शकलेन वा ।
एताश्चान्याश्च सेवेत दीक्षा विप्रो वने वसन् । विविधा
श्चौपनिषदीरात्मसंसिद्धये श्रुतीः । ऋषिभिर्ब्राह्मणैश्चैव
गृहस्थैरेव सेविताः । विद्यातपोविवृद्ध्यर्थं शरीरस्य च
शुद्धये । अपराजितां वास्थाय व्रजेद्दिशमजिह्मगः । आ
निपाताच्छरीरस्य युक्तो वाय्येनिलाशनः । आसां महर्षि-
चर्य्याणां त्यक्त्वान्यतमया तनूम् । वीतशोकमयो विप्रो
ब्रह्मलोके महीयते” मनुः ६ अ० ।

अरण्यधान्य न० ६ त० । नीवारादौ वनधान्ये ।

अरण्य(ण्यानाम्) पति पु० अरण्यानां तत्रस्थानां चौराणां पतिः

वा अलुक् समा० । चौराधिष्ठातरि १ रुद्रे “नमोनमोनिचेरवे
परिचरायारण्यानां पतये नमः” यजु० १६, २०, “रुद्रो हि
लीलया चौरादिरूपं धत्ते यद्वा रुद्रस्य जगदात्मकत्वा-
च्चौरादयो रुद्रा एव ध्येयाः यद्वा स्तेनादिशरीरे जीवेश्वर-
रूपेण रुद्रोद्विधा तिष्ठति तत्र जीवरूपं स्तेनादिशब्दवाच्यम्
तदीश्वररुद्ररूपं लक्षयति यथा शाखाग्रं चन्द्रम्” वे० दी० ।
तस्य सर्वनियन्तृत्वेन चौराणामपि पतित्वं युक्तमेव “एष एव
साधु कर्म्म कारयति तं यमुन्निनीयते एष एवासाधु कर्म्म
कारयति तं यमधोनिनीषते” इति श्रुत्या तस्य साध्वसाधु-
कर्म्मनियन्तृत्वस्योक्तेः पूर्व्वकृतकर्म्मसापेक्षत्वेन च न
वैषम्यनैर्घृण्ये इत्याकरे व्यक्तम् । २ अरण्यचरव्याधपतौ च ।

अरण्यभव त्रि० अरण्ये भवति भू--अच् । वनभवे ।

अरण्यमक्षिका स्त्री ६ त० । (डाश) इदि ख्याते दंशे ।

अरण्यमार्ज्जार पु० अरण्ये मार्ज्जारः । वनविड़ाले ।

अरण्यमुद्ग पु० ६ त० । वनमुद्गे ।

अरण्ययान न० अरण्ये यानम् । अयोम्यकाले वनगमने

“अरण्ययाने सुकरे पिता माम्” इति भट्टिः ।

अरण्यरक्षक पु० अरण्ये रक्षकः । वनरक्षके वनेषु

लोकरक्षार्थ राज्ञा नियुक्तसैन्यभेदे ।
पृष्ठ ०३५२

अरण्यराशि अरण्यसंज्ञको राशिः । “मकरादिमार्द्धसिंहौ

वन्यौ दिवसेऽजवृषभौ चेति” ज्योतिषोक्ते सिंहादिराशौ ।

अरण्य(ण्ये)रुदित न० अरण्ये रुदितं रोदनम् सप्तम्या

वा अलुक् । शान्त्युपायकारकश्रोतृशून्ये निष्फले
१ रोदने २ तत्तुल्ये निष्फले वस्तुमात्रे च । लोके हि
रोदने तद्रोदनशान्त्युपायोदयालुभिः क्रियते अरण्ये
रोदने तु न कश्चित् तस्य शमयितेति तस्य निष्फलत्वम् ।

अरण्यवायस पु० ६ त० । (दाँड़काक) इतिख्याते द्रोणकाके ।

अरण्यवास पु० अरण्ये वासः । वनवासे ।

अरण्यवासिन् त्रि० अरण्ये वसति वस--णिनि । वनवासिनि

१ मुन्यादौ “एते हिमगिरेरुपत्यकारण्यवासिन” इति
शकु० । स्त्रियां ङीप् । सा च २ अत्यम्लपर्ण्णीलतायां
राजनि० ।

अरण्यवास्तूक पु० ६ त० । (वनवेतो) इति ख्याते बनवास्तूके ।

अरण्यशालि पु० अरण्यभवः शालिः । वनभवे नीवारादौ ।

अरण्यशूकर पु० अरण्यस्य शूकरः । वनवराहे ।

अरण्यशूरण पु० शा० त० । वनभवे (ओल) इति ख्याते शूरणे ।

अरण्यश्वन् पु० अरण्ये श्वेव हिंस्रः । वृके ।

अरण्यषष्ठी स्त्री अरण्याय गन्तुं षष्ठी । ज्यैष्ठशुक्लषष्ठ्याम् ।

“ज्यैष्ठे मासि सिते पक्षे षष्ठी यारण्यसंज्ञिता । व्यजनैक-
करास्तस्यामटन्ति विपिने स्त्रियः” इतिः राजमा० ।

अरण्याध्यक्ष पु० अरण्यरक्षणादौ अध्यक्षः । वनेषु लोकरक्ष-

णार्थं राजनियुक्ते सैन्यपतिभेदे ।

अरण्यानी स्त्री महदरण्यं नि० ङीप् आनुक् च ।

महारण्ये । “यथारण्यान्यामुत्साश्चरत” शत० ब्रा० ।

अरण्यायन न० अरण्येऽयनं वानप्रस्थधर्म्मस्तदिवाचरणम-

स्त्यस्य अच् । “यद् अरण्यायनमित्याचक्षते ब्रह्मचर्य्य
मेव तदिति” श्रुत्युक्ते ब्रह्मचर्य्ये । “तदरश्च ण्यश्चार्ण्णवावित्या-
दिना तत्रैव व्युत्पत्तिर्दर्शिता ।

अरण्येतिलक पु० सप्तम्या अलुक् । वनतिलभेदे ।

अरण्येऽनूच्य त्रि० अरण्ये अनूच्यः नियतपाठ्योमन्त्रो यस्य

अलुक समा० १ अरण्यमात्रपाट्यमन्त्रेण संस्कृते पुरा-
डाशादौ “पश्चादरण्येऽनूच्यम्” १८, ४, २० । “अरण्येऽ-
नूच्या बक्तव्याः पठनीया मन्त्रा यस्यासौ अरण्येऽनूच्य”
इति कर्क० । ७ त० अलुक्स० । २ अरण्येऽनूच्ये (पाठ्ये)
मन्त्रभेदे पु० । स च “उग्रश्च भीमश्चेत्यादिमन्त्रः सहि
नियतमरण्ये पठ्यते” इति कर्क० । “वागेवारण्येऽनूच्या-
सोऽरण्येनूच्यो भवति” ता० ब्रा० । “अरण्येऽनूच्यः कश्चि-
दनुवाकः तेन हूयमानोऽपि पुरोडाशोऽरुण्येऽनूच्यो भवति”
भा० । अयमेव पक्षः श्रेयान् कर्कमते बहुव्रीह्या
श्रयणे सप्तम्या लुक् न स्यात् अलुक्समासस्य तत्पुरुषै
कविषयत्वात् अत उपचारात् तत्सम्बन्धवाचकत्वं युक्तम्
“सोऽस्यैषोऽवाङ् प्राण एतस्य प्रजापतेः सोऽरण्येनूच्यो
भवति” शत० व्रा० ।

अरण्यौकस् पु० अरण्ये विधानेनओकोयस्य । १ मुन्यादौ २

वानप्रस्थे “वैक्लव्यं मम तावदीदृशमपि स्नेहादरण्यौकसः” शकु०

अरत त्रि० न रतः । १ अननुरक्ते २ विरते च ।

अरतत्रप पु० अरता विरता त्रपा यस्य । १, कुक्कुरे २ लज्जाहीने त्रि० ।

अरति पु० ऋ--अति । १ क्रोधे । रम--क्तिन् न० त० ।

२ अनवस्थितचित्ततायाम्, ३ रागाभावे, “मुखं कषाय-
मरतिर्गौरवं कण्ठवक्षसोः” सुश्रुतः । ४ रतिविरहे,
५ उद्वेगे, “स्वाभीष्टवस्त्वलाभेन चेतसो याऽनवस्थितिः
अरतिःसा” इत्येवंरूपे ६ इष्टवियोगान्मनसोव्याकुलीभावे
७ असन्तोषे “भृशसरतिं हि सद्वियोगः” इति ।
किरा० स्मरकृते ८ नायकदशाभेदे च स्त्री । “दृङ्मनः
सङ्गसङ्कल्पाजागरः कृशताऽरतिः । ह्रीत्यासोन्मादमूर्च्छ्रा-
स्ताः इत्यनङ्गदशा दश” मल्लि० । सा च विषयविद्वेष
करोति । न० ब० । ९ रागहीने त्रि० ।

अरत्नि पु० ऋ--कत्नि रत्निः बद्धमुष्टिकरः स नास्ति यत्र ।

१ विस्तृतकनिष्ठे बद्वमुष्टिहस्ते, २ कफोणिमारभ्य कनिष्ठाङ्गुलि-
पर्य्यन्तपरिमाणे । अतस्ततः प्रमाणे मात्रच् । तत्परिमिते
त्रि० । “अरत्निमात्रान्तरिते देशे” भवदेवः । “तामुत्तर-
तोऽग्नेर्निदघात्यरत्निमात्रे” गृह्यसू० । “अरत्निमात्र
क्षुपकाः पत्रैर्द्व्यङ्गुलसम्मितैः” सुश्रु० । ३ कफोणौ
(कुनो) बाहोरवयवे । “भीष्मो धनुष्मानुपजान्वरत्निः”
भट्टिः । “जवनेनाहवनीयमरत्नी संधत्त” शत० ब्रा० ।
४ बाहौ बाहुर्वा अरत्निः बाहुना वीर्य्यं क्रियते” शत०
ब्रा० । वा कप् । अरत्निकोऽप्युक्तार्थे ।

अरथि पु० ऋच्छ्वति रथिना सह युद्धभूमिम् ऋ--रथिन्

सारथिः न० त० । सारथिभिन्ने! “अस्त्वनश्वश्चिद्य-
मजत्यरथीः” ऋ० ६, ६६, ७, रथिः सारथिः न
रथिअरथिः” छा० दीर्घः भा० ।

अरद पु० न जातोरदोयस्य । अजातदन्तावस्थे बाले २ भग्नदन्ते वृद्धे च

अरध्र त्रि० राध--हिंसने, कर्म्मणि रन् ह्रस्वश्च न० त० । शत्रु-

“भिरहिंस्ये उग्रमुग्रस्य तवसस्तवीयोऽरध्रस्य रध्रतुरोबभूब”
ऋ० ६, १८, ४, राध--सिद्धौ रन्--ह्रस्वः भा० ।
२ समृद्धे च “ता ह त्यद्वर्त्तिर्यदरध्रमुग्रे त्था” ऋ० ६, ६२,
३, अरध्रम् समृद्धम् भा० ।
पृष्ठ ०३५३

अरन्तुक न० कुरुक्षेत्रान्तर्गतसमन्तपञ्चकसीमाभूते स्थानभेदे ।

“तरन्तुकारन्तुकयोर्यदन्तरं रामह्रहानाञ्च सचक्रकस्य च ।
एतन् कुरुक्षेत्रसमन्तपञ्चकम्” इति भा० व० प० ।

अरन्धन न० अभावे न० त० । पाकाभावे स च सिंह-

संक्रान्तौ कन्यासंक्रान्तौ च विधेयः “कर्कान्नमद्यात्
सिंहार्के सिंहान्नं सिंहकन्ययोः” । इत्याचारमार्त्तण्डोक्तेः
तस्मिन् पर्य्युषितान्न भोजनविधानेन पाकाभावो गम्यते ।

अरन्ध्र त्रि० नास्ति रन्ध्रं छिद्रं यस्य । निविड़े छिद्ररहिते

अरपस् त्रि० नास्ति रपोदुरितं यस्य । पापशून्ये “शंयोर-

रपोदधातन” ऋ० १०, १५, ४, “तदस्मे शंयोररपोदधा-
तन” ऋ० १०, ३७, ११ ।

अरम अव्य० अल--अम् वा लस्य रत्वम् । १ वक्ष्यमाणेऽलमर्थे

२ शीघ्रतायाञ्च । अरङ्कृतशब्दे अरङ्कृतिशब्दे च उदा० ।
३ अत्यर्थे च । “तस्मा अरं गमावः” य० ११, ५२ अरमिषे
स्तवामहे मील्हुषे अरंगमाय जग्मये” ऋ० ८, ४६, १७ ।

अरम त्रि० न रम्यतेऽत्र आधारे घञ् । अधमे ।

अरमति स्त्री अरात्यर्था पर्य्याप्ता वा मतिः । १ पर्य्याप्तबुड्वौ

२ दीप्तौ च । “स्यादस्मे अरमतिर्वसूयुः ऋ० ७, ३४, २१ ।
“उप स्वैनमरमतिर्वसूयुः” छा० उ० ।

अरर त्रि० ऋ--अरन् । १ कवाटे । “सरभसमरराणि

द्रागपावृत्य” वीर० च० । २ अपिधाने ३ वंशकोषेविश्वः
४ ऋषिभेदे पु० । गर्गा० यञ् । आरर्य्यस्तदपत्ये पुंस्त्री०

अररि पु० न० ऋच्छति ऋ + विटरमियर्त्तिऋ--इन् । कपाटे

अररिन्द न० रा--कि द्विश्च ररिर्दाता नास्त्यन्योररिरस्य पिपा-

सोपशमस्य अररिं पिपासोपशमं ददाति दा--ख मुम् । जले
निरु० । “अधारयदररिन्दानि सुक्रतुः” ऋ० १। २९ । १० ।
भाष्ये प्रागुक्ता अत्या च व्युत्पत्तिर्दर्शिता । “यद्वा-
अररिरितश्चेतश्च गमनं औणादिकोऽरिप्रत्ययः ।
आतोऽनुपसर्गे कः पृषोदरादित्वादभिमतरूपस्वरसिद्धिः ।
तद्ददतीत्यररिन्दान्युदकानि चेष्टाप्रदानीत्यर्थः । “आपो-
मयाः प्राणा” इति श्रुतेः । यद्वा ररिर्दानं न विद्यते
तौदृशं दानमितरमृतुषु तदररि अन्यैरदेयं
लोकोपकारि भोगं ददतीत्यर्थः” इति ।

अररिवस् त्रि० रा--क्कसुः ररिवान् न० त० । अदातरि ।

“योनो अग्ने अररिवाँ अघायुररातीः” ऋ० १, १४७, ४ ।

अररु पु० ऋ--अरु । १ शत्रौ सि० कौ० । २ आयुधे उज्ज्वलद०

३ गमनस्वभावे त्रि० अररुं, शूर मर्त्यं परिवृणक्षि मर्त्यं
ऋ० १, १२९, ३, ‘अररुं गमनस्वभावम्’ भा० ।

अररुस् पु० ऋ--अरुस् । अर्त्तेररुः इति” सूत्रं सान्तमिति

माधवः । उपद्रवकर्त्तुमागते शत्रौ “मा नः शंसो अररुषो
धूर्त्तिः” ऋ० १, १८, ३, । “अररुषः उपद्रवं कर्त्तुमस्मत्-
समीपे प्राप्तस्य शत्रुरूपप्य मनुष्यस्य” भा० ।

अररे अव्य० अरं शीघ्रं राति रा--के । शीघ्रं प्रत्युत्तर

लाभेच्छया कृते अतिव्यग्रतया संबोधने । तच्च नीचं प्रत्येव

अरलु पु० अरं लाति ला--कु--ऋ अरु कपिलका० रस्य लः

वा । (शोना) श्योनाकवृक्षे । “अरलुत्वक्प्रियङ्गू च मधूकं
दाड़िमाङ्कुरान् । अवाप्य पिष्ट्वा दधनि यवागूं साधयेद्-
द्रवम्” सुश्रु० । स्यार्थे कन् “तत्रैव । कपोतवङ्कारलुको
वरुणः पारिभद्रक” इति सुश्रु० ।

अरव पु० अभावे न० त० । १ रवाभावे प्रतिषेधार्थक शब्दाभावे

न० ब० । २ तच्छून्ये त्रि० ।

अरविन्द न० अरान् चक्राङ्गानीव पत्राग्राणि विन्दते

विदश । पद्मे “सरसीष्वरविन्दानां वीचिविक्षोभशीतलम्
रघुः” “रविन्दधानेऽप्यरविन्दधाने” माघः “रागेण श्रिय-
मरविन्दतः कराग्रैः” माघः २ सारसपक्षिणि ३ नीलीत्-
पले, ४ रक्तकमले ५ ताम्रे च ।

अरविन्दनाभ पु० अरविन्दं नाभौ यस्य अच् समा० । पद्मनाभे विष्णौ ।

अरविन्दाक्ष त्रि० अरविन्दमिव मनोहरमक्षि यस्य षच्

समा० स्त्रियां ङीष् । १ पद्मसदृशगनेत्रे २ पुण्डरीकाक्षे
विष्णौ पु० । “पद्मानाभोऽरविन्दाक्षः” विष्णु सह० ।

अरविन्दिनी स्त्री अरविन्दस्य सन्निकृष्टदेशादि इनि ङीप् ।

१ पद्मयुक्ते देशे २ पद्मलतायाञ्च । तेषां संघः इनि । ३
पद्मसमूहे ।

अरश्मन् त्रि० नास्ति रश्मिरस्य वेदे बा० अनिच्समा० ।

प्रग्रहरज्जुरहिते रथादौ “अरश्मानो येऽरा अयुक्ताः”
ऋ० ९, ६, ७, २, ० । “अरश्मानो रज्जुरहिताः” भा० ।

अरस पु० अभावे न० त० । १ आस्वादाभावे । रस्यते

आस्वाद्यते कर्म्मणि अच् । आस्वाद्यं मधुरादि न० त० ।
२ मघुरादिरसभिन्ने ३ अप्रकृष्टरसे । न० ब० । ४ रसशून्ये
त्रि० “अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च
यत्” श्रुतिः ५ असारे त्रि० । “वृश्चिकस्यारसं
विषमरसं वृश्चिक! ते विषम्” ऋ० १, १९१, १६, “अरसम-
सारमिति भा०” । रसं वेत्ति अच् न० त० । रसज्ञभिन्ने ।
“किमस्यानाम स्वादरसपुरुषानादरभरैः” नैष० ।
पृष्ठ ०३५४

अरसिक त्रि० रसं वेत्ति रस + ठन् न० त० । रसानभिज्ञे

“अरसिकेषु रहस्य निवेदनं शिरसि मा लिख” इत्युद्भटः ।

अराग पु० अभावे न० । १ अनुरागाभावे रञ्जनाभावे च

न० ब० । २ रागशून्ये त्रि० । “तमहमरागमतृष्णम्” वेणी०

अरागिन् त्रि० न रागी न० त० । विरक्ते स्त्रियां ङीप् ।

अराजक त्रि० नास्ति राजा यत्र कप् । राजशून्ये

देशादौ “अराजको हि लोकोऽस्मिन् सर्व्वतो विद्रुते
भयात्” मनुः ।

अराजन्य पु० न० त० । क्षत्रियभिन्ने “राज्ञो न धनमन्विच्छेदराजन्यप्रसूतितः” मनुः ।

अराजिन् त्रि० राजा अधिष्ठातृत्वेनास्त्यस्य ब्रीह्या० इनि

न० त० । १ राजानधिष्ठिते “वि पर्व्वताः अराजिनः”
ऋ० १, ७, २३ । अराजिनः राज्ञा केनचित्स्वामिना
ऽनघिष्ठिताः” भा० । न राजते राज--इनि । २ दीप्तिशून्ये
त्रि० स्त्रियामुभयतो ङीप् ।

अराजीव पु० अरम् चक्राङ्गं तत्साधनम् आजीवति

आ + जोव अन् उप० स० । १ रथकारे । राजीवं पद्मम्
न० ब० । ३ पद्मशून्ये जलादौ त्रि० ।

अराति पु० न राति ददाति सुखं रा + क्तिच् न० त० । १ शत्रौ ।

“देशः, सोऽयमरातिशोणितजलैर्यस्मिन् ह्रदाः पूरिताः”
वेणी० अरिशब्दे विवृतिः । ज्योतिषोक्ते २ षष्ठस्थाने ।
“आरतिव्रणयोः षष्ठे अष्टमे मृत्युरन्ध्रयोः” इत्यक्तेः षष्ठस्थाने
अरिकृतशुभाशुभचिन्तनीययत्वात्तथात्वम् कामादिष्वान्तर-
रिपुषु ४ षट्संख्यायां कामादीनामान्तररिपूणां संख्या-
साम्यात् । ५ अभिगमनशीले च “मा घान्यर्योवनुषामरा-
तयः” ऋ० ७, ८३, ५, । “विश्वा अग्नौ अरातीः ऋ०
८, ४९, २, अरातीः अभिगमनशीलाः शत्रवोवा भा०
भावे क्तिन् अभावे न० त० । ६ दानामावे स्त्री
“मा नो अरातिरीशत” ऋ० २, ७, २ । “अरातिरदानम्
शत्रुर्वा वेदे शत्रौ अरातिशब्दः स्त्री” भा० । अरातिरिवा-
चरति । आत्मनः अरमिच्छति क्यच् अरातीयति ।
शत्रुतुल्यमचरति तदिच्छति येत्यर्थे । “य उक्त यजमने
यारातीयति” शत० व्रा० । योऽस्मभ्यमरातीयात्” यजु०
११, ८० ।

अरातीयु त्रि० अरातिरिव आचरति अराति + क्यच्--उ । अथ० १०, ६, १ ।

शत्रुतुल्याचारशीले “अरातीयोर्भ्रातृव्यस्य दुर्हृदः”

अरातीवन् त्रि० अरातिमिच्छति वेदे मत्वर्थोयोवनिप्

पूर्व्वपददीर्घश्च । शत्रुतुल्याचारवति । “अघायुरराती-
वा मर्चयति द्वयेन” ऋ० १, १४७, ४ ।

अराधस् त्रि० राधः धननाम निरु० । तन्नास्ति यस्य ।

धनरहिते ‘कदामर्त्तमराधसम्’ ऋ० १, ८४, ८, “अराध-
सम् राधसा धनेन रहितम्” भा० ‘पदा पणीँ रराधसो
निबाधस्वं ऋ० ८, ६१, २ “अराधसं धनहीनम् यज्ञञ्च” भा० ।

अराय त्रि० नास्ति रा धनं यस्य वेदे षच्समा० । १ धनशून्ये

स्त्रियां ङीष् ॥ “अपमृज्य वा यातुधानानप सर्व्वा अराय्यः”
अय० ४, १८, ८ रा + भावे घञ् रायोयज्ञादौदानम् न० ब० ।
२ तच्छून्ये त्रि० । “नारायासो न ज्वह्लवः” ऋ० ८ । ६१ । ११,
“अरायाः अधनाः अहविष्का वा” भा० “अरायेभ्यो-
जिघत्सुभ्य इमं मे परिरक्षत” अथ० ८, २, २० ।

अराल पु० ऋ--विच् अरमालाति आ + ला--क । १ सर्ज्ज-

रसे २ मत्तहस्तिनि । ३ कुटिले त्रि० । “तत्रामरालयम-
रालमरालकेशी” नैष० “भित्त्वा निराक्रामदरालकेश्याः”
रघुः “नोवक्त्रमात्मीयमरालपक्ष्मणः” कुमा० । ४ वेश्यायां स्त्री

अरावन् त्रि० रा--वनिप् न० त० । अदातरि । “अरावा

चन मर्त्यः” ऋ० ८, ८, ४, ‘पाहिधूर्त्तेरराव्णः, ऋ० १, ३६,
१५ स्त्रियां ङीप् वनोरश्च । अरावरी ।

अरि पु० ऋ--इन् । १ शत्रौ २ रथाङ्गे, चक्रे, ३ विट्खदिरे,

४ कामक्रोधलोभमोहमदमात्सर्येषु षट्सु, तत्संख्यासाम्यात्
५ षट्संख्यायां, ६ ज्योतिषप्रसिद्धे लग्नावधिके षष्ठस्थाने
७ ईश्वरे च । तत्र शत्रौ “दूरात्प्रशमितारिभिः” “विजि-
तारिपुरः पुरः” रघुः । “नारीणामनुकूलमाचरसि चेज्-
जानासि” का० प्र० “अरिकरिहरणार्थम्” लीला० । “नारिं
न मित्रं यं विद्यात्तं श्राद्धेभोजयेत् द्विजम्” मनुः । चक्रे
“गदारिखड़् ग पद्मधृक्” विष्णुध्यानम् । कामादौ
“कृतारिषड़वर्गजयेन” किरा० । ईश्वरे अरिधामश् शब्दे
उ० विट्खरि अरिमेदः । “सितासितौ चन्द्रमसो न कश्चित्
बुधः शशी सौम्यसितौ रवीन्द । रवीन्दुभौमा रवितस्त्वमित्रा”
इति ज्योतिषोक्तेषु रव्यादीनां ८ शुक्रमन्दादिषु । यथा
रवेः शुक्रशनी, कुजस्य बुधः, बुधस्य शशी, गुरोः बुधशुक्रौ
शुक्रस्य रविचन्द्रौ” शनेः रविचन्द्रभौमाः । “नीचस्थितेऽरि-
गेहगेऽथ पराजिते वा जीवे भृगौ ब्रतविधौ स्मृतिकर्महीनः”
ज्योति० एते च नैसर्गिका अरयः तात्कालिकास्तु “चतुर्थदश-
वित्तान्त्यविनाशस्थाः परस्परम् । तत्कालमित्राण्युच्चस्थः
कैश्चिदुक्तोऽन्यया रिपुः” ज्योतिषोक्तेः तत्काले तत्तद्राशिस्थ-
ग्रहापेक्षया २, ३, ४, १०, ११, १२ स्थानभिन्नेषु १, ५, ६,
७, ८, ९ स्थानेषु स्थिताः ग्रहाः तथाहि कर्मकाले ये ग्रहा
यत्र राशौ तिष्ठन्ति तेषां यदपेक्षया १, ५, ६, ७, ८, ९, स्थान
पृष्ठ ०३५५
स्था ग्रहास्ते तेषां तत्कालिकारयो भवन्ति तएव ग्रहा यदि
नैसर्गिकरिपवस्तदा अधिशत्रवः नैसर्गिकसमाश्चेत् रिपवः,
इति भेदः । यथोक्तं हितसमरिपुसंज्ञा ये निसर्गे निरुक्ताः
अधिहितहितमध्यास्तेऽपि तत्कालमित्रैः । रिपुसमसुहृदा-
ख्या ये निसर्गोपदिष्टा अधिरिपुरिपुमध्याः शत्रुभिश्चिन्तनीया’
इतिराजभा० । निसर्गसमाश्च “बुधःकुजेज्यास्फुजिदर्कपुत्राः
शुक्रार्कजौ, भौमसुरेज्यमन्दाः, । शनिः, कुजज्यौ, सुरराज-
मन्त्रो रव्यादितोऽमी समसं ज्ञिताः स्युः” इत्युक्ताः यथारवेः
बुधः, चन्द्रस्य कुजगुरुशुक्रशनयः । कुजस्य शुक्रशनी, बुधस्य
कुजगुरुशनयः । गुरोः शनिः, शुक्रस्य कुजगुरू’ शनेः गुरुः,
एतेषां क्रमेणैते समास्त एव समा अपि तात्कालिकरि-
पवश्चेत् रिपव इति अवगन्तव्यम् । एतेषां वलज्ञानार्थं तत्तत्
संज्ञा तयाहि अधिमित्रगृहे २२ । ३० कला बलम मित्र-
गृहॆ५ कलाः, समगृहे ११ । ४५ कलाः शत्रुगेहे ७ । ३ कलाः
अधिशत्र गृहे ३ । ४५ कलाबलम् । मूलं जातकादौ दृश्यम् ।
नैसर्गिकरिगुता तु सर्वकार्य्यमात्रे इति भेदः ।
एतच्च जातोक्तग्रहादिबलज्ञानोपयोगि । ताजके तु “दृष्टिः
स्यान्नमपञ्चमे बलवती प्रत्यक्षतः स्नेहदा पादोना
(४५ कलाः) ऽखिलकार्य्यसाधंनकरी मेलापकाख्योच्यते ।
गुप्तस्नेहकरी तृतीयभवने कार्य्यस्य संसिद्धिदा त्र्यशोना
कथिता (४० कलाः) तृतीयभवने षड़्भागदृष्टिर्भवे
(१०कलाः) । दृष्टिः पादमिता (१५ कलाः) चतुर्थदशमे गुप्ता-
रिमावा स्मृताऽन्योन्यं सप्तमभे तथैकभवने प्रत्यक्षवैरा-
खिला” (६० कलाः) इति दृष्टिविशेषमभिधाय “पश्य-
न्मित्रदृशा (३, ५, ९, ११,) सुहृत्, रिपुदृशा (१, ४, ७, १०)
शत्रः । समस्त्वन्यथा २, ६, ८, १२, इति नील० उक्तदिशातात्-
कालिकमित्रादि । तेन स्वापेक्षप्या १, ४, ७, १०, स्था-
नस्था ग्रहाः रिपवः । तत्र “स्वस्वाधिकारोक्तबलं सुहृद्भे
पादोनमर्द्धं समभेऽरिभेऽङ्घ्रः” नील० । राहो-
निसर्गरिपवस्तु “सूर्य्यःशशाङ्को धरणीसुतश्च राहो
रिपुः” इत्युक्ता ज्ञेयाः । तत्कालिकास्तुप्रागुक्तदिशा ज्ञेयाः
केतोस्तु “शुक्रशनी विपक्षौ” इत्युक्तौ ज्ञेयौ । जातके षष्ठ-
स्थाने “षष्ठे च क्षतविद्विषौ” इत्युक्तौ चिन्तनीयौ । ताजके तु
“रिपौ मातुलमान्द्यारिचतुष्पाद्बन्धनीव्रणा” इति नील०
ताजकोक्ताः चिन्तनीयाः । ८ तन्त्रोक्ते मन्त्रभेदे ।
तथाहि षोडशकोष्ठात्मके सिद्धादिचक्रे चतुश्चतुःकाष्ठा-
दिक्रमेण सिद्धः, साध्यः सुसिद्धः अरिरिति संज्ञा । तत्रापि
तेषु चतुःकोष्ठात्मकेषु प्रत्येकं चतुर्थं कोष्ठमपि अरिसंज्ञं तथा
च पञ्चमकोष्ठं सप्तमकोष्ठं त्रयोदशकोष्ठं एकादशंकोष्ठम् द्वा-
दशं पञ्चदशं कोष्ठंषोड़शं चेति सप्तकमरिसंज्ञं तस्यारिसंज्ञ-
कत्वात् तत्रस्थवर्ण्णा अप्यरिसंज्ञाः । षोड़शकोष्ठस्थवर्णेषु मध्ये
साधकनामाक्षरं यत्र तिष्ठति तस्यैंवादित्वं प्रकल्प्य दक्षिणाव-
र्त्तेन सर्ब्बत्र चतुर्षु चतुःकोष्ठात्मकेषु गणना तथा च प्रथमा-
दिकोष्ठस्थाक्षरादिको मन्त्रः सिद्धादिनामभाक् । यथा
आद्यकोष्ठचतुष्टये प्रथमे १ सिद्धसिद्धः २ द्वितीये सिद्धसाध्यः ।
तृतीये ३ सिद्धसुसिद्धः ४ चतुर्थे सिद्धारिः । द्वितीयकोष्ठच-
तुष्के आद्ये साध्यसिद्धः द्बितीये साध्यसाध्यः ।
तृतोये साध्यसुसिद्धः चतुर्थे साध्यारिः । तृतीयकोष्ठचतुष्टये
आद्ये सुसिद्धसिद्धः द्वितीयेसुसिद्धसाध्यः । तृतीवे सुसिद्ध-
सुसिद्धः चतुर्थे सुसिद्धारिः । चतुर्थकोष्ठचतुष्के आद्ये
अरिसिद्धः । द्वितीये अरिमाध्यः तृतीये
अरिसुसिद्धः चतुर्थे अर्य्वरिरिति गणना । एतच्च प्रदर्शन-
मात्रमुक्तम् किन्तु सर्ब्बत्र यत्र कोष्ठे साधकनामाक्षरं
तदारभ्यैव गणना तथाच साधकनाभाक्षरं यत्र तिष्ठति
तत्कोष्ठस्यैवादित्वं प्रकल्प्य दक्षिणाबर्तेन गणने मन्त्राक्षरं
यत्र तिष्ठति तत्पर्य्यन्तगणनायां सिद्धादिषोड़शसंज्ञा तथा
च ३८ पृष्ठे दर्शिताऽकथहचक्रानुसारेण प्रथमादिसंज्ञा
साधकनामाक्षारादिकल्पनयैव । ततश्च सिद्धादिचक्रस्थकोष्ठानां
प्रथमादिसंख्या या उक्ता सा न नियता अकथहचक्रशब्दे
तन्मूलं दृश्यम् । “अरिमन्त्रं न गृह्लीयादिति” तन्त्रम । राज्ञो
विषयानन्तरस्थे ९ नृपतौ । स च द्वादशराजचक्रमध्ये
आदिमूतः यथोक्तं माघ २, ८१ श्लोकव्याख्यायां मल्लि० । “अरि-
र्मित्रमरेर्मित्रं मित्रमित्रमतः: परम् । अरिमित्रस्य
मित्रञ्च विजिगीषोः पुरस्मराः” पञ्चेतिशेषः “पार्ष्णिग्रा-
हस्ततः पश्चादाक्रन्दस्तनन्तरम् । आसारावनयोश्चैव विजि-
गोषोस्तु पृष्ठतः” पार्ष्णिग्राहासारः आक्रन्दासारश्चेति
चत्वार इति शेषः एवं नव भवन्ति विजिगीषुर्दशमः
“अरेश्च विजिगीषोश्च मध्यमो भूम्यन्न्तरः । अनुग्रहे
संहतयोः समर्थोव्यस्तयोर्बधे । मण्डलाद्वहिरेतेषामुदासीनो
बलाधिकः” इति मध्यमोदासीनाभ्यां सह द्वादश इति ।
अरये साधु तस्मै हितं वा यत् । अराय्यं तत्र साध्वादौ त्रि०
“असौ यो अधराद्गृहस्तत्र सन्त्वराय्यः” अथ० २, १४, ३, ।
१० प्रेरके त्रि० अरिष्टुतशब्दे उदा० ।

अरिक्थभाज् त्रि० रिकथ पित्रादिदायं न भजते भज--ण्वि

अस० स० । दायाग्राहिणि अनंशे क्लीवपतिताढौ अनंश-
शब्दे १४३ पृष्ठेऽस्य विवरणम् ।
पृष्ठ ०३५६

अरिगूर्त्त(र्ण) पु० अरये तद्धननाय गूर्त्तः उद्युक्तः गुरी

उद्यमे क्त तस्य न वेदे नत्वम् । शक्रुबधायोद्युक्ते “पर्षदरि
गूर्त्तः सूरिः ऋ० १, १८६, ३ लोके तु अरिगूर्ण्ण इत्वेव ।

अरिता स्त्री अरेर्भावः तल् । शत्रुतायामनिष्टसम्पादने ।

अरितृ पु० ऋ--अन्तर्भूतण्यर्थे तृच् वेदे इट् । नाविके

कर्ण्णधारे “इयर्त्ति वाचमरितेव नावम्” ऋ० ९, ९५, २,
२, ४२, १, लोके तु नेट् अर्त्ता गन्तरि स्त्रियां ङीप् ।

अरित्र न० ऋच्छत्यनेन ऋ--इत्र । (हालि( इति ख्याते

१ नौकाचालनकाष्ठे । “लोलैररित्रैश्चरणैरिवाभितः” माघः
“नौर्ह वा एषा स्वर्ग्या यद्बहिष्पवमानं तस्या ऋत्विज एव
स्फ्याश्चारित्राश्च” शत० ब्रा० । २ गमनसाधने वाहनादौ च
“अरित्रं वां दिवस्पृथु” ऋ० १, ४६, ८, “अरित्रं
गमनसाधनं नौरूपम्” भा० । “शतारित्रां
नावमातस्थिवांसम्” ऋ० १, ११६ । ५, “शतारित्रां बह्वरित्रां
यैः काष्ठैः पार्श्वतोबद्धैर्जलालोडने सतिनौः शीघ्रं गच्छति
तान्यरित्राणि” भा० । अरितः पापादितस्त्रायते त्रै--क ।
पापादितो ३ रक्षके त्रि० । “दशारित्रो मनुष्यः स्वर्षाः”
ऋ० २, १८, १, “दशारित्रः अरिभ्य पापेभ्यस्त्रायन्ते इत्य-
रित्रा ग्रहाः दशसंख्याकाग्रहायस्य” भा० । काश्या०
ष्ठञ्ञिठौ । तत्सम्बन्धिनि आरत्रिकः तद्भवादौ च त्रि०
ञिष्ठ स्त्रियां ङीष् ।

