वाचस्पत्यम्/अनुलेप

विकिस्रोतः तः
Jump to navigation Jump to search

वाचस्पत्यम्


पृष्ठ ०१८४

अनुलेप पु० अनु + लिप--भावे घञ् । चन्दनादिमर्द्दने ।

करणे घञ् । अनुलेपसाधाने चन्दनादौ ।

अनुलेपक त्रि० अनुलिम्पति अनु + लिप--ण्वुल् । चन्दना-

दिभिः स्वदेहदेवार्च्चाद्यनुलेपकारके । स्त्रियां टाप् । तस्याः
धर्म्यं महिष्या० अण् । आनुलेपिकम् तद्धर्म्ये त्रि० ।

अनुलेपन न० अनु + लिप--भावे ल्युट् । चन्दनादिमर्दने

“धात्रीफलं तथा दद्यादनुलेपनकारणादिति” पुरा० ।
करणे ल्युट् । अनुलेपसाधने चन्दनादौ द्रव्ये ।

अनुलेपित त्रि० अनु + लिप--णिच्--कर्मणि क्त । “अनुलिप्तीकृते

अनुलेपिन् त्रि० अनुलिम्पति अनु + लिप--णिनि । अनुलेपके

अनुलोम पु० यथाक्रमे अव्ययी० अच्समा० । यथाक्रमे ।

“अनुलोमविलोमाभ्यां मातृकार्ण्णान् जपेद्बुध इति तन्त्र०
“तत्र प्रतिलोममालिम्पेन्नानुलोममिति” सुश्रुतम्
अनुगतः लोम आनुरूप्यम् रोम वा प्रा० स० ।
आनुरूप्यप्राप्ते, यथाक्रमप्राप्ते च त्रि० “सवर्णासु पुत्राः सवर्णा
भवन्ति अनुलोमजा मातृवर्णा” इति विष्णुस० अनुलोमं
कृष्टं क्षेत्रं प्रतिलोलं कर्षति सि० कौ० । अनुगतरोमे च ।
“अनुलोमाः सुलोमाश्च रुचिरा रोमराजय” इति ।

अनुलोमज पु० स्त्री० अनुलोमेन यथाक्रमेण जातः जन--ड ।

परिणीतक्षत्रियादिस्त्रीषु विप्रादिभ्य उत्कृष्टेभ्यो वर्णेभ्यो
जाते मूर्द्धावसिक्तादौ सङ्कीर्णवर्णे । अनुलोमजाश्च “विप्रान्मू-
र्द्धावसिक्तो हि क्षत्रियायां, विशःस्त्रियाम् । अम्बष्ठः, शूद्र्यां
निषादजातिः पारशवोऽपि वा” “वैश्याशूद्र्योस्तु
राजन्यात्, माहिष्योग्रौ नुतौ स्मृतौ, वैश्यात्तु करणः शूद्र्यां,
विन्नास्वेष विधिः स्मृत” इति च याज्ञ० स० ।

अनुलोमजन्मन् पु० स्त्री० अनुलोमं पितृवर्णानुक्रमेण जन्म

यस्य । अनुलोमजाते मूर्द्धावसिक्तादौ । स्त्रियां डाप् ।
“अन्येऽनुलोमजन्मानः प्रतिलोमभवा अपीति” काशी० ।

अनुवंश अव्य० वंशे विभक्त्यर्थे अव्ययी० । वंशे इत्यर्थे तत्र

भवः परिमुखा० ञ्य । आनुवश्यस्तत्र भवे त्रि० ।

अनुवक्तृ त्रि० अनुवक्ति गुरुमुखात् श्रुत्वा तदनुरूपं वदति अनु

+ वच--तृच् । गुरुमुखोच्चारितानुरूपपाठके । स्त्रियां ङीप् ।

अनुवक्र त्रि० अनुक्रमेण वक्रः । अतिवक्रे “यस्य वक्रानु-

वक्राग्रहा” इति मुश्रुतम् अतिवक्रत्वञ्च ग्रहाणाम्
“अतिवक्रा नगाष्टग” इति सूर्य्याक्रान्तराश्यपेक्षया सप्ताष्ट-
मस्थानस्थितौ भवति ।

अनुवचन न० अनुरूपं वचनम् प्रा० स० । अनुरूपकथने

“तमेतं ब्राह्मणाविविदिषन्ति वेदानुवचनेन” इति “त्रिश-
ङ्कोर्वेदानुवचनमिति” च श्रुतिः ।

अनुवत्सर पु० अनुकूलो वत्सरो दानादिविशेषाय ।

“शकाङ्क्षात् पञ्चभिः शेषात् ममाद्यादिषु वत्सराः । सम्प-
रीदानुपूर्ब्बाश्च तथोदापूर्ब्बका मता” इत्युक्ते वत्सरभेदे ।
“संवत्सरे तथा दानं तिलस्य तु महाफलम् । परिपूर्ब्बे
तथा दानं यवानाञ्च द्विजोत्तम! । इदापूर्ब्बे च वस्त्राणां
धान्यानाञ्चानुपूर्ब्बके उदासंवत्सरे दानं रजतस्य
महाफलमिति” विष्णु० ध० वुरा० । अनुवर्षादयोप्यत्र ।

अनुवर्त्तन न० अनु + वृत--ल्युट् । अनुगमने, अनुसरणे, व्याक-

रणादौ पूर्ब्बसूत्रश्रुतशब्दस्योत्तरसूत्रेऽन्वयार्थमनुसरणे च ।

अनुवर्त्तिन् त्रि० अनु + वृत--णिनि । पाश्चद्गामिनि अनुयायिनि

च स्त्रिर्या ङीप् । “सशरीरा गता स्वर्गं भर्त्तारमनुवर्त्तिनी”
इति रामा० ।

अनुवाक पु० अनूच्यते अनु + वच--घञ् कुत्वम् । गानशून्ये

ऋग्विशेषे, ऋग्यजुःसमूहे, शस्त्रनाम्ना ख्याते वेदांशे ।
“अग्निरेकाक्षरेणेत्यनुवाकं द्वादशवत् कृत्वेति” कात्या०
१४, ५, २६, “चतुःकण्डिकात्मकमनुवाकं द्वादशवदिति”
वेददीपः । “अध्यायानुवाकयोर्लुक्” पा० विमुक्तशब्दो-
ऽस्त्यस्य अण् तस्य वा लुक् । वैमुक्तो विमुक्तो वा अध्यायः
अनुवाको वा ।

अनुवाक्या स्त्री अनु + वच--ण्यत् कुत्वम् । ऋत्विग्भेदः

प्रशास्ता तत्पाठ्यायां देवताह्वानसाधने ऋचि । “पुरोऽनु-
वाक्या याज्या वेति” यजु० “द्वे ऋचौ सुराग्रहाणार्थे
थाज्यानुवाक्ये प्रथमानुवाक्या, सुतमिवेति याज्येति”
वेददीपः । “पुरोऽनुवाक्या याज्या च शस्यैवेति”
वृ० उप० । पुरोऽनुवाक्या प्राक्प्रयोगकालाद् याः प्रयुज्यन्ते
ऋचः सा ऋग्जातिः पुरोऽनुवाक्येत्युच्यते इति भा० ।

अनुवाच् पु० अनुवाचयति अनु + वच--णिच्--क्विप् ।

अनुवाचके अध्यापके ।

अनुवाचन न० अनु + वच--णिच्--ल्युट् । अध्यापने । तत्प्रयो-

जनमस्य अनुप्रव० छ । अनुवाचनीयः अध्यापके त्रि० ।

अनुवात पु० अनुगतो वातः शिष्यादिदेशात् गुर्वादिदेश-

गन्तरि वायौ “प्रतिवातेऽनुवाते च नासीत गुरुणा सहेति”
मनुः ।
पृष्ठ ०१८५

अनुवाद पु० अनु + वद--घञ् । विधिप्राप्तस्य वाक्यान्तरेण

कथने यथा अग्निहोत्रं जुहोतीति वाक्येन प्राप्तस्य होमस्यु
दध्ना जुहोतीति वाक्येन पुनरनुवादेन दधिकरणकत्व-
मात्रं तत्र विधेयम् । तत्र होमस्यानुवादः एवमन्यत्राप्यूह्यम्
अनुवादः पूर्ब्बस्येति का० ४, ३, १८, “य इष्ट्येत्यनेन वाक्येन
पौर्णमास्याममावस्यायां वा विकृतीनामनुष्ठानमुच्यते तच्च
प्रकृतितः प्राप्तमेव अतः कारणात् य इष्ट्येत्यनुवाद इति
तद्व्या० । अनुवादश्च त्रिविध भूतार्थानुवादः स्तुत्यर्थानुवादः
गुणानुवादश्चेति । तत्र सदेव सौम्येदमग्र आसीदित्यादौ भूता-
र्थानुवादः । “वायुर्वैक्षिपिष्ठा देवतेत्यादौ, स्तुत्यर्थानुवादः ।
वायव्यं श्वेतं छागनालभतेत्यादौ, प्राप्ताया वायुदेवतायाः
स्तुत्यर्यत्वात् तस्य स्तुन्यर्यानुवादत्वम् । अग्निहोत्रं जुहोतीति
प्राप्तस्याग्निहोत्रहोमस्य गुणविधानार्थं प्रवृत्तं दध्ना जुहो-
तीत्यादि गुणानुवादः । एवसन्यान्यप्युदाहार्य्याणि ।
अनुक्षणकथने । “क उत्तमः श्लोकगुणानुवादात् पुमान्
विरज्येत विना पुशुघ्नादिति” भाग० “सिद्धोपदेशे च “अनुवादे
चरणानामिति” पा० । “सिद्धोपदेशे” इति सि० कौ० ।

अनुवादक त्रि० अनुवदति अनु + वद--ण्वुल् । अनुवादकारके

अनुवदनशीले च ।

अनुवादिन् त्रि० अनुवदति अनु + वद--णिनि । अनुवादका-

रके, अनुवदनशीले, युक्तगीतानुवादिनि च स्त्रियां ङीप् ।

अनुवाद्य त्रि० अनु + वद--ण्यत् । उद्देश्ये प्राप्तावपि किञ्चि-

द्विधानार्थमनुकीर्त्तनीये । “अनुवाद्यमनुक्त्वैव न विधेयमुदी-
रयेदिति वृद्धाः तथा च । पर्वतो वह्निमानित्येव प्रयोक्तव्यं व
वैपरीत्येन, तथा प्रयोगे तु आलङ्कारिकैः वाक्यगतविधेया
विमर्शदोषो भवतोति प्रतिपादितम् यथा “न्यक्कारो ह्यय-
मेव मे यदरयः” इति वाक्ये अयमेव न्यक्कार इति प्रयोक्तव्ये
तद्वैपरीत्येन प्रयोगात्तथात्वम् । अतएव “वृद्धिरादैच्”
इति पा० सूत्रे आदैच् वृद्धिसंज्ञः स्यादित्यर्थके वृद्धेर्विधेय-
त्वेन पूर्ब्बनिर्वेशावश्यम्भावेऽपि वृद्धिशब्दस्य मङ्गलार्थत्वेन
प्राक्प्रयोगो भाष्यादौ समर्थितः यथा “पूर्ब्बोच्चारितः” संज्ञी
परोच्चारितः संज्ञेत्याक्षिप्य “एतदेकमाचार्य्यस्य मङ्गलार्थं
मृष्यताम् । माङ्गलिक आचार्य्यो महतः शास्त्रौघस्य मङ्गलार्थं
वृद्धिशब्दमादितः प्रयुङ्क्ते । मङ्गलादीनि हि शास्त्राणि प्रथन्ते
वीरपुरुषकाणि च भवन्त्यायुष्मत्पुरुषाणि च अध्येतारश्च
वृद्धियुक्ता यथा स्युरित्यन्तेन” । “माङ्गलिको मङ्गल-
प्रयोजनः । महतोऽर्थतः एकैकं सूत्रं शास्त्रमिति शास्त्रौ-
धस्येत्युक्तम् । मङ्गलादीनीत्यादिना स्वप्रयोजनं श्रोतृ-
प्रयोजनञ्चोक्तम् । प्रथन्ते विस्तृतानि भवन्ति तेन समाप्ति-
रर्थाक्षिप्तेति” भा० उद्यो० ।