अरिदान्त पु० अरिर्दान्तोयेन निष्ठान्तत्वात् विशेष्यस्यापि

परनिपातः । यदुवंश्ये क्षत्त्रियभेदे । “रामे भारं
समासज्य, युयुधाने च वीर्य्यवान् । अक्रूरेविपृथौ चापि
गदे च कृतवर्म्मणि । चक्रदेवे सुदेवे च सारणे च
महाबले । निवृत्तशत्रौ विक्रान्ते भङ्गकारे विदूरथे ।
उग्रसेनात्मजे कङ्के शतद्युम्ने च केशवः । राजाधिदेवे
मृदरे प्रसेने चित्रके तथा । अरिदान्ते वृहद्दुर्गे श्वफल्के
सात्यकौ पृथौ । वृष्ण्यन्धकेषु चोन्यषु मुख्येषु । मधुसूदनः ।
गुरुमासज्य तं भार ययौ द्वारवतीं प्रति” । इति हरिवं० ।

अरिधायम् त्रि० अरिभिरीश्वरेः धार्य्यते धा--असुन् पृ० युट्

च । ईश्वरधार्य्ये । “अष्टावरिधायसोगाः” ऋ० १, १२६,
५, अरिधायसः “अरिभिरीश्वरैः धार्य्यमाणा” भा० ।

अरिनन्दन त्रि० अरीन् शत्रून् नन्दयति तोषयति नन्द-

णिच्--ल्यु उप० स० । शत्रुसन्तोषके अकृतेन्द्रियजये व्यस-
नासक्ते ।

अरिन्दम त्रि० अरीन् शत्रून् कामादीन् वा दाम्यति

दमयति दम--अन्तर्भूतण्यर्थे खच् मुम् उप० स० । परामि-
भावके १ शत्रुतापके २ जितकामादौ च । काश्या० ष्ठञ्ञिठौ
आरिन्दमिकः । तत्सम्बन्धिनि त्रि० ष्ठञि स्त्रियां ङीष् ।

अरिप्र त्रि० रिप्रमिति निरुक्ते पापनाम तन्नास्ति यस्य । पाप

रहिते “अरिप्रा वृत्रहन्तमाः” ऋ० ८, ८, ९, “रिप्रमिति
पापनाम” भा० । “तं वो वयं शुचिमरिप्रमद्य” ।
ऋ० ७, ४७, १, “अरिप्रं पापरहितम्” भा० ।

अरिमर्द्द पु० अरिं रोगरूपं शत्रुं मृद्गाति मृद--अण्

उ० स० १ कासमर्द्दवृक्षे । २ शत्रुतापके त्रि० ।

अरिमर्द्दन त्रि० अरिं मृद्नाति मृद--ल्यु--उप० स० । १ शत्रु-

तापके गान्दिनीपुत्रे अक्रूरसोदरे श्वफल्कस्य पुत्रे यदुवंश्ये
क्षत्त्रियभेदे “श्वफल्कः काशिराजस्य सुतां भार्य्याम-
विन्दत । गान्दिनीं नाम तस्यार्थे गाः सदा प्रददौ
पिता । तस्यां जज्ञे महाबाहुः श्रुतवानिति विश्रुतः ।
अक्रूरोऽथ महाभागो यज्वा विपुलदक्षिणः । उपमद्-
गुस्तथा मद्गुर्मुदरश्चारिमर्द्दनः । अरिक्षिपस्तथोपेक्षः शत्रु-
घ्नोऽथारिमर्द्दनः । धर्म्मधृग्यतिधर्म्मा च गृध्रमोजान्तक-
स्तथा आवाहाप्रतिवाहौ च सुन्दरी च वराङ्गना” हरिवं० ।

अरिमेजय पु० अरिमेजयति कम्पयति एज--णिच्--खश्

मुम् उ० स० । शत्रुतापके अक्रूरसोदरे यदुवंश्ये क्षत्त्रियभेदे
अरिमर्द्दनशब्दे विवृतिः ।

अरिमेद पु० अरेर्विट्स्वदिरस्येव मेदः सारः स्यन्दोऽस्य ।

(गुइयावावला) १ वृक्षभेदे । अरिरिव मेद्यति रूक्ष-
क्षत्वात् अल्पं स्निह्यति मिद--अच् । २ विट्खदिरे ।
संज्ञायां कन् । ३ कृमिभेदे तद्गणनायाम् “वाह्यका
पिच्चिटः कुम्भी वर्च्चकीटोऽरिमेदकः” सुश्रु० ।

अरिला स्त्री “षोड़शकले विलासिनि! छन्दसि प्रतिपदमन्ते

यमकविलासिनि । अरिला नाम पयोधरधारिणि!
शेषे नियतलघुद्वयधारिणि” “इत्युक्तलक्षणे मात्रावृत्तभेदे ।

अरिष पु० न इयर्त्ति मलं यस्मात् ऋ--किषन् न० त० ।

१ अपानमांसजे रोगभेदे । न रिष्यति विच्छिद्यते रिष--क
न० त० । २ अविच्छिन्नधारावर्षणे न० ।

अरिषड़ष्टक न० षट् च अष्टौ च द्व० ततः परिमाणार्ये

कन् षड़ष्टकम् अरिस्वामिकं षड़ष्टकं शाक० त० ।
विवाहे वर्जनीये योगविशेषे, तथाहि दम्पत्योः परस्प-
रराश्यपेक्षया परस्परस्य राशेः षष्ठत्वेऽष्टमत्वे वा अशुर्भ
तयोः राश्योर्मित्रस्वामिकत्वे पुनर्न दोषः शत्रुस्वामिक-
त्वेऽतीव दोषः । यथोक्तं “मकरः करिकुलरिपुणा कन्या
मेषेण सह झषस्तुलया । कर्किघटौ वृषधनुपी
पृष्ठ ०३५७
वृश्चिकमिथुने चारिविधौ । यदि कन्याष्टमे
भर्त्तुर्भर्त्तुः षष्ठे च कन्यका । षड़ष्टकं विजानीयात्
वर्ज्जितं त्रिदशैरपि” ज्यो० त० । तत्र प्रतिप्रसवः ।
“सौहृद्ये ह्युभयोर्द्व योरपि तयोरैकाधिपत्येऽपि वा ताराष-
ट्सु सुमित्रमित्रसुखदक्षेमार्थसम्पद्यदि । षट्काष्टे नवपञ्चमे
व्ययधने योगे च पुंयोषितोः प्रोत्यायुःसुखवृद्धिपुष्टिजननं
कार्य्यो विवाहः शुभः” भुज० भी० । अत्यन्तापद्विषये
व्यासः । “मैत्रादियोगेऽपि षडष्टकादौ ताराविपतप्रत्य-
रिनैधनाख्याः । वर्ज्या विवाहे पुरुषोडुता हि प्रीतिः
परा जन्मसु तारकासु” । तत्रदानमुक्तम् तत्रैव ।
“षड़ष्टके गोमिसुनं प्रदेयमिति” ।

अरिषड़्वर्ग पु० षण्णां वर्गः समुदायः षड्वर्गः अरीणां

कामक्रोधलोभमोहमदमात्सर्य्यरूपाणामन्तःशत्रूणां षड्वर्गः
देवीभागवतवत् विष्णुभागवतवच्च सापेक्षत्वेऽपि गमकतया
स० । कामादिषु षट्स्वान्तरेष रिपुषु “कृतारिषड्वर्गजयेन”
किरा० ।

अरिषण्य त्रि० न रिषति हिनस्ति रिष हिंसायाम् अन्यक्

न० त० । अहिंसके “श्वानेव नौ अरिषण्या तनूनाम्”
ऋ० २, ३९, ४, “अरिषण्यावहिंसकौ श्वानौ” भा० ।

अरिष्ट पु० रिष--हिसाय कर्त्तरि--क्त न० त० । १ लशुने

२ निम्बे । “सर्षपारिष्टपत्राभ्यां सर्पिषा लवणेन च “ब्रणि
रक्षायां सुश्रुतः । “सुमनायाश्चपत्राणिपटोलारिष्टयोस्त-
थेति” विद्रधिचिकित्सायां सुश्रुतः । ३ लङ्कानिकटवर्त्तिप-
र्वतभेदे ४ काके ५ कङ्के (रीठा) इति ख्याते ६ फेनिलफलक-
वृक्षे । “अरिष्टकस्त्रिदोषघ्नोग्रहजिद्गर्भपातनः” वैद्य० ।
७ कृष्णहतेऽसुरभेदे । “यत्र शाल्वञ्चमैन्दञ्च कंसं द्विविदमेव च
अरिष्टं वृषभं केशिं पूतनां दैत्यदारिकाम् । नागं कुवलया
पीडं चानूरं मुष्टिकं तथा । दैत्यान् मानुषदेहस्थान्
सूदयामास वीर्य्यवान्” हरिव० । ८ अशुभे । ९ तक्रे ।
१० सूतिकागृहे । “अरिष्टशब्यां परितोविसर्पिणा” रघुः
तत्करणप्रकारस्तु “नवमे मासि सूतिकागारमेनां प्रवेशयेत्
प्रशस्ततिथ्यादौ तत्रारिष्टं ब्राह्मणक्षत्रिमवैश्यशूद्राणां श्वेत-
रक्तपीतकृष्णेषु भूमिप्रदेशेषु विन्यस्तन्यग्रोधतिन्दुकभल्लातक-
सर्षपदूर्वानिर्म्मितं शय्यागारं यथासंख्यं तन्मयपर्य्यङ्कमुपलि-
प्तभित्ति सुविभक्तपरिच्छदं प्राग्द्वारं दक्षिणद्वारं वाऽष्टहस्ता-
यतंचतुर्हस्तविस्तृतं रक्षामङ्गलसम्पन्नं विधेयम्” सुश्रु० ।
तत्र प्रवेशे “रोहिण्यैन्दवपौष्णे तु स्वातीवरुणयोरपि ।
प्रनर्वसौ पुष्यहस्तधनिष्ठासूत्तरासु च । मैत्रे त्वाष्ट्रे
तथाश्विन्यां सूतिकागारमाविशेत्” नि० सि० तारा
उक्ता । एतच्च सम्भवे “प्रसूति समये प्राप्ते सद्यएव
प्रवेशयेत्” वशिष्ठोक्तेः । तच्च नैरृत्यां वास्तुभूमौ-
कार्यम् “वारुण्यां भोजनगृहं नैरृत्यां सूतिकागृहम्”
वशिष्ठोक्तेः “दशाहं सूतिकागारमायुधैश्च विशेषतः ।
वह्निना तिन्दुकालातैः पूर्णकुम्भैः प्रदीपकैः । मुषलेन तथा
द्वारि वर्णकैश्चित्रितेन च” विष्ण० पु० ११ अनिष्टसूचके
उत्पाते भूमिकम्पादा अरिष्टे त्रिविधोत्पाते” इतिज्यो०
१२ अनिष्टस्थानस्थेषु रव्यादिग्रहेषु । १३ पानेनारिष्टकारके
मद्ये । “रक्तारिष्टं शोषिताजीण्णं शेषम्” माघः । “अरिष्टं
लघु पाकेन सर्व्वतस्तु गुणाधिकम् । अरिष्टस्य गुणा ज्ञेया
वीजद्रव्यगुणैः समाः” वैद्य० । मद्ये पुस्त्वमपि भावप्र० ।
नास्ति रिष्टंयतोऽधिकम् ५ ब० । १४ मरणचिह्ने । “रोगिणो
मरणं यस्मादवश्यं भावि लक्ष्यते । तल्लक्षणमरिष्टं स्यात्
रिष्टमप्यभिधीयत” इति पुरा० । न० त० । १५ शुभे न०
५ व० । १६ शुभदायके विधाने १७ अविनाशिनि च त्रि० ।
१८ वलिपुत्रे दैत्यभेदे पु० “अरिष्टो वलिपुत्रश्च वरिष्ठोऽथ
शिलायुधः” हरिवं० (कट्की) ख्यातायां १९ कटुकायां
२० कश्यपपत्नीभेदे च स्त्री “अदितिर्दितिर्दनुश्चैव अरिष्टा
सुरसा खशा” इत्युपक्रम्य “कद्रुर्मुनिश्च राजेन्द्र! तास्वपत्या-
नि मे शृणु अरिष्टा तु महासत्वान् गन्धर्वानमितौजसः”
हरिव० रिष्टं हिंसा विरोधे न० त० । २१ सुखे-
नावस्थाने न० “मर्त्तवेऽथो अरिष्टतातये” ता० ब्रा० ।
“अरिष्टं सुखेनावस्थान’ तस्य तातये विस्ताराय” भा० ।
स्वार्थे कन् । निम्बादौ ।

अरिष्टगातु अरिष्टं हिंसितं गच्छति गम--तुन् नि०

आदन्तादेशः । अहिंसितगमने । “अरिष्टगातुःसहोता-
सहोभरिः” ऋ० ५, ४४, ३, “अरिष्टगातुरहिंसित-
गमनः” भा० ।

अरिष्टताति अरिष्टस्य करः वेदे अरिष्ट + तातिल् ।

सुखकरणे ‘जीवातवे न मृत्यवेऽथोऽरिष्टतातये’ ऋ० १०, ६०,
८, “ओषधीरस्मा अरिष्टतातये” यजु० । लोके तु
तायक्तिन् । अरिवृविस्तारे “तदत्रभवतां निष्पन्नाशिषमरिष्ट-
तातिमाशास्महे” वीरच० । क्वचिद्वेदेऽपि तथा अरिष्ट-
शब्दे दृश्यम् ।

अरिष्टदुष्टधी त्रि० अरिष्टेन मरणसूचकनिमित्तेन दुष्टा

धीरस्य । आसन्नमरणसूचक--निमित्तेन दुष्टमतौ
पृष्ठ ०३५८

अरिष्टनेमि पु० ६ त० कश्यपपुत्रे विनतायाः पुत्रभेदे “तार्क्ष्य-

श्चारिष्टनेमिश्च गरुड़श्च महाबलः । अरुणश्चारुणिश्चैत
विनतायाः सुताः स्मृताः” ह्नरिव० २ तीर्थकरे जिनभेदे च ।

अरिष्टि स्त्री न रिष्टिः हिंसा अभावे न० त० ।

हिंसाभावे । “पोषं रयीणामरिष्टिं तनूनाम् ऋ० २,
२१, ६, । “अरिष्टिमहिंसाम्” भा० ।

अरिष्टुत त्रि० अरिभिः प्रेरयितृभिः स्तुतं वेदे षत्वम् ।

प्रेरयितृभिः स्तुते प्रशस्ते “रासते विश्वगूर्त्तो अरिष्टुतः
ऋ० ८, १, २२ । लोके तु न षत्वम् ।

अरिष्ठ त्रि० अरये तिष्ठते स्था--क वेदे षत्वम् । शत्रनाशायस्थातरि ।

अरिह त्रि० अरीन् हन्ति हन--ड । १ शत्रुनाशके “हरिहयो-

ऽरिहयोगविचक्षणः” रघुः “पौरवे नृपभेदे” अवाचीनो-
ऽपि वैदर्भीमपरामुपयेमे मर्य्यदां नाम तस्यामस्य जज्ञे
अरिहः, अरिहः खल्वङ्गामुपयेमे” भा० आ० प० ।

अरीढ़ त्रि० न रोढः लीढः न आस्वादितः लस्य रः । १

अनास्वादिते । ऋग्वेदे तु ढस्य लहः अरील्हः इत्येब ।
“अरील्हं वत्सम्” ऋ० ४, १८, १० । अरील्हं शत्रु-
भिरनभिभूतमानम् भाष्योक्ते २ अर्थे च ।

अरीहण पु० अरिं हन्ति हन--अच् पूर्व्वदीर्घः । नृपभेदे

अरीहणेन निर्वृत्तम् वुञ् । आरीहणकम् । चतुरर्थ्याम्
उत्करा० छ । अरीहणीयः तत्सन्निकृष्टदेशादौ त्रि० ।

अरीहणादि पु० अरीहण आदिर्यस्य । निर्वृत्तार्थे विहित-

वुञ्प्रत्ययनिमित्ते पाणिन्युक्ते शब्दसमूहे । स च गणः
अरीहण, द्रुघण, द्रुहण, भगल, उलन्द, किरण,
सांपरायण क्रौष्ट्रायण, औष्ट्रायण, त्रैगर्तायन, मैत्रायण
भास्रायण, वैमतायन । गौमतायन, सौमतायन ।
सौसायन, धौमतायन, सौमायन, ऐन्द्रायण, । कौन्द्रायण
खाडायन, शाण्डिल्यायन, रायस्पोष, विपथ, विपाश ।
उद्दण्ड, उदञ्चन, खाण्डवीरण, वीरण, कशकृत्स्न,
जाम्बवत शिंशपा, रैवत, विल्व, सुयज्ञ, शिरीष, बधिर
जम्बु खदिर सुशर्मन्, दलतृ, भलन्दन, खण्डु, कनल
यज्ञदत्त, अरीहणादिः ।

अरुंषिका अरूंषि मर्मस्थानान्यधिकृत्य जाता ठन् पृ०,

मुम् । क्षुद्ररोगभेदे । “समासेन चतुश्चत्वारिंशत्क्षुद्ररोगा
भवन्ति ॥ तद्यथा अजगल्लिका यवप्रख्याऽन्धालजी विवृता ।
कच्छपिका वल्मीकमिन्द्रवृद्धा पनसिका पाषाणगर्द्दभो जाल
गर्द्दभः कक्षा विस्फोटकोऽग्निरोहिणी चिप्पं कुनखोऽनुशयी
विदारिका शर्कराऽर्वुदं पामा विचर्च्चिका रकसा पाददा-
रिका कदरमलसेन्द्रलुप्तौ दारुणकोऽरुंषिका पलितं मसू-
रिका यौवनपिडका पद्मिनीकण्टकी जतुमणिर्म्मशकश्चर्म्म
कीलस्तिलकालको न्यच्छं व्यङ्गः परिवर्त्तिकाऽवपाटिका
निरुद्धपकशः निरुद्धगुदोऽहिपूतनं वृषणकच्छूर्गुदर्भ्रंशश्चेति” ॥
अरूंषि बहुवक्त्राणि बहुक्लेदानि मूर्द्धनि । कफासृक्
कृमिकोप्रेन नृणां विद्यादरुंषिकाम्” “अरुं षिकाहृते
रक्ते सेचयेन्निम्बवारिणा” इति च सुश्रुतः ।

अरुग्ण त्रि० रुग्णः विरोधे न० त० । स्वस्थे रोगशून्ये

“रुजदरुग्णं विबलस्य सानुम्” ऋ० ६, ३९, २ ।

अरुच् त्रि० नास्ति रुक् कान्तिर्यस्य । प्रकाशहीने मलीमसे

“अयं रोचयदरुचोरुचानोऽयम्” ऋ० ६, ३९, ४ ॥

अरुचि पु० न रुचिर्यत्र । सत्यप्यभिलाषे १ भोजनायोग्यता

सम्पादके १ रोगभेदे । न रुचिः सन्तोषः न० त० । २ सन्तो-
षाभावे ‘इत्यरुचेराह’ जगदीशः । पूर्व्वोद्भावितदोषस्य
शिथिलत्वशङ्कया सन्तोषाभावादित्यर्थः । भोजनादौ
३ अभिलाषाभावे च “सन्निपातक्षयश्वासकाशहिक्काऽरुचिप्र-
नुत्” “स्याद्दुर्विरिक्ते कफपित्तकोपो दाहोऽरुचिर्गौरवम-
ग्निसादः” इति च सुश्रुतः ।

अरुज त्रि० नास्ति रुक् रोगो यस्य । १ रोगशून्ये २ अनुत्पन्न-

रोगे च “कोऽरुक् कोऽरुक्कोऽरुक् “इति प्रश्ने” घृतभुग-
मितभुगशाकभुक् सोऽरुगित्यद्भटः “अरुक् सएवाप्यचलो
महांश्च मर्म्मोत्थितश्चापि विवर्ज्जनीयः” सुश्रुतः ।

अरुज पु० न रुजति रुज--क । (सोंदाल) इति ख्याते १ वृक्षे ।

नास्ति रुजा यस्मात् ५ ब० । २ रोगाभावसाधने त्रि०
“विषेभ्यः खलु सर्ब्बेभ्यः कर्णिकामरुजां स्थिराम्” सुश्रुतः ।
३ दानवभेदे पु० दानवगणनायां हरिवं० “अनुह्रादो हरि
हयोवराहः संहारोऽरुजः” । ६ त० । ४ रोगशून्येनीरोगे
च त्रि० । “अपाककठिनः स्थूलोग्रन्थिर्वर्त्मभवोऽरुजः”
सुश्रुतः । “अरुजं वा ह्यतः शूनमन्तः क्लिन्नं स्रवत्यपि” सुश्रु० ।

अरुण पु० ऋ--उनन् । १ सूर्य्ये, २ सूर्य्यसारथौ, ३ गुड़े,

४ सन्ध्यारागे ५ निःशब्दे, ६ दानवभेदे ७ कुष्ठभेदे, ८ पुन्नाग-
वृक्षे । ९ अव्यक्तरागे १० कृष्णमिश्रितरक्तवर्णे च
११ तद्वति त्रि० । १२ कुङ्कुमे, १३ सिन्दूरे च न० ।
१४ मञ्जिष्ठायाम् १५ श्यामाकायाम्, १६ अतिविषायाम्
१७ नदीभेदे १८ कदम्बपुष्पायाञ्च स्त्री । १९ त्रिवृतायां
मेदि० २० इन्द्रवारुण्याम् २१ गुञ्जायां राजनि० २२ मुण्ड-
तिक्तायाम् च स्त्री । तत्र अनूरौ ‘विभावरी यद्यरुणाय कल्पते
कुमा० “यावत् प्रतापनिधिराक्रमते न भानुरह्नाय तावद-
रुणेन तमोनिरस्तम्” रघुः । “तार्क्ष्यश्चारिष्टनेमिश्च गरुड़श्च
पृष्ठ ०३५९
महाबलः अंरुणश्चारुणिश्चैव विनतायाः सुताः स्मृताः” हरि०
“अरुणोगरुड़भ्राता जवापुष्पसमप्रभः । योगानाञ्चैव सर्वेषां
साध्यानामधिपः कृतः” हरिव० । “तदुत्पत्त्यादिकथा
अनूरुशब्दे” १९१ उक्ता । सूर्य्ये “संसृज्यते सरिजैररुणा-
शुभिन्नैः” रघुः “रागेण बालारुणकोमलेन” कुमा० । वर्ण्णे
तद्वति च “नयनान्यरुणानि घूर्णयन्” कुमा० “अरुणपुष्पाणि
फाल्गुनानि” शत० ब्रा० । “दधत् सन्ध्यारुणव्योमस्फुरत्ता-
रानुकारिणीः” माघः । द्वादशादित्यमध्ये माघमासाधिपे
२३ आदित्यभेदे “अरुणो माघमासे वै” आदित्यहृदयम्
विवरणमादित्यशब्दे । २४ देशभेदे पु० । धूमादि० वुञ् ।
आरुणकः तद्भवे त्रि० गुणवचनात् भावे इमनिच् अरुणिमा
पु० ष्यञ् आरण्यम् न० । तल् अरुणता स्त्री त्व अरुणत्वम्
न० । रक्तादिवर्णे । अपत्ये इञ् । आरुणिः जटायौ सूर्य्य-
पुत्रेमन्दे यमे कर्णेवैवस्वतमनौ सुग्रीवे ऋषिभेदे च । अश्वि-
नाकुमारयोः द्वि० व० यमुनायां तपत्यां च स्त्री गुणवचनात्
भृशा० अभूतत्द्भावेक्यङ् अरुणायते अरुणायमानः ।
गौरा० ङीष् । २५ अरुणवर्णायां गवि स्त्री । “अरुण्योगाव
उषसासमिति” निरुक्तोक्तायाम् २६ ऊषायामपि स्त्री ।
२७ मन्दरगिरिस्थे सरोवरे तस्य चारुणजलत्वात्तथात्वम्
“सरांस्यथैतेष्वरुणञ्च मानसं महाह्रदः श्वेतजलं यथाक्र-
मात्” सि० शि० । “एतेषु मन्दरादिविष्कम्भशैलेषु”
गुड़कुङ्कुमसिन्दूरादीनाञ्चारुणवर्णत्वात्तथात्वम् ।

अरुणकमल न० कृष्णसर्पवत् नित्यकर्म्मधा० । रक्तोत्पले

अरुणदूर्वा स्त्री कृष्णसर्पवत् नित्यसमासः । रक्तदूर्ब्बाभेदे,

“यद्यदारान्न विन्देयुः अरुणदूर्ब्बा अभिषुणुयात् एष वै
सोमस्य न्यङ्गो यदरुणदूर्व्वा तस्मादरुणदूर्व्वा अभिषुणु-
यात् यद्यरुणदूर्व्वा न विन्देयुः” शत० व्रा० ।

अरुणप्रिया स्त्री अरुणस्य प्रिया । सूर्य्यभार्य्यायाम्

१ संज्ञायाम् २ छायायाञ्च अरुणभार्य्यादयोऽप्यत्र
“तस्य भार्य्याऽभवत् देवी संज्ञा त्वाष्ट्री विवस्वतः”
इति । “असहन्ती तु तां छायां सवर्ण्णां निर्म्ममे ततः । छाया-
मयीं तु सा सज्ञा, तस्याश्छायासमुत्थिता । प्राञ्जलिः प्रणता
भूत्वा छाया संज्ञां नरेश्वर! । उवाच किं मया कार्य्यं
कथयस्व शुचिस्मिते! । स्थितास्मि तव निर्द्देशे शाधि मां
वरवर्णिनि! । संज्ञोवाच । अहं यास्यामि भद्रंते स्वमेव भवनं
पितुः । त्वयेह भवने मह्यं वस्तव्यं निर्वाचरया । इमौ
च बालकौ मह्यं कन्या चेयं सुमध्यमा । संभाव्यास्ते न चाख्ये-
यमिदं भगवते क्वचित् । छायोवाच । आकचग्रहणा द्देवि!
आ शापान्नैव कर्हिचित् । आख्यास्यामि मतं तुभ्यं गच्छ
देवि! यथेच्छया” । इति हरिवं० । ३ प्रधाकन्याभेदे च ।
“सुषुवेऽष्टौ महाभागा प्रधा देवर्षिपूजिताः” । अनुवन्द्या
मनूकाञ्च अनूनामरुणप्रियाम् अनुगां सुभगाञ्चैव” हरिवं०
अरुणवर्णं पुष्पादि प्रियमस्य । ४ रक्तवर्णपुष्पप्रिये सूर्य्ये पु०
५ तद्वर्णपुष्पप्रियमात्रे त्रि० ।

अरुणप्सु त्रि० अरुणः प्सुः रूपं (निरु०) यस्य । रक्तवर्णरूपे

“ऋतावरीमरुणप्सुं विभातीम्” ऋ० ५, ८०, १, “अरुण-
प्मुमरुणरूपाम्” भा० ।

अरुणलोचन पु० अरुणे रक्ते लोचने यस्य । १ पारावतपक्षिणि २ रक्तनेत्रयुक्ते त्रि०

अरुणसारथि पु० अरुणः गरुड़ाग्रजः सारथिरस्य । सूर्य्ये

विवरणमनूरुशब्दे ।

अरुणात्मज पु० ६ त० । १ जटायौ पक्षिणि । २ सूर्यपुत्रे मन्दे

३ सावर्ण्णे मनौ ४ कर्ण्णे ५ सुग्रीवे ६ यमे च ७ अश्वि-
नोकुमारयोः द्वि० व० ९ यमुनयां तपत्यां च स्त्री ।
“त्रीण्यपत्यानि कौरव्य! संज्ञायां तपतांवरः । आदित्यो
जनयामास कन्यां द्वौ च प्रजापती । स च वैवस्वतः पूर्ब्बं श्राद्ध-
देवः प्रजापतिः । यसश्च यमुना चैव यमजौ संभूवतुः” ।
संज्ञायां द्वौ सुतौ सुता चेति त्रीण्यपत्यानि । “द्वितीयायां
तु संज्ञायां संज्ञेयमिति चिन्तयन् । आदित्यो जनयामास
पुत्रमात्मसमं तथा । पूर्ब्बजस्य मनोस्तात! सदृशोऽयमिति
प्रभुः । मनुरेवाभवन्नाम्रा सावर्ण्ण इति चोच्यते । द्विती-
यायां सुतस्तस्याः स विज्ञेयः शनैश्चरः” । इति सावर्ण्णः
शनिश्च एतौ द्वौ सुतौ, संज्ञायाः छायाख्यायां द्वितीयायां
सवर्ण्णायां जातौ हरिवं० । वड़वारूपधरिण्यां संज्ञायाञ्च
अश्विनीकुमारौ जातौ यथा तत्रैव । “बड़वारूपमास्थाय
वने चरति शाद्वले । स तथारूपमास्थाय स्वां भार्य्यां
शुभलीलया । ददर्श योगमास्थाय स्वां भार्य्यां वड़वां ततः ।
अधृथां सर्व्वभूतानां तपसा नियमेन च । बड़वावपुषा राजं-
श्चरन्तीमकुतोभयाम् । सोऽश्वरूपेण भगवांस्तां सुखं
समभावयत् । मैथुनाय विचेष्टन्तीं, परपुरुषशङ्कया । सा
तन्निरवमच्छुक्रं नासिकायां विवस्वतः । देवौ तस्यामजा-
येतामश्विनो भिषजां वरौ । नासत्यश्चैव दस्रश्च स्मृतौ द्वाबश्वि-
नाविति” । तपतीशब्दे तदुत्पत्तिः कर्ण्णोत्प्रत्तिः
यथा “एवमुक्ता बहुविधं सान्त्वपूर्व्वं विवस्वता । सा
तु नैच्छद्वरारोहा कन्याऽहमिति भारत! ।
बन्धुपक्षभयाद्भीता लज्जया च यशस्विनी । तामर्कः
पुनरेवेदमब्रवीद्भरतर्षभ! । मत्प्रसादान्न ते राज्ञि! भवि-
पृष्ठ ०३६०
ता दोष इत्युत । एवमुक्त्वा स भगवान् कुन्तिराजसुतां
तदा । प्रकाशकर्त्ता तपनः सम्बभूव तया सह । तत्र वीरः
समभवत् कर्णः शस्त्रभृतां वरः । आमुक्तकवचः श्रीमान्दे-
वगर्भः श्रियाऽन्वितः । सहजं कवचं बिभ्रत् कुण्डली
द्योतिताननः । अजायत सुतः कर्णः सर्व्वलोकेषुविश्रुतः” ।
भा० आ० प० । सुग्रीवोत्पत्तिः सुग्रीवशब्दे दृश्या ।

अरुणानुज पु० अरुणस्यानुजः । गरुड़े तस्य ततोऽनुजात-

कथानूरुशब्दे दृश्या ।

अरुणावरज पु० ६ त० । गरुड़े “अरुणावरजं श्रीमानारुरोह रणे हरिः” हरिवं० ।

अरुणित त्रि० अरुणं क्रियते स्म अरुण + कृत्यर्थे णिच्--कर्म्मणि

क्त, तारकादि० इतच् वा । १ रक्तवर्णीकृते २ जातलोहित-
वर्णे च । “स्तनाङ्गरागारुणिताच्च कन्दुकात्” कुमा० ।

अरुणोदक न० अरुणमुदकं यस्य । १ सरोवरभेदे । उदकस्य वा

उदादेशे अरुणोदमप्यत्र । तच्च सरः मन्दरगिरिरूपविष्क-
म्भपर्वतस्थम् बि० पु० । २ नदीभेदे स्त्री सा च “मन्दरोत्सङ्ग
एकादशशतयोजनोत्तुङ्गदेवचूतशिरसोगिरिशीखरस्थूलानि
फलान्यमृतकल्पानि पतन्ति । तेषांविशीर्य्यमाणानामति
मधुरसुरभिसुगन्धिवहलारुणरसोदेनारुणोदा नाम नदी
मन्दरगिरिशिखरान्निपतन्ती पूर्व्वेणेलावृतमुपप्लावयति”
इति भागवतोक्तस्थलस्था ।

अरुणोदय पु० अरुणस्यार्कस्य तत्किरणस्योदयो यत्र । “चतस्रो

घटिकाः प्रात ररुणोदय उच्यते” इत्युक्ते सूर्य्योदयात्
प्राचि चतुर्दण्डात्मके काले ।

अरुणोदयविद्धा स्त्री अरुणोदयकाले विद्धा । अरुणोदयकाले

दशम्या विद्धायामेकादश्याम् । “दशमीशेषसंयुक्ता यदि
स्यादरुणोदये । वैष्णवेन न कर्त्तव्यं तद्दिनैकादशीव्रतम्”
हेमा० भवि० पु० “अरुणोदयविद्धा तु द्वादश्यां पारणा
लाभेऽपि वैष्णवैर्नोपास्या” ए० त० रघुनन्दनः ।

अरुणोदयसप्तमी स्त्री अरुणोदयकाले पुण्यविशेषसाधनं

सप्तमी । माघशुक्लसप्तम्याम् । “सूर्य्यग्रहेण तुल्या हि शुक्ला
माघस्य सप्तमी । अरुणोदयवेलायां तस्यां स्नानं महाफलम् ।
माघे मासि सिते पक्षे सप्तमी कोटिभास्करा । दद्यात् स्ना-
नार्घदानाभ्यामायुरारोग्यसम्पदः । अरुणोदयवेलायां शुक्ला
माघस्य सप्तमी । गङ्गायां यदि लभ्येत सूर्य्यग्रहशतैः
समेति” ति० त० भविष्य पु० ।

अरुणोपल पु० अरुण उपलः । (चुनीति) ख्याते पद्मरागे ।

अरुन्तुद त्रि० अरूंषि मर्म्माणि तुदति तुद--खश् मुम् च ।

मर्म्मपीड़के दुःखदायके “अरुन्तदमिवानालं नवबद्धस्य
दन्तिनः” इति रघुः “नारुन्तुदः स्यादार्त्तोऽपि न परद्रोह-
कर्मकृत्” मनुः ।

अरुन्धती स्त्री न रुन्धती । १ रोधनाकारिकायां स्त्रियाम्

२ वसिष्ठपत्न्याम् संज्ञात्वादव्युत्पन्नः “अन्वासितमरु-
न्धत्या स्वाहयेव हविर्भुजम्” रघुः “आर्य्याप्यरुन्धती तत्र
व्यापारं कर्त्तुमर्हति” “साक्षादिव तपःसिद्धिर्बभासे बह्व-
रुन्धती” इति च कुमा० । सा च कर्द्दमप्रजापतेराकूत्या-
मुत्पन्ना भाग० तपसा सिद्धा नक्षत्ररूपेण सप्तर्षि-
स्थाने स्थिता । ३ तन्नामके नक्षत्रभेदे तत्स्थितिस्थानञ्च
“प्रागुत्तरतश्चैते सदोदयन्ते ससाध्वीकाः । पूर्ब्बे भागे
भगवान् मरीचिरपरे स्थितो वसिष्ठोऽस्मात् । तस्याङ्गिरास्ततो-
ऽत्रिस्तस्यासन्नः पुलस्त्यश्च । पुलहः क्रतुरिति भगवानामन्ना-
नुक्रमेण पूर्वाद्याः । तत्र वसिष्ठं मुनिवरमुपाश्रितारुन्धता
साध्वी” वृ० सं० ॥ विवाहकाले सैव पत्न्यै पत्या दर्श्यते
“अरुन्धतीञ्ज रुन्धाहमस्मीति” गोभि० । “एवञ्च सप्तर्षि
निकटवर्त्तिनीं सूक्ष्मां तारामरुन्धतीं रुन्धाहमस्सीति
मात्रमन्त्रेण पश्येत्” सं० त० रघु० । अरुन्धती यथा
पत्यौ अनुरक्ता एवमेवं त्वं मयि इत्यभिप्रायेण तद्दर्शनम् ।
आसन्नमृत्यवश्च तां न पश्यन्ति यथोक्तम् सुश्रुते । “न
पश्यति सनक्षत्रां यस्तु देवीमरुन्धतीम्” ध्रुवमाकाशगङ्गां
च तं वदन्ति गतायुषे” ४ दक्षकन्यारूपे धर्मस्य पत्नीभेदे ।
“ददौ स दश घर्माय” इत्युपक्रम्य “तासां नामानि मे शृणु”
इति चोक्त्वा । “अरुन्धती वसुर्यामी लज्जा भानुर्मरुत्वती ।
सङ्कल्पा च मुहूर्त्ता च साध्या विश्वा च भारत! ।
धर्मपत्न्यो दश त्वेता इति” “पृथिवीविषयं सर्वमरुन्धत्या-
मजायत च” हरिव० । ५ जिह्वायाञ्च “अरुन्धतीं ध्रुवञ्चैव
विष्णोस्त्रीणि पदानि च । आसन्नमृत्युर्नो पश्येच्चतुर्थं मातृ-
मण्डलम्” इत्युक्त्वा तत्रारुन्धत्यादिशब्दानां पारिभाषिकत्वं
दर्शितं यथा “अरुन्धती भवेज्जिह्वा ध्रुवोनासाग्नमुच्यते
विष्णोः पदानि भ्रूमध्यं नेत्रेऽग्नौ मातृमण्डलम्”
काशीखण्ड० ।

अरुन्धतीजानि पु० अरुन्धती जाया यस्य निङ् समा० । वसिष्ठे मुनौ

अरुन्धतीदर्शनन्याय पु० अरुन्धत्यादर्शनमिव दर्शनं यस्य तत्

सूचको न्यायः । प्रथमस्थूलदर्शनेन सूक्ष्मदर्शनरूपे न्याये
“यथाऽरुन्धतीं दिदर्शयिषुः तत्समीपस्थां स्थूलां
ताराममुख्यां प्रथममरुन्धतीति ग्राहयित्वा तां प्रत्याख्याय
पश्चादरुन्धतीमेव ग्राहयति” शा० भा० ।

अरुन्धतीनाथ पु० ६ त० । वसिष्ठे मुनौ तत्पत्यादयोऽप्यत्र ।

पृष्ठ ०३६१

अरुष त्रि० न रोषति क्रुध्यति रुष--क न० त० । १ अक्रो-

धने । “युञ्जन्ति व्रघ्नमरुषं चरन्तं परितस्थुषः” यजु०
२३, ५ “असौ वा आदित्योव्रघ्नोऽरुषः” इति श्रुतिः ।
विरोधे न० त० । २ रोचमाने । “श्वेतं सज्ञानमरुषं
सहिता” ऋ० ३, १, ४, ‘अरुषं रोचमानम्’ भा० ।
ऋ--गतौ--उषन् । ३ गमनशीले अश्वादौ वेदे स्त्रियां
ङीप् । “युक्ष्वाह्यरुषी रथे” ऋ० १, १४, १२, अरुषी-
र्गमनशीला वड़वाः” भा० । रुषा हिंसा न० ब० ।
४ हिंसारहिते “जानन्ति वृष्णो अरुषस्य शेवम्” ऋ०
३, ७, ५, । “अरुषस्य हिंसारहितस्य” भा० ।

अरुष् त्रि० नास्ति रुट् यस्य । १ अक्रोधे । गौ० ङीष् । २ उषसि स्त्री निरु० ।

अरुष्क पु० अरुर्म्मर्म्मस्थानं कायति पीड़यति कै--क ।

स्पर्शमात्रेण व्रणकारकफलरसे (भेला) भल्लातकवृक्षे ।

अरुष्कर पु० अरुः करोति ट उप० स० षत्वम् । स्पर्श-

मात्रेणव्रणकारकफलरसे १ भल्लातके (भेला) २ व्रणकारके
त्रि० “शुष्कोह्यपार्घकोऽरुषकरश्च” सुश्रु० । स्त्रियां ङीप् ।

अरुस् पु० ऋ--उसि । १ अर्के, २ रक्तखदिरे च । ३ मर्म्मणि न० ।

४ व्रणे, ५ क्षते च पु० न० । “अरुर्द्विषदजन्तस्य मुम्” पा० ।
“अरुर्वैं पुरुषोऽवच्छित्तः अनरुरेवैतद्भवति” शत० ब्रा० ।
“यद्दण्डेन यदिष्वा यद्वारुषा हरसा” अथ० ५, ५, ४ ।
“अरुर्वै पुरुषस्याक्षीति” शत० ब्रा० उक्ते ६ नेत्रे च ।
अरुस् + अभूतद्भावे च्वि अन्तलोपः दीर्घः अरूकरोति ।

अरुहा स्त्री न किञ्चिन्म्लमाश्रित्य रोहति रुह + क ।

भूम्यामलक्याम् राजनि० । कृशा० छण् । आरुहीयम्
तत्सन्निकृष्टदेशादौ त्रि० ।

अरूक्ष त्रि० विरोधे न० त० । स्निग्धे मसृणे, “दर्भैः प्रच्छ्वा-

द्यत्यरूक्षतायै”, शत० ब्रा० ।

अरूक्षित त्रि० न रूक्षितः विरोधे न० त० । स्निग्धे मसृणे,

“अरूक्षितं दृश आ रूपे अन्नम्” ऋ० ४, ११, १,
अरूक्षितं स्निग्धम्” भा० ।

अरूक्ष्ण त्रि० रूक्ष + नन् विरोधे न० त० । स्निग्धे । “यत्ते

वासः परिधानम्--संस्पर्शेऽरूक्ष्णमस्तु ते” अथ० ८, २, १६ ।

अरूप त्रि० नास्ति रूपमस्य । १ रूपशून्ये २ सांख्योक्ते प्रधाने

वेदान्तोक्ते ३ ब्रह्मणि न० “अशब्दमस्पर्शमरूपमव्ययभिति”
कट० उ० । कुत्सितार्थे न० त० । ३ कुत्सितरूपे न० ।

अरूपहार्य्य त्रि० रूपेण न हार्य्यः वशीकार्य्यः अस० स० ।

सौन्दर्य्यादिना अवशीकार्य्ये “अरूपहार्य्यं मदनस्य निग्र
हात्” कुमा० ।

अरूष पु० ऋ--ऊषन् । १ सर्पविशेषे २ सूर्य्ये च सि० कौ० ।

अरे अव्य० ऋ--ए । १ रोषाह्वाने, २ नीचसंबोधने “आत्मा

वा अरे द्रष्टव्यः श्रोतव्य इति” न वा अरे पत्युः कामा-
यास्याः पतिः प्रियो भवति” शत० ब्रा० बहुकृत्वः पाठः ।
तच्च याज्ञवल्क्येन मैत्रेयीनामकपत्नीं प्रति सम्बोधनायोक्तं
तस्याश्च स्वापेक्षया न्यूनत्वात् नीचसम्बोधनम् । ३ अपकृतौ,
४ असूयायाञ्च ।

अरेपस् त्रि० नास्ति रेपः पापं निरुक्तोक्तं यस्य १ निष्पापे

“प्रापे रूपी पुराऽरेपाः” इति माघः २ निर्मले च “अरेप-
सा तन्वा शाशदाना” ऋ० १, १२४, ५, अरेपसाऽपापया
निर्म्मलया वा” भा० ।

अरेऽरे अव्य० अरे + वीप्सायां द्विरुक्तिः । नीचसंबोधनादौ ।

२ सक्रोधसम्बोधने च “अरेरे राधागर्भभारभूत! सूता-
पसद! किमेवमाक्षिपसि” अरेरे वाचाट! वृथाशस्त्र-
ग्रहणदुर्विदग्ध! वटो” इति च वेणीसंहारः ।

अरोक त्रि० रुच--दीप्तौ घञ् रोकश्छिद्रं दीप्तिश्च न० ब० ।

१ छिद्रशून्ये २ दीप्तिशून्ये च । “विभाषा श्यावारोका-
भ्याम्” पा० बहुव्रीहौ एतत्पूर्व्वकदन्तस्य दतृ । अरोकदन्
अरोकदन्तः । निविड़दन्ते दत्रादेशे स्त्रियां ङीप् ।

अरोग त्रि० नास्ति रोगोऽस्य । रोगशून्ये “अरोगाः सर्व्व-

सिद्धार्थाश्चतुर्वर्षशतायुषः” सुश्रु० । “एतद्विधानमा-
तिष्ठेदरोगः पृथिवीपतिः” मनुः तस्य भावः ष्यञ् ।
आरोग्यम् । रोगाभावे न० “आयुरायोग्यविजयं देहि देवि!
नमोऽस्तु ते” दुर्गास्तवः “आरोग्यं वित्तसम्पत्तिर्गङ्गास्मर-
णजं फलमिति” पुरा० तल् अरोगता स्त्री त्व अरोग्य-
त्वम्” तत्रैव न० ।

अरोगण त्रि० रोगोऽस्त्यस्य बा० मत्वर्थेन न० त० । रोगशून्य

“तेषामसि त्वमुत्तममनाश्रावमरोगणम्” अथ० २, ३, २ ।

अरोगिन् त्रि० न रोगी विरोधे न० त० । रोगशून्ये

“यावज्जीवमरोगी स्यात्” पुरा० स्त्रियां ङीप् । “अरो-
गिणों भ्रातृमताम्” स्मृतिः ।

अरोचक पु० न रोचयति प्रीणयति ऋच + णिच्--ण्वुल् न० त० ।

रोगभेदे यत्र क्वचिदपि द्रव्ये भोजनादौ न प्रीतिस्तादृशे
रोगे स च सुश्रुतोक्तः । ‘दोषैः पृथक् सहजचित्तविपर्य्य-
याच्च भक्तायनेषु हृदि चावतते प्रगाढम् । नान्ने रुचि-
र्भवति तं भिषजो विकारं भक्तोपघातमिह पञ्चविधं
वदन्ति । हृच्छूलपीड़नयुतं विरसाननत्वं वातात्मके भवति
लिङ्गमरोचके तु । हृद्दाहशोषबहुता मुखतिक्तता च
पृष्ठ ०३६२
मूर्च्छा सतृड़् भवति पित्तकृते तथैव । कण्डू गुरुत्वकफ-
संस्रवसादतन्द्राः श्लेष्मात्मके मधुरमास्यमरोचके तु ।
सर्व्वात्मके पवनपित्तकफा बहूनि रूपाण्यथास्य हृदये
समुदीरयन्ति । संरागशोकभयविप्लुतचेतसस्तु चिन्ताकृते
भवति सोऽशुचिदर्शनाच्च” इति । “गुल्मान् प्लीहोदरं
कालं हलीसकमरोचकम्” इति सुश्रुतः ।

अरोदन न० अभावे न० त० । १ रोदनाभावे । ब० । २ क्रन्दनशून्ये त्रि० ।

अरोधन न० अभावे न० त० । १ रोधाभावे २ आवरणाभावे

३ गतिरोधके व्यापारे । न० ब० । ४ तच्छून्ये त्रि० ।

अरोध्य त्रि० न रोध्यः । रोद्धुमशक्ये ।

अरोपण न० अभावे न० त० । १ रोपणाभावे न० ब० । २ रोपणशून्ये त्रि० ।

अरोष पु० अभावे न० त० । १ क्रोधाभावे । न० ब० । २ क्रोध-

शून्ये त्रि० ।

अरौद्र त्रि० न रौद्रः विरोधे न० त० । १ भीषणभिन्ने सौम्याकृतौ

२ रागद्वेषादिशून्ये विष्णौ पु० । “अरौद्रः कुण्डली
चक्री” विष्णुस० “कर्म रौद्रं, रागश्च रौद्रः, कोपश्च रौद्रः,
त्रयं यस्य नास्ति अवाप्तसर्वकामत्वेन द्वेषरागादेरभावा-
दित्यरौद्रः” भा० ।

अर्क तापे, स्तुतौ च चुरा० उभ० सक० सेट् । अर्कयति ते

आर्चिकत् त । अर्कयामास अर्कितः अर्कयितुम् ।

अर्क पु० अर्च--कर्मणि घञ् कुत्वम् । १ सूर्य्ये, २ इन्द्रे, ३ ताम्रे,

४ स्फटिके, ५ विष्णौ, ६ पण्डिते, (आकन्द,) इति ख्याते ७ वृक्षे,
(आरख) इति ख्याते ८ क्वाथविशेषे च । ९ अर्चनीये त्रि० ।
“आ सूर्य्यो न भानुमद्भिरर्कैः” ऋ० ६, ५, ६ “अर्कैः
अर्चनीयैः” भा० “ब्रह्मादिभिः पूज्यमानैरर्चनीयत्वादर्कः”
भा० १० ज्येष्ठे” पु० । लक्षणया ११ अर्काधिपे वारे
१२ सप्तमीतिथौ १३ उत्तरफल्गुनीनक्षत्रे १४ द्वादशसंख्या
याञ्च तत्र विष्णौ । “अर्को वाजसनः शृङ्गी” वि० सह०
अर्कवृक्षे “अर्कः पलाशःखदिरः इति विष्णुध० । सूर्य्ये
“अर्काद्विनिःसृतः प्राचीं यद्यात्यहरहः शशी” सूर्य्यसि०
“संपर्कादर्करोचिषाम्” माघः “स्प्रष्टुं जगत्पूज्यमयुज्य
तार्कः” माघः इन्द्रे अर्कसोदरशब्दे उदा० । अर्कस्यापत्यम्
इञ् । आर्किः सूर्यपुत्रे यमादौ, यमुनायां, तपत्याञ्च स्त्री
अरुणात्मजशब्दे विवृतिः ।

अर्ककला स्त्री ६ त० । शारदातिलके सूर्य्यस्य उपास्यत्वेनोक्ते

द्वादशसंख्याके पीतवर्णे कादिडान्तवर्णभूषिते कलाभेदे ।
ताश्च १ “तपिनी २ तापिनी ३ धूम्रा ४ मरोचि ५ र्ज्वालिनी
६ रुचिः । ७ सुषुम्णा ८ भोगदा ९ विश्वा १० बोधिनी
११ धारिणी १२ क्षमा । काद्याश्च वसुदाः सौर्य्यो डान्ता
स्ता द्वादशेरिताः” “वराभयकरा ध्येयाः श्वेतपीतारुणाः
क्रमात्” शार० ति० ।

अर्ककान्ता स्त्री अर्कोऽर्ककिरणः कान्तोऽनुकूलो यस्याः

कमक्त । (हुढुड़िया) इति ख्याते १ वृक्षे ६ ब० । २ सूर्य्यप्रि-
यायाम् ३ संज्ञायां छायायाञ्च अरुणप्रियाशब्दे विवृतिः ।

अर्कक्षेत्र न० ६ त० “कुजशुक्रबुघेन्द्वर्कसौम्यशुक्रावनीभु-

वाम् । जीवार्किभानुजेज्यानां क्षेत्राणि स्युरजादयः”
ज्योतिषोक्ते सूर्य्यस्वामिके सिंहराशौ ।

अर्कचन्दन पु० अर्कस्य प्रियःचन्दनः शाक० त० । रक्तचन्दने

अर्कज पु० अर्काज्यायते जन--ड ५ त० । १ यमादौ

२ तपत्यां ३ यमुनायां च स्त्री ४ अश्विनीकुमारयोः
द्वि० ब० । ५ सुग्रीवे ६ कर्ण्णे च । अरुणात्मजशब्दे विवृतिः ।

अर्कतनय पु० ६ त० । राधासुते १ कर्णे २ यमादौ च ।

अरुणात्मजशब्दे विवृतिः

अर्कदुग्ध न० अर्कस्य वृक्षस्य दुग्धमिव निर्य्यासः । अर्कवृक्ष-

निर्य्यासे श्वेतत्वेन दुग्धाकारे पदार्थे ।

अर्कनयन पु० अर्कोनयनं यस्य । विराट्पुरुषे । “सूर्य्याचन्द्र-

मसावग्निर्यस्य नेत्राणि जज्ञिरे” पुरा० अनन्तबाहुं
शशिसूर्य्यनेत्रम्” गीता अर्कैव दुर्दर्शं नयनमस्य ।
२ दुर्द्द शलोचने त्रि० ।

अर्कनामन् पु० अर्कं नामयति अनुकूलयति नम--णिच्

कनि । रक्तार्के वृक्षे ।

अर्कपत्र पु० अर्कः सूर्य्यैव तीक्ष्णं पत्रं यस्य । १ अर्कवृक्षे ।

अर्कपर्णोऽप्यत्र । २ सुनन्दायाम् ३ अर्कमूलायां स्त्री । ६ त० ।
४ अर्कवृक्षस्य पत्रे न० “स कदाचिदऽर्कपत्राण्यभक्षयत्
क्षुधार्त्तः तैर्भक्षितैरर्कपत्रैः” भा० आ० प० “देवराजो
मया दृष्टो वारिवारणमस्तके । खादयत्यर्कपत्राणि”
विद० मु० । “सप्त वदरपत्राणि सप्तार्कपत्राणि च शिरसि
निधायेति, साघसप्तस्यां स्नाने कृ० त० रघु० ।

अर्कपर्ण त्रि० अर्क इश रक्तं पर्णमस्य । १ मन्दारे । ६ त०

२ अर्कवृक्षपत्रे न० ।

अर्कपादप पु० अर्कः अर्कवृक्षैव तीक्ष्णः पादपः । १ निम्बे । कर्म्मधा० । (आकन्द) २ वृक्षभेदे ।

अर्कपुष्पी स्त्री अर्कस्यार्कवृक्षस्य पुष्पमिव पुष्पमस्याः

जातित्वात् ङीप् । २ कटुम्बिनीवृक्षे । वा कप् । अत इत्त्वे
अर्कपुष्पिकाप्यत्र ।

अर्कप्रिया स्त्री अर्कं प्रीणाति प्री--क । जवायाम् । ६ त० ।

१ सूर्य्यप्रियायां, २ संज्ञादौ अरुणप्रियाशब्दे विवृतिः ।
पृष्ठ ०३६३

अर्कबन्धु पु० अर्कस्य बन्धुरिव । १ गोतमे सूर्यवंश्ये बौद्धभेदे ।

तस्य तत्कुलोत्पन्नत्वात्तद्बन्धुत्वम् । अर्कस्य बन्धुरिव प्रकाश्य
त्वात् । २ पद्मे । अर्कबान्धवोऽप्युभयत्र ।

अर्कभ न० अर्काक्रान्तं भं नक्षत्रं शा० त० । १ सूर्य्याक्रान्ते

नक्षत्रे ६ त० । तत्स्वामिके २ सिंहराशौ ३ उत्तरफल्-
नीनक्षत्रे, च ।

अर्कभक्ता स्त्री अर्कस्य भक्ता (हुड़हुड़िया) इति ख्यातायां

लतायाम् । तत्किरणसंपर्के एव हि तस्याः सौन्दर्य्यम् ।

अर्कमूल पु० अर्कैव सर्पाणां दुष्प्रसहं मूलं यस्याः । (इशेर-

मूल) इति ख्यातायां लतायाम् ।

अर्कलूष पु० अर्कैव रूष उग्रः रस्य लः । ऋषिभेदे विदा०

अञ् । आर्कलूषः तदपत्ये पुंस्त्री० । स्त्रियां ङीप् ।

अर्कवल्लभ पु० अर्कस्य वल्लभः समानवर्ण्णपुष्पत्वात् । रक्तपुष्प

त्वेन अर्कतुल्यपुष्पे वन्धूकवृक्षे । ब० । २ पद्मे ।

अर्कविवाह पु० अर्कवृक्षस्य कन्यात्वेन प्रकल्पनेन विवाहः ।

तृतीयविवाहसिद्ध्यर्थमर्कवृक्षस्य कन्यात्वकल्पनेन विहिते
विवाहभेदे । “चतुर्थादिविवाहार्थं तृतोयेऽर्कंसमुद्वहेत् ।
“आदित्यदिवसे वापि हस्तर्क्षे वा शनैश्चरे । शुभे दिने वा
पूर्ब्बाह्णे कुर्य्यादर्कविवाहकम्” कश्य० । “तृतीये स्त्रीविवा
हे तु संप्राप्ते पुरुषस्य तु । आर्कं विवाहं वक्ष्यामि
शौनकोऽहं विधानतः” शौनकः । तत्प्रकारस्तु विधानपारि-
जाते तृतीयविवाहप्रकरणे दृश्यः ।

अर्कवेध पु० अर्कस्य वृक्षस्येव वेधोऽत्र । तालीशपत्रे वृक्षे ।

अर्कव्रत पु० अर्कस्याराधनार्थं व्रतम् । माघशुक्लसप्तम्यादौ

कर्त्तव्ये अर्काराधनार्थे १ व्रते । अर्कस्येव व्रतम् नियमः ।
“सहस्रगुणमुत्स्रष्टुमादत्ते हि रसान् रविः” इत्युक्तेर्यथा
रविणा लोकवृद्ध्यर्थं रसस्य ग्रहणमेवं प्रजापालनार्थमेव राज्ञा
प्रजाभ्यो यत् कर्स्य ग्रहणं क्रियते तादृशे “अष्टौ मासान्
यथादित्यस्तोयं गृह्णाति रश्मिभिः । तथा हरेत् करं
राष्ट्रान्नित्यंमर्कव्रतं हि तदिति” मनूक्ते राज्ञः २ करादानभेदे ।

अर्कसूनु पु० ६ त० । १ यमे २ शनैश्चरे ३ सुग्रीवे ४ कर्णे ५ श्राद्धदेवे

६ अश्विनोकुमारयोः द्वि० व० । ७ यमुनायां ८ तपत्याञ्च स्त्री

अर्कसोदर पु० अर्कस्य इन्द्रस्य सोदर इवोपकारकत्वात् ।

१ ऐरावते हस्तिनि २ अर्कतुल्ये दुर्द्दर्शेच ।

अर्कहिता स्त्री ६ त० । १ अर्कभक्तायां (हुढुडुडिया) लतायाम्

२ सूर्य्यहितकरे त्रि० ।

अर्काश्मन् पु० अर्कस्य अनुगतः, अश्मा । सूर्य्यकान्तमणौ,

स हि सूर्य्यरश्मिसंपर्कादुज्ज्वलति ततस्तस्यार्कसम्बन्धि-
त्वम् । अर्कैव रक्तः अश्मा । (चुनी) २ अरुणोपले ।

अर्किन् त्रि० अर्च्यंतेऽनेन मन्त्रेण अर्कोऽर्चनहेतुमन्त्रः

सोऽस्यास्ति इनि । अर्चनसाधनमन्त्रयुक्ते । “वृहदिन्द्रमर्केभिर-
र्किणः” ऋ० १, ७, १, ‘अर्किणः अर्चनहेतुमन्त्रोपेताः’ भा०
“गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः । ऋ० १, १०,
१, । अर्कोऽर्चनमस्त्यस्य इनि । २ अर्चनयुक्ते त्रि० ।
“वन्दस्व मारुतं गणं त्वेषम् अपनस्युमर्किणम्” ऋ०
१, ३८, १५ । अर्किणम् अर्चनोपेतम् भा० ।

अर्केन्दुसङ्गम पु० अर्कः इन्दुश्च सङ्गच्छेते यत्र । अमावा-

स्यायां तिथौ तद्दिने हि सूर्य्याचन्द्रमसोरेकराश्येकावच्छेदेन
उपर्य्यधोभावेन स्थितिः ज्योतिषप्रसिद्धा ‘सूर्य्याचन्द्रमसोर्य्यः
परः सन्निर्कर्षः साऽमावास्येति” गोभिलेन तस्यास्तथा-
विधत्वकीर्त्तनात् तथात्वम् ।

अर्कोपल पु० अर्कस्यानुगतौपलः । १ सूर्य्यकान्तमणौ (चुनी) पद्मरागे च ।

अर्क्य त्रि० अर्च--कर्म्मणि ण्यत् कुत्वम् । १ अर्चनीये ।

अर्कस्यायम् यङ् । अर्क्यः अर्कमम्बन्धिनि । “स एष
वार्कोय एष तपति तस्यैतदन्नं क्यमेष चन्द्रमार्क्यम्” शत० व्रा० ।

अर्गल स्त्रीन० अर्ज्ज--कलच् न्यङ्क्वा० कुत्वम् । १ कपाटमध्यस्थे-

रोधके १ काष्ठादिदण्डे, “ससम्भ्रमेन्द्रद्रुतपातितार्गला
निमीलिताक्षीव भियाऽमरावती” का० प्र० । “पुरार्गलादी-
र्घभुजा बुभोज” रघुः, “अथानपोढ़ार्गलमप्यगारमिति”
रघुः । सप्तशतीस्तोत्रस्यादौ पाठ्ये २ स्तोत्रविशेषे “अर्गलां
कीलकं चादौ पठित्वा कवचं पठेत् । जपेत् सप्तशतीं
पश्चात्” मत्स्यसूक्तम् । ३ कल्लोले, ४ कपाटे च न०
५ क्षुद्रार्गले स्त्री । गौरा० ङीष् स्वार्थेकन् । अर्गलिकाप्य-
त्रार्थे । ६ विष्कम्भमात्रे रोघकमात्रे स्त्रीन० ॥ वार्य्यर्गला-
भङ्ग इव प्रवृत्तः” रघुः । अनुगतनयमार्गामर्गलां दुर्नयस्य”
माघः ।

अर्ग्बध पु० आरग्बधः पृ० । आरग्वधे (सिं धालि) वृक्षे

अर्घ मूल्ये भ्वादि० पर० सक० सेट् । अर्घति आर्घीत् ।

आनर्घ । अर्घः । अर्घ्यः ।

अर्घ पु० अर्घ--घञ् । क्रेयवस्तुग्रहणार्यं देये तुल्यरूपे

रजतादिद्रव्यरूपे १ मूल्ये । “कुर्ब्धीर्त चैषां प्रत्यक्षमर्ध
संस्थापनं नृपः” “कुर्य्युरर्घं यथापण्यमिति” च मनुः
अर्ह--करणे घञ् न्यङ्क्वादित्वात् कुत्वम् । २ पूजोपचारे
दूर्व्वाक्षतादौ । सामगैरयं सयकारः क्लीवलिङ्गश्च प्रयो-
क्तव्यः अन्यैः पुंलिङ्गोनिर्यकारश्च । अघाय देयम् यत् ।
अर्घ्यम् पूजार्थे देवे जलादो अर्घद्रव्याणि च “आपः क्षीरं
पृष्ठ ०३६४
कुशाग्रञ्च दधि सर्पिः सतण्डुलम् । यवः सिद्धार्थकश्चैव
अष्टाङ्गोऽर्घः प्रकीर्त्तितः” काशीखण्डम् । “तमर्व्यमर्व्यादि-
कयादिपूरूषः” माघः “अर्घ्यमर्घ्यमिति वादिनं नृपं
सोऽनवेक्ष्य भरताग्रजो यतः” “अर्घानुपदमाशिष-
मिति” च रघुः ।

अर्घोश पु० अर्घोऽस्त्यस्य इनि देयत्वेन तेषु ईशः । सर्व्वदेवेषु पूज्यतमे महादेवे ।

अर्घ्य त्रि० अर्ह्यते पूज्यते अर्ह--ण्यत्--न्यङ्का० कुत्वम्-

अर्घमर्हति अर्घ + यत् वा । १ पूजनीये “तमर्घ्यमर्घ्यादिक
यादिपूरुषः माघः” । अर्घाय देयं यत् । २ पूजार्थं देये
जलादौ । “तानर्घ्यानर्घ्यमादाय दूरात् प्रत्युद्ययौ
गिरिः” कुमा० । “अनर्घ्यमर्घ्येण तमद्रिनाथः” कुमा० ।
अर्घं मूल्यमधिकमर्हति यत् । ३ जरुत्कारतपोवनवृक्षोद्भवे
मधुनि न० तस्य बहुमूल्यत्वात्तथात्वम् ।

अर्च पूजायाम् उभ० भ्वादि० सक० सेट् । अर्चति ते आर्चीत्

आर्च्चिष्ट । आनर्च--र्चे “पितॄश्चैवाष्टकास्वर्च्चेत्” मनुः ।
“एवं हि सर्वभूतानि ब्राह्मणोनित्यमर्चति” मनुः ।
“रत्नपुष्पोपहारेण छायामानर्च पादयोः” रघुः
“वृन्दिष्ठमार्च्चीद्वसुधाधिपानाम्” “समीहे मर्त्तुमानर्चे
तेन वाचाऽखिलं बलम्” । “आर्च्चीत् द्विजातीन्
परमार्थविन्दान्” “प्रानर्च्चुरर्च्यं जगदर्चनीयम्” “विप्रानर्चं-
स्तथा स्तुवन्” इति च भट्टिः अर्चिः अर्चकः अर्चितः
अर्चितवान् अर्चितुम् अर्चित्वा ।

अर्च पूजायां चुरा० उभ० सक० सेट् । अर्चयति ते आर्चि-

चत् त । अर्चयामास । “दूरस्थमार्चयेदेनम् मनुः ।
“स्वर्गौकसामर्चितमर्चयित्वा” कुमा० ।

अर्चक त्रि० अर्चति अर्च--ण्वुल् । पूजके “व्रह्मचारी व्रती च

स्याद्गुरुदेवद्विजार्चकः” मनुः स्त्रियां टाप् अत इत्त्वम् ।

अर्चत्रि त्रि० अर्च--वेदे बा० अत्रि । अर्चनीये । “अर्चत्रयो

घुनयो न वीराः” ऋ० ६, ६६, १० । “अर्चत्रयः
अर्चनीयाः” भा० ।

अर्चत्त्र्य त्रि० अर्च--भावे--अत्रि अर्चत्रिमर्चनमर्हति--यत् ।

पूजनीये । “अर्चत्र्योमघवा नृभ्यः” ऋ० ६, २४, १ ।
“अर्चत्र्यः अर्चनीयः” भा० ।

अर्चन न० अर्च--भावे ल्युट् । पूजने । “अरिष्टं नाशयेत्

सर्व्वं ग्रहविप्रसुरार्चनम् पुरा० ।

अर्चना स्त्री चु० अर्च--युच् । पूजायाम् । “देवार्चनायां “निरतः पुरा० ।

अर्चनीय त्रि० अर्च + अनीयर् । पूजनीये । “प्रानर्चुरर्च्यं

जगदर्चनीयम” भट्टिः ।

अर्चा स्त्री अर्च्च--आधारे अङ् । १ प्रतिमायाम् “आभिरू-

प्येण चार्चाया देवः सान्निध्यमृच्छति” ति० त० पुरा० ।
“देवार्च्चामग्रतः कृत्वा ब्राह्मणानां विशेषतः” आ० त० ।
भावेऽङ्, । २ पूजायाम् “लोकः पच्यमानश्चतुर्भिर्धर्मै!
ब्राह्मणं भुनक्त्यर्चया च दानेन चोज्यया दयया च” ।
शत० ब्रा० ।

अर्चि स्त्री अर्च--इन् । वह्न्यादिशिखायाम् । “यस्या रुशन्तो

अर्चयः प्रतिभद्रा अदृक्षत” ऋ० १, ४८, १३, “तव
ज्योतीं ष्यर्चयः” ऋ० ८, ४४, १७ ।

अर्चित त्रि० अर्च--क्त । १ पूजिते “खर्गौकसामर्चितमर्चयित्वा”

कुमा० २ विष्णौ पु० “अर्चिष्मानर्चितः कुम्भः” वि० स० ।
“सर्व्वलोकार्चितैर्ब्रह्मादिभिरर्चितः” भा० ।

अर्चिरादिमार्ग पु० अर्चिरादिभिस्तदभिमानिदेवैः उपलक्षितो

मार्गः । देवयाने पथि उत्तरमार्गे । “तेऽर्चिषमभि-
सम्भवन्ति अर्चिषोऽहः, अह्न आपूर्य्यमाणपक्षम्,
आपूर्य्यमाणपक्षात् यान् षडुदङ्ङेति मासांस्तान्, मासेभ्यः
संवत्सरं, संवत्सराद् आदित्यम्, आदित्याच्चन्द्रमसं,
चन्द्रमसो विद्युतं, तत्पुरुषोऽमानवः स एनान् ब्रह्म
गमयत्येष देवयानः पन्थाः” छा० उ० । “आतिवाहिका-
स्तल्लिङ्गात्” शा० सूत्रे तेषां तदभिमानिदेवतापर-
तेत्युक्तम् “अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम्
तत्र प्रयाताः गच्छन्ति व्रह्म ब्रह्मविदोजनाः” गीता ।

अर्चिव(म)त् त्रि० अर्चिरस्त्यस्य मतुप् वेदे मस्य वः ।

दीप्तियुक्ते । “उद्यन्नक्षत्रमर्च्चिवत्” ऋ० ७, ८, ९१, २,
“यत्ते पवित्रमर्चिवदग्नेः” ऋ० ९, ६७, २४ । लोके तु
अर्चिमान् । स्त्रियां ङीप् ।

अर्चिष्मत् पु० अर्च्चिर्विद्यतेऽस्य मतुप् । १ सूर्य्ये, २ वह्नौ

३ उपदेवभेदे च “अर्चिष्मांस्तुम्बुरुश्चैव भोरिश्च वदतांवरः ।
नेतारो देवदेवानामेते हि तपसान्विताः” हरिवं० ४ दीप्ते
त्रि० । स्त्रियां ङीप् । सा च ५ अग्निपुर्य्याम् । इन्द्र-
लोकमुपवर्ण्ण्य “एतस्यादक्षिणे भागे येयं दृश्येत पूः शुभा ।
इमामर्च्चिष्मतीं पश्य वोतहोत्रपुरीं शुभाम्” काशीख०
विवरणमग्निलोकशब्दे । ५ विष्णौ पु० अर्चितशव्दे उदा० ।

अर्चिस् न० अर्च्च--इसि । १ वह्न्यादेः शिखायां “प्रदक्षि-

णार्च्चिर्व्याजेन” “प्रदक्षिणार्च्चिंर्हविरग्निराददे” “आसी-
दासन्ननिर्वाणप्रदीपार्च्चिरिवोषसि” इति च रघुः २ मयूखे
३ वह्नौ च पु० “तेऽर्च्चिषमभिसम्भवन्ति अर्च्चिषोऽहः” छा०
उ० “अग्निर्ज्योतिरहः शुक्ल” इति गीतावाक्यैकवाक्य-
त्वात् अर्च्चिरत्र वह्निः ४ दीप्तिमात्रे न० “प्रशमादर्चिषा-
मेतदनुद्गीर्ण्णसुरायुधम्” कुमा० ।
पृष्ठ ०३६५

अर्च्य त्रि० ऋच--स्तुतौ ण्यत् न कुत्वम् चु० अर्च--यत् वा ।

पूजनीये प्रानर्च्चुरर्च्यं जगदर्च्चनीयम्” भट्टिः ।

अर्ज प्रतियत्ने भ्वादि० पर० सक० सेट् । अर्ज्जति, आर्ज्जीत्

आनर्ज अर्जकः अर्जितः अर्जितवान् अर्जित्वा उपार्ज्य
अर्जन् । “अर्जकोद्व्यंशमाहारेत् । दाय० स्मृ० “न तत्पुत्रै-
र्भजेत्सार्द्धमकामः स्वयमर्जितम्” मनुः । “आनर्जु-
र्नृभुजोऽस्त्राणि” भट्टिः ।

अर्ज्ज संस्कारे चुरा० उभ० सक० सेट् । अर्ज्जयति ते आर्जि-

जत् त । “अनुपघ्नन् पितृद्रव्यं श्रमेण यदुपार्ज्जयेत्”
स्मृतिः “परस्वान्यर्जयन्नारीरन्यदीयाः परामृशन्”
भट्टिः । अर्ज्जयितुम् अर्ज्जयित्वा ।

अर्ज्जक पु० अर्ज्जयति रज्जुम् अर्ज्ज--ण्वुल् । (वावुइ) इति

ख्याते वृक्षे, तत्त्वक्तन्तुना हि रज्जुर्निर्म्मीयते । अर्ज्जन-
कर्त्तरि त्रि० । “अर्ज्जकोद्व्यशमाहरेत्” स्मृतिः ।

अर्जन न० अर्ज--ल्युट् । १ सम्पादने स्वामित्वसम्पादके

२ व्यापारभेदे च । स्वामित्वहेतवश्च “सप्त वित्तागमाः धर्म्म्या
दायोलाभः क्रयोजयः । विभागः संप्रयोगश्च सत्प्रतिग्रह
एव च” स्मृत्युक्ताः “स्वामी रिक्थक्रयसंविभागाधिगमेषु
ब्राह्मणस्याधिकं लब्धं क्षत्रियस्य विजितं निर्विष्टं वैश्य-
शूद्रयोः” गो० उक्ताश्च रिक्थादयः साधारणाः सर्व्व-
वर्णेषु । तत्राप्रतिबन्धोदायोरिक्थंयथा पित्रादिवने पुत्रादेः ।
अप्रतिबन्धोदायोविभागो यथा पत्नीप्रभृतेः । लब्धं प्रति-
ग्रहः ब्राह्मणस्य तदसाधारणं “याजनाध्यापनप्रतिग्रहै-
र्ब्राह्मणोधनममर्ज्जयेदिति” श्रुत्या ब्राह्मणकर्त्तृकार्ज्जनस्य
याजनादिकरणकत्वनियमनात् । क्षत्रियस्य विजितं विज
यलब्धमसाधारणम् । निर्विष्टं भृतिः तच्च वैश्यस्य कृषि-
गोरक्षादिलब्धम् शूद्रस्य शुश्रूया वेतनं चेति
तयोरसाधारणम् । एवञ्च मनुना “सूतानामश्वसारय्यम्”
इत्यादि यदुक्तं तत् सर्व्वं तेषामसाधारणं तदपि निविष्ट-
शब्दाभिधेयम्” मिता० शूद्रवत् वर्णसङ्करा इति स्मृतेः “शूद्रा-
णान्तु, सधर्म्माणः सर्व्वेऽपध्वंसजा स्मृताः” मनूक्तेश्च तेषां
शूद्रधर्म्मातिदेशात्तथा । तच्चार्ज्जनं पुरुषार्थं न यज्ञार्थं तेन
यद्यस्य वर्णस्योचितं तदतिरेकेणार्ज्जितेनापि धनेन क्रतु-
सिद्धिः पुरुषस्य परं नियमातिक्रमे दोषः इति जैमि-
नीये लिप्तासूत्रे स्थितम् । मिताक्षराकृता तस्य चायमर्थ
एवं विवृतः । “यदा द्रव्यार्ज्जननियमानां क्रत्वर्थत्वं तदा-
नियमार्जितेनैव द्रव्येण क्रतुसिद्विरिति न पुरुषस्य नियमा-
तिक्रमदोषः इति पूर्व्वपक्षे सिद्धान्ते तु अर्ज्जननियमस्य
पुरुषार्थत्वात् तदतिक्रमेणार्जितेनापि द्रव्येण क्रतुसिद्धि-
र्भवति पुरुषस्यैव नियमातिक्रमाद्दोष इति नियमातिक्र-
मार्जितस्यापि स्वत्वमङ्गीकृतम् अन्यथा क्रतुमिद्ध्यभावात् ।
नचैतावता चौर्य्यादिप्राप्तस्यापि स्वत्वं स्यादिति मन्तव्यम् ।
लोके तत्रतत्र स्वत्वप्रसिद्ध्यभावात् व्यवहारविसं
वादाच्च” इति । एवञ्च प्रतिग्रहाद्युपायकं स्वत्वं लौकिकमेव
अतएब “सप्त वित्तागमाधर्म्म्याः” इत्यनेन तेषां धर्म्महेतुत्व-
मात्रमुक्तं न तु भृतिप्रभृतीनां तत्रानुक्तानां स्वत्वाहेतुत्वम-
पि “अर्जयितृव्यापारोऽर्ज्जनमिति” दायभा० । “अर्ज
स्वत्वं नापादयतीति” मिता० । “कणिशाद्यर्जनं शिलम्”
मनुः । “अर्थानामर्जने दुःखमिति” नीति० अर्जधातोः
प्रतियत्नार्थकतया विद्यमानपदार्थस्यैव स्वत्वसम्पाद-
नार्थकत्वेन तस्य तथात्वम् ।