अनुवासन न० अनु + वास--सोरभ्ये ल्युट् । धूपादिभिः

सुरभीकरणे, वैद्यौकोक्ते स्नेहाद्यैः वस्तिकर्म्मणि च । “द्विधा-
वस्तिः परिज्ञेयो निरुहश्चानुवासनम् । कषायाद्यैर्निरुहः
स्यात् स्नेहाद्यैरनुवासनम्” इति वैद्यकम् । अनुवसति,
अनुवासरं दीयते वा पृ० । सुश्रुतोक्ते अनुवासनद्रव्ये पु० ।
तत्र यथाप्रमाणगुणविहितः स्नेहवस्तिविकल्पोऽनुवा-
सनः पादावकृष्टः । अनुवसन्नपि न दुष्यत्यनुदिवसं वा
दीयत इत्यनुवासनः । तस्यापि विकल्पोऽर्द्धार्द्धमात्राव-
कृष्टोऽपरिहार्य्यो मात्रावस्तिरिति” । “निरुहः शोधनो
लेखी स्नेहनो वृंहणो मतः । निरुहशोधितान् मार्गान्
सम्यक् स्नेहोऽनुगच्छति । अपेतसर्वदोषासु नाड़ीष्विव
वहञ्जलम् । सर्वदोषहरश्चासौ शरीरस्य च जीवनः ।
तस्माद्धि शुद्धदेहस्य स्नेहवस्तिर्विधीयते” इति । “तत्रो-
न्मादभयशोकपिपासारोचकाजीर्णाशपाण्डुरोगभ्रममदमूर्च्छा
च्छर्दि--कुष्ठ--मेहोदर--स्थौल्यश्वासकासकण्ठशोषशोकोषसृष्ट-
क्षतक्षीणचतुस्त्रिमासगर्भिणी दुर्बलाग्न्युत्सहा बालवृद्धौ
च वातरोगाद्धते क्षीणा नानुवास्या नास्थापयितव्या उदरी
च प्रमेही च कुष्ठी स्थूलश्च मानवः । असाध्यता विकाराणां
स्यादेषामनुवासनात्” इति च सुश्रुतम् । अजादिवस्ति-
चर्म्मधनवस्त्रादिनिर्मितेन (पिच्कारीति) प्रसिद्धयन्त्रेण
धातुवैषम्यदोषनाशाय लिङ्गद्वारेण योनिद्वारेण वा
दीयमानं स्नेहादिद्रव्यमनुवासन इति वैद्यकप्रसिद्धिः ।
अधिकं वस्तिकर्म्मशब्दे वक्ष्यते । अनुवासनं प्रयोजनमस्य
अनुप्रवच० छ । अनुवासनीयः अनुवासनहेतौ त्रि० ।

अनुवासित त्रि० अनु--वास--क्त । सुरभीकृते, वस्तिकर्म्मणा

चिकित्सिते च ।

अनुवास्य त्रि० अनु + वरु--कर्म्मणि यत् । सुरभीकार्य्ये वस्ति-

कर्म्मणा चिकित्स्ये च । “अवश्यं स्थापनीयाश्च नानु-
वास्या कथञ्चनेति” सुश्रुतम् ।

अनुविधायिन् त्रि० अनु + विधत्ते अनु + वि + धा--णिनि ।

पश्चाद्विधायिनि, अनुगते च । “गुणानां तदन्वयव्यति-
रेकानुविधायित्वमिति” सा० द० ।

अनुविद्ध त्रि० अनु + व्यध--क्त । संसृष्टे । “न सोऽस्ति

प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्ध इवार्थो हि
सर्वः शब्देन भासते” इति वाक्यप० । “कीटानुविद्ध्वरत्ना-
दिसाधारण्येन काव्यता । दुष्टेष्वपि मता यत्र रसाद्यनुगमः
स्फुट” इति सा० द० ।

अनुविन्ध्य पु० अवन्तिदेशीये नृपतिभेदे “विन्ध्यानुविन्ध्यावावन्त्याविति” भा० भी० प० ।

पृष्ठ ०१८६

अनुवृत् त्रि० अनु पश्चात् वर्त्तते अनु + वृत--क्विप् । पश्चा-

द्वर्त्तिनि पश्चाद्भाविनि अनुगते च “अनुवृदस्यनुवृते” इति
ता० ब्रा० ।

अनुवृत्त त्रि० अनु + वृत--क्त । अनुगते, पूर्व्वसूत्रादपरसूत्रे

आकाङ्क्षापूरणार्थम् अन्विते पदादौ, अनुक्रमेण वृत्तताप्राप्ते
क्रमशः वर्त्तुलाकारे । अनुगतो वृत्तं शीलम् अत्या० स० ।
शीलानुगते त्रि० ।

अनुवृत्ति स्त्री अनु + वृत--क्तिन् । अनुसरणे, सेवने,

पूर्बसूत्रादुत्तरसूत्रे आकाङ्क्षापूरणार्थमनुसरणे च । “कुशी
दकृषिबाणिज्यशुल्कशालानुवृत्तिभिः कृतोपकारादाप्तञ्च
राजसं समुदाहृतमिति” नारदः । “अनुवृत्तिः सेवेति”
रषु० । “अनुवृत्तिं ध्रुवं तेऽद्व्य कुर्वन्त्यन्यमहीमृतामिति”
देवी० तत्सत्त्वे तत्सत्त्वरूपे अन्वये, समन्वये च । एवं
व्यावृत्त्यनुवृत्तिभ्यामन्नमयत्वं मनसः सिद्धमिति छा०
उप० भा० । “जन्माद्यस्य यतोऽन्ययादिति” भागव० । “अन्व-
शब्देनानुवृत्तिरिति” श्रीघरः नह्यवबुद्धस्वभावा भिषजः
स्वस्थानुवृत्तिं रोगनिग्रहणञ्च कर्त्तुं समर्था इति सुश्रुतम्
“यासां सत्यपि सद्गुणानुसरणे दोषानुवृत्तिः परेति”
सा० द० । दोषः दोषा च तदनुवृत्तिः मेवा अनुसरण-
ञ्चेति तदर्थः ।

अनुवेध पु० अनु + विध--घञ् । संसर्गे । “नहि कीटानुवेधा-

दयो रत्नस्य रत्नत्यं व्याहन्तुमीशा” इति सा० द० ।

अनुवेल न० वीप्सार्थे अव्ययी० । प्रतिसमये अनुक्षणे “इति स्म

पृच्छत्यनुवेलमादृत” इति रघुः । अर्शआदि० अस्त्यर्थे
अच् । तद्वृत्तौ त्रि० ।

अनुवेल्लित न० अनु + वेल्ल--क्त । सुश्रुतोक्ते ब्रणलेपनबन्धभेदे ।

बन्धाच्च “कोशदामस्वस्तिकानुवेश्लितप्रतोलीमण्डलस्थगिका
यमकस्वट्टाचीनविबन्धवितानगोपणा पञ्चाङ्गी चेति
चतुर्दश बन्धविशेषाः तेषा नामभिरेवाकृतयः प्रायेण व्या-
ख्याता” इति सुश्रुतोक्ताः वेदितव्याः । तत्र अनुवेल्लितं
तु शाखासु इति वैद्यकप्रसिद्धिः ।

अनुवेश पु० अनु + विश--घञ् । ज्येष्ठातिक्रमेण कनिष्ठस्य

विवाहे “यवीयसोऽनुवेशो हि ज्येष्ठस्य विधिलोपक” इति
भार० ।

अनुवेश्य त्रि० अनुक्रमेण वेशमहति यत् । प्रतिवेश्यानन्तरवा-

सिनि । “प्रातिवेश्यानुवेश्यौ च कल्याणे विंशतिद्विजे” इति
मनुः । “अनुवेश्यः प्रातिवेश्यानन्तरगृहवासीति कुल्लू० ।

अनुव्य त्रि० अनुव्ययति अनुगच्छति अनु + व्ये--क । अनुगते

ततो देवा अनुव्यमिवासुः का० १, २, ५, अनुव्यम्
अनुगमनं न्यग्भूतिं “प्राप्ता इव बभूवुरिति तद्व्या० ।

अनुव्याख्यान त० अनुरूपं व्याख्यानम् प्रा० स० । मन्त्रा-

दीनामनुरूपार्थप्रकाशके व्याख्याने ।

अनुव्याहार पु० अनु + वि + आ + हृ--घञ् । अनुवादे, सहकथने च ।

अनुव्रजन न० अनु + व्रज + भावे ल्युट् । अनुगमने अनुव्र-

जनं च गच्छतोऽतिस्निग्धादेः जलसमीपपर्य्यन्तानुधावनम्
तथैवोपमाविधया वर्ण्णितं नैषधे “वनान्तपर्य्यन्तमुपेत्य
सस्पृहं क्रमेण तस्मिन्नथ तीर्ण्णदृक्पथे । न्यवर्त्तिदृष्टिप्रकरैः
पुरौकसामनुव्रजद्बन्धुसमाजबन्धुभिरिति” ।

अनुव्रज्या स्त्री अनु + व्रज--क्यप् । अनुसरणादिरूपे सेवने ।

“अब्राह्मणादध्ययनमापत्काले विधीयते । अनुव्रज्या च
शुश्रूषा यावदध्ययनं गुरोरिति” मनुः ।

अनुव्रत त्रि० अनुकूलं व्रतं कर्म्म यस्य । अनुकूलकर्म्मयुक्ते ।

“अनुव्रताय रन्धयन्नपव्रतायेति ऋ० १, ५, ९, अनुव्रताय
अनुकूलकर्म्यणे इति भा० । वैश्याः क्षत्रमनुव्रताः रामा०

अनुशतिकादि न० ६ ब० पाणिनीयगणपाठोक्ते ञिति णिति

किति च तद्धिते परे द्विपदयोराद्यचोवृद्धिनिमित्तीभूते
शब्दसमूहे, सच गणः । अनुशतिक, अनुहोड़,
अनुसंवरण, अनुसंवत्सर, अङ्गारवेणु, असिहत्य, अस्यहत्य,
अस्यहेति, बध्योग, पुष्करसद्, अनुहरत्, कुरुकत, कुरु-
पञ्चाल, उदकशुद्ध, इहलोक, परलोक, सर्वलोक, सर्व-
पुरुष, सर्वभूति, प्रयोग, परस्त्री, (राजपुरुषात् ष्यञि)
सूत्रनड़, आकृतिगणोयम् । तेनाभिगम, अधिभूत,
अधिदेव, चतुर्विद्या, इत्यादयोऽन्येऽपि ।

अनुशय पु० अनु + शीङ्--अच् । अत्यन्तद्वेषे, पश्चात्तापे, पूर्बवैरे

च । अनुगतः शयं हस्तं गतिस० हस्तानुगते त्रि० ।
तत्र क्रीतादिपदार्थविशेषेणानुशयस्वरूपादि नारदेनोक्तम् ।
“क्रीत्वा मूल्येन यः पण्यं क्रेता न बहु मन्यते । क्रीतानुशय
इत्येतद्धिवादपदमुच्यते” । तत्र च यस्मिन्नहनि पण्यं
क्रीतन्तस्मिन्नेवाह्नि तदविकृतं प्रत्यर्पणीयमिति तेनैवोक्तम् ।
“क्रीत्वा मूल्येन यत् पण्यं दुःक्रीतं मन्यते क्रयी । विक्रेतुः
प्रतिदेयन्तत्तस्मिन्नेवाह्न्यविक्षतमिति” । द्वितीयादिदिने तु
प्रत्यर्पणे विशेषस्तेनैवोक्तः । “द्वितीयेऽह्नि ददत् क्रेता
मूल्यात्त्रिंशांशमाहरेत् । द्विगुणन्तु तृतीयेऽह्नि परतः
क्रेतुरेव तदिति” । परतोऽनुशयो न कर्त्तव्य इत्यर्थः ।
एतच्च वीजादिव्यतिरिक्तोपभोगादिविनश्वरवस्तुविषयम् ।
वीजादिक्रये पुनरन्य एव प्रत्यर्पणेऽवधिरित्याह । “दशैक-
पृष्ठ ०१८७
पञ्चसप्ताहमासत्र्यहार्द्धमासिकम् । वीजायोवाह्यरत्नस्त्री
दोह्यपुंसां परीक्षणम्” । वीजं व्रीह्यादिवीजम् । अयो
लौहम् । वाह्यो बलीवर्द्दादिः । रत्नं मुक्ताप्रबालादि ।
स्त्रींदासी । दोह्यं महिष्यादि । पुमान् दासः । एषां
वीजादीनां यथाक्रमेण दशाहादेकः परीक्षाकालो
विज्ञेयः । परीक्ष्यमाणे च वीजादौ यद्यसम्यग्बुद्ध्याऽनु-
शयो भवति तदा दशाहाभ्यन्तर एव क्रयनिवृक्षिः । न
पुनरूर्द्ध्वमित्युपदेशप्रयोजनम् । यत्तु मनुवचनम् । “क्रीत्वा
विक्रीय वा किञ्चित् यस्येहानुशयो भवेत् । सोऽन्तर्दशाहात्
तद्द्रव्यं दद्याच्चैवाददीत वेति” । तदुक्तलोहादिव्यति-
रिक्तोपभोगादिविनश्वरगृहक्षेत्रयानशयनासनादिविषयम् ।
सर्वञ्चैतदपरीक्षितक्रीतविषयम् । यत् पुनः परीक्षितन्न
पुनः प्रत्यर्पणीयमिति समयं कृत्वा क्रीतं तद्दिकेत्रे न प्रत्य-
र्पणीयम् तदुक्तम् । “क्रेता पण्यं परीक्षेत प्राक् स्वयं
गुणदोषतः । परीक्ष्याभिमतं क्रीतं विक्रेतुर्न भवेत्
पुनरिति” मिता० । ततश्च क्रीतस्य, विक्रीतस्य, अन्यथा वा
कृतस्य वस्तुनः, असमीचीनत्वबुद्ध्या यः पश्चात्तापः सोऽनुशय
इति बोध्यम् । “भुक्तकर्म्मणोऽवशेषे च “कृतात्ययेऽनुशय-
वान् दृष्टस्मृतिभ्यां यथेतमनेवमिति” शा० सू० स्वर्गार्थ-
कर्म्मणो भुक्तफलस्यावशेषः कश्चिदनुशयो नाम भाण्डानु-
सारिस्नेहवत् यथा हि स्नेहभाण्डं विरिच्यमानं न सर्वा-
त्मना विरिच्यते भाण्डानुसार्य्येव कश्चित् स्नेहशेषोऽवतिष्ठते
तथानुशयोऽपीति” भा० । “तत्र दृष्टं प्रत्यक्षं श्रुतिः
सा हि सानुशयानामेवावरोहं दर्शयति यथा “तद्य इह
रमणी चरणा अभ्यासोह यत्ते रमणीयां योनिमापद्येरन्
ब्राह्मणयोनिं वा क्षतिययोनिं वा वैश्ययोनिं वा अथ य इह
कपूयचरणा अभ्यासोह यत्ते कपूयां योनिमापद्येरन्
श्वयोनिं वा शूकरयोनिं चाण्डालयोनिं वेति” । चरणशब्दे
नानुशयः (शेषः) सूच्यते । दृष्टश्चायं जन्मनैव प्राण्युच्चाव-
चरूपौपभोगः गविभज्यमान आकस्मिकत्वासम्भवात्
अनुशयसडायं सूचयति अभ्युदयप्रत्यवाययोः सुकृतदुप्कृतहेतु-
कत्वस्य सामान्यतः शास्त्रेणावगमितत्वादिति च शा० भा० ।

अनुशयाना स्त्री अनु + शीङ--शानत्त् । परकीयनायिकाभेदे ।

तद्विवरणं नायिकाशब्दे दृश्यम् । अनुतापकर्त्तरि त्रि० ।

अनुशयिन् पु० अनु + शीङ्--इनि । यावत्कर्मक्षयं चन्द्रलोके

स्थित्वा सावशेषे एव कर्म्मणि पश्चात्तापान्विततया भूमि-
लोके जन्मग्रहणायागन्तुं प्रवृत्ते जीवे । “यो यी ह्यन्नमत्ति
अनुशयिभिः तदंशेन भावितत्वात् संस्कृतत्वाच्च संश्लिष्ट-
रेतःसिगिति” छा० भा० । तस्य रेतःसिगाकृत्याः पूर्ब्ब-
सम्मूतत्वात् तद्रूपेण गर्भाशयमनुप्रविष्टोऽनुशयी रेतःसिगा-
कृतिर्भवतीति आनन्द० । पश्चात्तापयुते त्रि० । पुण्षस्य
अनुशयत एव भुक्तभोगायाः प्रकृतेस्त्यागः श्रुतावप्युक्तः ।
“अजामेकां लोहितशक्लकृष्णां बह्वीः प्रजाः सृजमानां
स्वरूपाः । अजोह्येको जुषमाणोऽनुशेते जरात्येनां भुक्त-
भोगामजोऽन्य इति “यं संपद्य जहात्यजामनुशयी सुप्तः
कुलायं यथेति” भाग० ।

अनुशयी स्त्री अनुशय्यते पश्चात्तप्यतेऽस्याम् । अनु + शीङ्-

अधिकरणे अच् गौरा० ङीष् । पादरोगभेदे, “हरेदनु-
शयीं वैद्यः क्रियया श्लेष्मविद्रधेरिति” भावप्रकाशः ।

अनुशर पु० अनुशृणाति अनु + शॄ--कर्त्तरि--अच् । राक्षसे ।

अनुशासन न० अनुशिष्यते याथार्थ्येन निरूप्यते अनु + शास--

भावे ल्युट् । याथार्थ्यज्ञापने, निरूपणे, कर्त्तव्योपदेशे च ।
“ऋणे देये प्रतिज्ञाते पञ्चकं शतमर्हति । अपह्नुते तद्द्वि-
गुणं तन्मनोरनुशासनमिति” मनुः अनुशासनविरोधादिति
वृद्धाः । करणे ल्युट् । तत्प्रतिपादके शास्त्रे यथा “अथ
शब्दानुशासनम्” । “अनुशिष्यन्तेऽसाधुशब्देभ्यो विविच्य
बोध्यन्तेऽनेनेति करणल्युड़न्ततया शास्त्रपदेन सामानाधि-
करण्यमिति भाष्यप्रदीपोद्द्योतः । “अथशब्दानुशासनं
नाम शास्त्रमधिकृतं वेदितव्यमिति भाष्यम्” । “अथ
योगनुशासातमिति” पातञ्जलसूत्रम् योगोऽनुशिष्यतेऽनेन तादृशं
शास्त्रमधिकृतमिति तदर्थः उभयत्र अथशब्दस्याधिकारार्थं
त्वात्तथात्वम् “नामलिङ्गानुशासनमित्यमरः” अनुशासनं
धमानरूपणं प्रयोजनमस्य ठक् आनुशासनिकम् ।
महाभारतान्तर्गतानुशासनपर्व्वणि ।

अनुशासितृ त्रि० अनुशास्ति याथार्थ्येन कर्त्तव्यमुपदिशति

अनु + शास--तृच् । कर्त्तव्योपदेशके । स्त्रियां ङीप् ।
औणा० तृन् । अनुशास्तापि तत्रार्थे त्रि० स्त्रियां ङीप् ।

अनुशासिन् त्रि० अनु + शास--णिनि । कर्त्तव्योपदेशके दण्ड

यितरि च “एषस्तेनानुशासी राजेति” विक्र० ।

अनुशिष्ट त्रि० अनु + शास--कर्म्मणि क्त । कृतानुशासने, यस्य

हितोपदेशः क्रियते तस्मिन्, दण्डिते च ।

अनुशीत अव्य० शीते विभ० अव्ययी० । शीते इत्यर्थे,

पारमुखा० भवादौ ञ्य । आनुशीत्यः तद्भवादौ त्रि० ।

अनुशीलन न० अनुक्षणं शीलनं प्रा० स० । सतताभ्यासं

अनुक्षणाचरणे “आनुकूल्येन कृष्णानुशीलनं भक्तिरुत्त
सेति” भक्तिरसा० कृष्णस्यतद्गुणकीर्त्तनस्यानुशीलनं तदर्थः
पृष्ठ ०१८८

अनुशोक पु० अनु + शुच--घञ् । पश्चाच्छोके अनुशोचने ।

अनुशोचन न० अन + शुच--ल्युट् । अनुशोके । “इष्टं दत्तम-

धीतं वा विनश्यत्यनुकीर्त्तनात् । श्लाघानुशोचनाभ्यां च भग्न-
तेजो विभिद्यते” इति शु० त० देवलः । अनुशोचनं
धनव्ययेन पश्चात्ताप इति रघुनन्दनः । स्वार्थे णिचि युच् ।
अनुशोचना तत्रैवार्थे स्त्री ।