अर्जुन पु० अर्ज्ज--उनन् । स्वनामख्याते १ वृक्षे, “सोऽङ्गणा-

न्निःसृतः कृष्णः कर्षमाण ऊदूखलम् । यमलाभ्यां
प्रवृत्ताभ्यामर्ज्जुनाभ्यां निवारितः । मध्यान्निश्चक्राम
तयोः शिशुः कर्षन्नुदूखलम् । तत्तस्य कर्षतो बद्धं तिर्य्य-
ग्गतमुदूखलम् । लग्नं ताभ्यां समूलाभ्यामर्ज्जुनाभ्याञ्चकर्ष
सः । तावर्ज्जुनौ कृष्यमाणौ तेन बालेन वक्षसा ।
समूलविटपौ भग्नौ स च मध्ये जहास वै” इति हरिवं० ।
“कदम्बंसर्जार्जुननीपकेतकी” ऋतु० । २ मध्यमपाण्डवे
शुद्धचरितत्वान्मध्यमपाण्डवस्यार्ज्जुनत्वम् । “पृथिव्यां
चतुरन्तायां वर्ण्णीमे दुर्लभः समः । करोमि कर्म्म
शुद्धञ्च तेन मामर्ज्जुनं विदुः” भा० वि० प० उत्तरं
प्रति तस्य स्वनामव्युत्पत्तिकथनम् । स च पाण्डोः
क्षेत्रे कुन्त्यां शक्रेण जनितः “एवमुक्ता ततः शक्र-
माजुहाव यशस्विनी अथाजगाम देवेन्द्रो जनयामास चार्जु-
नम् । जातमात्रे कुमारे तु वागुवाचाशरीरिणी ।
महागम्भीरनिर्घोषा नभोनादयतीव ह । शृण्वतां सर्व्वभूतानां
तेषां चाश्रमवासिनाम् । कुन्तीमाभाष्य विस्पष्टमुवाचेदं
शुचिस्सिताम् । कार्त्तवीर्य्य समः कुन्ति! शिवतुल्यपराक्रमः ।
एष शक्र इवाजय्यो यशस्ते प्रथयिष्यति । अदित्या विष्णुना
प्रीतिर्य्यथाऽभूदभिवर्द्धिता । तथाविष्णुसमः प्रीतिं वर्ध-
यिष्यति तेऽर्जुनः” । भा० आ० प० । “पार्थः कर्ण्णबधाय
मार्गणगणान् यानर्ज्जुनः संदघे” लीला० ३ हैहयाधिपे
कार्त्तवीर्य्ये “एतस्सिन्नेव काले तु कृतवीर्य्यसुतोबली ।
पृष्ठ ०३६६
अर्ज्जुनो नाम तेजस्वी क्षत्रियो हैहयाधिपः । दत्तात्रेय-
प्रसादेन राजा बाहुसहस्रवान् । चक्रवर्त्ती महातेजा
विप्राणामाश्वमेधिके । ददौ स पृथिवां सप्तद्वीपां
सवनपर्व्वताम्” । हरिवं० ४ करवीरे, ५ मयूरे, “तृणाख्याया-
मित्युक्तेः” ६ तृणे ७ धवले । ८ शुभ्रतागुणवति त्रि० ।
“अहश्च कृष्णमहरर्ज्जुनं च” ऋ० ६, ९, १, “अर्ज्जुनं
सौरेण तेजसा शुक्लवर्णम् भा० । “कृष्णा रूपाण्यर्ज्जुना
वि वो मदे विश्वा” ऋ० १०, २१, ३ “हे अग्ने! त्वं
कृष्णा कृष्णान्यर्ज्जुना अर्ज्जुनानि श्वेतवर्णानि” भा०
“पिशङ्गमौञ्जीयुजमर्ज्जुनच्छविम्” माघः । (आजनि)
इति ख्याते ९ नेत्ररोगभेदे” “एकोयः शशरुधिरोपमस्तु
विन्दुः शुक्रस्थो भवतितदर्ज्जुनं वदन्ति” माधवः । एफस्या-
मातुरेकस्मिन् १० पुत्रे मेदि० ११ इन्द्रे “अर्ज्जुनोवै
इन्द्रोयदस्य गुह्यं नाम” शत० व्रा० । अर्जुनस्यापत्यम्
इञ् । आर्जुनिः आभिमन्यौ ।

अर्जुनध्वज पुं न० ६ त० । हनूमति । विवरणं कपिध्वजशब्दे ।

अर्जुनपाकी स्त्री अर्जुनः श्वेतः पाकः फलादिः यस्याः

ङीप् । श्वेतपाक्यां लताभेदे हरितक्यादित्वात् फले
जातस्याणोलुप् लुपि प्रकृतिव्यक्तिवचने । अर्जुनपाकी
तत्फले स्त्री ।

अर्ज्जुनी स्त्री गौरा० ङीष् । १ ऊषायां,

२ वाहुदायां, नद्याम् ३ स्त्रियां गवि, ४ कुट्टिन्थाञ्च ।

अर्ज्जुनोपम पु० अर्ज्जुनः स्वनामख्यातः वृक्ष उपमा यस्य ।

(सेगुन) इति ख्याते १ शाकद्रुमे, २ महापत्राख्यवृक्षे च ।

अर्ण पु० ऋ--न । अकारादौ १ वर्ण्णे “पञ्चार्ण्णोमनुरीरितः”

तन्त्रम् । २ गमनस्वभावे त्रि० । “ऋणोरपो
अनवद्यार्ण्णाः” ऋ० १, १७४, २ “अर्ण्णाः अरणस्वभावा”
भा० “त्यं चिर्दणं मधुपः” ऋ० ५, ३२, ८ “अर्णं गन्तारम्”
भा० । ३ जले म० “अग्ने! दिवो अर्णमच्छा” ऋ० ३, २२,
३ । “अणमम्भः” भा० । अर्णं जलमस्त्यस्यअर्श० अच् ।
४ नद्याम् स्त्री । “वैर्धान्तामभिषाता अर्ण्णाः” ऋ० ५, ४१,
१४ । “अर्ण्णाःनद्यः, भा० । अभि + अर्द्द--क्त इड़भावादि ।
अभ्यर्ण्णम् । नि + न्थर्ण्णम् वि + व्यर्ण्णम् सम् + समर्ण्णम्
अभ्यासादौ न० तद्वर्त्तिनि त्रि० । “कालोऽभ्यर्ण्णजलागमः”
इति सा० द० । “कृष्णार्णवाभ्यर्णचरैकहंसः” माघः ।

अर्ण्णव पु० अर्णाँसि सन्त्यस्मिन् अर्णस् + व सलोपः । १ समुद्रे ।

“यादोरत्नैरिवार्ण्णवः” रघुः “कृष्णार्ण्ण वाभ्यर्णचरैकहंसः”
माघः २ उदकयुक्ते त्रि० “ततः समुद्रादर्णवात्” सन्ध्यामन्त्रः
“तिरः समुद्रमर्णवम्” ऋ० १, १९, ७ । “अर्णवमुदक-
युक्तम्” भा० । अर्णांसि दातृवेनास्त्यस्य मतुप्
सलोपः । जलदातरि ३ सूर्य्ये ४ इन्द्रे च “आदित्याज्जायते
वृष्टिः” गीतोक्तेः सूर्य्यस्य पर्जन्याघिपत्वाच्च शक्रस्य
जलदातृत्वात्तथात्वम् । “सभानुरर्ण्णवो नृचक्षाः” ऋ०
३, ५१, २ “शतक्रतुमर्ण्णवं शाकियं नरम्” ३, ३, ५, १, २,
अर्ण्णवं पर्ज्जन्यात्मनोदकवन्तम्” भा० । ५ सजले च ।
“अजएकपादनमितुरर्ण्णवम्” ऋ० १०, ६६, ११ । “ब्रह्म-
लोके, एतादेवताः सृष्टा अस्मिन्महत्यर्ण्णवे” ऐ० ब्रा० ।
अस्य समुद्रावाचित्वेन क्षीरार्णवः जलार्णवः लवणार्ण्णवः
इत्यादौ आधारतामात्रबोधः ।

अर्ण्णवज पु० अर्ण्णवात् जायते जन--ड ५ त० । १ समुद्रफेने

रत्नमा० । २ समुद्रजातमात्रे त्रि० । अर्ण्णवजातादयोऽप्यत्र ।

अर्णवमन्दिर पु० अर्ण्णवः मन्दिरमिव यस्य । वरुणे

अर्ण्णवोद्भव पु० उद्भवत्यस्मात् उद + भू--अपादाने अप् अर्ण्णव

उद्भवोऽस्य । १ अग्निजारवृक्षे २ चन्द्रे च ३ अमृते न० ।
४ श्रियां स्त्री ।

अर्णस् न० ऋच्छति ऋ--असुन् उदके नुट् चेति, नुट् ।

जले । “सवर्ण्णमर्ण्णः कथमन्यथास्य” माघः । “सिन्धु-
र्नपिप्येऽर्ण्णसा” ऋ० ९, १०७, १२ ।

अर्णस पु० अर्ण्णोऽस्त्यस्य अर्श० अच् । १ समुद्रे २ जलवति त्रि० ।

अर्णस्वत् यु० अर्ण्णांसि सन्त्यस्मिन् मतुप् मस्य वः १ समुद्रे

२ जलवति त्रि० ।

अर्ण्णोद पु० अर्णांसि ददाति दा--क । १ मेघे २ मुस्तके

त्त जलदातरि त्रि० ।

अर्ण्णोभव पु० अर्णसि जले भवति भू--अच् ७ त० । १ शङ्खे २ जलोद्भवमात्रे त्रि० ।

अ(आ)र्त्तगल पु० आर्त्तैव गलति गल--अच् पृषो० वा

ह्रखः । नीलझिण्टिकायाम् । ह्रस्वाभावे आर्त्तगलश्च ।

अर्त्तन न० ऋत--ल्युट् पक्षे इयङभावः । निन्दायाम् ।

अर्त्ति स्त्री अर्द्द--क्तिन् । १ पीडायाम् । करणेक्तिन् । २ धनुष्को-

ट्याम् । “नान्नं वाञ्छति नो निद्रामुपैत्यर्त्तिनिपीडितः”
सुश्रुतः ।

अर्त्तिका स्त्री । ऋत--ण्वुल् । नाट्योक्तौ ज्येष्ठभगिन्याम् ।

अर्त्तुक त्रि० ऋत--बा० उकञ् । स्पर्द्धके । “समद्वैनान्विन्द-

त्यर्त्युकाह भवत्न्यपि हतर्मधं समद्विन्दति” शत० ब्रा० ।

अर्थ याचने अद० चु० आत्म० द्विक० सेट् । अर्थयते आर्त्तिथत ।

अर्थयामास । अर्थकः अर्थी अर्थितः अर्थ्यः अर्थनीयः अर्थ-
यितुम् अर्थनम् अर्थना । अर्थयित्वा अर्थयिता
“सुराः सपभ्यर्य्ययितार एते” कुमा० । “अवकाशं किलो-
पृष्ठ ०३६७
दन्यान् रामायाभ्यर्थितो ददौ” रघुः “अग्लोपित्वं स्थानिवत्त्वं
चादन्तस्य प्रयोजनम् यत्र त्वेते न विद्येते तत्राग्लोपविक-
ल्पनम् । तद्बलादन्त्यदीर्घश्च पुक् चेत्यङ्कापयत्यपि” कामधेनूक्तेः
पुक्--दीर्घश्च अर्थापयते । सम् + समर्थने सममर्थयते
समर्थनञ्च प्रमाणेन व्यवस्थापनम् । कु पीड़ने कदादेशः कदर्थयते ।
अभि + आभिमुख्येन प्रार्थने अभ्यर्थनीयः । “अभ्यर्थनाभङ्ग-
भयेन साधुः” कुमा० । प्रति + प्रतिकूलाचरणे प्रत्यर्थी ।
“प्रत्यर्थीभूतामपि तां समाधेः” कुमा० ।

अर्थ पु० अर्थ भावकर्म्मादौ ययायथम् अच् । १ अभिधेये २ शब्द-

शक्त्या वोध्येपदार्थे च “तददोषौ शब्दार्थावनलङ्कृती पुनः
क्वापि” का० प्र० आलङ्कारिकमते स च अर्थस्त्रिविधः
वाच्यो लक्ष्योव्यङ्ग्यश्चेति भेदात् । “अर्थोवाच्यश्च
लक्ष्यश्च व्यङ्ग्यश्चेति त्रिधा मतः । वाच्योऽर्थोऽभिधया
बोध्यो लक्ष्योलक्षणया मतः । व्यद्ध्योव्यञ्जनया ताः
स्युस्तिस्रः शब्दस्य शक्तयः” सा० द० । ताश्च तत्तच्छब्दे
वक्ष्यन्ते । अन्यमते “तात्पर्य्याख्यां वृत्तिमाहुः
पदार्थान्वयबोधने । तात्पर्य्यार्थं तदर्थञ्च वाक्यं तद्बोधकं-
परे” । इति तात्पर्य्य प्रतिपाद्योऽप्यपरः अर्थभेदः । स च
अभिहितान्वयशब्दे विवृतः । ३ धने । तस्य सर्व्वैरर्थनीय-
त्वात्तथात्वम् “अजरामरवत् प्राज्ञोविद्यामर्थांश्च चिन्तयेत्”
“अर्थस्योपार्ज्जने क्लेशस्ततोऽपि परिरक्षणे” नीति० । सचार्थ-
स्त्रिविधः शुक्लः शवलः कृष्णश्चेति भेदात् यथा
“अथ गृहाश्रमिणस्त्रिविधोऽर्थोभवति । शुक्लः शवलोऽ-
सितश्चेति । शुक्लेनार्थेन यदैहिकं करोति तद्देवमासाद-
यति । यच्छबलेन तन्मानुष्यम्, यत्कृष्णेन तत्तिर्य्यक्त्वम् ॥
स्ववृत्त्युपार्जितं सर्व्वं सर्व्वेषां शुक्लम् । अनन्तरवृत्त्युपात्तं
शवलम् । अन्तरितवृत्त्युपात्तञ्च कृष्णम् । क्रमागतं प्रीतिदायम्
प्राप्तञ्च सह भार्य्यया । अविशेषेण सर्व्वेषां धनं शुक्लं
प्रकीर्त्तितम् ॥ उत्कोचशुक्लसंप्राप्तमविक्रेयस्य विक्रये ।
कृतोपकारादाप्तञ्च शवलं समुदाहृतम् ॥ पार्श्विंकद्यूतचौ-
र्य्याप्तं प्रतिरूपकसाहसैः । व्याजेनोपार्जितं यच्च तत् कृष्णं
समुदाहृतम् ॥ यथाविधेन द्रव्येण यत्किञ्जित् कुरुते नरः ।
तथाबिधमवाप्नोति स फलं प्रेत्यचेहच” विष्णु० सू० ॥ ४ प्रयो
जने इष्टे । प्रयोजनञ्च इच्छाविषयः । तच्च गौणमुख्यभे
देन द्विविधम् यत्र अन्येच्छानधीनेच्छा जायते तत् मुख्यं
यथा सुखं दुःखाभावश्च तयोरिच्छाया अन्येच्छानधीनत्वात् ।
साक्षात् परम्परया वा तत्साधनं तु गौणं तत्र सुखदुःखा-
भावेच्छयैव इच्छोदयात् गौणत्वम् । प्रबोजनञ्च यद्यपि
नानाविधम् तथापि शास्त्रकारैः प्राधान्येन धर्म्मार्थ-
काममोक्षरूपाणि चत्वार्येवाङ्गीकृतानि तत्रैव सर्व्वप्रयो-
जनानामन्तर्भावात् । तएव चत्वारः षुरुषार्थाः पुरुषे-
णेष्यमाणत्वात् । मांख्यास्त सर्गापवर्गात्मकं द्विविधं
पुरुषार्थमाहुःपुरुषस्य प्रयोजनमुद्दिश्य प्रकृतेः प्रवर्त्तनात् ।
एवं चतुर्विधे द्विविधे वा पुरुषार्थे मतभेदेन स्थिते
तेषु मध्ये मोक्षएव परमपुरुषार्थः “अथ त्रिविधदुःखा-
त्यन्तनिवृत्तिरत्यन्तपुरुषाषार्थः” सा० सृ० । “इह खलु
धर्म्मार्थकाममोक्षाख्येषु चतुर्विधपुरुषार्थेषु मोक्षएव
परमपुरुषार्थं” वे० प० । दुःखात्यन्तनिवृत्तिरूपमुख्यप्रयोजनस्य
अन्येच्छानधीनेच्छाविषयत्वात् प्राधान्यम् । धर्म्मार्थकामास्तु
तत्साधनानि तत्रापि धर्म्मोऽर्थसाधनम् अर्थः कामस्य
साधनमित्यवान्तरभेदः “ईक्ष्वाकूणां दुरापेऽर्थे तदधीनाहि
सिद्धयः” रघुः । “ज्ञातार्थोज्ञासम्बन्धः श्रोतुं श्रोता प्रव-
र्त्तते” इत्यत्रार्थपदेनाभिधेयप्रयो जनयोर्ग्रहणम् “कस्या-
र्थकामौ वद पीड़यामि” “अप्यर्थकामौ तस्यास्तां धर्म्म
एव मनीषिणः” रघुः । ५ निमित्ते “अतोऽर्थान्न प्रमा-
द्यन्ति प्रमदासु विपश्चितः” मनुः अर्थाथेतोः कुल्लू०
“अर्थोऽयमंर्थान्तरलभ्य एव” कुमा० “अर्थान्तरं कारणान्त-
रमिति” मल्लि० । निमित्तञ्च कारणनुद्देश्यञ्च तत्र
निमित्तार्थेन “अर्थेन तु नित्यसमासो विशेष्यनिघ्नता चेति”
वार्त्तिकोक्तेः नित्यश्चतुर्थीसमासः । द्विजार्थं पयः । द्विजार्था
यवागूः । यूपार्थं दारु । भाष्यकृता तु यूपार्थं दारु इत्यादौ
वहुव्रीहिरपि माधुः स्वरे विशेष इत्युक्तम् “अन्ये च
बहवः शूरा मदर्थे त्यक्तजीविताः” गीता “मदर्थमपि कर्म्माणि
कुर्व्वन्नाप्नोति किल्विषम्” गीता “मदर्थसन्देशमृणाल-
मन्थरः” नैष० । “परलोकसहायार्थं सर्व्वभूतान्यपीड़यन्”
“तस्माद्धर्म्मं सहायार्थं” इति च मनुः । कर्म्मणि--अच् ।
६ विषये शब्दादौ । “इन्द्रियाणीन्द्रियार्थेभ्यः गीता”
“इन्द्रियेभ्यः पराह्यर्था ह्यर्थेभ्यश्च परं मनः” क० उ० ।
७ ज्ञेयवस्तुनि “इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानं प्रत्यक्षम्”
गौ० सू० । अत्रार्थः घटादिवस्तुमात्रम् । राज्ञ उपाये
८ तन्त्रावापादौ अर्थचिन्ताशब्दे उदा० ९ वस्तुस्वभावे
यथार्थम् । १० निवर्त्तनीये मशकार्थोधूमः । ज्योतिषोक्ते
११ लग्नावघिद्वितीयभवने १२ प्रकारे । भावे अच् १३ अभिलाषे
१४ प्रार्थ ने च कर्म्मणि यत् १५ अर्थ नीये विष्णौ पु०
“अर्थोऽनर्थो महाकोपः” वि० स० “सुखरूपतया सव्वै
रर्थ्यत इत्यर्थः । भा० १६ फले । अर्थाय साधुः अर्था-
पृष्ठ ०३६८
दनपेतो वा यत् अर्थ्यः । अर्थादनपेते अर्थसाधने च
त्रि० । “अर्थ्यामर्थपतिर्वाचम” रघुः । “वागीशं वाग्भिर-
र्थ्याभिः” कुमा० ।

अर्थकर त्रि० अर्थं करोति कृ--हेत्वादौ ट । अर्थ हेतु

कर्मकारके स्त्रियां ङीप् । अर्थकरी दण्डनीत्यादिविद्या ।

अर्थकृच्छ्र न० अर्थ विषये कृच्छ्रम् । अर्थस्य प्रयोजनस्य कृच्छ्र-

तायाम् कष्टसाध्यत्व एव तस्य तधात्वम् ।

अर्थकृत् त्रि० अर्थं करोति--कृ--क्विप् । अर्थकारके ।

अर्थक्रम पु० ६ त० क्रमनिर्णयाय श्रुतशब्दक्रमातिक्रमेणाश्रयणीये

प्रयोजनानुसारिक्रमे यथा पाठक्रममनादृत्याग्निहोत्रसाध-
नतया यवागूपाकः प्राक्क्रियते अग्निहोत्ररूपप्रयोजनादेः
यवागूसाध्यत्वात्तथात्वम् यथोक्तं मीमां० यत्र प्रयोजन-
वशेन क्रमनिर्णयः स अर्थक्रमः । यथा अग्निहोत्रं
जुहोतियवागूंपचतीत्यग्निहोत्नहोमयबागूपाकयोः ।
यवाग्वा वहोमसाधनत्वेन तत्पाकः प्रयोजनवशेन पूर्ब्बमनु-
ष्ठीयते । स चायं पाठक्रमाद्वलवान् । यथापाठं
ह्यनुष्टाने क्रमस्य प्रयोजनबाधेऽदृष्टार्थत्वं स्यात् । नहि
होमानन्तरं क्रियमाणस्य पाकस्य किञ्चिद् दृष्टं
प्रयोजनमस्ति येनार्थक्रमबाधेन पाठक्र मस्तत्रादिद्रियेत” ।

अर्थगत त्रि० अर्थं गतः । १ अर्थनिष्ठे अर्थाश्रये अलङ्का-

रोक्ते २ दोषभेदे पु० अर्थदोषशब्दे विवरणम् ।
गतोऽर्थोऽस्य आहिता० वा परनि० । ३ गतार्थे त्रि० ।

अर्थगौरव न० ६ त० स्वल्पशब्दस्यापि अर्थस्य गौरवम् ।

“भारवेरर्थगौरवम्” उद्भटः ।

अर्थघ्न त्रि० अर्थं हन्ति ताच्छील्यादौ ट स्त्रियां ङीप् ।

अर्थनाशके “व्याधिता वाऽधिवेत्तव्या हिंस्रार्यघ्नी च
सर्वदा” मनुः ।

अर्थचिन्ता स्त्री अर्थानां तन्त्रावापादीनां चिन्ता । राज्याङ्ग

तन्त्रावापादीनां चिन्तने । “मन्त्री स्यादर्थचिन्तायाम-
र्थास्तन्त्रावपादयः” सा० द० । अर्थचिन्तनमप्यत्र न०
“मन्त्री स्वञ्चोभयञ्चापि सखा तस्यार्थचिन्तने” इति ।
सा० द० अन्यमतम् ।

अर्थजात न० अर्थानां जातम् ६ त० । १ अर्थ समूहे । अर्थोजातोऽस्य । २ जातधने त्रि० ।

अर्थज्ञ त्रि० अर्थं जानाति ज्ञा--क । प्रयोजनाभिज्ञे ।

अर्थतम् अव्य० अर्थ + तसिल् । १ अर्थादित्यर्थे २ अर्थानुसारण-

त्यर्थे ३ वस्तुस्वभावादित्यर्थे च । “अर्थतोऽप्यद्वया-
नन्दानतोतद्वैतभानतः” वे० सा० ।

अर्थद त्रि० अर्थान् थनानि ददाति दा--क । १ धददे धन-

दानेम तोषकेऽध्याप्ये २ शिष्यभेदे पु० । “आचार्य्यपुत्र
शुश्रूषुर्ज्ञानदोधार्म्मिकः शुचिः । आप्तः शक्तोऽर्थदः
साधुरध्याप्या दश धर्म्मतः” इति मनुः । ३ कुवेरे पु० ।

अर्थदूषण न० अर्थानां दूषणं नाशनम् । क्रोधजव्यसनमध्ये

अतिशयेनासत्कर्म्मणि विनियोगेन कष्टदायके
धननाशनरूपे व्यसनभेदे । “पैशुन्यं साहसं द्रोहईर्ष्यासूयार्थ
दूषणम् । वाग्दण्डजञ्च पारष्यं क्रोधजोऽपि गणोऽष्टकः
इति “दण्डस्य पातनञ्चैव वाक्पारुष्यार्थ दूषणे ।
क्रोधजेऽपि गणे विद्यात् कष्टमेतत्त्रिकं सदेति च” मनुः ।
“अर्थदूषणञ्च धनानामपहारः देयानामदामञ्चेति”
म० त० रघुनन्दनः ।

अर्थना स्त्री अर्थ--युच् । याचने । “अभ्यर्थना भङ्गभयेन साधुः” कु०

अर्थपति पु० अर्थानां पतिः ६ त० । १ नृपे, । “अर्थ्या-

मर्थपतिर्व्वाचम्” सनैषधस्यार्थपतेः सुतायाम्” “किञ्चि-
द्विहस्यार्थपतिर्बभाषे” । “बलनिसूदनमर्थपतिञ्च तम्” इति
च रघुः । २ कुवेरे च ।

अर्थप्रकृति स्त्री अर्थानां प्रयोजनानां प्रकृतिः कारणम् ।

१ प्रयोजनहेतौ । “वीजं विन्दुः पताका च प्रकरी कार्यमेव
च । अर्थप्रकृतयः पञ्च ज्ञात्वा योज्या यथाविधि”
सा० द० उक्ते नाटकाङ्गे २ कार्य्यंवीजरूपपञ्चके च ।

अर्थप्रयोग पु० अर्थानां धननां प्रयोगः नियोगः ।

ऋणदानादिवृत्तौ १ ऋणदानवाणिज्यादिरूपे धनवृद्ध्य-
र्थके व्यवहारे । अर्थास्तन्द्रावापादयः ६ त० । २ यथायथं
तन्द्रावापादेर्विनियोगे च । “अर्थप्रयोगकुशल” इति
अमात्यलक्षणम् ।

अर्थप्राप्त पु० अर्थतः वाचकशब्दाप्रयोगेऽपि तात्पर्य्यवशतः

प्राप्तः । वाचकशब्दानुच्चारणेऽपि तात्पर्य्यवशात्ज्ञाते
“अर्थप्राप्त एवात्मज्ञानविधेरेव यज्ञोपवीतादिपरित्यागो न
विधातव्यः” वृ० उ० भा० ।

अर्थबन्ध पु० अर्थैः विषयैः शब्दादिभिर्बन्धः । १ जीवस्य शब्दा-

दिभिः श्रोत्रसम्बन्धरूपे बन्धे २ धनकृतबन्धे च ।

अर्थभावना स्त्री अर्थनिष्ठा भावना भावयितुर्व्यापार

उत्पादना । भट्टमतोक्तायामर्थनिष्ठायां यागसाधनिकायां
स्वर्गाद्युत्पादनायां स्वर्गादीष्टं यागेन साधयेदित्येवं-
रूपायाम् । मावना च द्विधा शाब्दी आर्थी च विवरणं
भावनाशब्दे ।

अर्थमर्य्यादा स्त्री अर्थस्य कारणस्य मर्य्यादा इतरसहकारेण

सामग्रीसमवधानम् । सामग्रीसमवधाने, सामग्रीसमवघाने हि
कार्य्योत्पत्तिरर्थप्राप्तेति तदुत्पादस्यार्थमर्य्यादाधीनत्वम् ।
पृष्ठ ०३६९

अर्थमात्र न० अर्थ एव मयूर० अवधारणाद्यर्थमात्रशब्दे-

ननित्यस० । १ अवधारितेऽर्थे । “भोजनाच्छादनाभ्यधिकं
स्पन्पमप्यर्थमात्रं न सम्पद्यते” इति वृ० भा० । अल्पार्थमात्रा
शब्देन ६ त० । २ अल्पधनांशे स्त्री वृहत्त्वार्थे च मात्रा-
शब्देन । ६ त० । ३ धनवाहुल्ये । कथं मयास्येयमर्थमात्राह-
र्त्तव्या” महती धनमात्रेत्यर्थः ।

अर्थवत् त्रि० अर्थोऽस्त्यस्य असन्निहतः मतुप् मस्यवः । १ अर्थ-

युक्ते २ सार्थके “अर्थवदधातुरप्रत्ययः प्रातिपदिकम्” पा० ।
३ प्रयोजनयुक्ते ३ फलयुक्ते च “अपसव्य उपेतश्चे दाहिता-
ग्न्यावृतार्थवत् । या० स्मृ० “विण्मूत्रोत्सर्गशुड्यार्थं मृदा-
द्यादेयमर्थवत्” मनुः ४ असन्नितधनवति त्रि० । सन्निहिते
तु इनि अर्थीत्येव । स च व्यवहारे वादिनि
रूढः “ततोऽर्थी लेखयेत् सद्यः प्रतिज्ञातार्थसाधनम्”
या० स्मृ० । स्त्रियामुभयत्र ङीप् । ५ पुरुषे पु० राजनि० ।
अर्थमर्हति अर्थेन तुल्यंक्रिया, अर्थे इव वा वति । ६ अर्थार्हे
७ अर्थतुल्यक्रियायाम् ८ अर्थसदृशे आश्रये च अव्य० ।

अर्थवाद पु० अर्थस्य लक्षणया स्तुत्यर्थस्य, निन्दार्थस्य वा वादः

बद--करणे घञ् । १ प्रशंसानीयगुणवाचके, २ निन्द्रनीयदोष-
वाचके च शब्दविशेषे । भावे घञि । ३ तत्कथने ।
अभिधया गौण्या वा वृत्त्या भूतमर्थं वदन् स्वाध्यायविध्यापादित
प्रयोजनवत्त्वलाभाय विधिमाकाङ्क्षनर्थवादः” अर्थवादेन हि
र्क्कचिद्विधिशक्तिरवसीदन्ती विध्यर्थे शीघ्रं प्रवर्त्तयितुमुत्तभ्य-
ते । सच चतुर्विधः “स्तुतिर्निन्दा परकृतिः पुराकल्प इत्यर्थ-
वादः” गी० सूत्रोक्तेः । तत्र स्तुतिः साक्षाद्विध्यर्थस्य प्रशंसा-
र्थकं वाक्यं यथा “सर्व्वस्य जिता वै देवाः सर्वमजयन् सर्वस्य
व्याप्त्यै सर्वस्य जित्यै सर्वमेवैतेनाप्नोति सर्वं जयतीत्यादि” ।
अनिष्टसाधनताद्वारा विध्यर्थ्यवर्त्तकं वाक्यम् निन्दा । यथा
“एष वाव प्रथमोयज्ञानां यज्ज्योतिष्टोमः य एतेनानिष्ट्वा
अन्येन यजते स गर्त्ते पततोत्यादि” । पुरुषविशेषनिष्ठतया
कयनं परकृतिः परक्रिया, यथा “वपामेवाग्रेऽभिधारयन्ति
अथ पृषदाज्यं तदुह चरकाध्यर्यवः पृषदाज्यमेवाग्रेऽभिघार-
यन्त्यग्नेःप्राणाः पृषदाज्यमित्यभिदधतीत्यादि” ऐहिह्यमात्र-
चरिततया कीर्त्तनं पुराकल्पः । एवमन्येऽपि अर्थवादा ब्राह्म-
णरूपाः सामसंहिताभाष्ये माधवाचार्य्येंण दर्शिताः यथा
“हेतुर्निर्वचनं निन्दा प्रशंसा संशयो विधिः । परकृतिः
षुराकल्पोयावधारणकल्पना” इति “तेन ह्यन्नं क्रियत” इति
हेतुः “एतद्दध्नोदधित्वमिति” निर्वचनम् । “अमेध्या बै
माषा” इति निन्दा “वायुर्वैक्षेपिष्ठेति” प्रशंसा” “तद्क्यचि-
कित्सन् जुहवानीमाहोषामिति” संशयः “यजमानेन सम्मि-
ता औदुम्बरी भवतीति” विधिः “माषानेव मह्यं पचते” इति
परकृतिः “पुरा ब्राह्मणा अभैषुः” इति पुराकल्पः । “याव-
तोऽंशान् प्रतिगृह्लीयात् तावतो वारुणांश्चतुष्कपालान्निर्वपे
दितिं विशेषावघारणकल्पनेत्युदाहृतं च तत्रैव । लौगा-
क्षिणा तु त्रैविध्यमुक्तम् “अर्थवादश्च त्रिविधः गुणवादोऽनु-
वादोभूतार्थवादश्चेति तदुक्तम् ॥ “गुणवादीविरोधे स्यादनु-
वादोऽवधारिते । भूतार्थवादस्तद्धानादर्थवादस्त्रिधा मतः” ॥
गुणवादश्च “यथा सिंहो माणवक” इत्यादौ माणवके
सिंहाभेदस्य विरोधेन तद्गतदशाभेदोवोध्यते तेन समर्थ-
त्वादिरूपं तद्वृत्तिगुणमनुवदति प्रतिपादयतीति गुणवादः
अन्ये तु “यजमानः स्रस्तर” इत्यादौ प्रत्यक्षादिभिर-
वघारितेऽर्थे तमेवार्थमनुवदतीत्यनुवादः यथा “वह्नि-
र्हिमस्य भेषजं, “भूमिरावपनं महत् सूर्य्यस्तापकर”
इत्याहुः । तद्धानादेतदुभयार्थकत्वाभावात् तथा चैतदुभय-
भिन्नं भूतं सिद्धार्थं वदतीति भूतार्थवादः इति । अयञ्चानेक-
विघः क्वचिदुक्तः, स्तुत्यर्थ वादः फलार्थवादः सिद्धार्थवादः
निन्दार्थ वादः परकृतिः पुराकल्पः मन्त्रश्चेति” । तत्र स्तु-
त्यर्थ वादो यथा “वायुर्वैक्षेपिष्ठा देवता” इत्यादि ॥ फलार्थ यादो
यथा “तरति गृत्युं तरति ब्रह्महत्यां योऽश्वमेधेन यजेते-
त्यादिं । “प्रतितिष्ठन्ति ह वै यएता रात्रीरुपयन्तोत्यादि” च
यद्यप्येतस्य परकृतावेव पर्य्यसावनं तथापि फलस्य विशेष्यतयाऽ
नभिधानात्ताद्रूप्येण पृथगुपन्यासः ॥ सिद्धार्थवादो यथा ।
“यन्न दुःखेन संभिन्नं न च ग्रस्तमनन्तरम् ॥ अभिलाषोप-
नीतं यत् तत् सुखं स्वःपदास्पदमित्यादि” ॥ निन्दार्थवादो
यथा “अन्धन्तमस्ते प्रविशन्तिये के चात्महनोजना” इत्यादि ॥
परकृतिः परकृत्यभिधानं परक्रियोक्तिः । एवञ्च लौगाक्षि-
भास्करोक्तस्य” “विरोधेनानुवादः स्यादित्यादि कारिकोक्तस्य
त्रैविध्यस्य मध्ये स्तुत्यर्थवादस्यैवावान्तरभेदेन तस्य सप्तविध-
त्वमिति भेदः । ३ ग्रन्थतात्पर्य्यावधारणार्थे लिङ्गषट्का-
न्तर्गते लिङ्गभेदे च । “उपक्रमोपसंहारावभ्यासोऽपूर्ब्बता
फलम् । अर्थवादोपपत्ती च हेतुस्तात्पर्य्यनिर्ण्णये इति
वे० सा० यथा “उत तमादेशमप्राक्षो” येनाश्रुतं श्रुतम् । इत्या-
दिनाऽद्वितीयवस्तुनः प्रशंसनम्” छा० उ० भा० उक्तम् ।

अर्थविज्ञान न० ६ त० शुश्रूषाद्यष्टविधायुक्तधीगुणान्तर्गते

गुणभेदे हे० ।

अर्थविद् त्रि० अर्थं कार्य्यं वेत्ति विट--क्विप् । कार्य्याभिज्ञे

“विवक्षितामर्थविदस्तत्क्षणं प्रतिसंहृताम्” माघः ।
पृष्ठ ०३७०

अर्थविप्रकर्ष पु० अर्थस्य अर्थबोधस्य विप्रकर्षः बोधनस्य

विलम्बेनोत्पादनम् । पूर्व्वपूर्व्वमपेक्ष्य उत्तरोत्तरस्य
विलम्बेनार्थबोधने “श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां
समवाये पारदौर्बल्यमर्थविप्रकर्षात् “जै० सू० । तयाहि
अनपेक्षरवरूपायाः द्वितीयादिश्रुतेः अर्थप्रकाशनसामर्थ्य-
रूपलिङ्गापेक्षया शीघ्रार्थबोधकत्वम् इति तस्याः सर्वतः प्राब
ल्यम् एवं लिङ्कस्य वाक्याद्यपेक्षया शीर्घार्थोपस्थापकतया
बलवत्त्वम् । विवृतिः बलाबलाधिकरणशब्दे ।