अनुशोचनीय त्रि० अनुशुच्यते अनु + शुच--कर्म्मणि

अनीयर् । अनुशोचनार्हे यमुद्दिश्य शोक क्रियते तस्मिन् ।

अनुशो(शु)चित न० अनु + शुच--भावे क्त उदुपधत्वात् वा न

कित्त्वम् । अनुशोचने । अनुशोचितुमारब्धः आरम्भार्थे
क्त वा गुणः । कृतशोचनारम्भे त्रि० ।

अनुश्लोक न० अनुश्लोक्यते गीयते अनु + श्लोक--कर्म्मणि अच् ।

महाव्रते गेये सामभेदे, “श्लोकेन स्तुवते पुरस्तात् सदसः,
अनुश्लोकेन पश्चादिति” ता० ब्रा० । तच्च वेगानग्रन्थे
११२ प्रपा० आद्यम् सास ।

अनुषक्त त्रि० अनु + सन्ज--क्त । संलग्ने । “येऽत्र नकारानुषक्ता” इति सि० कौ० ।

अनुषङ्ग पु० अनु + सन्ज--घञ् । दयायां दयया हि अन्यदुःखे-

नान्यदुःखसम्बन्धात्तथात्वम् । प्रसङ्गे, प्रसङ्गश्च अन्योद्देशेन
प्रवृत्तस्य तन्नान्तरीयकविधयान्यसिद्धिः यथा “विप्रबध-
प्रायश्चित्तेन तन्नान्तरीयकविधया अवगोरदण्डनिपातन-
प्रायश्चित्तसिद्धिः । “क्षयं केचिदुपात्तस्य दुरितस्य प्रच-
क्षते । अनुत्पत्तिं तथाचान्ये प्रत्यवायस्य मन्वते । नित्य-
क्रियां तथाचान्ये ह्यनुषङ्गफलां श्रुतिमिति” प्रा० त०
आप० स्मृ० । अनुषङ्गेण फलं यस्या इति तदर्थः । एकत्र
वाक्ये श्रुतस्य शब्दस्यान्यत्र वाक्येऽन्वयार्थमाकर्षणे । यथा
“नित्यक्रियां तथा चान्ये” इति वाक्ये पूर्व्ववाक्योपात्तस्य
मन्वते इति क्रियापदस्यान्वयार्थमाकर्षणम् । तथा पञ्चा-
वयवन्यायवाक्येषु उपनयवाक्यस्थस्य अयमिति पदस्य
निगमनकाक्येऽन्वयार्थमाकर्षणम् । यथा वह्निव्याप्यो धूमो
धमावांश्चायमिति उपनयवाक्यस्थस्य अयमिति शब्दस्य
तस्माद्वह्निमानिति वाक्येऽन्वयेन अयं वह्निमानिति बोधः ।
अतएव शास्त्रकारैः पूर्ब्बत्र श्रुतशब्दस्योत्तरत्रानुकर्षणबोघ-
नाय एतत्पदमनुषञ्जनीयमित्युक्तम् ।

अनुषङ्गिन् त्रि० अनुक्षणं सजते अनु + सन्ज घिनुण् ।

अनुक्षणं प्रसक्ते । “सप्तकस्यास्य वर्गस्य सर्वत्रैवानुषङ्गिणः ।
पर्ब्बं पूर्ब्बं गुरुतरं विद्याद्व्यसनमात्मन” इति मनुः ।
अनुषङ्गिणः प्रायेणावस्थितस्येति” कुल्लू० । व्यापके च ।
“विभुतानुषङ्गि भयमेति जन इति “किरा० विभुतायाः
प्रभुत्वस्यानुषङ्गि व्यापकमिति” तट्टीकायां मल्लिनाथः ।

अनुषज् अव्य० अनु + सन्ज--क्विप् । आनुपूर्ब्बो । स्वरादेरा-

कृतिगणत्वादय तद्गणीयः” इति मनो० । पृ० दीर्घः ।
आनुषगप्यत्रार्थे अव्य० ।

अनुषिक्त त्रि० अनु + सिच--क्त । सततसिक्ते पश्चात्सिक्ते च ।

अनुषेचन न० अनु + सिच--भावे ल्युट् । अनुक्षणसेचने

पश्चात्सेचने च ।

अनुष्टुति स्त्री अनु + स्तु--क्तिन् । अनुक्रमेण स्तुतौ “यः पूर्ब्ब्य-

मनुष्ठुतिमीशे इति ऋ० ८, ६८, अनुष्टुतिम् अनुक्रमेण
क्रियमाणां स्तुतिमिति भाष्यम् ।

अनुष्टुब्गर्भा स्त्री ६ ब० । “आद्यः पञ्चाक्षरः” पादः उत्तरे-

ऽष्टाक्षरास्त्रयः अनुष्टुब्गर्भैव सोष्णिक्सेत्युक्तलक्षणे छन्दो-
भेदे । “अद्यः पञ्चकस्त्रयोऽष्टका अनुष्टुब्गर्भा” इति का० सर्वा०

अनुषण्ड अव्य० षण्डः पद्मसमूहस्तत्र विभ० अव्ययी० ।

षण्डे इत्यर्थे । तत्र जातादि कच्छादि० अण् ।
आनुषण्डस्तज्जाते त्रि० ।

अनुष्टुभ् स्त्री अनु + स्तुन्भ--क्विप् षत्वम् । सरस्वत्याम्, अष्टा-

क्षरपादके, छन्दोभेदे वाचि च । अनुष्टुप्छन्द इति य०
१५, ५, “अनु निरन्तरं स्तुभ्यतेऽनया अनुष्टुप् वाक्” वागेव
संस्तुप् छन्दः “वागनुष्टुप् छन्द” इति श्रुतेरिति वेददी० ।
“अनुष्टोभनादनुष्टुबिति” ब्राह्मणे निरुक्तिः । “गायत्र्युष्णि-
गनुष्टुप् चेति वृत्त० । अनुष्टुप् च द्विविधा यथा कथञ्चिद-
अष्टाक्षरपादिका जातिः, विशेषसन्निवेशयुक्ताक्षरं छन्दश्च ।
तत्र जातेः २५६ भेदाः । “पञ्चमं लघु सर्व्वत्र सप्तमं द्विचतु-
र्थयोः । गुरु षष्ठञ्च पादानां शेषेर्ष्वनियमो मत” इति
छन्दोमञ्जर्य्युक्तलक्षणं द्वितीयम् । तस्य च पञ्चमलघुत्वं
व्यभिचरति च “यियक्षमाणेनाहूत” इति माघः । तस्य
च मात्रावृत्तरूपत्वं यथा “प्रयोगे प्रायिकं प्राहुः केऽप्येत-
द्वक्तलक्षणम् । लोकेऽनुष्टुबिति ख्यातम् तस्याष्टाक्षरता कृतेति
छन्दोम० । अतएव वृत्तरताकरे “वक्त्रं नाद्यान्नसौ स्या
मब्देर्योऽनुष्टुभि ख्यातमिति” वक्त्रनामतोक्ता । वर्ण्णवृ-
त्तस्य तु वितानमिति नाम यथोक्तं वृत्तरत्नाकरे “वितान-
माभ्यां यदन्यदिति ।” आभ्यां समानिकाप्रमाणिका-
भ्यामन्यत् सर्वमित्यर्थः । “अथ छन्दांसि गायत्र्युष्णिगनु-
ष्टुब्वृहतीपङ्क्तित्रिष्टु बित्याद्युपक्रम्य चतुर्विशत्यक्षरादीनि
चतुरुत्तराणि, ऊनाधिकेनैकेन निचृद्भूरिजौ, द्वाभ्यां
विराट्स्वराजौ, पादपूरणार्थं तु क्षिप्रसंयोगैकाक्षरीभावात्
व्यूहेदिति “अनादेशेऽष्टाक्षराः पादाश्चतुष्पदाश्चर्च इति
तृतीयमनुष्टुबिति” च कात्या० सर्व्वानुक्र० “शुचिमनु-
ष्णिहा प्राणमनुष्टुभेति” यजु० ।
पृष्ठ ०१८९

अनुष्ठ त्रि० अनुक्रमेण तिष्ठति अनु + स्था--क षत्वम् ।

अनुक्रमेण स्थातरि “हिता विश्वा अनुष्ठा प्रवणेषु जिघ्नते
इति ऋ० १, ५४, १०, अनुष्ठाः अनुक्रमेण तिष्ठन्तीरिति
भाष्यम् । भावे अङ् टाप् । अनुष्ठाने स्त्री ।

अनुष्ठातृ त्रि० अनु + स्था--तृच् स्त्रियां ङीप् । विधानकर्त्तरि

“शास्त्रदेशितं फलमनुष्ठातरीति” न्यायवाक्यम् ।

अनुष्ठान न० अनु + स्था--भावे ल्युट् षत्वम् । विहितकर्म्मा-

दिकरणे । अलब्धलाभादिकमभिधाय “एतच्चतुर्विधं विद्यात्
पुरुषार्थप्रयोजनम् । अस्य नित्यमनुष्ठानं सम्यक् कुर्य्यादत-
न्त्रित” इति मनुराह स्म “उपरुध्यते तपोऽनुष्ठानम्” शकु० ।

अनुष्ठित त्रि० अनु + स्था--कर्म्मणि क्त । विधानेन कृते

धर्म्मकार्य्यादो “अस्माभिर्यदनुष्ठेयं गन्धर्वैस्तदनुष्ठितमिति”
भा० व० प० ।

अनुष्ठु अव्य० अनु + स्था--कु । सम्यगित्यर्थे “पांर्थिवानामृतून्

प्रासासद्विदधावनुष्ठु इति ऋ० १, ९५, ३, अनुष्ठु इत्येतद-
व्ययं सम्यकसमानार्थं सुष्ठु यथेति भा० ।

अनुष्ठेय त्रि० अनु + स्था--कर्म्मणि यत् । विधेये । “अस्माभि-

र्यनुष्ठेयं भन्धर्वैस्तदनुष्ठितमिति” भा० व० प० ।

अनुष्ण त्रि० न उष्णः न० त० । उष्णभिन्ने शीतपदार्थे

“अनुष्णाभिरफेनाभिरद्भिस्तीर्थेन धर्भविदिति” मनुः ।
न उष्णः विरोधे न० त० । अलसे । अलसो हि
शीतबाधाभावेऽपि शीतबाधामभिनयन् कर्त्तव्यकर्न्मणि
जड़ इव भवति दक्षस्तु शीतेऽपि तदगणयित्वा कर्त्तव्य-
करणाव अजड इव सन् व्याप्तियते इति तयोरुष्णानु-
ष्णता । अत्र कारिण्यर्थे कनि अनुष्णकोऽपि । उत्पले
न० । उष्णभिन्ने शीतले स्पर्शे पु० “अनुष्णाष्णीतपाकज”
इति भाषा० । अनुष्णः स्पर्शश्च पृथिवीसमीरणयोः,
तयोरौष्ण्योपलब्धिस्तु तेजःसंयोगविशेषादिति बोध्यम् ।

अनुष्णगु पु० अनुष्णाः शीतला गावः किरणाः अस्य । चन्द्रे

अनुष्णकिरणादयोऽप्यत्र पु० ।

अनुष्णवल्लिका स्त्री अनुष्णा शीतला वल्लीव इवार्थे कनि

टापि अत इत्त्वम् । नीलदूर्व्वायाम् ।

अनुसंवत्सर अव्य० संवत्सरे विभक्त० वीष्मायां वा अव्ययो० ।

वत्सरे इत्यर्थे, प्रतिवर्षे च । तत्र भवादौ ठञ्, अनुशतिका०
उभयपदवृद्धिः । आनुसावतसरिकः प्रतिवर्षभवे त्रि० ।

अनुसंवरण न० अनु + सम् + वृ--ल्युट् । अनुक्रमेण गोपने ।

अनुसंवरणाय हितम् ठण् अनुशतिका० द्विपदवृद्धिः ।
आनुसांवरणिकः तद्भवादो त्रि० ।

अनुसंहित त्रि० अनु + सम् + धा--कर्म्मणि क्त । कृतानुसन्धाने

यस्य ज्ञानार्थमन्वेषणादिकम् क्रियते तस्मिन् । संहितायां
विभ० अव्ययी० । संहितायामित्यर्थे । ‘अथैके प्राहुर-
नुसंहितमिति ऋग्वेदप्रातिणाख्यम् ।

अनुसन्तति स्त्री अनुक्रमेण सन्ततिः । अविच्छेदधारायाम्

“अनुसन्तिपातिनः पटुत्वभिति” माघः ।

अनुसन्धान न० अनु + सम् + घाञ्--ल्युट । अग्नेषणे, चिन्तने च

अनुसन्धेय त्रि० अनु + सम् + धा कर्म्मणि अहाद्यर्थे वा यत् ।

अन्सन्धातुं योग्ये, अनुसन्धातव्ये च ।

अनुसर त्रि० अनुसरति पश्चाद् गच्छति । अनु + सृ--ट स्त्रियां

ङीप् । अनुचरे सहगन्तरि च ।

अनुसरण न० अनु + सृ--ल्युट् । अनुगमने, सदृशीकरणे च ।

अनुसवन अव्य० सवनस्य पश्चात् अव्ययी० । सवनस्य (स्नानस्य)

पश्चात् सवने, “अनुसवनमेनमालभेरन्निति का० २५, १३,
२६, एनं ज्वराछभिभूतं दीक्षितं सर्व्वे ऋत्विजः सवनान्तेषु
स्पुशेयुरिति तदव्याख्या ।

अनुसाय अव्य० साये विभ० अव्ययी० । सायाह्ने इत्यर्थे

तत्रभवः पारिमुखा० ञ्य । आनुसाय्यः तत्रभवे त्रि० ।

अनुसार पु० अनु + सृ--घञ् । अनुसरणे, “धर्मशास्त्रानु-

सारेण क्रोधलोभविवर्जितः” इति या० स्मृतिः । “कृतानु-
सारादधिका व्यातारक्ता न सिध्यतीति” मनुः ।

अनुसारणा स्त्री अनु + सृ + णिच्--युच् सारणा अनुगत्य सारणा

चालना । अनुधावने, अपसारणायाम्, भीतिहेतोरनुधावने
हि भीतस्य चालना भवतीति तस्य सरणाहेतुत्वम् “तस्मात्
पलायमानानां कुर्य्यान्नात्यनु सारणाम्” भा० शा० प० ।

अनुसारिन् त्रि० अनुसरति पश्चाद् गच्छति अनु + ऋ--णिनि ।

अनुगलरि । “कृष्णसारे ददच्चक्षुस्त्वयि चाधिज्यकार्मुके ।
मृगानुसारिणं साक्षात् पश्यामीव पिनाकिन” मिति शकु० ।
“यदा यदा सतां हानिर्वेदमार्गानुसारिणामिति” पुरा० ।

अनुसूया स्त्री अनुसूयते अनु + सू--क्यप् । शकुन्तलासहचरी-

भेदे शकु० । अनुसूयेत्येके ।

अनुसृति स्त्री अनु + सृ--क्तिन् । अनुसरणे । अनुसरति वुला-

न्तरं कर्चारि संज्ञायां क्तिच् । कुलटायां स्त्रियां, स्त्री ।
तस्याः अपत्यं मतान्तरे कल्याण्यादि० ढक् इनङ् च ।
आनुसृतिनेयः तदपत्ये पु० स्त्री० ।
पृष्ठ ०१९०

अनुसृष्टि स्त्री अनु + सृज--क्तिन् । अनुसर्जने । कर्त्तरि संज्ञायां

क्तिच् । प्रत्युत्पन्नमतौ स्त्रियां स्त्री । तस्याः अपत्यम्
कल्याण्यादि० ढक् इनङ् च । आनुसृष्टिनेयः तदपत्ये
पु० स्त्री० ।

अनुसेविन् त्रि० अनुक्षणं सैवते अनु + सेव--णिनि स्त्रियां

ङीप् । सततसेविनि “क्रूरकर्म्मानुसेविनीमिति” रामा० ।

अनुस्तरण त्रि० अनुस्तीर्त्यते अनु + स्तॄ--क्वरणे ल्युट् । आच्छा-

दने चर्म्मादौ स्त्रियां ङीप् । “अनुस्तरण्या वपामुत्खिद्य
शिरोमुखं प्रच्छादयेदिति” ता० ब्रा० । तत्साधने स्त्रीगव्यां
स्त्री । “अनुस्तरणीं गामजां वैकवर्णां कृष्णामेके सव्ये वाहौ
बद्ध्वेति” श्रुतिः । “सेयं गौः स्तृतं दीक्षितमनुस्तृतत्वाद्धिंसित-
त्वाच्चानुस्तरणीत्युच्यते” इति तन्निरुक्तब्राह्मणम् ।
अनुतीर्य्यते वैतरणी नदी अनया अनु + तॄ--करणे ल्युट् पृ०
सुट् । वैतरणीनद्युत्तारिकायां गवि स्त्री । “तस्मात्
पुरुषाय पुरुषानुत्तरणी क्रियते इति” श्रुतिः ।

अनुस्मृति स्त्री अनु + स्मृ--क्तिन् । अनु रूपचिन्तने आलम्बन-

सदृशतया चिन्तने “अनुस्मृतेर्वादरिरिति” शा० सू० । प्रादेश-
मात्रत्वेन अयम् (परमेश्वरः) अप्रादेशमात्रोऽप्यनुस्मरणीयः
प्रादेशमात्रप्रत्ययवत्त्वाय । एवमनुस्मृतिनिमित्ता परमेश्वरे
प्रादेशमात्रश्रुतिरिति वादरिराचार्य्योमन्यते इति भा० ।
“प्रादेशमात्रोऽह्यपरोऽपि दृष्ट इत्यादौ श्रुत्यौ प्रादेशमात्र-
श्रवणमनुस्मृत्यर्थमित्यत्र तत्तात्पर्य्यम् ।

अनुस्यूत त्रि० अनु + सिव--क्त ऊट् । ग्रथिते, सततसंबन्धे च ।

“स्रक्सूत्रवत् सर्व्वानुस्यूतेति” ति० त० रघुनन्दनः ।

अनुसमाहार पु० अनु + सम् + आ + हृ--घञ् । अनुसन्धाने

“अनुसमाहरतीत्यस्यानुसन्धत्ते” इति भाष्ये व्याख्याना-
त्तथात्तम् ।

अनुस्वार पु० स्वृ--अप् उदात्तादिस्वरवत्त्वात् स्वराः स्वरवर्णा-

एव स्वाराः अनुगतः स्वारान् अत्या० स० । स्वराश्रयेण
उच्चार्य्यमाणे विन्दरेखया व्यज्यमानेऽनुनासिके वर्णभेदे ।
“अनुस्वारो विसर्गश्चेंत्युपक्रस्य “आश्रयस्थानभागिन”
इत्युक्तेस्तस्य तयात्वम् । सानुस्वारो विसर्गी च दीर्घश्चैव
गुरुर्भवेत् छन्दोम० । “अनुस्वारो विसर्गश्च + कँपौ
चापि पराश्रितौ । अयोगवाहा विज्ञेया आश्रय
थानमागिन” इति शिक्षा ।

अनुहरण न० अनु + हृ--ल्युट् । देशभाषाचेष्टादिना सदृशी-

करणे, सादृश्यधर्म्माविष्करणे च ।

अनुहार पु० अनु + हृ--षञ् । अनुकरणे पश्चाद्धरणे च ।

अनुहार्य्य त्रि० अनु + हृ--ण्यत् । सदृशीकार्य्ये ।

अनुहृत त्रि० अनु + हृ--क । अनकृते सदृशीकृते ।

अनुहोड त्रि० होडे विभक्त्य० अव्ययी० । हाडे इत्यर्थे ।

तत्र भवादौ ठक् अनुशतिका० द्विपदवृद्धिः । आनुहोडि-
कः । होडभवे त्रि० ।

अनूक पु० अनु + उच--समवाये क नि० कुत्वम् । गतजन्मनि ।

सुशीले न० । वङ्क्र्याधारे पृष्ठास्थिभेदे पु० । यन्न
शीर्ष्णोऽवद्यति नांसयोर्नानूकस्य नापरसक्थयोरिति” शत०
३, ८, ३, २७, भाष्यकृता तथैव व्याख्यातम ।
चयनसाधने यज्ञिये इष्टकोपधायकपात्रभेदे न० । “अयुग्मागण-
मध्यमानूके” इति कात्या० १६, ७, २२ । अयुग्मो य इष्टका
गणः तासां मध्यमाऽनूके उपधेया इति । “एका च”
कात्या० १६, ७, २३ । यांचैकेष्टका साप्यनूक एव । “अभितो
युग्माः २४, अनूकमभितो युग्मा अर्द्धार्द्धिकया इति तद्व्या० ।
“साध्यमनूकं वक्त्रादिति” वृहत्संहितोक्तेपुरुषलक्षणभेदे न० ।

अनूकाश पु० अनु + काश--घञ् उप० दीर्घः । अधस्तनदेहा-

दिप्रकाशे “प्रकाशेनान्तरमनूकाशेन कहप्रनिति” य० २५, २
“अनृकाशेनाधस्तनदेहकान्त्ये त” वेददीपः ।

अनूचान पु० अनु + वच--कान नि० । शिक्षादिषड़ङ्गसहित-

वेदाध्ययनकारिणि, वेदार्थानुवचनसमर्थे च । “इदमूचुरनु-
चानाः प्रीतिकण्टकितत्वच” इति कुमा० “सह द्वादशवर्ष
उपेत्य चतुर्विंशतिवर्षः सर्व्वान् वेदानधीत्य महामना
अनूचानमानी स्तब्ध एयाय” छा० उप० । “बालाकिर्हानू-
चानमना आसेति” छा० उ० ।