अर्थव्ययज्ञ त्रि० अर्थस्य धनस्य व्ययं तत्प्रकारं जानाति

ज्ञा--क । किं धनं, कथं, कुत्र, कियत्, कस्मै वा व्ययि-
तव्यमिति विशेषाभिज्ञे ।

अर्थव्यापाश्रय पु० अर्थस्य प्रयोजनस्य व्यपाश्रयः । १ प्रयो-

जनसम्बन्धे २ अमिधेयाश्रये । ब० । ३ सप्रयोजने त्रि० ।

अर्थशास्त्र न० अर्थस्य भूमिधनादेः प्रापकं शास्त्रं शाक० त० ।

१ नीतिशास्त्रे, अभिचारादिकर्म्मप्रतिपादके २ शास्त्रे च ।
“अर्थशास्त्रात्तु बलवत् धर्म्मशास्त्रमिति स्थितिः” या० स्मृ०
विवृतमेतन्मिताक्षरायाम् “यद्यपि समानकर्तृकतया
अर्थशास्त्रधर्म्म शास्त्रयोः स्वरूपगतो विशेषोनास्ति
तथापि प्रमेयस्य धर्म्मस्य प्राष्टान्यादर्थस्य चाप्राधान्याड्वर्म-
शास्त्रं बलवदित्यभिप्रायः धर्मस्य च प्राधान्यं शास्त्रादौ
दर्शितन्तस्माद्धर्मशास्त्रार्थशास्त्रयोर्विरोधे अर्थशास्त्रस्य
वाध एव । “गुरुर्वा वालवृद्धौ वा ब्राह्मणं वा
बहुश्रुतम् । आततायिनमायान्तं हन्यादेवाविचारयन् ।
नाततायिवधे दोषोहन्तुर्भवति कश्चन । प्रच्छन्नं वा
प्रकाशं वा मन्युस्तं मन्युमृच्छति” तथा “आततायिन
मायान्तमपि वेदान्तगं रणे । जिघांसन्तञ्जिघांसीयान्न
तेन व्रक्ष्महा भवेत्” इत्याद्यर्थशास्त्रम् । “इयं विशुद्धिरुदिता
प्रमाप्याकामतोद्विजम् सकामतो व्रक्ष्मबधे निष्कृतिर्न
विधीयते” इत्यादि धर्म्मशास्त्रन्तयोर्विरोघे धर्म्मशास्त्रं
बलवदिति युक्त” मित्यन्यमतमुक्त्वा । “हिरण्यभूमिलाभेभ्योमि-
त्रलब्धिर्वरा वतः । अतो यतेततत् प्राप्तौ” इत्यर्थ
शास्त्रम् । “धर्म्मशास्त्रानुसारेण क्रोधलोभविवर्जितः”
इति धर्म्मशास्त्रम् । तयोः क्वचिद्विषये विरोधो भवति
यथा चतुष्पाद्व्यवहारे प्रवर्तमाने एकस्य जयेऽवधार्य्य-
माणे धर्म्मानुमरणम् न मित्रलाभः । अन्यस्य तु जये
मित्रलब्धिर्नधर्म्म--शास्त्रमनुसृतम्भवति तत्रार्थशास्त्रा-
द्धर्मशास्त्रं बलवत् अतएव “धर्मार्थसन्निपाते अर्थग्राहिण
एतदेवेति” प्रायश्चित्तस्य गुरुत्वन्दर्शितमापस्तवेन” इति ।

अर्थशौच अर्थानां तदुपायानां शौचम् तदर्जने शुद्धिः ।

अन्यायेन धनोपार्ज्जनपरिहारेण अर्थार्ज्जनशुद्धौ
“सर्व्वेषामेव शौचानामर्थशौचं परं स्मृतमिति” मनुः ।

अर्थसंग्रह पु० ६ त० । धनसञ्चये ।

अर्थसंस्थान न० अर्थानां धनानां संस्थानं स्थितिर्यस्मात्

सम् + स्था--अपादाने ल्युट् वा । १ धनोपार्जनसाधन
प्रतिग्रहादौ । २ भवे ल्युट् ६ त० । १ अर्थस्थितौ ।

अर्थसञ्चय पु० अर्थानां धनानां सञ्चयः संग्रहः

समुदायश्च । १ धनसंग्रहे । “कुदेशमासाद्य कुतोऽर्थ-
सञ्चयः” इति नीति० । २ धनसमूहे च ।

अर्थसमाज पु० अर्थानां कारणानां वा समाजः समूहः ।

१ बहुविधार्थसमूहे २ कारणसमूहे च । “अर्थसमाजग्रस्तत्वात्
नीलघटत्वादिकम् न कस्यचित् कार्य्यतावच्छेदकमिति”
गदा० । तथाहि घटत्वं दण्डादेः कार्य्यतावच्छेदकम् ।
नीलत्वन्तु नीलकपालस्येति भिन्नभिन्नकारणस्यैव तत्तत्कार्य्य-
तावच्छेदकम् तथाच नीलघटत्वं न कस्याप्येकस्य कारणस्य
कार्य्यतावच्छेदकम् नीलघटत्वस्य नाना कारणस्यैव कार्य्य-
तावच्छेदकत्वात् एवञ्च तस्य कारणसमाजग्रस्तत्वात् न
कस्यापि कार्य्यतावच्छेदकत्वम् । एवमन्यदप्युदाहार्य्यम् ।
३ धनसमूहे च ।

अर्थसमाहार पु० ६ त० । १ धनसंग्रहे सम्यगुपायेनार्ज्जने

ते च उपायाः “सप्त वित्ताशमा धर्म्म्या दायोलाभः
क्रयोजयः । विभागः संप्रयोगश्च सत्प्रतिग्रहएव चेति”
स्मृत्युक्ताः साधारणाः “ब्राह्मणस्याधिकं लब्धं क्षत्रियस्य
विजितं निर्विष्टं वैश्यशूद्रयोः गौ० उक्ताः “याजना-
ध्यापनप्रतिग्रहैर्ब्राह्मणोधनमर्ज्जयेदितिश्रुत्युक्ताश्च ब्राह्मणादेः
यथायथम् असाधारणाः ज्ञेयाः । २ धनसमूहे च ।

अर्थसम्बन्ध पु० अर्थस्य धनस्य वाच्याद्यर्थस्य वा सम्बन्धः ।

१ धनसम्बन्धे वाच्याद्यर्थसम्बन्धे । २ धनसम्बन्धप्रयोजकाश्च
अपतितपुत्रत्वादयः शास्त्रीयाः क्रयादयश्च लौकिकाः ।

अर्थसिद्ध अर्थात् अर्थान्वयविशेषात् सिद्धः । शब्दादिनाऽबोध-

नेऽपि अन्वयवललभ्ये पदार्थे” यथा घटमानयेति वाक्ये
घटस्य छिद्रेतरत्वमन्वयबललभ्यं न च तत्र शब्दशक्त्याद्य-
पेक्षा । तथा च शाब्दबोधे योग्यताज्ञानस्य हेतुतया छिद्रेत
रघटएव जलाहरणप्रयोजकत्वावधारणेन तत्रैव प्रवृत्तिर्ने
तरघटादौ एवमन्यत्रापि । अर्थः प्रयोजनं धनं वा सिद्धोऽस्य
परनि० । २ सिद्धार्थे सिद्धप्रयोजने ३ स्वतः सिद्धधने च त्रि० ।
पृष्ठ ०३७१

अर्थसिद्धि स्त्री अर्थतः योग्यान्वयवशात् सिद्धिः । १ अपदा

र्थस्य तात्पर्य्यविधया सिद्धौ । ६ त० । २ धनसिद्ध्वौ ।

अर्थहर त्रि० अर्थान् धनानि हरति ताच्छील्यादौ ट स्त्रियां

ङीप् । परकीयघनहरणशीले चौरादौ ।

अर्थहीन त्रि० अर्थेन धनेन हीनः । १ धनहीने दरिद्रे ।

२ वाच्यार्थहीने च ।

अर्थागम पु० अर्थस्य आगमः । १ आये । अर्थागमोनित्य-

मरोगिता च” नीति० । अर्थ आगमम्यतेऽनेन करणे घञ् ।
२ धनार्जनोपाये क्रयादौ । ३ वाच्याद्यर्थापतने च “दण्डा
पूपिकयान्यार्थागमोऽर्थापत्तिरिष्यते” सा० द० ।

अर्थान्तर न० अन्योऽर्थः अर्थान्तरं मयूर० त० । १ अन्यार्थे,

“बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरमिति” सांख्यम् । न्याय-
मते उद्देश्यसिद्ध्यर्थं प्रयुक्ते शब्दसामर्य्यादनुद्देश्यसिद्ध्य-
नुकूले २ वाक्ये । तस्य प्रतिवादिनोद्भावने वादिनिग्रहः ।
“प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासंन्या-
सोहेत्वन्तरमर्थात्वरं फलमित्यादि” गौ० सूत्रेण निग्रह-
स्थानान्यक्त्वा “प्रकृतादर्थादसम्बन्धार्थोऽर्थान्तरमिति”
लक्षितम् । प्रकृतात् प्रकृतोपयुक्तात् ल्यल्लोपे पञ्चमी तेन
प्रकृतोपयुक्तमर्थमुपेक्ष्यासम्बन्धार्थाभिधानमर्थान्तरं प्रकृता-
नाकाङ्क्षिताभिधानमिति फलितार्थः यथा शब्दोऽनित्यः
कृतकत्वात् इत्युक्त्वा शब्दोगुणः स चाकाशस्येत्याद्युक्तिः”
न्या० वृत्तिः । शब्दस्यानित्यत्वसाधने प्रवृत्तेतस्य गुणत्वस्याकाश-
वृत्तित्वस्यचसाधने प्रकृतोपयोगित्वं नास्तीति तस्य तथात्वम् ।
विवरणं निग्रहस्थानशब्दे । अर्थशब्दस्य कारणपरत्वे
३ कारणान्तरे “अर्थोऽयमर्थान्तरलभ्य एव” कुमा० “अर्था-
न्तरेण कारणान्तरेण लभ्य” इति मल्लि० ।

अर्थान्तरन्यास पु० अर्थान्तरं न्यास्यतेऽत्र । अर्थालङ्कारभेदे

“सामन्यं वा विशेषेण विशेषस्तेन वा यदि । कार्य्यञ्च
कारणेनेदं कार्य्येण च समर्थ्यते ॥ साधर्म्म्येणेतरेणार्थान्त-
रन्यासोऽष्टधा ततः” । क्रमेणोदाहरणानि । “वृहत्स-
हायःकार्य्यान्तं क्षोदीयानपि गच्छति । सम्भूयाम्भोधिमभ्येति
महानद्या नगापगा” ॥ अत्र द्वितीयार्द्धगतः सामान्योऽर्थः
सोपपत्तिकः क्रियते । “यावदर्थपदां वाचमेवमाधाय
माधवः । विरराम महीयांसः प्रकृत्या मितभाषिणः”
अत्र सामान्येन विशेषसमर्थनम् । “पृथ्वि! स्थिरा भव
भुजङ्गम! धारयैनां त्वं कूर्म्मराज! तदिदं द्वितीयं
दधीथाः । दिक्कुञ्जराः! कुरुत तत्त्रितये दिधीर्षामार्य्यः
करोति हरकार्मुकमाततज्यम्” अत्राततज्याकरणं पृथ्वी-
स्थैर्य्यादेः कार्य्यस्य समर्थकम् । “सहसा विदधात न
क्रियामविवेकः परमापदां पदम् । विवृणते हि विमृष्य-
कारिणं गुणलुब्धाः स्वयमेव सम्पदः” इत्यादौ सम्पद्वरणं
कार्य्यं सहसा विधानाभावस्य विमृष्यकारित्वरूपस्य
कारणस्य समर्थकम् । एतानि साधर्म्म्ये उदाहरणानि
वैधर्म्म्ये यथा “इत्थमाराध्यमानोऽपि क्लिश्नाति भुवन
त्रयम् । शाम्येत् प्रत्यपकारेण नोपकारेण दुर्ज्जनः” ॥
अत्र समान्यं विशेषस्य समर्थकम् । “सहसा
विदधीतेति” अत्र सहसा विधानाभावस्यापत्पदत्वं विरुद्धं
कार्य्यं समर्थकम्” सा० द० ।

अर्थापत्ति स्त्री अर्थस्य अनुक्तार्थस्य आपत्तिः सिद्धिः । शब्दे-

नानुपस्थापितार्थस्यसिद्धिरूपे मीमांसकोक्ते १ प्रमितिभेदे ।
यथा पीनोदेवदत्तोदिवा न भुङ्ङ्क्ते इत्यादौ पीनत्वविशिष्टस्य
देवदत्तस्य रात्रिभोजित्वरूपार्थस्य शब्दानुक्तस्यापि सिद्धिः ।
अर्थस्यापत्तिर्यतः । २ तत्साधने च यथोक्तं वे० प० ।
“तत्रोपपाद्यज्ञानेनोपपादककल्पनमर्थापत्तिः । तत्रोपपाद्य-
ज्ञानं करणम् उपपादकज्ञानं फलम् । येन विना यदनु-
पपन्नं तत्तत्रोपपाद्यम् यस्याभावे यस्यानुपपत्तिः तत्त-
त्रोपपादकं यथा रात्रिभोजनेन विना दिवाअभुञ्जानस्य
पीनत्वमनुपपन्नमिति तादृशं पीनत्वमुपपाद्यं यथा वा
रात्रिभोजनस्याभावे तादृशपीनत्वस्यानुपपत्तिरिति रात्रि-
भोजनमुपपादकं रात्रिभोजनकल्पनारूपायां प्रमितौ, अर्थ
स्यापत्तिः कल्पनेति षष्ठीसमासेनार्थापत्तिशब्दोवत्तंते ।
कल्पनाकरणेपीनत्वादिज्ञाने तु अर्थ स्यापत्तिः कल्पना
यस्मादिति वहुब्रीहिसमासेन वर्त्तते इति फलकरणयो
रुभयोस्तत्प्रयोगः । नचेयमर्थात्तिरनुमानेऽन्तर्भवितुमर्हति
अन्वयव्याप्त्यज्ञानेनान्वयिष्वनन्तर्भावात् । व्यतिरेकिणश्चानु-
मापकत्वं प्रागेव निरस्तम् अतएवार्थापत्तिस्थलेऽनुमीनोमीति
नानुव्यवसायः किन्त्वनेनेदं कल्पयामीति” । “अद्वैतागम-
नासीरे साधुसा धुन्वती परान् । सेवामेवार्ज्जयत्यर्था-
पत्तिपत्तिपरम्परा” ख० खा० । सांख्यादिभिश्चनेयं प्रमाणा-
न्तरमपि तु अनुमानेऽन्तर्भवतीत्युक्तम् यथा “एवमर्थापत्तिरपि
न प्रमाणान्तरं तथाहि जीवतश्चैत्रस्य गृहाभावदर्शनेन
बहिर्भावस्यादृष्टस्य कल्पनमर्थापत्तिरभिमता वृद्धानां साप्य-
नुमानमेव । यदा खलु व्यापकः सन्नेकत्र नास्ति तदान्य-
त्रास्ति, यदा व्यापकएकत्रास्ति तदान्यत्र नास्तीति सुकरः
स्वशरीरे एव व्याप्तिग्रहः । तथाच सति गृहाभावदर्शनेन
लिङ्गेन बहिर्भावदर्शनमनुमानमेव । न च चैत्रस्य क्वचि-
पृष्ठ ०३७२
त्सत्त्वेन गृहाभावः शक्योऽपह्नोतुं येनासिद्धोगृहाभावो
बहिर्भावे न हेतुः स्यात् । न च गृहाभावेन वा सत्त्वम-
पह्नूयते येन सत्त्वमेवानुपपद्यमानमात्मनः सत्तां बहिरव-
स्थापयेत् तथाहि चैत्रस्य गृहासत्त्वेन सत्त्वमात्रं
वा विरुध्यते, गृहसत्त्वं वा? न तावद्यत्र क्वचन
सत्त्वस्यास्ति विरोधो गृहासत्त्वेन, भिन्नविषयत्वात् ।
देशसामान्येन गृहविशेषाक्षेपोऽपि पाक्षिक इति समान-
विषयकतया विरोघ इति चेन्न प्रमाणनिश्चितस्य गृहेऽ-
सत्त्वस्य पाक्षिकतया सांशयिकेन गृहसत्त्वेन प्रतिक्षेपा-
तोगात् । नापि प्रमाणनिश्चितोगृहाभावः पाक्षिकमस्य
गृहसत्त्वं प्रतिक्षिपन् सत्त्वमात्रमपि प्रतिक्षेप्तुं सांश-
यिकत्वं वापनेतूमर्हतीति युक्तं गृहावच्छिन्ने न चैत्राभावेन
गृहसत्त्वं विरुद्वत्वात् प्रतिक्षिप्यते न तु सत्त्वमात्रं तस्य
तत्रौदासीन्यात् । तस्मात् गृहाभावेन लिङ्गेन
मती बहिर्भावोऽनुमीवत इति युक्तम् । एतेन विरु-
द्धयोः प्रमाणयोर्विषयव्यवस्थया अविरोधापादनमर्थापत्ते-
र्विषयैति परास्तम् अवच्छिन्नानवच्छिन्नयोर्विरोधाभावात् ।
उदाहरणान्तराणि चार्थापत्ते रेवमेवानुमानेऽन्तर्भावनीया-
नीति” सां कौ० । व्याख्यातञ्चैतदस्माभिस्तट्टीकायां यथा
“व्यापकस्य देशविशेषेऽस्थितावपि देशान्तरे सत्त्वमवगम्यते
इत्याह व्यापकः सन्नित्यादि । सन् सत्त्वाश्रयः । व्यापकः
सत्त्वव्यापकः, तथा च । सन् चैत्रो वहिरस्ति गृहेऽस्थि-
तत्वात्स्वएरीरवदित्यनुमानादेवार्थापत्ति--विषय--सिद्धिरिति
भावः । सत्त्वाश्रयस्य सतः पक्षीकरणात् सत्त्वासत्त्व-
योश्व विरोधितया सत्त्वप्रतिरुद्धः कथं गृहेऽसत्त्वरूपो
हितुस्तिष्ठेत् तथाच स्वरूपासिद्धहेतुना कथं बहिःसत्त्व-
रूपसाध्यसिद्धिरिति आशङ्क्य समाधत्ते न च चैत्रस्ये-
त्यादिना । गृहाभावः गृहासत्त्वम् बहिर्भावः बहिःसत्त्वम् ।
ननु गृहेऽसत्त्ववतः कथं सत्त्वाश्रयता सत्त्वासत्त्व-
योर्विरोधित्वात्तथा चाश्नयासिद्धिरित्याशङ्क्य समाधत्ते न
च मृहाभावेनैति गृहासत्त्वेमेत्यर्थः । गृहासत्त्वस्य
गृहसत्त्वं प्रत्येव विरोधिता न तु सत्त्वसामान्यं प्रतीति समर्थ-
यितुं विकल्पयति तथाहि चैत्रस्थेति । ननु सत्त्वमाश्रय-
मामान्यमाक्षिपत् देशमामान्यमेवाक्षिपति देशसामान्यमाक्षि-
पता च तेन तन्मध्यवर्त्तिनोगृहरूपदेशस्यापि समाक्षेपात्
मृहस्यापि पाक्षिकसत्त्वलाभेन तेन सह गृहासत्त्वस्य विरो-
घित्वात् पुनः स्वरूपासिद्धिरित्याशङ्कते देशसामान्येनेति
आक्षिप्यमाणेनेत्यादिस्तघाच सामान्यदेशाक्षेपेणैवविशेषदेश-
स्याप्याक्षेपैति भावः । परिहरिति नेति । पाक्षिकतया
पक्षे प्राप्ततया । सांशयिकेन संशयमापन्नेन । “सामान्यविषयं
सत्तावाक्यं “गृहंविषयं न वेति” संशयमात्रलब्धेन-
गृहसत्त्वेन प्रतिक्षेपायोगात् तस्थ दुर्बलतया प्रतिबन्धक-
त्वानौचित्यात् । प्रमाणनिश्चितस्य प्रात्यक्षिकस्य गृहास-
त्त्वस्य गृहसत्त्वं प्रत्येव प्रतिबन्धकत्वं न तु सत्त्वसामान्यं
प्रतीति व्यवस्थापयन्नाह नापि प्रमाणेति । अस्य चैत्रस्य ।
प्रतिक्षिपन् प्रतिरुन्घन् । प्रतिक्षेप्तुं प्रतिरोद्धुमर्हतीत्य-
ग्रेणान्वयः । सांशयिकत्वं संशयमापन्नत्वम् । एतस्य
च सत्त्वमात्रस्येत्यादिः । अपनेतुमपवारयितुम् । विषय-
विशेषे एव विरोधित्वमित्युपसंहरति युक्तमित्यादिना
एतावता प्रबन्धेन व्यवस्थापिवमर्थं निगमयन्नाह तस्मा-
दिति । गृहासत्त्वप्रमाणं प्रत्यक्षं, सत्त्वसामान्यप्रमाणमनु-
मानमेतयोर्विषयविशेषे व्यवस्थापनेनाविरोधापादनम्
समावेशनमित्येवार्थापत्तेः फलं तत् निरस्यति एतेनेति । वक्ष्य-
माणहेतुनेत्यर्थः परास्तमित्यग्रेणास्यान्वयः । विरोधा-
भावे हेतुं वदन् निरसनहेतुं द्योतयति अवच्छिन्नेत्यादि
गृहावच्छिन्नसत्त्वं प्रत्यक्षविषयः, गृहानवच्छिन्नसत्त्वमनु-
मानविषय इत्येकविषयत्वाभावेन--विरोधाभावात् विरो-
धस्यैब तत्रासद्भावात् अर्थापत्त्या किं समाधास्यते इति
भावः” । ३ अर्थालङ्कारभेदे “दण्डापूपिकयान्यार्थागमोऽर्था-
पत्तिरिष्यते” सा० द० । “मूषिकेण दण्डो भक्षित”
इत्यनेन तत्सहचरितमपूपभक्षणमर्थादायातं भवति इत्येष
न्यायो दण्डापूपिका । अत्र च क्वचित् प्राकरणिका-
दर्थादप्राकरणिकस्यार्थस्यापतनं क्वचिदप्राकरणिकार्थात्
प्राकरणिकार्थस्येति द्वौ भेदौ । क्रमेणोदाहरणे ।
“हारोऽयं हरिणाक्षीणां लुठति स्तनमण्डले । मुक्तानामप्यव-
स्थेयं के वयं स्मरकिङ्कराः” । विललाप सवाष्पगद्गदं सहजा-
मप्यवहाय धीरताम् । अभितप्तमयोऽपि मार्द्दवं भजते कैव
कथा शरीरिणाम्” ॥ “यदकीर्त्तितमर्थादापद्यते सार्था-
पत्तिः” इति सुश्रुतोक्ते ४ तन्त्रयुक्तिभेदे च ।

अर्थिक पु० अर्थयते इत्यर्थी याचकः कुत्सितार्थी कन् ।

निद्रागतनृपादेर्जागरणार्थं नियुक्ते स्तुतिपाठकादौ ।

अर्थित त्रि० अर्थ--गौणे कर्म्मणि क्त । १ याचिते यस्य सकाशात्

याच्यते स्म तस्मिन् । “अवकाशं किलोदन्वान् रामाया-
भ्यर्थितोददौ” रघुः । तस्याविवक्षायां मुख्ये कर्म्मणि क्त ।
याचनाकर्म्मणि २ पदार्थे यद्वस्तु कस्यचित् समीपे याच्यतेस्म
तस्मिन् । अर्थिनो याचकस्य भावः तल् । ३ याच्ञायां स्त्री ।
पृष्ठ ०३७३
“न व्यहन्यत कदाचिदर्थिता” रघुः । याच्ञायास्तु
व्याघातः याच्ञाफलालाभ एव भवति । “यद्यर्थि ता तु
दारैःस्यात् क्लीवादीनां कथञ्चन” मनुः । ४ कामनायाञ्च ।

अर्थिन् त्रि० अर्थ + अस्त्यर्थे इनि । १ याचके, २ सेवके,

असन्निहितधने ३ धनस्वामिनि । “नैक्षतार्थिनमवज्ञया मुहुः”
“शात्रवादिव पराङ्मुखोऽर्थिन” इति च माघः “यथा-
कामार्च्चितार्थिनाम्” “ततः समानीय स मानितार्थी”
इति च रघुः । ४ कार्य्यार्थिनि “ततोऽर्थी लेखयेत् सद्यः
प्रतिज्ञातार्थसाधनम्” या० स्मृ० । “स धर्म्मस्थसखः शश्वद्
अर्थिप्रत्यर्थिनां स्वयम्” रघुः स्त्रियां ङीप् । “कान्तार्थिनी
तु या याति” इत्यमरः सन्निहितधने तु अर्थवानित्येव ।

अर्थिसात् अव्य० अर्थिभ्योदेयमधीनं करोति अर्थिन् + साति ।

याचकाधीनतया कृते देये । “विभज्य मेरुर्न यदर्थिसात्-
कृतः” नैषधम् । कृभ्वस्त्यादियोगएवास्य साधुता ।

अर्थे अव्य०--के । साक्षा० । अर्येकृत्य अर्थेकृत्वा इत्यर्थे

असार्थकं सार्थकं साम्पाद्येत्यर्थेगणरत्ने तु “विकल्पने
प्रभृतीनामेदन्तत्वं लवणादीनाञ्च मान्तत्वं गणपाठसाम-
र्थ्यादेव यद्वा सप्तमीप्रतिरूपकम् द्वितीया प्रतिरूपकञ्च
निपातनात्” इत्युक्तम् । तथाच २ अर्थशब्दार्थे च ।

अर्थोपमा स्त्री अर्थेन नतु शब्देन उक्ता उपमा । लुप्तोमा

भेदे । विवरणमुपमाशब्दे ।

अर्थोपक्षेपक पु० अर्थान् प्रयोजनानि उपक्षिपति उप + क्षिप-

ण्वुल् । नाटकाङ्गभेदे विष्कम्भकादिपञ्चके “अर्थोपक्षेपकाः
पञ्च विष्कम्भकप्रवेशकौ । चूलिकाङ्कावतारोऽथ स्यादङ्क-
मुखमित्यपि” सा० द० ।

अर्थ्य त्रि० अर्थात् प्रयोजनादनपेतः यत् । सार्थके सप्रयोजने

“वागीशं वाग्भिरर्थ्याभिः प्रणिपत्योपतस्थिरे” कुमा० ।
“अर्थ्यामर्थपतिर्वाचम्” रघुः । “स्तुत्यंस्तुतिभिरर्थ्याभिः”
रघुः । २ पण्डिते पु० । अर्थस्य भावः यत् । ३ वस्तु-
स्वभावे । अर्थादागतः । ४ न्याय्ये । अर्थ--कर्म्मणि यत् ।
५ याचनाकर्म्मणि अर्थनीये । अर्थाय साधुः यत् । ६ अर्थ-
साधने त्रि० ।

अर्द्द पीड़ने भ्वादि० उभ० सक० सेट् । अर्द्दति ते आर्द्दीत्

आर्द्दिष्ट । “रक्षःसहस्राणि चतुर्द्दशार्दीत्” रघुः । आनर्द्द
अर्द्दकः अर्द्दी अर्द्दित्वा अर्द्दितः । अति--अतिपीडने ।
अत्यर्द्दितः अभि + आभिमुखेन पीडने । “अभेश्वाविदूर्य्ये”
पा० उक्तेः सामीप्ये च अभ्यर्ण्णः समीपवर्त्ती “कालोभ्यर्ण्ण
जलागमः” सा० द० । अन्यत्र अभ्यद्दितः । निस् + निर्
+ वा--भृशपीडने । “सोऽस्यायं पराङेव प्राणो निरर्दति”
शत० व्रा० । वि + विशेषेण पीड़ने “तद् या ऊर्म्मी व्यर्द्दतः
पशौ वा पुरुषे वा” शत० व्रा० । सम् + समर्ण्णः नि +
न्यर्ण्णः वि + व्यर्ण्णः ।

अर्द्द याचने, गतौ, सक० पीड़ायां अक० भ्वादि० पर० सेट् ।

अर्द्दति आर्द्दीत् । याचने “शरद्घनं नार्द्दति
चातकोऽपीति” रघुः ।

अर्द्द बधे चुरा० उभय० सक० सेट् । अर्द्दयति ते आर्द्दि-

दत् त । “येनार्द्दिदत् दैत्यपुरं पिनाकी” भट्टिः ।
“अव्यर्ण्णो गिरिकूटाभानभ्यर्ण्णानार्द्दिदत् द्रुतम्” भट्टिः ।
सम् + सम्यक्पीड़ने “यन्तारमस्य सहसा त्रिभिर्वाणैः
समार्द्दयत्” भा० व० प० प्रति + प्रतिरूपपीड़ने यस्य यत्कर्त्तृकं
पीड़नं तेनैव पुनस्तस्य पीड़ने “प्रत्यर्द्धयत संक्रुद्धो राघवः
पुनराहवे” रामा० ।

अर्द्दन न० अर्द्द--ल्युट् । १ गतौ २ पीड़ायां ३ बधे ४ वाचने च ।

अर्द्दना स्त्री चु० अर्द्द--भावे युच् । १ हिंसायां बधे ।

अर्द्दित त्रि० अर्द्द--क्त । १ पीड़िते, २ गते, ३ याचिते च ।

४ रोगभेदेन० “अर्दयित्वाऽनिलोवक्त्रमर्दितं जनयत्यतः ।
वक्रीभवति वक्त्रार्द्धं ग्रीवा चाप्यपवर्त्तते । शिरश्चलति वाक्-
सङ्गो नेत्रादीनाञ्च वैकृतम् । ग्रीवाचिवुकदन्तानां
तस्मिन् पार्श्वे तु वेदना । यस्याग्रजो रोमहर्षो वेपथुर्नेत्र-
माविलम् । वायुरूर्द्धं त्वचि स्वापस्तोदोमन्याहनुग्रहः ।
तमर्दितमिति प्राहुर्व्याधिं व्याधिविशारदाः । क्षीणस्या
निमिषाक्षस्य प्रसक्ताव्यक्तभाषिणः । न सिध्यत्यर्दितं वाढ़ं
त्रिवर्षं वेपनस्य च” । इति सुश्रु० । “क्षयकासश्वास व्रणा
र्शोऽर्द्दितापहम्” । “हनुमोक्षमधीमन्थमर्दितञ्च सुदा-
रुणम्” इति च सुश्रु०!

अर्द्दितिन् त्रि० अर्दितमस्त्यस्य इनि । नेत्रादिरोगभेदयुक्ते

“अर्दिती कर्णशूली च दन्तरोगीच मानवः” सुश्रु० ।

अर्द्ध पु० ऋध--वृद्धौ भावादौ धञ् । १ वृद्धौ । आधारे घञ् ।

२ गृहादौ । “आतून इन्द्र! वृत्रहन्नस्माकमर्द्धमागहि”
यजु० ३३, ६५ । “अर्द्धम् निवासदेशम्” वे० दी० । अधि +
ऋध--अच् । वृद्धिप्राप्त्याधारे २ वायौ । “कतमोऽध्यर्द्ध इति”
प्रश्ने “योऽयं पवते” इत्युत्तरं दत्त्वा “तदाहुर्यदयमेकैवैष
पवतेऽथ कथमध्यर्द्ध” इति प्रश्नेउत्तरम् । “यदस्मिन्निदं सर्व्व-
मध्यार्ध्रोत् अस्मिनवायौ सति इदं सर्व्वम् अधिकमार्घ्नोति
प्राणः आप्त प्राप्नोति इति तेनाध्यर्द्ध” इति छा० उ० । करणे
घञ् । ४ अवयवरूपे खण्डे अवयवेनेवोपचयात् अवयविनो
पृष्ठ ०३७४
वृद्धिरिति तस्य तथात्वम् । समखण्डवाचित्वे तु न० ।
“अर्द्धं नपुंसकम्” पा० सूत्रेतथैवोक्तेः । ५ समीपे अर्धदेव-
शब्दे उदा० समांसवाचिनस्तु एकदेशिसमासः । अर्धर्च्चः
अर्धकायम् अर्धपिप्पली क्षचित् षष्ठीसमासः “एतच्छता-
र्द्धमावत्त्य त्रैलोक्यविजयी भवेत्” तन्त्रम् । एतत्
पूर्व्वकनौशब्दान्ततत्पुरुषात् अच् अर्धनावम् खार्य्यास्तु
वा अर्धखारम् अर्धखारो । खण्डमात्रवाचित्वे षष्ठी-
समासः । “क्रोशार्धं प्रकृतिपुरस्सरेण गत्वा” रघुः ।
अवयवावयविनोर्भेदात् क्वचित् धर्म्मिपरता । अर्ध्यते
वर्ध्यते ऋध्--णिच्--कर्म्मणि अच् । ६ खण्डिते
त्रि० जसि अर्धाः अर्धे ।

अर्द्धकृत त्रि० अर्धं कृतम् । असम्पूर्णकृते यस्य यथा करणे क्रियासमाप्तिस्ततोऽर्द्धे कृते ।

अ(आ)र्धकौडविक त्रि० अर्धकुडवपरिमाणमर्हति ठञ् उत्तर

पदस्य वृद्धिःपूर्वस्य वा । अर्धकुडवपरिमाणार्हे स्त्रियां ङीप् ।

अर्द्धखारी स्त्री अर्धं खार्य्याः एक० त० वा अच् । खारीपरि

माणार्धांशे । अत्र वा अच् । अर्धखारम् तत्रैव न० ।

अर्द्धगङ्गा स्त्री अर्द्धं गङ्गायाः एकदेशित० । स्नानादौ गङ्गास्ना-

नादेरर्द्धफलदायिन्यां कावेरीनद्याम् ।

अर्द्धगर्भ त्रि० अर्द्धे वत्सरस्यार्द्धेभार्गादौ पौषादौ वाब्रह्माण्डस्यार्धे

गगने वा गर्भं गर्भस्थानीयमुदकं यस्य । सूर्य्यरश्मिभेदे ते
हि मार्गादौ पौषादौ च भूमिस्थम् उदकमाकृष्य गर्भरूपेण
गगने धारयन्ति इति ज्योतिषप्रसिद्धम् “तासां शतानि
चत्वारि रश्मीनां वृष्टिसर्जने इत्यादिना ३२४ पृष्ठ
दर्शितेन यादववाक्येनं तेषां मध्ये शतत्रयेश गर्भधारण
स्योक्तेस्तथात्वम् गर्भधारणकालश्च वृ० स० उक्तम् यथा ।
“मार्गशिरःशुक्लपक्षप्रतिपत्प्रभृति क्षपाकरेऽषाढ़ाम् । पूर्वां
वा समुपगते गर्भाणां लक्षणं ज्ञेयम् । यन्नक्षत्रमुपगते गर्भ
श्चन्द्रे भवेत् स चन्द्रवशात् । पञ्चनवते दिनशते तत्रैव
प्रसवमायाति । सितपक्षभावाः कृष्णे, शुक्ले कृष्णा द्युस-
म्भवाः रात्रौ । नक्तंप्रभवाश्चाहनि, सन्ध्याजाताश्च सन्ध्या-
याम् । मार्गशीर्षाद्यागर्भामन्दफलाः पौषशुक्लजाताश्च ।
पौषस्यकृष्णपक्षेण निर्दिशेच्छ्रावणस्य सितम् । माषसितोद्भवा
गर्भाः श्रावणकृष्णे प्रसूतिमायान्ति । माधस्य कृष्णपक्षेण
निर्दिशेद्भाद्रपदशुक्लम् । फाल्गुनशुक्लसमुत्था भाद्रपदस्या
सिते विनिर्देश्याः । तस्यैव कृष्णपक्षोद्भवास्तु ये तेऽश्वयुक्शुक्ले ।
चैत्रसितपक्षजाताः कृष्णेऽश्वयुजस्य वारिदा गर्भाः ।
चैत्रासितसम्भूताः कार्त्तिकशुक्लेऽभिवर्षन्ति” इति ।
“सप्तार्द्धगर्भा भुवनस्य रेतः” ऋ० १, १६४, ३६ । “वत्-
सरस्यार्द्धेगर्भस्थानीयमुदकं धारमाणाः” भा० ।

अर्द्धगुच्छ पु० । अर्द्धः चन्द्रसमः गुच्छः । १ चतुर्विंशतिलतिके हारभेदे

अर्द्धगुञ्जा स्त्री अर्द्धं गुञ्जायाः । गुञ्जायास्तुल्यार्धपरिमाणे

“तुल्या यवाभ्यां कथितात्र गुञ्जा” लीला० उक्तेः
यवद्वयार्द्धे एकयवरूपे तत्परिमाणे । तदर्हति ठञ् । उत्तर-
पदस्य वृद्धिः पूर्ब्बस्य वा ॥ अ(आ)र्द्ध गौञ्जिकः तत्परि-
माणार्हे त्रि० । स्त्रियां ङीप् ।