अनूच्य त्रि० अनूच्यते अनु + वच--क्यप् । अनुवाच्येते पाठ्ये

“पश्चादरण्येऽनूच्यमिति” “विमुखेनारण्येऽनूच्यमिति” च
का० १८, ४, २०, २४ ।

अनूढ त्रि० अनु + वह--क्त । अविवाहिते । “परिवेत्तानुजोऽनूढे

ज्येष्ठे दारपरिग्रहा” दित्यमरः । स्त्रियां ङीप् ।

अनूत स्त्री वे--क्तिन् अभावे न० त० । गमनाभावे । “अस्तूती

अनूती हिरिशिप्रःसत्वा” इति ऋ० ६, २९, ६ । “अनूत्या
अनागमनेनेति” भा० ।

अनूदित त्रि० अनु + वद--क्त । यस्य तुल्यार्थकमाषान्तरेणानु-

वादः कृतः, तस्मिन् पदार्थे अनुवादविषये च ।

अनूद्य अव्य० अनु + वद--ल्यप् । अनुवादं कृत्वेत्यर्थे । अनु +

वद--क्यप् । अनूच्ये अनुवादार्हे ।

अनून त्रि० न ऊन ः न० त० । परिपूर्णे, समग्रे, अहीने च ।

“अनूपराजस्य गुणैरनूनामिति” रघुः । नूनं निश्चितं न०
त० । अनिश्चिते । स्वार्थे कन् तत्रैवार्थे ।
पृष्ठ ०१९१

अनूप त्रि० अनुगता आपो यत्र ७ ब० अच्मास० अतौत्वम् ।

जलप्ताये स्थाने । “शकटः शाकिनी गावो जालमस्पन्दनं
वनम् । अनूपं पशवो राजा दुर्भिक्षे नव वृत्तय” इति
आह्नि० त० छागलेयः । तत्स्थले सर्व्वदावासिनि महिषे
पु० । “बह्वम्बुर्बहुवृक्षश्च वातश्लेष्मामयान्वितः । देशो-
ऽनूप इति ख्यात” इत्युक्ते “अनूपसर” इति प्रसिद्धे
देशभेदे पु० । “अनूपराजस्य गुणैरनूनामिति” रघुः ।

अनूपज न० अनूपे जलप्राये देशे जायते जन--ड ७ त० ।

(आदा) इति ख्याते आर्द्रके, तस्य जलप्रायीद्भवत्वात्तथा-
अम् । तत्स्थानजातमात्रे त्रि० ।

अनूप्य त्रि० अनूपदेशे भवः यत् । अनुगतजलदेशभवे “शन्न

आपो धन्वन्याः शमनः सन्त्वबूप्या” इति स्नानमात्रः ।

अनूबन्ध्य त्रि० अनु + बन्ध--ण्यत् उपस० दीर्घः । बधार्थं बन्ध-

नीये यज्ञिये पशौ, “वशामगबन्ध्यामालभेत” इति शत०
२, ४, ४, १४, “अनुबन्ध्यवेदेति” आश्व० ।

अनूयाज पु० अनु + यज घञ् उपसर्गस्य वा दीर्घः । अनुयाजार्थे ।

अनूरु पु० न स्त ऊरू यस्य ब० । सूर्य्यसारथौ विनताज्येष्ठ-

पुत्रे अरुणे । तस्य अपूर्णे एव गर्भे मात्रा अण्डस्य स्थोट-
नादूरुप्रभृतृद्भावकलत्वम् गत्कथा भा० आदिप० । यथा
“ततः पुत्रार्थिनी देवी व्रीड़िता च तपस्विनी । अण्डं
बिभेद विनता तत्र पुत्रमपश्यत । पूर्ब्बार्द्धकायसम्पन्न-
भितरेणाप्रकाशता । स पुत्रः क्रोधसंरब्धः शशापैनामिति
श्रुतिः । योऽहमेवं कृतो मातस्तया लोभपरीतया ।
शरीरेणासमग्रेण तष्माद्दासी भविष्यसि । पञ्चवर्षशतान्यस्या
यया विष्पर्द्धसे सह । एष च त्वां सुतो मातर्द्दासी-
त्वान्मोचयिष्यति । यद्येनमपि मातस्त्वं मामिवाण्डविभे-
दनात् । न करिष्यस्यनङ्गं वा व्यङ्गं वापि यशस्विनम् ।
प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया । विशिष्टं
बलमीप्सन्त्या पञ्चवर्षशतात्परः । एवं शप्त्वा ततः पुत्रो
विनतामन्तरीक्षगः । अरुणो दृश्यते ब्रह्मन् प्रभातसमये
सदा । आदित्यरथमध्यास्ते सारथ्यं ममकल्पयदिति” । “गतं
तिरश्चीनमनूरुसारथेरिति” माघः ।

अनूरुसारथि पु० अनूरुः सारथिः रथनियन्ता यस्य । सूर्य्ये तत्कथाऽनुपदमुक्ता ।

अनूराध त्रि० अनु + राध--षञ् उपस० दी० । अनुराधनीये

“इन्द्रं वयमनूराधं हवामहे” इति अथ० १९, १५, २ ।

अनृच पु० नास्ति अभ्यस्ततया ऋक् यस्य अच् समासान्तः ।

ऋक्थून्ये अनुपनीते बालके । “अनृचबह्वचावध्येतर्य्ये
वेति” सि० कौ० । “यथा चाज्ञेऽफलं दानं तथा विप्रोऽनृचो
ऽफलः” मनुः । “अनृचः अनधीयान इति” कुल्लू० ।
“अनृचो माणवक रति” मुग्धबोधम् । समासान्तविधेर-
नित्यत्वात् क्वचित् न अच् । “तेन सहस्रं हि सहस्राणा-
मनृचां यत्र भुञ्जते इति” “तथानृचे हविर्दत्त्वा न दाता
लभते फलमिति” च मनुः । समासान्तपक्षे अनृचे इति
विवक्षया सप्तमी, तदभावपक्षे चतुर्थीति भेदः । अध्येतरी-
त्युक्तेः “अनृक् सामेति” सि० कौ० । अजभावपक्षे विभा-
षया कप् । अनृक्कः ऋक्शून्ये त्रि० ।

अनृजु त्रि० न ऋजुः । शठे वक्रे कुटिले च । “न पाणिपाद

चपलो न नेत्रचपलोऽनृजुः” रति मनुः । “या भ्रातुरग्रे
अनृजोरृणमिति” ऋ० ४, ३, १३ । “लग्नात् पापावृज्व-
नृजू व्ययार्थस्थौ यदा तदा । कर्त्तरी नाम सा ज्ञेया
मृत्युदारिद्र्यशोकदेति” मुहूर्त्तचि० । ऋजुर्मार्गगामी पूर्ब्ब-
गतिः, अनृजुः वक्री पश्चाद्गतिरिति तदर्थः ।

अनृण त्रि० न ऋणं यस्य । ऋणशून्ये । ऋणञ्च अवश्यदेयम्

तच्च उत्तमर्णाय दातव्यत्वेन स्वीकृतं धनम् । तच्चावश्यं
शोध्यं तदशोधने “ऋणानामनपक्रियेत्युक्तेरुपपातकं भवति ।
अवश्यशोध्यत्वेन तत्सदृशम् वेदाध्ययनादिकमपि
ऋणशब्देन व्यवह्रियते “जायमानो र्व पुरुषस्त्रिभिरृणै-
रृणी भवति स्वाध्यायेन ऋषिभ्यः, यज्ञेन देवेभ्यः प्रजया
पितृभ्य” इति श्रुतिः एवञ्च वेदाध्ययनादिना ऋष्यादीना-
मृणशोधने अनृणो भवतीति स्मृत्यादौ प्रसिद्धम् । एवञ्च
“ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेदिति”
ऋणशून्यस्यैव मोक्षाधिकारः । अतएव मनुना “दशलक्षणकं धर्म्म-
मनुतिष्ठन् समाहितः । वेदान्तं विधिवच्छ्रुत्वा संन्यसेद-
नृणी द्विज” इति अनृणस्यैव संन्यासोऽभिहितः । “ज्येष्ठेन
जातमात्रेण पुत्री भवति मानवः । पितॄणामनृणश्चैव स
तस्मात् सर्व्वमर्हतीति” मनुः । “एष वा अनृणः यः पुत्रीति”
श्रुतिः । कृतोपकारस्य प्रत्युपकारोऽपि ऋणत्वेन स्वीक्रि-
यते । तदभिप्रायेणैव “प्राणैर्दशरथप्रीतेरनृणं कण्टवर्त्तिभि-
रिति” रघौ वर्णितम् ।

अनृणिन् त्रि० न ऋणी स्त्रियां ङीप् । ऋणिभिन्ने “दिवस्या-

ष्टमे भागे शाकं पचति यो नरः । अनृणी चाप्रवासी च
स वारिचर! मोदते, इति भा० व० प० । “एकमप्यक्षरं
यस्तु गुरुः शिष्ये निवेदयेत् । पृथिव्यां नास्ति तद्द्रव्यं
यद्दत्त्वा सोऽनृणी भवेदिति” पु० ।
पृष्ठ ०१९२

अनृत न० न ऋतम् । सत्यभिन्ने मिथ्याभूते । “यद्वाहमभिदु-

द्रोह यद्वा शेप उतानृतमिति” ऋ० १, २३, २२ । “प्रियञ्च
नानृतं ब्रूयादेष धर्म्मः सनातन” इति मनुना मिथ्याभूतं
प्रियवाक्यमपि निषिद्धं तत्र साक्ष्यनृतभाषणस्यातीवनिन्द्यता
यथा “यावतो बान्धवान् यस्मिन् हन्ति साक्ष्येऽनृतं
वदन्निति” “एषामन्यतमे स्थाने यः साक्ष्यमनृतं वदेदिति” च
मनुः । “ये च पाषकृतां लोका महापातकिनां तथा ।
अग्निदानाञ्च ये लोकाः ये च स्त्रीबालधातिनाम् । स
तान् सर्व्वानवाप्नोति यः साक्ष्यमनृतं वदेदिति” या० ।
“ब्रूहि साक्षित्! ययातत्त्वं लम्बन्ते पितरस्तव । तव
वाक्यमुदीक्ष्यैवमुत्पतन्ति पतन्ति च ॥ भग्नो मुण्डः कपाली
च भिक्षार्थं क्षुत्पिपासितः । अन्धशत्रुकले गच्छेद् यस्तु
साक्ष्यनृतं वदेत् ॥ पञ्च कन्यानृते हन्ति दश हन्ति
गवानृते । शतमश्वानृ हन्ति, सहस्रं पुरुषानृते ॥ वशि० स० ।
क्वचिद्विपये तदपवादः । “वर्णिनां हि बधो यत्र तत्र साक्ष्य-
नृतं वदेदिति” या० । “प्राणात्यये सर्व्वधनापहारे विप्रस्य
चार्थे ह्यनृतं वदेच्च । विवाहकाले रतिसंप्रयोगे पञ्चानृता-
न्याहुरपातकानि भा० क० प० । कृषिकर्मणि न० मे० ।

अनृतक त्रि० अनते प्रसृतः कन् । असत्यकयनरते “लुब्धा

अनृतकाश्चैव तिष्ये जायन्ति भारत”! भा० भी० प० ।

अनृतवादिन् त्रि० अनृतं वदति वद--णिनि । मिथ्यावादिनि

अनृतु पु० न ऋतुः वर्षादिकालः । स्वस्वयोग्यवर्षर्त्तुभिन्ने काले

“तदा विद्यादनध्यायमनृतौ चाभ्रदर्शने” इति मनुः ।
नास्ति ऋतुः स्त्रीपुष्पविकाशो यस्मिन् काले । स्त्रीपुष्प-
विकाशशून्ये काले पु० । “अनृतावृतुकाले च मन्त्र-
संस्कारकृत् पतिरिति” मनुः ।

अनृशंस त्रि० न नृशंसः विरोधे न० त० । अहिंस्रे दयालौ ।

तस्य भावः युवादि० अण्नृशंसम्, ब्राह्मणा० ष्यञ्
आनृशंस्यञ्च दयायाम् ।

अनेक त्रि० न एकः एकभिन्नतया उत्सर्गतः बहुवचनान्तता ।

बहुसंख्यकेषु । “अनेकानि सहस्राणि कौमारब्रह्मचारिणा”
मिति मनुः । “पतन्त्यनेके जलधेरिवोर्मयः” इति माघः
“अनेके सेवन्ते भवदधिकगीर्वाणनिवहानिति” श्यामा-
स्त्रोत्रम् । एकशब्दस्य सर्वनामत्वेन नञ्तत्पुरुषे तद्भिन्न-
वाचकतया गौणत्वेऽपि अतच्छब्दवत् सर्वनामकार्य्यं तेन
अनेके इति, अनेकेषामिति, अनेकत्रेत्यादि । एवञ्च
एकशब्दस्य समाहारद्विगुत्वनिषेधादनेकशब्दस्य बहुसंख्यावाच-
कत्वेऽपि न समाहारः । तेन अनेकराजन्यरथाश्वसङ्कुल-
मिति किरा० समाहारे अनेकराजन्यरथाश्वीति स्यात् ।
“यत्रानेकविधमान्तर्य्यं तत्र स्थानत आन्तर्य्यं बलीय इति”
परिभा० सि० कौ० । “अनेकपितृकानान्तु पितृतो
भागकल्पनेति” याज्ञ० । “अनेकबाहूदरवक्त्रनेत्रमिति”
“अनेकजन्मसंसिद्धस्ततो याति परां गतिमिति” च गीता
नास्ति एकः “द्व्येकयोर्द्विवचनैकवचने” इतिवत् एकत्वं
यत्रेति बहुव्रीहौ अनेकशब्दस्य एकवचनान्ततापीष्यते ।
“अनेकमन्यपदार्थे” इति पा० सू० । “आकाशमेकं
हि यथा घटादिषु पृथग्भवेत् “तथात्मैकोऽप्यनेकश्चेति”
याज्ञ० । “अनेकमाश्रितं लिङ्गमिति” सा० का० । “एको-
ऽन्यार्थे प्रधाने च प्रथमे केवले तथा । साधारणे
मङ्गलेऽल्पे संख्यायाञ्च प्रयुज्यते” इत्युक्तेष्वर्थेषु एकशब्दस्य
वृत्तेः तदुक्तार्थभिन्ने त्रि० । तत्र च संख्यान्यर्थे एव
बहुवचनान्ततान्यत्र यथेष्टतेति मनो० । उत्करादि०
भवार्थे छ । अनेकीयः तद्भवे त्रि० । भावे व्रा० । ष्यञ् ।
अनैक्यं बहुत्वे न० ।

अनेकज पु० अनेकवारं जायते जन--ड वृत्तौ संख्यावाच-

कस्य सुजर्थता । द्विवारं जाते पक्षिणि, तस्य गर्भाण्डाभ्यां
जातत्वेन द्विवारजाततया द्विजत्वादनेकजत्वम् । ५ त० ।
बहुभ्यो जाते त्रि० ।

अनेकधा अव्य० अनेक + प्रकारे धाच् । बहुप्रकारे “अनेकधा

कृताः पुत्रा ऋषिभिर्ये पुरातनैरिति” स्मृतिः । “तत्रैकस्थं
जगत् कृत्स्नं प्रविभक्तमनेकधेति” गीता ।

अनेकप पु० अनेकाभ्यां मुखशुण्डाभ्यां पिबति पा--क । द्विपे

हस्तिनि । “मालवनाथोऽप्यनेकानेकपयूथसनाथः” द० कु० ।

अनेकमूर्त्ति पु० अनेका लोकानामनुग्रहाय अवतारेषु नाना-

विधा मूर्त्तयोऽस्य । परमेश्वरे “अनेकमूर्त्तिरव्यक्त” इति
विष्णुसह० ।

अनेकरूप पु० अनेकानि रूपाण्यस्य । बहुरूपे परमेश्वरे

“रूपं रूपं प्रतिरूपो बभूवेति” श्रुतौ तस्य बहुरूप-
त्वोक्तेस्तथात्वम् । नानाविधरूपयुक्तमात्रे पटादौ त्रि० ।

अनेकलोचन पु० अनेकानि लोचनानि यस्य । इन्द्रे, परमे-

श्वरे च “सहस्राक्षः सहस्रपादिति” श्रुतौ अनेकवा हूदर-
वक्त्रनेत्रमिति” गीतायाञ्च तस्य अनेकनेत्रत्वोक्तेस्तथात्वम्

अनेकवर्णसमीकरण न० अनेकवर्णाः अज्ञातविशेषसंख्यका-

नेकराशयः समीक्रियन्ते ज्ञातसंख्यकसमतया क्रियन्ते यत्र ।
वीजभेदे यथोक्तं भास्करवीजगणिते “अथानेकवर्णसमीकरणं
वीजम् । तत्र सूत्रं सार्द्धवृत्तत्रयम् ।” “आद्यं वर्ण्णं
शोधयेदन्यपक्षादन्यान् रूपाण्यन्यतश्चाद्यभक्ते । पक्षेऽन्यस्मिन्नाद्य-
वर्णोन्मितिः स्याद्वर्णस्यैकस्योन्मितीनां बहुत्वे ॥ समीकृत-
पृष्ठ ०१९३
च्छेदगमे तु ताभ्यस्तदन्यवर्ण्णोन्मितयः प्रसाध्याः । अन्त्यो-
न्मितौ कुट्टविधेर्गुणाप्ती ते भाज्यतद्भाजकवर्ण्णमाने ॥ अन्ये-
ऽपि भाज्ये यदि सन्ति वर्ण्णास्तन्मानमिष्टं परिकल्प्य
साध्यम् । विलोमलोत्थापनतोऽन्यवर्ण्णमानानि भिन्नं यदि
मानमेवम् ॥ भूयः कार्य्यः कुट्टको ऽत्रान्त्यवर्ण्णं तेनोत्थाप्यो-
त्थापयेद्व्यस्तमानात्” । “इदमनेकवर्ण्णसमीकरणं वीजं यत्रो-
दाहरणे द्वित्र्यादयोऽव्यक्तराशयो भवन्ति तेषां यावत्ता-
वदादयो वर्ण्णाः मानेषु कल्प्यास्तत्र पूर्ब्बाचार्य्यैः कल्पिताः
यावत्तावत्, कालक, नीलक, पीतक, लोहितक, श्वेतक,
चित्रक, कपिलक, पिङ्गलक, धूम्रक, पाटलक, शवलक,
श्यामलक, मेचका, इत्यादि । अथ वा कादीन्यक्षराणि
अव्यक्तानां संज्ञाः असङ्करार्थं कल्प्याः । अतः प्राग्वदुद्देश-
कालापवद्विघिं कुर्वता गणकेन पक्षौ समौ कार्य्यौ पक्षा वा
समाः कार्य्याः । ततः सूत्रावतारोऽयं तयोः समयोरनेकस्मात्
पक्षादितरपक्षस्याद्यं वर्ण्णं शोधयेत्तदन्यवर्णान् रूपाणि च
इतरपक्षाच्छोधयेत्ततः आद्यवर्ण्णशेषेणेतरपक्षे भक्ते भाजक-
वर्णोन्मितिः । बहुषु पक्षेषु ययोर्ययोः साग्यमस्ति तयोरेवं
कृते सति अन्या उन्मितयः स्युः । ततस्तासून्मितिषु एकवर्ण्णो-
न्मितयो यद्यनेकधा भवन्ति ततस्तासां मध्ये द्वयोर्द्वयोः समी
कृतच्छेदगमेनाद्यं वर्ण्णं शोधयेदित्यादिनान्यवर्ण्णोन्मितयः
स्युः । एवं यावत्सम्भवस्ततोऽन्त्योन्मितौ भाज्यवर्ण्णे योऽङ्कः
स भाज्यराशिः, यो भाजके स भाजकः, रूपाणि क्षेपः,
अतः कुट्टकविधिना यो गुण उत्पद्यते तद्भाज्यवर्ण्णमानं, या
लब्धिस्तद्भाजकवर्णमानं, तयोर्मानयोर्द्दढ़भाजकभाज्याविष्टेन
वर्णेन गुणितौ क्षेपकौ कल्प्यौ । ततः स्वस्वमानेन सक्षेपेण
पूर्ब्बवर्णोन्मितौ वर्ण्णावुत्थाप्य स्वच्छेदेन हरणे यल्लभ्यते तत्
पूर्ब्बवर्णस्य मानम् । एवं विलोमकोत्थापनतोऽन्यवर्णमा-
नानि भवन्ति । यदि तु अन्योन्मितौ द्व्यादयी वर्ण्णा
भवन्ति तदा तेषामिष्टानि मानानि कृत्वा स्वस्वमानै-
स्तानुत्थाप्य रूपेषु प्रक्षिप्य कुट्टकः कार्य्यः । अथ यदि विलो-
मकोत्थापने क्रियमाणे पूर्ब्बवर्ण्णोन्मितौ तन्मितिर्भिन्ना
लभ्यते तदा कुट्टकविधिना यो गुण उत्पद्यते स क्षेपः स
भाज्यवर्णमानं तेनान्यवर्णमानेषु तं वर्णमुत्थाप्य पूर्ब्बोन्मि-
तिषु विलोमकोत्थापनप्रकारेणान्यवर्णमानानि साध्यानि ।
इह यस्य वर्णस्य यन्मानमागतं व्यक्तमव्यक्तं, व्यक्ताव्यक्तं
वा तस्य मानस्य व्यक्ताङ्केन गुणने कृते तद्वर्ण्णाक्षरस्य
निरसनमुत्थापनमुच्यते” तद्व्याख्या । उदाहरणं तत्रैव दृश्यम् ।