अर्द्धचन्द्र पु० अर्द्धं चन्द्रस्य एक० त० । १ चन्द्रस्यार्द्धे, तदाकारे-

२ नखक्षते, ३ गलहस्ते, ४ वाणभेदे, “रावणेन हृता सीता-
अर्द्धचन्द्रार्द्धभास्करा” महाना० “सार्द्धचन्द्रं बिभर्त्ति
यः” कुमा० “अर्द्धचन्द्रमुखैर्वाणैश्चिच्छेद कदलीसुखम्”
रघुः “शृगालाः सर्व्वे गलेऽर्द्ध चन्द्रं दत्त्वा निस्सारिताः” ।
“तद्दीयतां द्रागेतस्यार्द्धचन्द्रः” इति च पञ्च० त० ।
गलहस्तस्तु तर्ज्जन्यङ्गुष्ठविस्ताररूपा हस्तसन्निवेशविशेष-
मुद्रा । (तेओडीति) ख्यातायां ५ त्रिवृति स्त्रीणां ६ तिलक-
भेदे च । स्त्री । स्वार्थे कन् । ह्रस्वे अतैत्त्वे । अर्द्धच-
न्द्रिका १ कर्णस्फोटलतायां २ चित्रपर्ण्याञ्च ।

अर्द्धचन्द्रक पु० अर्द्धचन्द्र इव कायति कै--क । १ मयूर-

पिच्छ्वस्थार्द्धचन्द्राकारे पदार्थे ।

अर्द्धचन्द्राकृति पु० अर्द्धचन्द्रस्याकृतिरिवाकृतिर्यस्य । गलहस्ते

तर्ज्जुन्यङ्गुष्ठविस्ताररूपे गले हस्तसन्निवेशविशेषे ।

अर्द्धचोलक न० अर्द्धं चोलस्य एकदेश त० संज्ञायां क्वन् ।

(काच्चुलीति) ख्याते कुर्पासकवस्त्रे ।

अर्धजरतीय पु० अर्द्धा जरतीव इवार्थे कन् । अर्द्धवृद्धातुल्ये

न्यायभेदे स च अर्द्धं कुक्कुट्याः पाकाय अर्द्धं प्रसवाय यथा न
प्रभवति एवमेकभागस्यान्यपरत्वमन्यभागस्यान्यपरत्वं न
युक्तमित्येवं परः न्यायः । “न च जानीमो विषयसन्धाया
मिवान्तरालेऽवस्थानमर्द्धजरतीयकौशलम्” वृ० उ० भा० ।
यथा न जागर्त्ति न स्वपितीति विषयग्रहणमिति अन्त-
रालेऽवस्थानं दुर्घटं यथा चार्द्धं कुक्कुट्याः पाकार्थमर्धञ्च
प्रसवायेतिकौशलं नोपलभ्यते” आ० गि० । जरत्या एव
पाकः युवत्यास्तु प्रसवार्थत्वं नत्वेकस्या एव द्विविधकार्य्य
करत्वमित्यर्थः “तुल्ययोर्विज्ञानार्थयोः प्रश्नप्रतिवचनयोः
प्रकरणस्य विज्ञानार्थत्वादर्द्धजरतीयोन्यायो न युक्तः
कल्पयितुम्” छा० भा० ।

अर्द्धजाह्नवी स्त्री अर्द्धगङ्गावत् । कावेर्य्यां नद्याम् ।

अर्द्धतिक्त अर्द्धः असम्पूर्ण्णस्तिक्तः । नेपालनिम्बे ।

अर्द्धदिन अर्द्धं दिनस्य । दिनस्य तुल्याऽंशे सार्द्धसप्तमुहूर्त्तात्मके काले ।

पृष्ठ ०३७५

अर्द्धदेव पु० अर्द्धे समीपे तद्वर्त्ती देवानाम् । देवसमीपे वर्त्तमाने ।

“इन्द्रं न वृत्ततुरमर्द्धदेवम्” “वृत्रहणं ददथुरर्द्धदेवम्” ऋ०
१, ४३, ८, ९ । “अर्द्धदेवं देवानामर्द्धे समीपे वर्त्तमानम्” भा०

अ(आ)र्द्धद्रौणिक त्रि० अर्द्धद्रोणमर्हति ठञ् । उत्तरपदस्य वृद्धिः

पूर्व्वस्य वा । अर्द्धद्रोणपरिमाणार्हे वस्तुनि स्त्रियां ङीप् ।

अर्द्धधार न० अर्द्धे धाराऽस्य । सुश्रुतोक्ते विंशतिशस्त्रमध्ये

शस्त्रभेदे “विंशतिः शस्त्राणि । तद्यथा । मण्डला-
ग्रकरपत्रवृद्धिपत्रनस्वशस्त्रमुद्रिकोत्पलपत्रकार्द्धधारसूचीमुख
कुशपत्राटीमुखशरारीमुखान्तर्मुखत्रिकूर्चककुठारिकाव्रीहिमु-
खारावेतसपत्त्रवड़िशदन्तशङ्क्केषण्य” इति । “वृद्धिपत्रनख-
शस्त्रमुद्रिकोत्पलपत्रार्द्धधाराणि छेदने भेदेने च” सुश्रु० ।

अर्द्धनारायण न० अर्द्धमर्द्धमितं स्थानं यस्य तादृशोनारा

यणो यत्र “प्रवाहमवधिं कृत्वा यावद्धस्तचतुष्टयम् । अत्र
नारायणः स्वामी नान्यः स्वामी कथञ्चन” इत्युक्ते गङ्गायाः
प्रवाहावधिहस्तचतुष्टयात्मके नारायणस्वामिके स्थाने ।

अर्द्धनारीश्वर पु० अर्द्धाङ्गे या नारी तस्या ईश्वरः ।

हरगौरीरूपे शिवमूर्त्तिभेदे तद्रूपादि ध्यानशन्दे वक्ष्यते ।

अर्द्धनाव न० अर्द्धं नावः अच् समा० । नौकायास्तुल्यांशे ।

अर्द्धनिशा स्त्री अर्द्धं निशायाः एकदेशित० । अर्द्धरात्रे ।

अर्द्धपण पु० अर्द्धं पणस्य । “वराटकानां दशकद्वयं यत् सा

काकिणी ताश्च पणश्चतस्र” इत्युक्तपणस्यार्द्धे काकिणीद्वये ।

अर्द्धपथ न० अर्द्धंपथः अच् समा० । मार्गस्य तुल्यांशे प्रदेशे ।

अर्द्धपाञ्चालिक पु० अर्द्धपञ्चाले भवः टण् उत्तरपदवृद्धिः ।

अर्द्धपञ्चालदेशभवे ।

अ(आ)र्द्धपादिक त्रि० अर्द्धपादं तच्छेदमर्हति ठञ् । पूर्व्व-

पदस्य वा वृद्धिः । अर्द्धपादच्छेदार्हे । “गोषु ब्राह्मणसं-
स्थासु छुरिकायाश्च भेदने । पशूनां हरणे चैव दण्डः
कार्य्योऽर्द्धपादिकः” मनुः अर्धपद मर्हति ठञ् उत्तर-
पदस्य वृद्धिः पूर्ब्बपदस्यवा । अर्द्धपदप्रमाणार्हे उभयत्र
स्त्रियां ङीप् ।

अर्द्धपारावत पु० अर्द्धेन अङ्गेन पारावत इव । चित्रकण्ठक । पोते (तित्तिरीति) ख्याते पक्षिणि ।

अर्द्धपुलायित न० “शतार्द्धार्द्धक्रमादूनैर्मण्डलायितवल्गितैः ।

उन्मुखस्याश्वमुख्यस्य गतिरर्द्धपुलायितमिति” परिमाषिते
अश्वगतिभेदे ।

अ(आ)र्द्धप्रस्थिक त्रि० अर्द्धप्रस्थमर्हति ठञ् “नातः” पा० नोत्तर

पदस्य वृद्धिः पूर्व्वस्य तु वा । अर्द्धप्रस्थप्रमाणार्हे स्त्रियां ङीप् ।

अर्द्धभाग पु० अर्द्धं भागस्य । भागस्यार्द्धे “तदर्द्धमागेन

लभस्व काङ्क्षितम्” कुमा० । अर्द्धभागमर्हति ठञ् वा पूर्व
पदवृद्धिः । अ(आ)र्द्धभागिकः । अर्द्धभागार्हे त्रि० “जातो-
ऽपि दास्यां शूद्रेण कामतोऽशंहरोभयेत् । मृते पितरि
कुर्य्युस्तं भ्रातरस्त्वर्द्धभागिकम्” या० स्मृतिः ।

अर्द्धभाज् त्रि० भज्--ण्वि उप० स० । अर्द्धांशहरे “निधीनां

तुपुराणां च धातूनामेव च क्षितौ । “अर्द्धभाग्रक्षणा-
द्राजा भूसेरधिपतिर्हि सः” मनुः ।

अर्द्धभ्रम न० अर्द्धात् भ्रमोभ्रमणं यत्र । “आहुरर्द्धभ्रमं नाम

श्लोकार्द्धभ्रमणं यदीति सर० कण्ठा० उक्ते शब्दालङ्कारभेदे
यथा “स स त्व र ति दे नि त्यं
स द रा म र्ष ना शि नि ।
त्व रा धि क क सं ना दे
र म क त्व म क र्ष ति” किरा०
अग्निपुराणे तु “गोमूत्रिकार्द्ध भ्रमके” इति कान्ततया-
पठित्वा “पादार्द्धाद्यैश्चतुर्भिश्च कुर्य्याद्विन्यासमेतयोः । न्यस्यता-
मिह वर्ण्ण नामधोधः भ्रमभागिणाम् । अधोधःस्थितवर्ण्णाना-
माचतुर्थपदं नयेत् । तुर्य्यपादं नयेदूर्द्धं पादार्द्धप्राति-
लोम्यत” इति तल्लक्षणमुक्तम् । अयमर्थः तिर्य्य ग्गताः पञ्च-
रेखाः ऊर्द्ध्वगताश्च नव रेखालेख्या एवं द्वात्रिंशत् कोष्ठानि
भवन्ति तत्र प्रथमादिपङ्क्तिक्रमेण एकैककोष्ठगैकैकाक्षरका-
श्चत्वारः पादाः क्रमेण पङ्क्तिचतुष्के लेख्याः एवं लेखने
द्वात्रिंशद्वर्ण्णा एकैककोष्ठगा भवन्ति । तत्र प्रथमपादार्द्धगता
आद्याश्चत्वारोवर्ण्णाः क्रमशोऽधोवर्त्तिनीषु प्रथमादिपङ्क्तिषु
यथा भवन्ति यथा च तस्यापरार्द्धगताश्चत्वारो वर्ण्णा अन्ति-
मादिपङ्क्तिषु उर्द्धोर्द्धक्रमेण अन्त्य कोष्ठगा भवन्ति तथा वर्णाः
श्लोके निवेश्याः । एवं द्वितीयपादार्धगा आद्याश्चत्वारो
वर्ण्णा अधोऽधःक्रमेण प्रथमादिपङ्क्तिद्वितीयकोष्ठगाः
अपरार्धघटकाश्चत्वारश्च वर्ण्णा ऊर्द्ध्वोर्द्ध्वक्रमेण अन्तिमादि-
पङ्क्तिषु सप्तमकोष्ठगाः । तृतीयपादार्धगाः आद्याश्चत्वारो
वर्णाः प्रथमादिपङ्क्तिषु अधोऽधःक्रमेण तृतीयकोष्ठगा उत्त-
रार्धगाश्चत्वारो वर्ण्णाश्च ऊर्द्ध्वोर्द्ध्वक्रमेण अन्तिमादिषु षष्ठ-
कोष्ठगाः चतुर्थपादार्धगा आद्याश्चत्वारोवर्ण्णाः अधोधः-
क्रमेण प्रथमादिषु पङ्क्तिषु चतुर्थकोष्ठगाः उत्तरार्धगता
श्चत्वारो वर्ण्णाश्च ऊर्द्धार्द्धक्रमेण अन्तिमादिषु पञ्चमकोष्ठगाः
यथा भवेयुस्तथा वर्ण्णविन्यासो विधेयः । एवं सति यथा
प्रथमादिपङ्क्तिक्रमेण चत्वारः पादाः पठितुं शक्यन्ते एवमुक्त-
प्रकारेण अधोधःक्रमेण च प्रथमादिकोष्ठगवर्ण्णग्रहणेन एवं
अन्तिमादिषु, ऊर्द्ध्वोर्द्ध्वक्रमेण अन्तिमकोष्ठस्थवर्ण्णग्रहणेन,
उक्तरीत्या प्रथमादिपङ्क्तिषु द्वितीयादिकोष्ठस्थवर्ण्णग्रहणेन
पृष्ठ ०३७६
अन्तिमादिषु उपान्तिमकोष्ठगवर्ण्णग्रहणेन च उक्तदिशा
पाठे द्वितीयादिपादा भवन्ति । सर्व्वतोभद्रस्येवास्य सर्व्वतो
ऽनुलोमविलोमपाठासम्भवेन अर्धभ्रमत्वम् अयञ्च वन्धः
अनुष्टुप्छन्दस्येव नान्यत्र छन्दसीति ज्ञेयम् । एवम्
“अभीकमतिकेनेद्ध्वे भीतानन्दस्य नाशने । कनत्सकामसेनाके
मन्दकाममकमस्यति” माघश्लोकेऽपि ज्ञेयः ।

अर्द्धमाणवक पु० अर्धं माणवकस्य । द्वादशलतिके हारभेदे

माणवकरारस्यचतुर्विंशतिलतिकत्वात्तस्यार्धमानतयास्य तथात्वम् ।

अर्द्धमात्रा स्त्री अर्धं मात्रायाः । विन्द्वर्धचन्द्राकारव्यज्यायां

२ ब्रह्मरूपायाम् वाचि २ तद्वाच्यायां देव्याञ्च । “अर्धमात्रा
स्थिता नित्यं यानुच्यार्य्या विशेषतः” देवीमा० “अकारो
भगवान् ब्रह्मा उकारो विष्णुरुच्यते मकारो भगवान्
रुद्रो प्यर्धमात्रा महेश्वरी । उत्तरोत्तरभावेनाप्युत्तमत्वं
स्मृतं बुधैः । अतः सर्व्वेषु शास्त्रेषु देवीसर्व्वोत्तमा
स्मृता” देवीपुरा० । अर्धमात्रा उच्चारणकालोऽस्य ।
३ हलवर्णे त्रि० “व्यञ्जनं चार्धमात्रक” मित्युक्तेस्तथात्वम् ।

अर्द्धमास पु० अर्धं मासस्य एकदे० त० । पञ्चदशाहात्मके मास

स्यार्धरूप्रे पक्षात्मके काले “दर्शेन चार्धमासान्ते पौर्ण्णमासेन
चैव हि” मनुः “पञ्चदश वा अर्धमासस्य रात्रयः” इति
शत० ब्रा० । “तत्त्रिंशता भवेन्मास” इत्युक्तेर्मासस्य त्रिंश
त्तिथ्यात्मकतया तदर्धस्यपञ्चदशत्वम् “ऐरण्डतैलं वा
मासमर्धमासं वा पाययेत्” सुश्रुतः ।

अर्द्धयाम पु० अर्द्धं यामस्य प्रहरस्य । दिनरात्रयोः अष्टधा

विभक्ते काले यावद्दिनमानं रात्रिमानं वा तस्याष्टधावि-
भागे यः कालस्तस्मिन् । तस्यैव वारवेलाकालवेलासंज्ञा
तस्य च वारविशेषेषु वर्ज्यता ज्योतिषोक्ता । “कृतमुनि
यमशरमङ्गलर्त्तुभास्करादियामार्द्धे । प्रभवति वारवेला न
शुभा शुभकार्य्वकरणाय” । ज्यो० त० तथाच रवौ
चतुर्थोऽर्द्धयामः वारवेला एवं चन्द्रे सप्तमः । कुजे द्वितीयः,
बुधे पञ्चमः, गुरौ अष्टमः, भृगौ तृतीयः, शनौ षष्ठः
वारवेला । “कालस्य वेला रवितः शराक्षिकालानलागा-
म्बुघयो गजेन्दू दिने, निशायामृतुवेदनेत्रनगेषुरामा
विधुदन्तिनौ च” ज्यो० त० । यथा दिने रवौ पञ्चमः
कालवेला एवं चन्द्रे द्वितीयः, कुजे षष्ठः, बुधे तृतीयः, ।
गुरौ सप्तमः, भृगौ चतुर्थः, शनौ अष्टमः आद्यश्च ॥ रात्रौ
रवौ षष्ठः कालवेला । एवं चन्द्रे चतुर्थः । कुजे द्वितीयः ।
बुधे सप्तमः, गुरौ पञ्चमः भृगौ तृतीयः, शनौ आद्यः
अष्टमश्च कालवेला ॥ एवं दिने वारवेलाकालवेलाद्वयसमा-
वेशेन द्वयीर्वर्ज्ज्यता यथोक्तं “रवौ वर्ज्यं चतुःपञ्च सोमे सप्त
द्वयं तथा । कुजे षष्ठं द्वितीयञ्चबुधे वाणतृतीयकम् । गुरौ
सप्ताष्टकञ्चैव त्रिचत्वारि च भार्गवे । शनावाद्यं च षष्ठञ्च
अष्टमं परिवर्जयेत्” ॥ एवञ्च रात्रौ न वारवेला किन्तु
कालवेलैव । तद्दोषोऽप्युक्तः “यात्रायां मरणं काले (काल-
येलायाम्) वैधव्यं पाणिपीड़ने । व्रते ब्रह्मबधः प्रोक्तः
सर्व्वं कर्म्म ततस्तजेत्” ज्यो० त० । दिनविशेषे तदीशविशे-
षोऽपि ज्यो० त० उक्तः । “वारेशादर्द्धयामेषु रात्र्यह्नोः
पञ्च षट् क्रमात् । अधिपाःस्युर्ग्रहास्तत्र यथार्काहे भवन्ति
हि । रवीज्येन्दुभृगुक्ष्माजशनिज्ञरवयो निशि । रविशुक्रज्ञ-
रात्रीशशनीज्यकुजभास्कराः । दिने तूह्याः परेष्येवम्”
अयमर्थः यस्मिन् दियसे यो वारेशः सएव प्रथमयामार्द्धा-
धिपः । ततो द्वितीयेशस्तु रात्रौ वारेशापेक्षया पञ्चमः,
पुनस्तदपेक्षया पञ्चमस्तृतीयेश एवं व्रमेण ज्ञेयः । दिने
तु वारेश एव आद्याधिपः द्वितीयेशस्तु वारेशापेक्षया
षष्ठस्तदपेक्षया पुन षष्ठस्तृतीयेश इत्येवंक्रमेण ज्ञेयः ॥
एतच्च पताकीवेधे पापस्वामिकस्य रिष्टसूचकताविवेचना-
र्थम् अन्यत्र शुभकर्म्मसु वर्जनार्थञ्च ।

अर्द्धरथ पु० रथोऽस्त्यस्य अच् रथः रथी अर्द्धः असंपूर्ण्णोरथः ।

असम्पूर्ण्णे रथिनि । “सखा ते दयितो नित्यं य एष रण
कर्कशः । उत्साहयति राजंस्त्वां विग्रहे पाण्डवैः सह ।
एष विकत्थनो नीचः कर्णोवैकर्त्तनस्तव । मन्त्री नेता च
वन्धुश्च मानी चात्यन्तमुच्छ्रितः । एष नैव रथः कर्णो न
चाप्यतिरथो रणे । वियुक्तः कवचेनैष सहजेन विचेतनः ।
कुण्डलाभ्याञ्च दिव्याभ्यां वियुक्तः सततं वृणी । अभिशा-
शापाच्च रामस्य ब्राह्मणस्य च भाषणात् । करणानां
वियोगाच्च तेन मेऽर्द्धरथोमतः । नैष फाल्गुनमासाद्य
पुनर्ज्जीवन् विमोक्ष्यते । ततोऽब्रवीत् पुनर्द्रोणः सर्व्वशस्त्र
भृतां वरः । एवमेतत् यथात्थ त्वं न मिथ्याऽस्ति कदाचन ।
रणेरणेऽभिमानी च विमुखश्चापि दृश्यते । घृणी कर्णः
प्रमादी च तेन मेऽर्द्धरथो मतः” इति भा० उ० प० ।

अर्द्धरात्र अर्द्धं रात्रेः अच्समा० । रात्रेस्तुल्यार्द्धभागे

यामद्वयपूर्त्तिकाले “अर्द्धरात्रे त्वसम्पूर्ण्णे दिवा पुण्यमनागतम्”
“अर्द्धरात्रे व्यतीते तु विज्ञेयं चापरेऽहनि” “सम्पूर्णे
चार्द्धरात्रे चेति” च देवी पु० । “कलान्यूनार्द्धरात्रे तु
यदि संक्रमणं भवेत्” गर्गः । “अर्द्धरात्रे कलाधिक्ये
यदा संक्रमते रविः” । “अर्द्धरात्रे तु संपूर्णेयदा संक्रमते
रविः भु० भी० । “पूर्ण्णेचेदर्द्धरात्रे तु रवि संक्रमणं भवेत्”
पृष्ठ ०३७७
शाता० जावा० । “प्रभाते चार्द्धरात्रे वा स्नानं कुर्य्यात्
परेऽहनि” भविप्य पुरा० । “अथार्द्धरात्रे स्तिमितप्रदीपे”
रघुः “मध्यन्दिनेऽर्द्धरात्रेच श्राद्धं भुक्त्वाच सामिषम्” मनुः ।

अर्द्धर्च्च पु० न० अर्द्धम् ऋचः एकदेशित० अच् समा० । ऋचोऽर्द्ध-

भागे “अर्द्धर्च्चेऽर्द्धर्चे प्रतिगृहणीयात्” शत० ब्रा० । “ऋचः
पादं मात्रया कल्पयन्तोऽर्द्धर्चेन” अथ० ९, १०, १९, अस्य
परिमाणवाचकत्वात् वोप्सायां शष् । अद्धर्च्चशः । अर्द्धर्च्च-
मर्द्धर्चमिति वीप्सावृत्तौ कारकभूते अर्द्धर्चे “तस्य वाससा
पाणिभ्यां पाणी संगृह्य सावित्रोमन्वाह पच्छोर्द्धर्चशः
सर्वाम्” कात्या० १७, १, १८, “तस्मादद्धर्चशः शंसेत्”
शत० ब्रा० “अत्यार्द्धर्चशोद्वौवा इमौ प्राणौ” शत० ब्रा० ।

अर्द्धर्चादि पु० ६ त० । “अर्द्धर्चाः पुंसि चेति” पाणिन्युक्ते

पुंनपुंसकलिङ्गानुशासननिमित्ते शब्दसमहे सच गणः
१३, १४ पृष्ठे दर्शितः ।

अर्द्धलक्ष्मीहरि अर्द्धं लक्ष्म्या आकारेऽस्य तादृशो हरिः ।

लक्ष्मोनारायणात्मके विष्णोर्मूर्त्तिभेदे तद्रूपं यथा “उद्यत्
प्रद्योतनशतरुचिं तप्तहेमावदातं पार्श्वद्वन्द्वे जलघिसुतया
विश्वधात्र्या च जुष्टम् । नानारत्नोत्कलितविविधाकल्प-
मापीतवस्त्रं विष्णुं वन्दे दरकमल कौमोदकोचक्रपाणिमिति”

अर्द्धविसर्ग पु० अर्द्धं विसर्गस्य तद्व्यञ्जकत्वादुपचारः । विसर्ग

सदृशाकारार्द्धरेखया व्यञ्जनीये कखयोःपरत जिह्वा-
मूलीयाख्ये पफयोःपरतः उपाध्मानीयाख्ये च वर्ण्णभेदे
अर्द्धविसर्जनीयादयोऽप्यत्र ।

अर्द्धवीक्षण न० अर्द्धमसंपूर्णं वीक्षणम् । कटाक्षदर्शने ।

अर्द्धवैनाशिक पु० अर्द्धोऽसम्पूर्णः वैनाशिकः बौद्धभेदः ।

वैशेषिकशास्त्रकारे तस्य च सर्वस्य क्षणिकतावादितया वैना-
शिकसमयवत् परिणामभेदेन देहादेराशुविनाशस्वीकारेण
आत्मनस्तु स्थायित्वाङ्गीकारेण च ततो बैलक्षण्यात् अर्द्ध-
वैनाशिकत्वम् इति वेदान्तिनो वदन्ति । वैशेषिकादयस्तु
वेदान्तिनोऽर्द्धवैंनाशिकत्वं कल्पयन्ति “तैर्हि वेनाशिकवत्
सर्वेषां पदार्थानां चिद्रूपज्ञानमात्रात्मकतया स्वीका-
रेण चितश्च स्थायित्वाङ्गीकारमात्रेण ततो वैलक्षण्य-
मित्यर्द्धवैनाशिकत्वमिति । यथा च नैषां तथात्वं तथा
विवरणप्रमेयोपन्यासे प्रपञ्चितम् विद्यारण्येन ।

अर्द्धवैशस न० अर्द्धस्य वैशसं वघः । अर्द्धबधे “विधिना

कृतमर्द्धवैशसम् “अर्द्धोवा आत्मनो यत् पत्नी” इति
श्रुतेस्तस्य नाशे पत्न्या अर्द्धनाशोयुक्त इति तथोक्तम् ।

अर्द्धशत न० अर्द्धं शतस्य एकदे० त० । १ पञ्चाशत्संख्यायां

२ तत्संख्यान्विते च । “तैश्योऽप्यर्द्धशतं द्वे च” मनुः ।
क्षचित् ६ त० । तत्रैवार्थे न० एतच्छतार्द्धमावर्त्त्य लैलो-
क्यविजयी भवेत्” तन्त्रम् ।

अर्द्धशन एकदेशित० शक० । अर्द्धभोजने रत्नावली० अर्द्धाशनमप्यत्र ।

अर्द्धशफर पु० अर्द्धः शफरः । (दाड़का) इति ख्याते मत्स्यभेदे

अर्द्धश्लोक पु० अर्द्धं श्लोकस्य एकदेशित० । श्लोक-

स्यार्द्धे प्रथम पादद्वये

अर्द्धसम त्रि० अर्द्धेन समः । १ अर्द्धेन तुल्ये पदार्थे “प्रथमा-

ङ्घ्रिसमो यस्य तृतीयश्चरणोभवेत् द्वितीयस्तुर्य्यवद्वृत्तं
तदर्द्धसममुच्यते” वृत्तरत्नाकरोक्ते २ वृत्तभेदे न० यथा
“अयुजि न युगरेफतोयकारो युजि च नजौ जरगाश्च
पुष्पिताग्रा” एवमुपचितादीनि ।

अर्द्धसीरिन् पु० अर्द्धं सीरस्यहलकृष्टशस्यादिफलस्य सोऽस्यास्ति

इनि १ हलसाध्यकलशस्यस्यार्द्धभाजि । “शूद्रेषु दासगो-
पालकुलमित्रार्द्धसीरिणः । भोज्यान्ना नापितश्चैव यश्चा-
त्मानं निवेदयत्” या० स्मृतिः अत्र निरुक्तार्थपरत्वम्
मिताक्षराकृतोक्तं पराशरेण तु तस्य पारिभाषिकत्वम्
दर्शितं यथा” दासनापितगोपालकुलामित्रार्द्धसीरिणः
एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत्” इत्युक्त्वा
“वैश्यकन्वासमुत्पन्नो ब्राह्मणेन तु संस्कृतः । अर्द्धिकः
स तु विज्ञेयो भोज्यं विप्रैर्न संशयः” इत्युक्तम् तेन
वैश्यागर्भजो ब्राह्मणेनोत्पादितः संस्कारवान् वर्णसङ्कर-
भेदः अर्द्धिकः अर्द्धसीरीति । तेन २ तदर्थेऽपि ।

अर्द्धहार पु० ऋध--वृद्धौ अच् अर्द्धः सम्पन्नः हारः । चतुः

षष्टिलतिके हारमेदे ।

अर्द्धांश पु० एकदेशित० । अंशस्य सजातीयोचितभागस्य

१ तुल्यार्द्धभागे २ सर्वद्रव्यस्यार्द्धभागे च ।

अर्द्धार्द्ध पु० अर्द्धम् अर्द्धस्य तुल्यांशस्य एक० त० । तुल्यभागरूप

स्यांशस्य तुल्ये अर्द्धभागे चतुर्थांशे । “चरोरर्द्धार्द्धभा-
गाभ्यां तामयोजतामुभे” रघुः । “पञ्चाधिकस्य वा नाशे-
ततोऽर्द्धार्द्धे तु तण्डुलाः ततोऽर्द्धार्द्धविनाशे तु स्पृशेत्
पुत्रादिमस्तकम्” । कात्या० स्पृ० ।

अर्द्धासन न० अर्द्धमासनस्य । आसनस्यार्द्धभागे “यो विसर्जनाव-

परे मम हि दिवौकसां समक्षमर्द्धासनोपवेशितस्य” शकु० ।
“अर्द्धासनं गोत्रभिदाधितष्ठौ” रघुः । “अर्द्धासनं गोत्र-
भिदोऽध्यवात्सीत्” भट्टिः । अर्द्धं सम्पन्नमसनं त्यागः विक्षे-
पश्च । २ स्नेहेन दाने ३ अकुत्सने च धरणिः ।

अर्द्धिक त्रि० अर्द्धमर्हति टिठन् स्त्रियां ङीप् । १ अर्द्धभागार्हे

“तदर्द्धिकं पादिकं स्यात्” मनुः २ अर्द्धसोरिशब्दार्थे च
उदा० तत्रैव ।
पृष्ठ ०३७८

अर्द्धिन् त्रि० अर्द्धं ग्रहीतृत्वेनास्त्यस्य इनि । अर्द्धग्रहणार्हे

“सर्वेषामर्द्धिनोमुस्यास्तदर्द्धेनार्द्धिनोऽपरे । तृतीयिनस्तृतीयां-
शास्तुरीयांशास्त पादिनः” । गोशतमागे स्मृतिः!

अर्द्धुक त्रि० ऋध--बा० उकञ् । सम्पन्ने वृद्धिशीले “एकमति-

रिक्तं जुहोति तस्मादेकः प्रजास्वर्द्धुकः” शत० ब्रा० ।

अर्द्धेन्द पु० अर्द्धुमिन्दोः एकदे० त० । १ चन्द्रतुल्यांशे “जटा-

जूटसमायुक्तामर्द्धेन्दुकृतशेखराम्” दुर्गाध्यानम् । तदाकार-
त्वात् २ नखक्षते ३ तर्जन्यङ्गुष्ठविस्ताररूपे गलहस्तमुद्रा
भेदे ४ अर्द्धचन्द्राकारे वाणे च ।

अर्द्धोक्त न० अर्द्धमुक्तम् वच--भावे क्त । अर्द्धकथने । “राम-

भद्रेत्यर्द्धोक्ते महाराज”! इति वीरचरिते कञ्चुकिवाक्यम् ।

अर्द्धोदक न अर्द्धदेहव्यापकमुदकम् शाक० त० । देहार्द्ध व्यापके

उदके । “अर्द्धोदके तु जाह्नव्यां म्रियतेऽनशनेन यः ।
स याति न पुनर्जन्म ब्रह्मसायुज्यमेति च” अग्निपु० ।
“अर्द्धोदक चरणान्नाभिपर्य्यमुदकम्” प्रा० त० रघुनन्दनः ।

अर्द्धोदय पु० अर्द्ध स्य समृद्धस्य पुण्यस्य उदयो यत्र । तिथि-

नक्षत्रादियोगविशेषे “माघेमासि आमावस्या यदि अर्क-
युता भवेत् । नक्षत्रे श्रवणे देवि! व्यतीपातो भवेद्यदा ।
अर्द्धोदयः स विज्ञेयः सूर्य्यपर्वशतैःसमः । दिवैव
योगः शस्तोऽयं न च रात्रौ कदाचन । अर्द्धोदये तु सम्प्राप्ते
सर्वं गङ्गासमं जलम् । शुद्धात्मानो द्विजाः सर्वे भवेयुर्ब्रह्म-
सस्मिताः । यत् किञ्चित् क्रियते दानम् तद्दानं सेतुसन्नि-
भमिति” निर्णया० । “अमार्कपातश्रवणैर्युता चेत् पौषमा-
घयीः । अर्द्धोदयः स विज्ञेय, कोटिसूर्य्यग्रहैः समः”
स्क० पु० । “अर्द्धोदये च पुष्यार्के हस्तार्के रोहिणोबुधे”
वृहन्नारदीयम् ।

अर्द्धोदयासन म० अर्द्धस्य देहस्य उदयेन ऊर्द्धक्षेपेणासनम्

“अर्द्धोदयासनं नाथ! सर्व्वाङ्गं स्वे नियोजयेत् ।
केवलं हस्तयुगलं भुव्यवष्टभ्य तिष्ठति” रुद्रया० उक्ते
आसनभेदे ।

अर्द्धेन्दुमौलि पु० अर्द्धेन्दुर्मौलावस्य । चन्द्रशेखरे शिवे ।

अर्द्धोरुक न० ० अर्द्धमूरोः अर्द्धोरु तत्र काशते काश--ड ।

१ ऊर्व्वोरधरपर्य्यन्ताङ्गाच्छादने वस्त्रे, उत्तमस्त्रीणामर्द्धोरु-
पर्य्यन्ते चोलकाकारे २ परिधेयवस्त्रे च ।

अर्द्ध्य त्रि० अर्द्धस्येदम् तुत्र भवो वा वा यत् १ अर्द्धसम्बन्धिनि

२ अर्द्धभवेच । ऋष--णिच्--यत् । प्रवर्द्धनार्हे “विदुषाचिदर्द्धः
स्तोमः । ऋ० १, १५६, १, “अर्द्ध्यं वर्द्धनार्हम्, भा०
“शविष्ठं वाजं विदुषा चिदर्द्ध्यम्” ऋ० ५, ४४, १० ।

अर्पण न० ऋ--णिच्--पुक् ल्युट् । १ निक्षेपे, २ सत्वत्यागानुकूल

व्यापारे ३ निवेशने च । “पादार्पणानुग्रहपूतपृष्ठम्”
“सेयं स्वदेहार्पणनिष्क्रयेण” “मुखार्पणेषु प्रकृतिप्रगल्भाः”
इति च रघुः “ब्रह्मार्पणं ब्रह्महविर्ब्रह्माऽग्नौ ब्रह्मणा
हुतम्” “तत् कुरुष्व मदर्पणमिति” च गीता करणे
ल्युट् । ४ मन्त्रादौ ५ जूहूप्रभृतौ स्त्री । संप्रदाने
ल्युटि । ६ देवादिषु । अधिकरणे ल्युट् । त्यागाधि-
करणे ७ वह्न्यादौ । कर्म्मंणि ल्युटि । ८ हविरादौ
त्याज्यद्रव्ये

अर्पित त्रि० ऋ--णिच्--पुक् च क्त । १ दत्ते २ निक्षिप्ते

३ निवेशिते “तदनुज्वलनं मदर्पितम्” कुमा० । “मय्यर्पित
मनोवृत्तिः” गीता अनर्पितचरीं चिरात् करुणयावत-
तीर्ण्णः कलाविति” हरिभ० “हरिचक्रेण तेनास्य कण्ठे
निष्कमिवार्पितम्” इति कुमा० ।

अर्पिस पु० ऋ--णिच् पुक् च इसन् । १ हृदये, अग्रमांसे च ।

अर्प्य त्रि० ऋ--णिच्--पुक यत् । १ निवेशनीये २ देवे ३ त्याज्ये च ।

अर्ब(र्व) हिंसने भ्वादि० पर० सक० सेट् । अर्ब(र्व)ति

आर्बी(र्वी)त् आन(र्ब)र्ब ।

अर्बु (र्बु)द न० अर्ब (र्व) विच् तस्मै उदेति उद् + इण्--ड ।

(आव् इति) ख्याते १ मांसपिण्डाकारे रोगभेदे, स च
सुश्रुतोक्तवर्त्माश्रयेषुएकविंशतिरोगेषु मध्येरोगभेदः “पृथग्-
दोषा समस्ताश्च यदा वर्त्म व्यपाश्रयाः । सिरा व्याप्यावतिष्ठन्ते
वर्त्मस्वधिकमूर्च्छिताः । विवर्द्ध्य मांसं रक्तञ्च तदा
वर्त्मव्यापाश्रयान् । विकारान् जनयत्याशु नामतस्तान्
निबोधत” इत्युपक्रम्य उत्सर्द्दिनोप्रभृतीन् एकविंशति
भेदान् उक्त्वा तेषां प्रत्येकलक्षणान्युक्तानि तत्र० “वर्त्मा-
न्तरस्थं विषमं ग्रन्थिभूतमवेदनम् । विज्ञेयमर्बुदं
पुंसां सरक्तमवलम्बितम्” इत्यर्वुदलक्ष्मोक्तम् अर्बुदञ्च
नानाविधं मांसार्वुदर्शोणितार्वुदादिभेदात् । “कृष्ण-
स्फोटीसरक्तैश्च पिड़काभिश्च पीड़ितम् । यस्य वस्तिरुज-
श्चोग्रा ज्ञेयं तच्छोणितार्बुदम् । मांसदोषेण जानीया-
दर्बुदं मांससम्भवम्” एवं मेदोऽर्बुदादयोऽषि तत्रोक्ता
रोगभेदा ज्ञेयाः । २ दशकोटिसंख्यायां ३ तत्संख्यातेषुम
एकादिकोटिसंख्या दशगृणोत्तरा उक्त्वा अर्बुदमवजं
खर्वनिखर्वमहापद्मशङ्क्षवस्तस्मात्” लीला० “इमा
मेऽग्न! इष्टका धेनवःसन्त्वेका च दश च दश च शतं
पृष्ठ ०३७९
च शतं चेत्युपक्रम्य “अर्बुदं चन्यर्बुदञ्च इति यजु० १७, २ ।
४ पर्व्वतभेदे ५ असुरभेदे च पु० । “महान्तं चिदर्बुदं
निक्रमी पदा” ऋ० १, ५१, ४, ६ काद्रवेये सर्पभेदे पु० पञ्च-
मेऽहनीत्युपऽक्रम्य “अर्बुदः काद्रवेयो राजेत्याह तस्य
सर्पाविशः” इति शत० ब्रा० । अम्बूनि ददाति दा--क वेदे
मस्य रः । ७ मेघे “न्यर्बुदं वावृधानो अगुः ऋ० २, ११,
२०, “अम्बूनि ददातीत्यर्बुदो मेघः” भा० अर्बुदाकारत्वात्
गर्भस्य ८ मांसपिण्डभेदे” “यदि पिण्डः पुमान्, स्त्री
चेत्पेशी, नपुंसकेऽर्बुदमिति” सुश्रु० द्वितीयमासिकगर्भमात्रे
न० “प्रथमे मासि संक्लेदभूतो धातुविमूर्च्छितः । मास्यर्बुदं
द्वितीये तु तृतीयेऽङ्गेन्द्रियैर्युतः” या० स्मृ० “द्वितीये तु
मासि अर्बुदमीषत्कठिनं मांसपिण्डमयं भवति” मिता० ।

अर्बुदि पु० अर्बुदमिवाचरति अर्बुद + क्विप् इन् । सर्व्वव्यापके

ईशाने । “अर्बुदिर्नाम योदेवईशानश्च न्यर्बुदिः । याभ्या-
मन्तरिक्षमावृतमियं च पृथिवी मही” अथ० ११, ९, ४ ।

अर्भ पु० ऋ--भ १ बालके । २ अल्पे च । “नार्भादीषते न

महोविभाती । ऋ० १, १२४, ६, “अर्भात् अल्पात्” भा० ।
“इन्द्रमर्भे हवामहे” ऋ० १, ७ । ५ । अर्भे स्वल्पेऽपि धने
निमित्तभूते” भा० । “यूयं महेन एनसोयूयमर्भात्”
ऋ० ८, ४७, ८, “अर्भात् अल्पात् एनसः” भा० ।

अर्भक पु० अर्भएव स्वार्थे कन् । १ बालके, “महद्भ्यो नमो

अर्भकेभ्यो नमोयुवभ्यः” ऋ० १, २७, १३ । “वृद्धमप्युचितनिद्र
मर्भकम्” माघः “अर्भकोन कुमारकोऽधितिष्ठन्नवं
रथम्” ऋ० ८, ६९, १५ । २ मूर्खे च ३ कृशे, ४ अल्पे,
“नमो “नमोमहद्भ्योऽर्भकेभ्यो नमोवः” यजु० १६, २६ ।
त्रि० “अर्भकौकस्त्वात्तद्व्यपदेशाच्च” शा० सू० । अर्भकमल्पम्
भा० “यथा सर्व्वगतमपि सद्व्योम सूचीपाशाद्यपेक्षयाऽर्भ-
कौकः एवं ब्रह्मणोऽपि अर्भकौकस्त्वम्” भा० ५ सदृशे च त्रि०

अर्भग त्रि० अर्भमल्पं गायति गै शब्दे च । बालके । “यावर्भ-

गाय विमदाय” ऋ० १, ११६, १ ।

अर्म्म न० ऋ--सन् । चिरन्तनग्रामनगरादौ “अर्म्मे चावर्णं द्व्यच्

त्र्यच्” पा० गुप्तार्म्मंकुक्कुटार्म्मं अवर्णंकिम् वृहदर्म्मं द्व्यच्
त्र्यच् किम् कज्जलार्म्मम् अमहन्नवमित्येव । महानवा-
र्म्मम् । नेत्ररोगभेदे पु० न० । स च पञ्चविधः प्रस्तार्य्यर्म-
शुक्लार्म्मरक्तार्म्ममांसार्म्मस्नाय्वर्म्मभेदात् । तल्लक्षणं नान्ता-
र्म्मशब्दे वक्ष्यते सुश्रुते तु नान्ततया पठितम् । अर्य्यते
गम्यते कर्म्मणि मन् । ३ गन्तव्यदेशे । कुत्सितेकन् । अर्म्मकः
अरणीये कुत्सितस्थाने ४ श्मशानादौ “वैलस्थानके अर्म्मके
महारण्यस्थे अर्मके” ऋ० १, १३३, ३ । “अर्म्मके
श्मशानादौ” भा० ।

अर्म्मण पु० ऋ--बा० मन् । वैद्यकाक्त द्रोणपरिमाणं ।

अर्म्मन् न० ऋ + मनिन् । नेत्ररोगभेदे “प्रस्तारिशुक्लक्षतजाधि

मांसस्नाय्वर्मसंज्ञाः खलु पञ्च रोगाः । स्युःशुक्तिका चार्ज्जुन
पिष्टकौ च जालं सिराणां पिड़काश्चंयाः स्युः । रोगा बला
सग्रथितेन सार्द्धमेकादशाक्ष्णोः खलु शुक्लभागे । प्रस्तारि
ग्रथितमिहार्म्भ शुक्लभागे विस्तीर्णं तनुरुधिरप्रभं
सनीलम् । शुक्लाख्यं मृदु कथयन्ति शुक्लभागे सश्वेतं
सममिह वर्द्धते चिरेण । यन्मांसं प्रचयमुपैति शुक्लभागे
पद्माभं तदुपदिशन्ति लोहितार्म्म । विस्तीर्णं मृदु वहलं
यकृत्प्रकाशं श्यावं वा तदघिकमांसजार्म्म विद्यात् ।
शुक्ले यत् पिशितमुपैति वृद्धिमेति, इति सुश्रु० ।
अर्म यज्जालवद्व्यापि तदप्युन्मार्ज्यलम्बितम् । अर्म्म
चाल्पन्दधिनिभन्नीलं रक्तमथापि वा । छेद्यमेव तदर्म्म-
स्यात् कृष्णमण्डलगञ्च यत्” । अर्म्मवन्मण्डलाग्रेण वड़ि-
शेनावलम्बिना । अर्म्माणि पिड़कां हन्यात्सिराजालानि
तेन वै” इति च सुश्रु० ।

अर्य्य त्रि० ऋ--यत् । १ स्वामिनि २ वैश्ये पुं स्त्री । स्त्रियां टाप् ।

अर्य्या वैश्यजातिस्त्रियां स्वामिन्याञ्च । पत्न्यान्तु ङीप् ।
अर्य्यी । वैश्यपत्न्याम् तत्र आनुक् ङीप् चार्य्याणीत्यपि
“अर्य्यः स्वामिवैश्ययोः” पा० “अर्थ्यक्षत्रियाभ्यां वा” वार्त्ति० ।
अर्य्याणी अर्य्या स्वामिनी वैश्या वा पुंयीगे तु ङीप् सि०
कौ० । ३ श्रेष्ठे त्रि० । “प्र तत्ते अद्य शिपिविष्ट नामार्यः
ऋ० ७, १००, ५, “सुभद्रमर्य्यभोजनं षिभर्षि” ८, १, ३४,
अर्य्यते पूज्यते बा० यत् । ४ पूजनीये । “कृष्णादु-
दस्थादर्या” ऋ० १, १२३, १ । “अर्य्या अरणीया
पूजनीया” भा० ।

अर्य्यमन् पु० अर्य्यं श्रेष्ठं मिमीते मा--कनिन् । १ सूर्य्ये,

तद्देवताके २ उत्तरफल्गुनीनक्षत्रे, ३ अर्कदृक्षे, ४ पितॄणां
राजनि “पितॄणामर्य्यमा चास्मि” गीता । द्वादशा-
दित्यमध्ये ५ आदित्यभेदे च । “धातार्य्यमा च मित्रश्च
वरुणोऽंशुर्भगस्तया । इन्द्रोविवस्वान् पूषा च पर्जुन्यो-
दशमः स्मृतः । ततस्त्वष्टा ततो विष्णुरजघन्योज
धन्यजः इति विष्णुध० पु० एत एव कश्यपाददित्यां
जाताः । भारते तु “अदित्यां द्वादशादित्याः सम्भूता
भुवनेश्वराः । ये राजन्नामतस्तांस्ते कीर्त्तयिष्यामि
भारत । धाता मित्रोऽर्यमा शक्रः वरुणस्त्वंशुरेव च ।
पृष्ठ ०३८०
भगोविवस्वान् पूषा च सविता दशमःस्मृतः एकादश
स्तया त्वष्टा द्वादषोविष्णुरुच्यते” । कल्पभेदान्नामभेद
इत्यविरोधः । तद्रूपम् ध्यानशब्दे वक्ष्यते । “यथा
नरोऽर्य्यमणोमरुतः कबन्धिनः” ऋ० ५५४, ८ ।
“अर्य्यम्णे स्वाहेति तदेनमस्य सर्वस्यार्य्यमणं करोति
शत० ब्रा० ।

अर्य्यमिक पु० अनुकम्पितः दत्तः अर्य्यमदत्तः अनुकम्पायाम्

ठन् “शेवलमुपरिविशालवरुणार्य्यमादीनां तृतोयात्”
पा० अन्त्यलोपः । अनुकम्पिते अर्य्यमदत्ते ।

अर्य्यम्य पु० अर्य्यमैव स्वार्थे वेदे यत् । सूर्य्ये “अर्य्यम्यं

वरुणमित्र्यं वा सस्वायं वा सदमिद्धातरं वा” ऋ० ५, ८५, ७ ।

अर्वन् पु० ऋ--वनिप् । १ घोटके, २ इन्द्रे, ३ गोकर्णपरिमाणे

च । स्त्रियामर्वती सा च ४ बड़वायां ५ कुट्टिन्यामपि ।
अस्य सुभिन्ने त्रादेशः अर्वन्तौ अर्व्वतः । “श्लथीकृतप्रग्रह-
मर्वतां ब्रजाः” माघः सौ तु अर्व्वा इत्येव लोकएव
त्रादेश इति भाष्यम् वेदे तु अर्वाणौ इत्येव । ४ गमनशीले
त्रि० स्त्रियां ङीप् वनोरश्च । अर्वरी ।

अर्वाक् त्रि० अवरमकति गच्छति अक--वक्रगतौ अण्

पृ० अवरस्यार्वादेशः । समीपे “यन्नासत्या पराके अर्वाके
अस्ति भेषजम्” ऋ० ८, ९, १५ “अर्वाके समीपे” भा० ।

अर्वाक्काल पु० अर्वाक् अवरः कालः । अवरकाले तत्रभवः

ठञ् न वृद्धिः अर्वाक्कालिकः अवरकालभवे त्रि० “तान्य
र्व्वाक्कालितया निष्फलान्यनृतानि च” मनुः ।

अर्वाक्स्रोतस् पु० अर्वाक् अधोगामि स्रोतोरेतोयस्य ।

ऊर्द्ध्वरोतोभिन्ने इन्द्रियप्रसक्ते ।

अर्व्वाग्विल पु० अर्वाक् विलमस्य । चमसे । “अर्वाग्विलश्च-

मस ऊर्द्ध्ववुध्नस्तस्मिन् यशोनिहितम्” । शत० ब्रा० ।

अर्व्वाच् अव्य० अवरे काले देशे वा अञ्चति अनच्--क्विन्

पृषो० अर्वादेशः । १ पश्चात्काले २ मध्यकाले “अर्वाग्दश-
भ्यो वर्षेभ्यः” भुज० ४ तत्कालवर्त्तिनि त्रि० “ये केचि-
दस्मादर्वाञ्चो लोकाः” छा० उ० । “कथं वा दीयतामर्वाङ्-
सुनिता धर्म्मरोधिनी” किरा० स्त्रियां ङीप् अर्वाची “उर्म्मी-
दर्व्वा “अर्वाचीश्च पराचीश्चोपदधाति” शत व्रा० । ३ विपर्य्यस्ते
अर्व्वाच् + असि तस्य लुक् । ४ अवरकालादौ ५ मध्येच अव्य० ।
ततोभवार्थे ट्युल् तुट् च अर्वाक्तनः । तद्भवे त्रि० स्त्रियां
ङीप् ।

अर्वाग्वसु अर्वाक् अभ्यन्तरे अर्व्वाचीनं वसु वृष्टिहेतूदकं गर्भो यस्य । पर्जन्ये मेघे ।

अर्वाचीन त्रि० अर्वाग्भवः स्व । अवरकालभवे । “अर्वाचीनं

सुते मनो ग्रावा कृणोतु” ऋ० १, ८४, ३, “यदूर्द्धं
पृथिव्या अर्वाचीनमन्तरीक्षात्” शतव्रा० ।

अर्व्वावत् त्रि०, अवरकालोऽस्त्यस्य मतुप् पृ० अर्वामेशः दीर्घः

मस्य वः । अर्वाचीने । “अर्वावतो! न आगहि परावतश्च”
ऋ० ३, ४०८, । “अर्वावतः अर्वाचीनान्” भा० ।

अर्व्वावसु पु० देवानां हीतृविशेषे “इदमहमर्वावसोः सदने

सीदामीति” अर्वावसुर्ताम देवानां होता तस्यैव सदने
सींदति” शत० ब्रा० “अर्वाक् वस्तु धनमस्य पृयो” भा० ।

अर्व्वुक पु० अर्व--हिंसने बा० उकञ् । आटविके दक्षिणदेश

स्थेनृपभेदे ते च सहदेवेन जिताः “सचीना अर्वुकाश्चैव
राजानश्च महाध्वजाः । तांस्तानाटिवकान् सर्व्वान्
अजयत् पाण्डुनन्दनः” भा० स० प० सहदेवदिग्विजये ।

अर्श त्रि० ऋश + अच् । अश्लीले पापिष्ठे “अनर्शरात्रिशब्दे

१५१ पृष्ठे उदा० । २ अर्शोरोगे न० ।

अर्शआदि पु० अर्शआदिर्येषाम् । अस्त्यर्थे अच्प्रत्ययनिमित्त

भूते “अर्श आदिभ्योऽच्” पाणिन्युक्ते शब्दसमूहे । सच गणः
अर्शस् उषस् तुन्द--चतुर पलित, जटा घाटा अघ, कर्द्दम
अम्ल, लवण, (स्वाङ्गाद्धीनात्) (वर्णात्) आकृतिगणोऽयम् ।

अर्श(र्स)स् न० ऋ--असुन् शुठ् (सुठ् दन्तादिरित्यन्ये) ।

बलिकाकारे गुह्यस्थरोगभेदे यथाह सुश्रुतः
“षडर्शंसि भवन्ति वातपित्तकफशोणितसन्निपातैः सहजानि
चेति ॥ तत्रानात्मवतां यथोक्तैः प्रकोपणैर्ब्धिरुद्धाध्यशन-
स्त्रीप्रसङ्गोत्कटुकासनपृष्ठयानवेगविधारणादिभिर्व्विशेषैः प्रकु
पिता दोषा एकशो द्विशः समस्ताः शोणितसहिता वा
यथोक्तं प्रसृताः प्रधानधमनीरनुप्रपद्याऽधोगत्वा गुदमा-
गम्य प्रदुष्य बलीर्म्मांसप्ररोहान् जनयन्ति विशेषतोमन्दा-
ग्नेस्तथा तृणकाष्ठोपललोष्ट्रवस्त्रादिभिः शीतोदकसंस्पर्श-
नाद्वा कन्दाः परिवृद्धिमासादयन्ति तान्यर्शांसीत्याचक्षते ॥
तत्र स्थूलान्द्रप्रतिबद्धमर्द्ध पञ्चाङ्गुलं गुदमाहुस्तस्मिन्
बलयस्तिस्रोऽध्यर्द्धाङ्गुलान्तरभूताः प्रवाहणी विसर्ज्जनी संवरणी
चेति । चतुरङ्गुलायताः सर्वास्तिर्य्यगेकाङ्गुलोच्छ्रिताः ॥ शङ्खा-
वर्त्तनिभाश्चापि उपर्य्युपरि संस्थिताः । गजतालुनिभाश्चापि
वर्णतः सम्प्रकीर्त्तिताः ॥ रोमान्तेभ्यो यवाध्यर्द्धं गुदौष्ठः
परिकीर्त्तितः ॥ प्रथमा तु गुदौष्ठादङ्गुलमात्रे । तेषान्तु
भविष्यतां पूर्व्वरूपाणि, अन्ने न श्रद्धा कृच्छ्रात्पक्तिरम्लीका
सक्थिसदनमाटोपः कार्श्यमुद्गारबाहुल्यमक्ष्णोश्च श्वयथुरन्द्र-
कूजनं गुदपरिकर्त्तनमाशङ्का पाण्डुरोगग्रहणी दोषशो-
षणं कासश्वासौभ्रमस्तन्द्रा निद्रेन्द्रियदौर्ब्बल्यञ्च । जाते-
पृष्ठ ०३८१
ष्वेतानि रूपाणि प्रव्यक्ततराणि भवन्ति ॥ तत्र मारुतात्प-
रिशुष्कारुणवर्णानि विषममध्यानि कदम्बपुष्पतुण्डिकेरी-
नाडीमुखसूचीमुखाकृतीनि च भवन्ति । तैरुपहतः सशूलं
संहतमुपवेश्यते कटीपृष्ठपार्श्व मेढ्रगुदनाभिप्रदेशेषु चास्य
वेदना गुल्माष्ठोलाप्लीहोदराणि चास्य तन्निमित्तान्येव
भवन्ति, कृष्णत्वङ्नखनयनदशनवदनमूत्रपुरीषश्च पुरुषो
भवति । पित्तान्नीलाग्राणि तनूनि विसप्र्पीणि पीतावभासानि
यकृत्प्रकाशानि शुकजिह्वासंस्थानानि यवमध्यानि
जलौकोवक्त्रसदृशानि प्रक्लिन्नानि च भवन्ति तैरुपहतः सरुधिर-
मतिसार्य्यते ज्वरदाहपिपासासूर्च्छाश्चोपद्रवा भवन्ति,
पीतत्वङ्नखनयनदशनवदनमूत्रपुरीषश्च पुरुषो भवति ।
श्लेष्मजानि श्वेतानि महामूलानि स्थिराणि वृत्तानि
स्निग्धानि पाण्डूनि करीरपनसास्थिगोस्तनाकाराणि न
भिद्यन्ते न स्रवन्ति कण्डूबहुलानि च भवन्ति तैरुपहतः
सश्लेष्माणमनल्पं मांसधावनप्रकाशमतिसार्य्येत शोफशीत
ज्वरारोचकाविपाकशिरोगौरवाणि चास्य तन्निमित्तान्येव
भवन्ति, शुक्लत्वङ्नस्वनयनदशनवदनमूत्रपुरीषश्च पुरुषो
भवति ॥ रक्तजानि न्यग्रोधप्ररोहविद्रुमकाकणन्तिकाफलसदृ-
शानि पित्तलक्षणानि च यदावगाढपुरीषप्रपीडितानि
भवन्ति तदात्यर्थं दुष्टमनल्पमसृक् सहसा विसृजन्ति तस्यैवा-
तिप्रवृत्तौ शोणितातियोगोपद्रवा भवन्ति ॥ सन्निपातजानि
सर्व्वदोषलक्षणयुक्तानि ॥ सहजानि दुष्टशोणितशुक्रनिमि-
त्तानि तेषां दोषत एव प्रसाधनं कर्त्तव्य विशेषतश्चात्र
दुर्दर्शनानि परुषाणि पाण्डूनि दारुणान्यन्तर्मुखानि
तैरुपद्रुतः कृशोऽल्पभुक् सिरासन्ततगात्रोऽल्पप्रजःक्षीण
रेताः क्षामस्वरः क्रोधनोऽल्पाग्निर्ध्राणशिरोऽक्षिश्रवण-
रोगवान् सततमन्द्रकूजाटोपहृदयोपलेपारोचकप्रभृतिभिः
पीड्यते ॥” “अर्श आद्या महारोगा अतिपापाद्भवन्ति
हि” । शाता० स्मृ० । पृषो० सलोपः । अर्शमप्यत्र न० ।

अर्शस त्रि० अर्शस्--अस्त्यर्थेऽच् । बलिकाकारगुह्यव्याधियुक्ते ।

“होनक्रियं निष्पुरुषं निश्छन्दोरोमशार्शसम्” मनुः ।

अर्शसान त्रि० ऋश--असानच् सुट् च । बाधके हिंसके “अव

प्रियमर्शसानस्य” ऋ० २, २०६ “अर्शसानस्य बाधमानस्य” भा०
न्वर्शसानामोषति ऋ० १०१३०, ८ २ मन्देहासुरे “इन्द्रः
सूर्य्यस्य रश्मिर्न्यर्शसानमोषति ८, १२९, “अर्शसानं
बाधमानं मन्दे हाख्यमसुरम्” भा० ।

अर्शिन् त्रि० अर्शमस्त्यस्य इनि । अर्शोरोगयुक्ते स्त्रियां ङीप् ।

अर्शोघ्न पु० अर्शो हन्ति हन--ट । (ओल) १ शूरणे, २ भल्लातके

च १ अमनुष्यकर्त्तृकार्शोहननकारकमात्रे त्रि० “अर्शोघ्न
कारभं मूत्रं मानुषन्तु विषापहम् “यच्चान्यदपि स्निग्धं
मर्शोघ्नम्सृष्टमूत्रपुरीषञ्च तदुपसेवेत” इति च सुश्रुतः ।
स्त्रियां ङीप् । सा च तालमूल्याम् मेदि०

अर्शोहित पु० अर्शसि हितः सेवनेन तन्नाशकत्वात् ७ त० ।

१ भल्लातके । २ अर्शोरोगहितकारकमात्रे त्रि० अहित
इति च्छेदे । ३ तत्राहितकरे त्रि० ।

अर्षण न० ऋष--गतौ मावे ल्युट् । १ गमने करणे ल्युट् ।

२ गमनसाधने स्त्रियां ङीप् । “याः सीमानं विरुजन्ति
मूर्द्धानं प्रत्यर्षणीः अथ० ९, १८, १३ ।

अर्ह योग्यत्वे भ्वा० पर० अक० सेट् । अर्हति आर्हीत् आनर्ह

लोके, वेदे तु आनर्हे । प्राप्तियोग्यतार्थे गतौ च सक० ।
अर्ही अर्हितः अर्हितुम् अर्हित्वा अर्हणम् अर्हन्
“द्वित्राण्यहान्यर्हसि सोढु मर्हन्!” रघुः । “गुरोर्गुरौ सन्नि-
हिते गुरुवन्मानमर्हति” मनुः । “दण्डमर्हति माषकम्
मनुः । स तस्माल्लब्धुमर्हति” स्मृतिः “तथापि त्वं
महाबाहो नैनं शोचितुमर्हसि” गीता । क्वचिदस्यात्मनेपदि-
त्वम् व्यत्ययेन । “मलिलं नार्हसे प्राज्ञ! दातुमेषां हि
लौकिकम्” “रावणो नार्हते पूजाम्” इति च रामायणम् ।

अर्ह पूजने चुरा० उभ० सक० सेट् । अर्हयति ते आर्जिहत् त ।

“राजार्जिहत्तं मधुपर्कपाणिः” भट्टिः । अर्हयामास ।
अर्हणा अर्हयन् अर्हयितुम् अर्हयित्वा । “स्रग्विणं तल्प-
मामीनमर्हयेत् प्रथमं गवा” मनुः । पूजनं च स्तुतिनति-
प्रभृतिभिः सस्माननम् । अभि + आभिमुख्येन सम्मानने ।
“अभ्यर्हितञ्च” का० वार्त्ति० ।

अर्ह पु० अर्ह्यते चु० अर्ह--कर्म्मणि यत् । पूजास्तुत्यादिभिराराध्ये

१ ईश्वरे २ शक्रे च । ३ पूजनीये त्रि० “अर्हानभोजयन्
विप्रो दण्डमर्हति माषकम्” मनुः ४ विष्णौ पु० । “अभि
प्रायः प्रियार्होऽर्हः” विष्णुस० । “पूजास्तुतिनमस्कारा-
दिभिः पूजनीय इत्यर्हः” भा० । भावे घञ् । ५ पूजने ।
अर्हति म्बा० अर्ह--कर्त्तरि अच् । ६ योम्ये त्रि० ।
“तस्मान्नार्हा वयं हन्तुं धार्त्तराष्ट्रान् स्वबान्धवान्” गीता ।
“अर्होऽसि कपिराज्य स्य श्रियं भोक्तुमनुत्तमाम्” रामा० ।
“नियुक्तायामपि पुमान् नार्य्यां जातोऽविधानतः । नैवार्हः
पैतृकं रिक्थं पतितोत्पादितो हि सः” मनुः आर्षत्वात्
कर्म्मणि न षष्ठी “पूजार्हावरिसूदन” गीतायान्तु “कर्म्म-
ण्यण्” अण् उप० स० । भावे घञ् । ७ गतौ ८ योग्यत्वे
धातूनामनेकार्थत्वात् द्रव्यक्रययोग्यत्वात्त अर्ह--कर्मणि घञ्
९मूल्ये “महार्हशय्यापरिवर्त्तनच्युतैः” कुमा० “महानर्हो
मूल्यमस्यास्तादृशी शय्या” इति मल्लि० ।
पृष्ठ ०३८२

अर्हण न० अर्ह--भावे ल्युट् । १ पूजने । “शिष्यवर्गपरिकल्पिता-

र्हणम्” रघुः अर्ह्यतेऽनेनकरणे ल्युट् । सम्मानसाधने
द्रव्ये । “अर्हणं तत्कुमारीणामानृशंस्याय केवलम्” मनुः
भावे युच् । “अर्हणा पूजायां स्त्री । “अर्हणामर्हते चक्रु-
र्मुनयोनयचक्षुषे” रघुः पूर्ब्बेदेवरिपुरर्हणां हरिः” माघः ।

अर्हणीय त्रि० चु० अर्ह--कर्मणि अनीयर् । १ पूजनीये ।

अर्हतेऽनेन करणे अनोयर् अर्हणे साधु छ वा । पूजा-
साधनद्रव्ये “अर्हणीयगवानुमन्त्रणे विनियोगः” भवदेवः ।

अर्हत् त्रि० “अर्हः प्रशंसायां कर्म्मणि शतृ । ४ पूज्ये “अर्ह

णामर्हते चक्रुः” द्वित्राण्यहान्यर्हसि सोढुमर्हन्” इनि च
रघुः “सर्ब्बज्ञो जितरागादिदोघस्त्रैलोक्यपूजितः ।
यथास्थितार्थवादी च देवोऽर्हन् परमेश्वरः” इत्युक्तलक्षणे
जैनदेवे पु० । तन्मतं सर्व्वदर्शनसंग्रहात् संगृह्यते ।
“ननु न कश्चित् पुरुषविशेषः सर्व्वज्ञपदवेदनीयः प्रमाणप-
द्धतिमध्यास्ते सद्भावग्राहकस्य प्रमाणपञ्चकस्य तत्रानुप-
लम्भात् तथाचोक्तं तोतातितैः “सर्व्वज्ञोदृश्यते तावन्ने-
दानीमस्सदादिभिः । दृष्टो न चैकदेवोऽस्ति लिङ्गं वा
योऽनुमापयेत् ॥ न चागमविधिः कश्चिन्नित्यसर्व्वज्ञ-
बोधकः । न च तत्रार्थवादानां तात्पपर्य्यमपि कल्प्यते ॥
न चानुवदितुं शक्यः पूर्व्वमन्यैरबोधितः ॥ अनादे
रागमस्यार्थो न च सर्व्वज्ञ आदिमान् । कृत्रिमेण
त्वसत्येन स कथं प्रतिपाद्यते ॥ अथ तद्वचनेनैव सर्व्व-
ज्ञोऽन्यैः प्रतीयते । प्रकल्प्येतं कथं सिद्धिरन्यो-
न्याश्रयतस्तयोः ॥ सर्व्वज्ञोक्ततया वाक्यं सत्यं तेन
तदस्तिता । कथं तदुभयं सिध्येत् सिद्धमूलान्तरादृते ॥
असर्व्वज्ञप्रणीतात्तु वचमान्मूलवर्जितात् । सर्व्वज्ञमवग-
च्छन्तस्तद्वाक्योक्तं न जानतु ॥ सर्व्वज्ञसदृशं किञ्चिद्यदि
पश्येम सम्प्रति । उपमानेम सर्व्वज्ञं जानीयाम ततो
वयम् ॥ उपदेशोऽपि बुद्धस्य धर्म्माधर्म्मादिगोचरः ।
अन्यथा नोपपद्येत सार्व्वज्ञ्यं यदि नाभवदित्यादि” ॥
अत्र प्रतिविधीयते यदभ्यधायि सद्भावग्राहकस्य प्रमाणपञ्च-
कस्य तत्रानुपलम्भादिति तदयुक्तं तत्सद्भावावेदकस्यानुमा-
नादेः सद्भावात् । तथा हि कश्चिदात्मा सकलपदार्थसा-
क्षात्कारी तद्ग्नहर्णस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययत्वात्
यत् यद्ग्रहणखभाभवत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययं तत्
तत्साक्षात्कारि यथा अपगततिमिरादिप्रतिबन्धं लोचनविज्ञानं
रूपसाक्षत्कारि । तद्ग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्ध-
प्रत्ययश्च कश्चिदात्मा तस्मात् सकलपदार्थसाक्षात्कारीति ।
तावदशेषार्थग्रहणस्वभावत्वमात्मनः सिद्धं चोदनाबलान्नि-
खिलार्थज्ञानात् नाप्यन्यथानुपपत्त्या सर्व्वमनैकान्तात्मकं
सत्त्वादिति व्याप्तिज्ञानोत्पत्तेश्च । चोदना हि भूतं भवन्तं
भविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्टमित्येवंजातीयकमर्थमवग-
मयतीत्येवं जातीयकैरध्वरमीमांसागुरुभिर्विधिप्रतिषेधविचा-
रणानिबन्धनं सकलार्थविषयकज्ञानं प्रतिपद्यमानैः सकला-
र्थग्रहणस्वभावकत्वसात्मनोऽभ्युपगतम् । न चाखिलार्थ-
प्रतिबन्धकावरणप्रक्षयानुपपत्तिः सम्यग्दर्शनादित्रयलक्षण
स्यावरणप्रक्षयहेतुभूतस्य सामग्रीविशेषस्य प्रतींतत्वात् अनया
पुनरन्येऽपि क्षुद्रोपद्रवा विद्राव्याः । नन्वावरणप्रक्षयवशाद-
शेषविषयं विज्ञाजं विशदं मुख्यप्रत्यक्षं प्रभवतीत्युक्तं तदयुक्तं
तस्य सर्व्वज्ञस्यानादिमुक्तत्वेनावरणस्यैवासम्भवादिति चेत्तन्न
अनादिमुक्तत्वस्यैवासिद्धेः सर्व्वज्ञोऽनादिमुक्तः मुक्तत्वादि-
तरमुक्तवत् बद्धापेक्षया च मुक्तव्यपदेशः तद्रहिते चास्याप्य-
भावः स्यादाकाशवत् । नन्वनादेः क्षित्यादिक्रार्य्यपरम्प-
रायाः कर्तृत्वेन तत्सिद्धिः तथाहि क्षित्यादिकं सकर्तृकं
कार्त्यत्वाद्बटवदिति तदप्यसमीचीनं कार्य्यत्वस्यैवासिद्धेः ।
न च सावयबत्वेन तत्साधनमित्यभिधातव्यं यस्मादिदं
विकल्पजालमवतरति । सावयवत्वं, समवेतद्रव्यत्वं,
किमवयवसंयोगित्वं अवयवसमवायित्वम् अवयवजन्यत्वम्
३ समवेतद्रव्यत्वम् समवेतवबुद्धिविषयत्वं वा । न
प्रथमः, आकाशादावनैकान्त्यात् । न द्वितीयः सामा-
न्यादौ व्यभिचारात् । न तृतीयः साध्याविशिष्ट त्वात् ।
न चतुर्थः विकल्पयुगलार्गलग्रहगलत्वात् समवायसम्बन्ध-
वत्त्वे सति द्रव्यत्वं समवेतद्रव्यत्वम्, अन्यत्र समवेतद्रव्यत्वं
वा विवक्षितं हेतूक्रियते । आद्ये गगनादौ व्यभि-
चारः तस्यापि गुणादिसमवायवत्त्वद्रव्यत्वयोः सम्भ-
वात् । द्वितीये साध्याविशिष्टता अन्यशब्दार्थेषु समवायकार-
णभूतेष्ववयवेषु समवायस्य साधनीयत्वात् । अभ्युपगग्यैत-
दभाणि वस्तुतस्तु समवाय एव न समस्ति प्रमाणाभावात् ।
नापि पञ्चमः आत्मादिनानैकान्त्यात्तस्य सावयवबुद्धिविषय-
त्वेऽपि कार्य्यत्वाभावात् । न च निरवयवत्वेऽप्यस्य सावयव
वार्थसम्बन्धेन सावयवबुद्धिविषपयत्वमौपचारिकमित्येष्टव्यं
निरवयवत्वे व्यापित्वविरोधात् परमाणुवत् । किञ्च
किमेकः कर्त्ता साध्यते किं वा स्वतन्त्रः प्रथमे प्रासादादौ
व्यभिचारः स्थपत्यादीनां बहूनां पुरुषाणां तत्र कर्तृत्वो-
पृष्ठ ०३८३
पलम्भादनेनैव सकलजगज्जननोत्पत्तावितरवैयर्थ्यञ्च । तदु
क्तं वीतरागस्तुतौ “कर्त्तास्ति नित्यो जगतः स चैकः
स सर्व्वगः सन् स्ववशः स सत्यः । इमाः कुहेयाः
कुविडम्बनाः स्युस्तेषां न येषामनुशासकस्त्वमिति” ॥
अन्यत्रापि । “कर्त्ता न तावदिह कोऽपि यथेच्छया वा
दृष्टोऽन्यथा कटकृतावपि तत्प्रसङ्गः । कार्य्यं किमत्र
भवतापि च तक्षकाद्यैराहत्य च त्रिभुवनं पुरुषं करोतीति”
तस्मात् प्रागुक्तकारणत्रितयबलादावरणप्रक्षये सार्व्वज्ञ्यं
युक्तम् । न चास्योपदेष्ट्रन्तराभावात् सम्यग्दर्शनादित्रित-
यानुपपत्तिरिति भणनीयं पूर्व्वसर्व्वज्ञप्रणीतागमप्रभवत्वाद-
मुष्याशेषार्थज्ञानस्य । नचान्योन्याश्रयतादिदोषः आगमस-
र्व्वज्ञपरम्पराया वीजाङ्कुरवदनादित्वाङ्गीकारादित्यलम् ।
रत्नत्रयपदवेदनीयतया प्रसिद्धं सम्यग्दर्शनादित्रितय-
मर्हत्प्रवचनसङ्ग्रहपरे परमागमसारे प्ररूपितं “सम्यग्दर्शन-
ज्ञानचारित्राणि मोक्षमार्ग” इति । विवृतञ्च योगदेवेन
“येन रूपेण जीवाद्यर्थो व्यवस्थितस्तेन रूपेणार्हता प्रतिपा-
दिते तत्त्वार्थेविपरीताभिनिवेशरहितत्वाद्यपरपर्य्यायं श्रद्धानं
सम्यग्दर्शनं तथा च तत्त्वार्थसूत्रम्, “तत्त्वार्थं श्रद्धानं सम्यग्-
दर्शनमिति” । अन्यदपि “रुचिर्जिनोक्ततत्त्वेषु सम्यक् श्रद्धा-
नमुच्यते । जायते तन्निसर्गेण गुरोरधिगमेन वेति” ॥
परोपदेशनिरपेक्षमात्मस्वरूपं निसर्गः” व्याख्यानादिरूप-
परोपदेशजनितं ज्ञानमधिगमः । येन स्वभावेन जीवादयः
पदार्थाः व्यवस्थिताः तेन स्वभावेन मोहसंशयरहितत्वेना-
वगमः सम्यग्ज्ञानम् । यथोक्तम् “यथावस्थिततत्त्वानां संक्षे-
पाद्विस्तरेण वा । योऽवबोधस्तमत्राहुः सम्यगज्ञानं
भनीषिण” इति ॥ तज्ज्ञानं पञ्चविधं मतिश्रुतावधिमनःपर्य्याय-
केवलभेदेन । तदुक्तम् “मतिश्रुतावधिमनःपर्य्यायकेबलानि
ज्ञानमिति” । अस्यार्थः ज्ञानावरणक्षयोपशमे सति इन्द्रिय-
मनसी पुरस्कत्य व्यापृतः सन् ययार्थं मनुते सा मतिः ।
ज्ञानवरणक्षयोपशमे सति मतिजनितं स्पष्टं ज्ञानं श्रुतम् ।
असम्यग्दर्शनादिगणजनितक्षयोपशमनिमित्तम् अवच्छिन्न-
विषयं ज्ञानमवधिः । ईर्ष्यान्तरायज्ञानावरणक्षयोपशमे
सति परमनोगतस्याथेस्य स्फुटं परिच्छेदकं ज्ञानं मनः
पर्य्यायः । तपःक्रियाविशेषान् यदर्थं सेवन्ते तपस्विनस्तज्-
ज्ञानमन्यज्ञानासंस्पृष्टं केवलम् । तत्राद्यं परोक्षं प्रत्यक्ष-
मन्यत् । तदुक्तम् “विज्ञानं स्वपराभासि प्रमाणं बाधवर्ज्जितम्
प्रत्यक्षञ्च परोक्षञ्ज द्विधा मेयविनिश्चयादिति” ॥ अन्तर्गणि-
कभेदस्तु सविस्तरस्तत्रैवागमेऽवगन्तव्यः । संसरणकर्म्मोच्छि-
त्तावुद्यतस्य श्रद्धदानस्य ज्ञानवतः पापगमनकारणक्रिया-
निवृत्तिः सम्यक् चारित्रम् । तदेतत् सप्रपञ्चमुक्तमर्हता
“सर्व्वथाऽवद्ययोगानां त्यागश्चारित्रमुच्यते । कीर्त्तितं
तदहिंसादिव्रतभेदन पञ्जधा । अहिंसासूनृतास्तेय
ब्रह्मर्य्यापरिग्रहाः ॥ न यत्प्रमादयोगेन जीवित-
व्यपरोपणम् । चराणां स्थावराणाञ्च तदहिंसाव्रतं
मतम् ॥ प्रियं पथ्यवचस्तय्यं सूनृतव्रतमुच्यते । तत्त-
थ्यमपि नो तथ्यमप्रियञ्चाहितञ्च यत् ॥ अनादानमद-
त्तस्यास्तेयव्रतमुदीरितम् । बाह्याः प्राणनृणामर्थो
हरता तं हता हि ते ॥ दिव्यौदरिककामाणां कृता-
नुमतकारितः । मनोवाक्कायतस्त्यागो ब्रह्माष्टादशधा
मतम् ॥ सर्व्वाभावेषु मूर्च्छायास्त्यागःस्यादपरिग्रहः ।
यदसत्स्वपि जायेत मूर्च्छया चित्तविप्लवः ॥ भावनाभि-
र्भावितानि पञ्चभिः पञ्चधा क्रमात् । महाव्रतानि लोकस्य
साधयन्त्यव्ययं पदमिति” ॥ भावनापञ्चकप्रपच्चनञ्च प्ररूपितम्
“हास्यलोभभयकोधप्रत्याख्यानैर्निरन्तरम् । आलोच्य भाषणे-
नापि भावयेत् सूनृतं व्रत” मित्यादिना ॥ एतानि सम्यग्द-
दर्शनज्ञानचारित्राणि मिलितानि मोक्षकारणं न प्रत्येकं
यथा रसायनज्ञानं श्रद्धानाचरणानि सम्भूय रसायनफलं
साधयन्ति न प्रत्येकम् । अत्र संक्षेपतस्तावज्जीवाजीवाख्ये
द्वे तत्त्वे स्तः तत्र बोधात्मको जीवः अबोधात्मकस्त्वजीवः ।
तदुक्तं पद्मनन्दिना “चिदचिद्द्वे परे तत्त्वे विवेकस्तद्विवेचनम् ।
उपादेयमुपादेयं हेयं हेयञ्च कुर्व्वतः ॥ हेयं हि कर्तृरागा-
दि तत् कार्य्यमविवेकिनः । उपादेयं परं ज्योतिरुप-
योगैकलक्षणमिति” ॥ सहजचिद्रूपपरिणतिं स्वीकुर्व्वाणस्य
ज्ञानदर्शने उपयोगः स परस्परप्रदेशात्तु प्रदेशबन्धात् कर्म्म-
णैकीभूतस्यात्मनोऽन्यत्वप्रतिपत्तिकारणं भवति ।
सकलजीवसाधारणं चैतन्यमुपशमक्षयक्षयोपशमवशादौपशमिक-
क्षयात्मकक्षयौपशमिकभावेन कर्म्मोदयवशात् कलुषान्या-
कारेण च परिणतजीवपर्य्यायजीवविवक्षायां स्वरूपं भवति
यदवोचद्वाचकाचार्य्यः “औपशमिकक्षायिकौ भावौ मिश्रश्च
जीवस्य सत्त्वमौदयिकपारिणामिकौ चेति” । अनुदयप्रा-
प्तिरूपे कर्म्मण उपशमे सति जीवस्योत्पद्यमानो भावः
औपशमिकः यथा पङ्के कलुषतां कुर्व्वति कतकादिद्रव्यस-
म्बन्धादधः पतिते जलस्य स्वच्छता । कर्म्मणः क्षयोपशमे
सति जायमानो भावः क्षायिकः यथा मोक्षः । उभयात्म
पृष्ठ ०३८४
भावो मिश्रः यथा जलस्यार्द्धस्वच्छता । कर्म्मोदये सति भवन्
भाव औदयिकः । कर्म्मोपशमाद्यनपेक्षः सहजो
भावश्चेतनत्वादिः पारिणामिकः । तदेतत् सत्त्वं यथासम्भवं
भव्यस्याभव्यस्य वा जीवस्य तत्त्वं स्वरूपमिति सूत्रार्थः ।
तद्क्तम् स्वरूपसम्बीधने “ज्ञानाद् भिन्नो नचाभिन्नो भिन्ना-
भिन्नः कथञ्चन । ज्ञानं पूर्व्वापरीभूतं सोऽयमात्मेति कीर्त्तितः”
इति ॥ ननु भेदाभेदयोः परस्परपरिहारेणावस्थानादन्य-
तरस्यैवावास्तवत्वादुभयात्मकत्वमयुक्तमिति चेत्तदयुक्तं बाधे
प्रमाणाभावात् अनुपलम्भो हि बाधकं प्रमाणं न सोऽस्ति
समस्तेषु वस्तुष्वनेकरसात्मकत्वस्य स्याद्वादिनो मते सुप्रसिद्ध-
त्वादित्यलम् । अपरे पुनर्जीवाजीवयोरपरं प्रपञ्चमाचक्षते
जीवाकाशधर्म्माधर्म्मपुद्गलास्तिकायमेदान् । एतेषु पञ्चसु
तत्त्वेषु कालत्रयसम्बन्धितया स्थितिव्यपदेशः अनेकप्रदेशत्वेन
शरीरवत् कायव्यपदेशः । तत्र जीवा द्विविधाः संसारिणोमु-
क्ताश्च । भवाद् भवान्तरप्राप्तिमन्तः संसारिणः । ते च द्वि-
विधाः समनस्काअमनस्काश्च तत्र संज्ञिनः समनस्काः
शिक्षाक्रियाकलापग्रहणरूपा संज्ञा तद्विधुरास्त्वमनस्काः ।
ते चामनस्का द्विविधाः त्रसस्थावरभेदात् तत्र द्वीन्द्रियादयः
शङ्क्षगण्डोलकप्रभृतयश्चतुर्विधास्त्रसाः पृथिव्यप्तेजोवायु-
वनस्पतयः स्थावराः । तत्न मार्गगतधूलिः पृथिवी
इष्टकादिः पृथिवीकायः पृथिवीकायत्वेन येन गृहीता स
पृथिवीकायकः पृथिवीं कायत्वेत यो ग्रहीष्यति स पृथि-
वीजीवः । एवमबादिष्वपि भेदचतुष्टयं योज्यम् । तत्र
पृथिव्यादिकायत्वेन गृहीतवन्तो ग्रहीष्यन्तश्च स्थावरा
गृह्यन्ते न पृथिव्यादिपृथिवीकायादयः तेषां जीवत्वात् ।
ते च स्थावराः स्पर्शनैकेन्द्रियाश्च । भवान्तरप्राप्तिबिधुरा सुक्ताः
धर्म्माधर्म्माकाशास्तिकायास्ते एकत्वशालिनो निष्क्रियाश्च
द्रव्यस्य देशान्तरप्राप्तिहेतवः । तत्र धर्म्माधर्म्मौ प्रसिद्धौ
आलोकेनाविच्छिन्ने नभसि लोकाकाशपदवेदनीये सर्व्वत्राव-
स्थितिगतिस्थित्युपग्रहो धर्म्माधर्म्मयोरुषकारः अतएव
धर्म्मास्तिकायः प्रवृत्त्यनुमेयः अधर्म्मास्तिकायः स्थित्यनुमेयः
अन्यवस्तुप्रदेशमध्येऽन्यम्य वस्तुनः प्रवेशोऽवगाहः तदाकाश-
कृत्यम् । स्पर्शरसवर्णवन्तः पुद्गलाः ते च द्विविधाः अणवः
स्कन्धाश्च भोक्तुमशक्या अणवः द्व्यणुकादयः स्कन्धाः ।
तत्र द्व्यणुकादिस्कन्धभेदादण्वादिरुत्पद्यते अण्वादिसंघातात्
द्व्यणुकादिरुत्पद्यते क्वचिद्भेदसंघाताभ्यां स्कन्धोत्पत्तिः ।
अत एव प्रयन्ति गलन्तीति पुद्गलाः । कालस्यानेक-
प्रदेशत्वाभावेनाऽस्तिकायत्वाभावेऽपि द्रव्यत्वमस्ति तल्लक्ष-
णयोगात् तदुक्तं गुणपर्य्योयवद्द्रव्यमिति । द्रव्याश्रया
निर्गुणाः गुणा यथा जीवस्य ज्ञानत्वादिसामान्य-
रूपाः पुद्गलस्य रूपत्वादिसामान्यस्वभावाः धर्म्माधर्म्मा-
काशकायानां यथासम्भवं गतिस्थित्यवगाहहेतुत्वादि-
सामान्यानि गुणाः । तस्य द्रव्यस्योक्तरूपेण भवनमुत्पादः
तद्भावः परिणामः पर्य्यायः इति पर्य्यायाः यथा “जीवस्य
घटादिज्ञानसुखक्लेशादयः पुद्गलस्य नृत्पिण्टघटादयः
धर्म्मादीनां गत्यादिविशेषाः अतएव षट् द्रव्याणीति
प्रसिद्धिः । केचन सप्त तत्त्वानीति वर्णयन्ति तदाह जीवा-
जीवास्रवबन्धसंवरनिर्जरमोक्षास्तत्त्वानीति” । तत्र जीवा-
जीवौ निरूपितौ आस्रवो निरूप्यते औदारिकादिकायादि
चलनद्वारेणात्मनश्चलनं योगपदवेदनीयमास्रवः यथा
सलिलावगाहिद्वारं नद्यास्रवणं कारणत्वादास्रव इति निगद्यते
तथा योगप्रणाडिकया कर्मास्रवतीति स योग आस्रवः ।
यथा आर्द्रं वस्त्रं समन्ताद्वा नीतं रेणुजातमुपादत्ते तथा
कषायजलार्द्र आत्मा योगानीतं कर्म्म सर्व्वप्रदेशैर्गृह्णाति
यथा वा निष्टप्तायःपिण्डे जले क्षिप्ते अम्भः समन्ताद्
गृह्णाति तथा कषायोष्णो जीवो योगानीतं कर्म्म समन्ता-
दादत्ते । कषति हिनस्त्यात्मानं कुगतिप्रापणादिति
कषायःक्रोधो मानो माया लोभश्च । स द्विविधः शुभाशुभ-
भेदात् तत्राहिंसादिः शुभः काययोगः सत्यमितहितभाष-
णादिः शुभो वाम्योगः । तदेतदास्रवभेदप्रभेदजातं
कायवाङ्मनःकर्म्मयोगः स आस्रवः शुभः पुण्डस्य, अशुभः
पापत्येत्यादिना सूत्रसन्दर्भेण ससंरम्भमभाणि । अपरे
त्वेवं मेनिरे आस्रवयति पुरुषं विषयेष्विन्द्रियप्रवृत्तिरा-
स्रवः, इन्द्रियद्वारा हि पौरुषं ज्योतिर्विषयान् स्पृशद्रूपा-
दिज्ञानरूपेण परिणमत इति । मिथ्यादर्शनाविरतिप्रमा-
दकषायवशाद्योगवशाच्चात्मा सूक्ष्मैकक्षेत्रावगाहिनामन-
न्तान्तप्रदेशानां पुद्गलानां कर्स्पबन्घयोग्यानामादानमुपश्ले-
पणं यत् करोति स बन्धः । तदुक्तं “सकषायत्वाज्जीवः
कर्म्म भावयोग्यान् पुद्गलानादत्तेस बन्ध” इति । तत्र
कषायग्रहणं सर्व्वबन्धहेतूपलक्षणार्थम् । बन्धहेतून् पपाठ
वाचकार्य्यः “मिथ्यादर्शनाविरतिप्रमादकषाया बन्धहेतवः”
इति । मिथ्यादर्सनं द्विविधं मिथ्याकर्म्मोदयात् परोपदेशानपेक्षं
तत्त्वाश्रद्धानं नैसर्गिकमेकम् अपरं परोपदेशजम् । पृथि-
व्यादिषट्कापादानकं षडिन्द्रियासंयमनञ्च अविरतिः ॥
पृष्ठ ०३८५
पञ्चसभितिगुप्तिष्वनुत्साहः प्रमादः । कषायः क्रोधादिः ।
तत्र कषायान्ताः स्थित्यनुभावबन्धहेतवः प्रकृतिप्रदेशबन्ध-
हेतुर्योग इति विभागः । बन्धश्चतुर्विध इत्युक्तं प्रकृतिस्थि-
त्यनुभावप्रदेशास्तु तद्विधय इति यथा निम्बगुडादेस्तिक्तत्व-
मघुरत्वादिस्वभावः एवमावरणीयस्य ज्ञानदर्शनावरणत्वमा-
दित्यप्रभोच्छेदकाम्भोधरवत् प्रदीपप्रभातिरीधायककुम्भवच्च
सदसद्वेदनीयस्य सुखदुःखोत्पादकत्वमसिधारामधुलेहनवद्द-
र्शनमोहनीयस्य तत्त्वार्थाश्रद्धानकारित्वं दुर्जनसङ्गवच्चारित्रे
मीहनीयस्यासंयमहेतुत्वं मद्यमदवदायुषो देहबन्धकर्तृत्वं
जलवत् नाम्नो विचित्रनामकारित्वं चित्रिकवद्गोत्रस्योच्च-
नीचकारित्वं कुम्भकारवद्दानादोनां विघ्ननिदानत्वमन्तरा-
यस्य स्वभावः कोशाध्यक्षवत् । सोऽयं प्रकृतिवन्धोऽष्टविधः
द्रव्यकर्म्मावान्तरभेदमूलप्रकृतिवेदनीयः । तथावोचदुमास्वा-
तिवाचकाचार्य्यः “आद्यो ज्ञानदर्शनावरणवेदनीयमोहनीया-
युर्नामगोत्रान्तराया” इति तद्भेदञ्च समगृह्णात् पञ्चनवा-
ष्टाविंशतिचतुर्द्विचत्वारिंशद्द्विपञ्चदशभेदा यथाक्रममिति ।
एतच्च सर्वं विद्यानन्दादिभिर्विवृतमिति विस्तरभयान्न प्रस्तू
यते । यथा अजागोमहिष्यादिक्षीराणामेतावन्तमनेहसं
माधुर्यस्वभावादप्रच्युतिस्थितिः तथा ज्ञानावरणादीनां
मूलप्रकृतीनामादितस्तिसृणामन्तरायस्य च त्रिंशत्सागरो-
पमकोटिकोट्यः परा स्थितिरित्याद्युक्तं कालदुर्द्धानवत्
स्वोयस्वभावादप्रच्युतिस्थितिः । यथा अजागोमहिष्या-
दिक्षीराणां तीब्रमन्दादिभावेन स्वकार्य्यकारणे सामर्थ्य-
विशेषोऽनुभावः । तथा कर्मपुद्गलानां कार्य्यकरणे सामर्थ्य
विशेषोऽनुभावः कर्म्मभावपरिणतपुद्गलस्कन्धानामनन्तान्त-
प्रदेशानाम् आत्मप्रदेशानुप्रवेशः प्रदेशबन्धः । आस्रवनि-
रोधः संवरः येनात्मनि प्रविशत् कर्म्म प्रतिषिध्यते स गुप्ति
समित्यादिः संवरः । संसारकारणाद्योगादात्मनोगोपनं
गुप्तिः । सा त्रिविधा कायवाङ्मनोनिग्रहभेदात् । प्राणि-
पीडापरिहारेण सम्यगयनं समितिः सा ईर्ष्याभाषादिभेदात्
पञ्चधा । प्रपञ्चितञ्च हेमचन्द्राचार्य्यैः “लोकातिवाहिते
मार्गे चुम्बिते भास्वदंशुभिः । जन्तुरक्षार्थमालोक्य
गतिरोर्ष्या मता सताम् ॥ आपद्य रागतः सर्व्वजनीनं मितभा-
षणम् । प्रिया वाचंयमानां सा भाषासमितिरुच्यते ॥
द्विचत्वारिंशता भिक्षादोषैर्नित्यमदूषितम् । मुनिर्यदन्न-
मादत्ते सैषणासमितिर्मता ॥ आसनादीनि संवीक्ष्य प्रति-
लङ्घ्य च यत्नतः । गृह्णीयान्निक्षिपेद्ध्यायेत् सा दानसमितिः
स्मृता ॥ कफमूत्रमलप्रायैर्निर्जन्तु जगतीतले । “यत्नाद्यदु
त्सुजेत् साधुः सोत्सर्गसमितिर्भवेत्” ॥ अत एव, “आस्रवः
स्रोतसो द्वारं संवृणोतीति संवरः” इति निराहुः तदुक्तम-
भियुक्तैः “आस्रवो भवहेतुः स्यात् स्वंवरो मोक्षकारणम् ।
इतीयमार्हती मुष्टिरन्यदस्याः प्रपञ्चनम्” ॥ अर्जितस्य कर्म्म-
णस्तपःप्रभृतिभिर्निर्जरणं निर्जराख्यं तत्त्वं चिरकालप्रवृत्त-
कषायकलापं पुण्यं सूखदुःखे च देहेन जरयति नाशयति
केशोल्लुञ्चनादिकं तप उच्यते । सा निर्जरा द्विविधा
यथाकालौपक्रमिकभेदात् तत्र प्रथमा यस्मिन् काले यत्
कर्म्म फलप्रदत्वेनाभिमतं तस्मिन्नेव काले फलदानाद्भवन्ती
निर्जरा कामादिपाकजेति च सा गोयते । यत् कर्म्म
तपोबलात् स्वकामनयोदयावलिं प्रवेश्य प्रपद्यते तत्
कर्म निर्जरा । यदाह “संसारवीजभूतानां कर्म्मणां
जरणादिह । निर्जरा सम्मता द्वेधा सकामा कामनिर्जरा ॥
स्मृता सकामा यमिनामकामा त्वन्यदेहिनामिति” ।
मिथ्यादर्शनादीनां बन्धहेतूनां निरोधः अभिनवकर्म्माभा-
वात् निर्जराहेतुसन्निधानेनार्ज्जितस्य कर्म्मणो निरसबादा-
त्यन्तिककर्म्ममोक्षणं सोक्षः बन्धहेतुभवहेतुनिर्जराभ्यां
कृत्स्नकर्म्मविप्रमोक्षणं मोक्ष इति तदनन्तरमूर्द्ध्वं गच्छत्या-
लोकान्तात् यथा हस्तदण्डादिभ्रमिप्रेरितं कुलालचक्रमुप-
रतेऽपि तस्मिन् तद्बलादेवासंस्कारक्षयं भ्रमति तथा
भवस्थेनात्ममा अपवर्गप्राप्तये बहुशो यत् कृतं प्रणिधानं
मुक्तस्य तदमावेऽपि पूर्ब्बसंस्कारादालोकान्तं गमनमुपपद्यते
यथा वा मृत्तिकालेपकृतमलावूद्रव्यं जलेऽधःपतति पुनरपे-
तमृत्तिकाबन्धमूर्द्ध्वं गच्छति तथा कर्म्मरहित आत्मा
असङ्गत्वादूर्द्ध्वं गच्छति बन्धच्छेदादेरण्डवीजवच्चोर्द्ध्व-
गतिस्वभावाच्चाग्निशिस्वावत् । अन्योन्यं प्रदेशानुप्रवेशे
सत्यविभागेनावस्थानं बन्धः परस्परप्राप्तिमात्रं सङ्गः ।
तदुक्तं “पूर्व्वप्रयोगादसङ्गत्वाद्बन्धच्छेदात्तथा गतिपरिणामा-
च्चाविरुद्धं कुलालचक्रवद्व्यपगतलेपालाबुवदेरण्डवीजवद-
ग्निशिखावच्चेति” । अतएव पठन्ति “गत्वागत्वा निवर्त्तन्ते
चन्द्रसूर्य्यादयो ग्रहाः । अद्यापि न निवर्त्तन्ते त्वालोका-
काशमागता” इति ॥ अन्ये तु गतसमस्तक्लेशतद्वासनस्याना-
वरणज्ञानस्य सुखैकतानस्यात्मन उपरिदेशावस्थानं मुक्तिरि-
त्यास्थिषत । एवमुक्तानि सुखदुःखसाघनाभ्यां पुण्यपांपाभ्यां
सहितानि नव पदार्थान् केचनाङ्गीचक्रुः । तदुक्तं सिद्धान्ते
“जीवाजीवौ पुण्यपापयुतावास्रवः संवरो निर्जरणं बन्धो
पृष्ठ ०३८६
मोक्षश्च नव तत्त्वानीति” । सङ्ग्रहेप्रवृत्ता वयमुपरताः स्म ।
अत्र सर्व्वत्र सप्तभङ्गिनयाख्यं न्यायमवतारयन्ति जैनाः
“स्यादस्ति स्यान्नास्ति स्यादस्ति च नास्ति च । स्यादवक्तव्यः
स्यादस्ति चावक्तव्यः स्यान्नास्ति चावक्तव्यः स्यादस्ति च
नास्ति चावक्तव्य इति” । तत्सर्व्वमनन्तवीर्य्यः प्रत्यपीपदत्
“तद्विधानविवक्षायां स्यादस्तीति गतिर्भवेत् । स्यान्नास्तीति
प्रयोगः स्यात्तन्निषेघे विवक्षिते ॥ क्रमेणोभयवाञ्छाथां
प्रयोगः समुदायभाक् । युगपत्तद्विवक्षायां स्यादवाच्यमश-
क्तितः ॥ आद्योवाच्यविवक्षायां पञ्चमो भङ्ग इष्यते ।
अन्त्योवाच्याविवक्षायां षष्ठोभङ्गसमुद्भवः ॥ समुच्चयेन युक्तश्च
सप्तमो भङ्ग उच्यत इति” । स्याच्छब्दः स्वल्वयं निपातः
तिङन्तप्रतिरूपकोऽनेकान्तद्योतकः । यथोक्त्रम् “वाक्येष्वनेका-
न्तद्योति गम्यं प्रति विशेषणम् । स्यान्निपातोऽर्थयोगित्वात्ति-
ङन्तप्रतिरूपक” इति ॥ यदि पुनरेकान्तद्योतकः स्याच्छ-
ब्दोऽयं स्यात्तदा स्यादस्तोति वाक्ये स्यात्पदमनर्थकं स्यात्
अनेकान्तद्योतकत्वे तु स्यादस्ति कथञ्चिदस्तीति स्यात्-
स्यात्पदात् कथञ्चिदिति अयमर्थो लभ्यते इति
नानर्थक्यम् । तदाह “स्याद्वादः सर्व्वथैकान्तत्यागात्
किं वृततद्विधेः । सप्तभङ्गिनयापेक्षो हेयादेयविशेषकृदितिः” ॥
यदि वस्त्वल्येकान्ततः सर्व्वथा सर्व्वत्र सर्व्वात्मनास्तीति
न उपादित्साजिहासाभ्यां क्वचित् कदा केनचित्प्रवत्तेत
निवर्त्तेत वा प्राप्तप्रापणीयत्वहेयहानानुपपत्तेश्च । अनेका-
न्तपक्षे तु कथञ्चित् केनचित् सत्त्वेन हानोपादाने प्रेक्षा-
वतामुपपद्येते । किञ्च वस्तुनः सत्त्व स्वभावः असत्त्वं
येत्यादि प्रष्टव्यं न तावदस्तित्वं वस्तुनः स्वभाव इति समस्ति
षटोऽस्तीत्यनयोः पर्य्यायतया युगपत्प्रयोगायोगात् नास्तीति
प्रयोगविरोधाच्च एवमन्यत्रापि योज्यम् । यथोक्तम् “घटोऽ-
स्तीति न वक्तव्यं सन्नेव हि यतो घटः । नास्तीत्यपि न
वक्तव्यं विरोधात् सदसत्त्वयोरित्यादि” तस्मादित्थं वक्तव्यं
सदसत्सदसदनिर्ब्धचनीयवादभेदेन प्रतिवादिनश्चतुर्विधाः
पुनरप्यनिर्ब्धचनीयमतेनामिश्रितानि सदसदादिमतानीति
त्रिविधाः तान् प्रति किं वस्त्वस्तीत्यादिपर्य्यनुयोगे कथञ्चि-
दस्तेत्वादिप्रतिवचनसम्भवेन ते वादिनः सर्ब्बे निर्विण्णाः
सन्तः तूणीमासत इति सम्पूर्णार्थविनिश्चायिनः स्याद्वादम-
ङ्गीकुर्व्वतस्तत्र तत्र विजय इति सर्व्वमुपपन्नम् । यदवो-
चदाचार्य्यः स्याद्वादमञ्जर्य्याम् । “अनेकान्तात्मकं वस्तु गोचरः
मर्व्वसंविदाम् । एकदेशविशिष्टोऽर्षो न यस्य विषयो
मतः ॥ न्यायानामेकनिष्ठानां प्रवृत्तौ श्रुतवर्त्मनि ।
सम्पूर्णार्थविनिश्चायि स्याद्वस्तु श्रुतमुच्यते “अन्यो-
न्यपक्षप्रतिपक्षभावाद्यथापरे मत्सरिणः प्रबादाः ।
नयानशेषानविशेषमिच्छन्नपक्षपाती समयस्तथार्हतः” इति ॥
जिनदत्तसूरिणा जैनं मतमित्थमुक्तम् । “बलभोगोपभो-
गानामुभयोर्दानलाभयोः । अन्तरायस्तथा निद्रा भीरज्ञानं
जुगुप्सितम् । हिंसा रत्यरती रागद्वेषौ रतिरतिस्मरः ।
शोको मिथ्यात्वमेतेऽष्टादश दीषा न यस्य सः । जिनो
देवोगुरुः सम्यक् तत्त्वज्ञानोपदेशकः । ज्ञानदर्शनचारित्रा-
ण्यपवर्गस्य वर्त्मनि । स्याद्वादस्य प्रमाणे द्वे प्रत्यक्षमनुमा-
पि च । नित्यानित्यात्मलं सर्ब्धंनव तत्त्वानि सप्त वा ।
जीवाजीवौ पुण्यपापे चास्रवःसंवरोऽपि च । बन्धो निर्ज-
रणं मुक्तिरेषां व्याख्याधुनोच्यते । चेतनालक्षणो जीवः
स्यादजीवस्तदन्यकः । सत्कर्म्मपुद्गलाः पुण्यं पापं तस्य
विपर्य्ययः । आस्रवः कर्म्मणां बन्धो निर्जरस्तद्वियोजनम् ॥
अष्टकर्म्मक्षयान्मीक्षोऽथान्तर्भावश्च कैश्चन । पुण्यस्य संस्रवे
पापस्यास्रवे क्रियते पुनः ॥ लब्धानन्तचतुष्कस्य लोकागू-
ढस्य चात्मनः । क्षीणाष्टकर्म्मणोमुक्तिर्निर्व्यावृत्तिर्जिनोदिता
सरजोहरणा भैक्षभुजो लुञ्चितमूर्द्धजाः । श्वेताम्बराः
क्षमाशीलाः निःसङ्गा जैनसाधवः ॥ लुञ्चिताः पिच्छिका-
हस्ताः पाणिपात्रा दिगम्बराः । ऊर्द्ध्वाशिनो गृहे दातुर्द्वि-
तीयाः स्युर्जिनर्षयः ॥ भुङ्क्ते न केबलं न स्त्रीं मोक्षमेति
दिगम्बरः । प्राहुरेषामयं भेदोमहान् श्वेताम्बरैः सहेति” ॥

अर्हन्त पु० अर्ह--बा० झ । जैनदेवे अर्हति ।

अर्हन्ती स्त्री अर्हतः पूज्यस्य भावः ष्यञ् नुम् ङीष् यलोपः ।

पूज्यतायाम्--“श्रौत्रार्हन्तोचणैर्गुण्यैः” सि० कौ० ।

अर्हा स्त्री चु० अर्ह--अङ् । पूजायाम् । युच् क्तिनएव बाधकः

अर्हित त्रि० अर्ह--क्त । पूजिते । “अभ्यर्हितञ्च” का० वा०

अर्ह्य त्रि० चु० अर्ह--कर्म्मणि ण्यत् । १ प्राप्तुंयोग्ये २ स्तोतुं

योग्ये च । चु० अर्ह--यत् । ३ पूज्ये ।

अल भूषणे, वारणे, भ्वा० उभ० सक० पर्य्याप्तौ अक०

सेट् । अलति ते आलीत् आलिष्ट ।

अल न० अल--अच् । १ वृश्चिकपुच्छस्थे कण्टकाकारे पदार्थे ।

हेम० । २ हरिताले रत्नमा० ।

अलक पु० अलति भूषयति मुखम् अल--क्कुन् । १ ललाटस्थे

छिन्नाग्रे कुटिलकेशे, “कलकलोऽलकलोलदृशाऽन्यया” माघः
“ललाटिकाचन्दनधूसरालका” कुमा० “अस्पृष्टालकबे-
पृष्ठ ०३८७
ष्टनौ” “अलकेषुचमृरेणुश्चूर्ण्णप्रतिनिधीकृतः” इति च रघः ।
“अङ्गलिप्तकुङ्कमे२” च । क्षिपकादित्वात् कापि नेत्त्वम् ।
अलका । अष्टवर्षावघिदशवर्षपर्य्यन्तवयस्कायां ३ कन्यायां ४ कुवे
रपूर्य्याञ्च स्त्री । साच पुरी मेरुशिखरोपरिस्थेति अग्नि-
लोकशब्दे दर्शितम् । तस्याः स्वरूपमुम् “सभा वैश्रवणी
राजन्! शतयोजनमायता । विस्तीर्णसप्ततिश्चैव
योजनानि सितप्रभा । तपसा निर्ज्जिता राजन्! स्वयं वैश्रवणेन
सा । शशिप्रभा प्रावरणा कैलासशिखरोपमा । गुह्य
कैरुह्यमाना सा खे विषक्तेव शोभते । दिव्या हेममयै-
रुच्चैः प्रासादैरुपशोभिता । महारत्नवती चित्रा दिव्यगन्धा
मनोरमा । सिताभ्रशिखराकारा प्लवमानेव दृश्यते ।
दिव्या हेममयैरङ्गैर्विद्युद्भिरिव चित्रिता । तस्यां वैश्रवणो
राजा विचित्राभरणाम्बरः । स्त्रीसहस्रैर्वृतः श्रीमनास्ते
ज्वलितकुण्डलः । दिवाकरनिभे पुण्ये दिव्यास्तरणसं-
वृते । दिव्यपादोपधाने च निषण्णः परमासने । मन्दाराणा
मुदाराणां वनानि परिलोड़यन् । सौगन्धिकवनानाञ्च
गन्धं गन्धवहो वहन् । नलिन्या श्चालकाख्याया
नन्दनस्य वनस्य च । शीतोहृदयसंह्लादी वायुस्तमुप-
सेवते” भा० स० प० । गन्धवतीं नाम वायुपुरीं वर्ण्ण-
यित्वा काशी० ख० “ततःपरं कुवेरस्य श्रीमत्येषालका
पुरीत्युक्तम् । “अलफामतिवाह्यैव” कुमा० ।

अलकनन्दा स्त्री अलति पर्य्याप्तोति क्वुन् अलका नन्दयतीति

अच् नन्दा कर्म्मं० । १ गङ्गायाम् । “विष्णुपदी विष्णु-
पदात् पतिता मेरौ चतुर्द्धास्मात् । विष्कम्भा-
चलस्रस्तसरःसङ्गता गता वियता । सीताख्या भद्राश्वं
सालकनन्दा च भारतं वर्षम्” सि० शि० । “तथैवालक-
नन्दा दक्षिणेन ब्रह्मसदनाद्वहूनि गिरिकूटानि अतिक्रम्य
हेमकूटहिमकूटान्यतिरभसरंहसा लुठन्ती भारतमभि वर्षं
दक्षिणस्यां दिशि लवणजलधिमभिप्रविशति” भा० ५ स्क० ।
अलकैर्नन्दति अच् । २ कन्यायाम् । सा हि अलकैस्तुष्यति ।

अलकप्रभा स्त्री अलका पर्य्याप्ता प्रभा यस्वाः । कुवेरपुर्य्या-

मलकाख्ययाम् ।

अलकप्रिय पु० अलकान् प्रीणाति चिक्कणीकरोति प्री--क । (पियासाल) पीतसालवृक्षे ।

अलकाधिप पु० अलकाया अधिपः ६ त० । कुवेरे ।

अलकेश्वरादयोऽप्यत्र । “अत्यजीवदमरालकेश्वरौ” रघुः ।

अलक्त पु० न रक्नोऽस्मात् ५ ब० रस्य लत्वम् । १ लाक्षारसे,

स्वार्थे कन् । अलक्तकोऽप्यत्र २ तद्धेतौ लाक्षायाञ्च ।
“अलक्ताकाङ्कां पदवीं ततान” कुमा० रघुश्च । “चिरोज्झि-
तालक्तकपाटलेन” कुमा० गोरचनालक्तककुङ्कुमेनेति” तन्त्रम् ।

अलक्षण न० लक्षणमनुमापकं सुचिह्नं न० त० । १ अननुमा-

पके, सुचिह्नभिन्ने २ दुर्लक्षणे च । लक्षणञ्च इतरभेदानु-
मापकं लिङ्गम् यथा पृथिव्यागन्धवत्त्वम् जलस्य स्नेह्-
वत्त्वम् । शुभसूचकं चिह्नविशेषश्च लक्षणं तच्च लक्षणशब्दे
यक्ष्यते । तदुभयभिन्नमलक्षणम् “आचाराद्धनमक्षय्यमाचा-
रोहन्त्यलक्षणम्” मनुः । नास्ति लक्षणं अनुमापकोऽव्यभि-
चारिहेतुः अशुभसूचकहेतुश्च यस्य । ३ तद्वति त्रि० “आसी-
दिदं तमोभूतमप्रज्ञातमलक्षणम्” मनुः । “क्लेशावहा
भर्त्तुरलक्षणाहम्” रघुः । “अलक्षणा भवन्ति यद्वै नास्ति
तदलक्षणमसन्तम्” शत० ब्रा० । “निरृतीः कृष्णास्तुष-
पक्वास्तिस्रोऽलक्षणाः” कात्या० १७, २४, २३ ।

अलक्षित त्रि० लक्ष--क्त न० त० । १ अज्ञाते २ लक्षणेनाननुमिते

“अलक्षिताभ्युत्पतनो नृपेण” रघुः “वपुर्विरूपाक्ष
मलक्षिता जनिः काव्य० प्र० । ३ अकृतचिह्ने च । “दक्षिणेन
द्वारं सोमक्रयणी तिष्ठत्यनुक्षिता व्यङ्गा” कात्या० ।
७, ६, १४, “अलक्षिता अनङ्किता” कर्क० ।

अलक्ष्मी स्त्री विरोधार्थे नञ् त० । लक्ष्मीविरुद्धायां निरृतौ

“आलक्ष्मीति” ख्यातायाम् । “अलक्ष्मीः कालकर्ण्णि च”
पुरा० “अलक्ष्मीरपक्रामति” सुश्रुतः ।

अलक्ष्य त्रि० न लक्ष्यते लक्ष--कर्म्मणि यत् न० त० । १ अज्ञेये

२ दुर्ज्ञेये । “वपुर्विरूपाक्षमलक्ष्यजन्मता” कुमा० । न लक्ष्या
लक्षणया बोध्या । ३ लक्षणाबोध्यभिन्ने “न वाच्यत्वादिकं
तस्य” इत्यस्य व्याख्याने ‘आदिशब्दादलक्ष्यत्वादि’ सा० द० ।
नास्ति लक्ष्यं व्याजोयस्य । ४ व्याजशून्ये त्रि० ।

अलगर्द्द पु० लगति स्पृशति क्विप् लग् अर्द्दयति अर्द्द--अच्

अल् स्प्रशन् सन् अर्दो न भवति । १ विषशून्थे जलव्याले
पृषो० धत्वम् अलः पर्य्याप्तो गृघ्नोति वा गृध--अच् वा ।
अलगर्द्धोऽप्यत्र । दर्वीकरगणनायां सुश्रुतः “महाशिरा
अलगर्द्द आशीविष” इति । २ जलायुकाभेदे स्त्री । “अथ
जलायुका वक्ष्यमे । जलमासामायुरिति जलायुका
जलंमासामोक इति जलौकसः । ता द्वादश तासां सविषाः
षट् तावत्य एव निर्विषाः । तत्र सविषाः कृष्णा कर्व्वुरा
अलगर्दा इन्द्रायुधा सामुद्रिका गोचन्दनाचेति । “रोमशा
महापार्श्वा कृष्णमुख्यलगर्द्दा” इति च सुश्रु० ।

अलग्न त्रि० न लग्नः संसृष्टः । लग्नभिन्ने असंमृष्टे “अलग्न-

मिव ह वै वाग्वदेद्यन्मनो न स्यात्” शत० ब्रा० “अलग्न-
मिव वक्तव्यपदार्थेन सहासंसृष्टम्” भा० । अलग्लमित्यपाठः ।
भाष्यानुक्तेः । ज्योतिषोक्ते पापाक्रान्तादिदुष्टलम्मे न० ।