अनेकविध त्रि० अनेका विधा प्रकारा यत्र । बहुप्रकारे

“यत्रानेकविधमान्तर्य्यं तत्र स्थानत आन्तर्य्यं बलीय”
इति परि० ।

अनेकशस् अव्य० अनेक + वीप्सार्थे कारके शस् । अनेकवारार्थे

“अनेकशो निर्ज्जितराजकस्त्वभिति” भट्टिः ।

अनेकाग्र त्रि० न एकाग्रः । शून्यहृदये एकाग्रताशून्ये

अनेकान्त त्रि० न एकान्तो नियमो अव्यभिचारो यत्र ।

अनियमे, अनिश्चितफलके च । व्यभिचारवति दुष्टहेतौ
पु० । “अनेकान्तो विरुद्धश्चाप्यसिद्धः प्रतिपक्षितः ।
कालात्ययापदिष्टश्च हेत्वाभासाश्च पञ्चधेति” भाषा० ।
सच त्रिविधः “आद्यः साधारणस्तु स्यादन्योऽसाधारणो
मतः । तथैवानुपसंहारी त्रिधाऽनैकान्तिको मत” इति
भाषा० । एकान्तोऽस्त्यस्य प्रज्ञा० ण । ऐकान्तः न० त०
अनैकान्तोप्यत्र क्वचित् “भाषायाम् अनैकान्तो विरुद्ध
श्चेत्येव” पाठः । तथा च साधारणादित्रितयान्यान्यत्व-
मनेकान्तत्वम् ।

अनेकान्तवादिन् पु० अस्ति नास्ति वेत्येकान्तं न वदति

वद--णिनि ६ त० । बौद्धभेदे । तस्य अस्तिनास्तिकाय-
वादित्वेन तथात्वं विवरणमर्हच्छब्दे दृश्यम् ।

अनेकार्थ त्रि० अनेके अर्था अभिधेया यस्य । नानार्थे

शब्दे । यथा गवादय अक्षादयश्च । “अनेकार्थस्य शब्दस्य
संयोगाद्यैर्नियन्त्रिते । एकत्रार्थेऽन्यधीहेतुर्व्यञ्जना साभिधा
श्रयेति” सा० द० । अयमाशयः “संयोगश्च विभागश्च
साहचर्य्यं विरोधिता । अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य
सन्निधिः । सामर्थ्यमौचिती देशः काक्वाद्युक्तिः स्ववाचकः ।
शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतव” इति हर्य्युक्तेरनेकार्थ-
शब्दानां सर्वत्र शक्तौ समानायां सत्यां, संयोगाद्यैरितरार्थ-
बोधप्रतिरोधनेन विशेषार्थ एव स्मार्य्यते । तद्भिन्नार्थस्य तु
व्यञ्जनया बोधः इत्यलङ्कारिकाणां मतम् । तथाच संयो-
गादयः शक्त्या अन्यार्थोपस्थितौ प्रतिबन्धकाः । व्यञ्जना
वृत्त्या तदुपस्थापने तु न । “अनेकार्थशब्देभ्यःसर्वेषामर्थाना-
मविशेषेणोपस्थितौ सत्यामपि संयोगादयः अन्यशक्यविषय-
शाब्दबोधमात्रं प्रतिबध्नन्ति नतु व्यङ्ग्यविषयमिति”
रसगङ्गाधरः । नैयायिकादयस्तु अनेकार्थशब्दानां शक्यताच्छेद-
कलाघवलाभे तत्रैव शक्तिरन्यत्र लक्षणा तत्र संयोगादयः
अन्यार्थबोधनं नैव प्रतिवघ्नन्ति । तथा च संयोगादयः सति
तात्पर्य्ये, तद्विषयीभूतार्थविषयस्मृतिं तज्जन्यान्वयबुद्धिं वा न
प्रतिवध्नन्ति किन्तु तात्पर्य्यमात्रोन्नायका इत्यलं व्यञ्जना-
वृत्त्येति स्वीचक्रुरिति भेदः । अनेके अर्थाः प्रयोजनानि
पृष्ठ ०१९४
यत्र यस्य वा । अनेकप्रयोजनवति त्रि० “अनेकार्थाभि-
योगे च यावत्संसाधयेद्धनी” इति स्मृतिः । कर्म्म० ।
वहुप्रयोजने पु० ब० व० ।

अनेकाश्रित पु० अनेकेषु आश्रितः ७ त० । वैशेषिकनये

संयोगादिषु, सामान्येषु च । “संयोगश्च विभागश्च संख्या द्वि-
त्वादिकास्तथा । द्विपृथक्त्वादयस्तद्वदेतेऽनेकाश्रिता गुणा”
इति भाषा० “नित्यत्वे सति अनेकसववेतत्वं जातित्वमिति”
मुक्ता० । एकस्या एव व्यक्तेर्नानाव्यक्तिनिष्ठत्वेऽस्य प्रयो-
गोपाधिता । भवन्ति च संयोगादयः सामान्यं च तथा ।
रूपादेर्नानाव्यक्तिषु सत्त्वेऽपि नैकव्यक्तेरिति न तस्य
तथात्वमिति भेदः ।

अनेजत् न० न एजत् । सर्ब्धदैकरूपे ब्रह्मणि । “अनेजदेकं

मनसो जवीय” इति ईशोप० । “एजनं कम्पनं स्वभाव-
प्रच्युतिस्तद्विवर्ज्जितं सर्व्वदा एकरूपमिति” भा० । कम्पन-
शून्ये त्रि० स्त्रियां ङीप् ।

अनेडमूक त्रि० एड़ो बधिरो मूको वाक्शक्तिरहितश्च नास्ति

यस्मात् ५ ब० । (काला, वोवा) इति ख्याते श्रवणवचन-
शक्तिरहिते, शठे च ।

अनेद्य त्रि० निदि कुत्सने क्यप् नि० नलोपगुणौ न० त० । प्रशस्ते प्रधाने निरुक्तकारः ।

अनेनस् त्रि० नास्ति व्यसनमधर्म्मो वा यस्य । व्यसनपापादि-

रहिते “राजा भवत्यनेनास्तु मुच्यन्ते च सभासदः” इति
व्यव० त० मन्वादिस्मृ० । “अनेनो वोमरुतो याम”
इति ऋ० ६, ६६, ७ । “अनेनः पापरहितं यथा भवतीति”
भाष्यम् “त्वानेना नमसा तुर” इति ७, ८६, ४ । “अनेना
अपाप” इति भाष्यम् ।

अनेमा पु० नी--मनिन् न० त० । प्रशस्ये निरुक्तकारः ।

अनेहस् पु० न हन्यते हन--असि प्रकृतेरेहादेशः । काले ।

सौ अनङ् । अनेहा “कालोद्दिष्टोऽप्यनेहापी” त्यमरः ।
न हन्यते कर्म्मणि असि । अहिंसनीये त्रि० । “शम्भुवं
मन्त्रं देवा अनेहसमिति” ऋ० १, ४०, ६ । “अनेहसं केना-
प्याहिंस्यामिति” भा० । “पापिनोवयम् यजामहे सुप्रतूर्ति-
मनेहसम्” ऋ० १, ४०, ४ । “यथा नोऽस्मे क्षयाय धिषणे
अनेहः” ऋ० ६, ५०३ ।

अनैकाग्र्य न० एकाग्रस्य भावः ष्यञ् अभावे न० त० ।

ऐकाग्र्याभावे । न० ब० । ऐकाग्र्यशून्ये त्रि० । “आचाराणा-
मनैकाग्र्यं सर्वेषामुपलक्षणादिति” भाग० ।

अनैकान्त पु० अनेकान्तशब्दार्थे । तत्रैव व्युत्पत्तिर्दर्शिता “अनै-

कान्तो विरुद्धश्चेति” भाषा० पाठान्तरम् ।

अनैकान्तिक पु० एकान्तं नियतं व्याप्नोति एकान्त + ठक्

एकान्तो नियमो व्याप्तिरस्त्यस्य ठन् स्वार्थे अण् वा न० त० ।
अनेकान्तशब्दार्थे अनेकान्तशब्देऽधिकं दृश्यम् “त्रिघाऽनैका-
न्तिको मत” भाषा० । ऐकान्तिको निश्चितरूपस्तद्भिन्ने त्रि०

अनैक्य न० न ऐक्यम् अभावे न० त० । ऐक्याभावे ।

अनैतिह्य त्रि० न ऐतिह्यं यत्र । परम्पराश्रवणरूपैतिह्य

प्रमाणशून्ये । “अनागतमनैतिह्यं कथं ब्रह्माधिगच्छति”?
भा० शा० प० ।

अ(आ)नैपुण न० अनिपुणस्य भावः अण् आद्यचो

वा वृद्धिः । अनिपुणत्वे । ष्यञ् अ(आ)नैपुण्यमप्यत्र न० ।

अ(आ)नैश्वर्य्य न० अनीश्वरस्य भावः आद्यचो वा वृद्धिः ।

अनीश्वरत्वे अधीनत्वे । नास्ति ऐश्वर्य्यं यस्य । अनैश्वर्य्यः
ऐश्वर्य्यशून्ये त्रि० ।

अनो अव्य० न + नी--डो । अभावार्थे । “अभावे, नह्यनो

नापी” त्यमरे अनो इत्येकं नामेति नीलकण्ठः । अन्ये तु अ
इति, नो इति, च छित्त्वा नामद्वयमित्याहुः ।

अनोकह पु० अनसः शकटस्याकं गतिं हन्ति प्रतिरोधं करोति

हन--ड ६ त० । वृक्षे । “वृन्ताच्छ्लथं हरति पुष्पमनो-
कहानामिति” अनोकहाकम्पितपुष्पगन्धीति च” रघुः ।
“उद्यन्तमुद्द्रुतमनोकहजालमध्ये इति” माघः ।

अनोदन त्रि० नास्ति ओदनरूपं भक्ष्यं यत्र । “अन्नवर्जनयुक्ते

व्रते । “नक्तं हविष्यान्नमनोदनं वा” इति स्मृतिः ।

अनोङ्कृत त्रि० न ओङ्कारमुच्चार्य्य कृतः ओम् + कृ--क्त न० त० ।

ओङ्कारोच्चारणाभावेन कृते । “ब्राह्मणः प्रणवं कुर्य्या-
दादावन्ते च सर्वदा । स्रवत्यनोङ्कृतं पूर्बं परस्ताच्च विशी-
र्य्यति” मनुः । ओमिति स्वीकारे तथा कृतम् ।
अङ्गीकृते त्रि० ।

अन्च व्य क्तौ चु० उभ० सक० सेट् । अञ्चयति--ते आञ्चिचत्-

त कर्म्मणि अञ्च्यते । णिजभावे अच्यते इति भेदः
“पूर्ण्णात् पूर्ण्णमुदच्यते” इति श्रुतिः ।

अन्चु गतौ अचिवत् ८२ पृ० दृश्यम् ।

अन्ज गतौ कान्तौ म्रक्षणे व्यक्तौ च रुधा० वर्त्तमाने क्त

ऊदित् वेट् पर० । अनक्ति । सिचि परस्मैपदे नित्यमिट् ।
आञ्जीत्--आनञ्ज । अञ्जिता--अङ्क्ता । अञ्जिष्यति--ङ्क्ष्यति ।
क्त अक्तः । क्तिन् अक्तिः । क्त्वा--अक्त्वा अञ्जित्वा । वि + प्रका-
शने । व्यनक्ति व्यज्यते “व्यनक्ति कालत्रितयेऽपि योग्यता-
मिति” माघः । घञ् व्यङ्गः । ण्यत् व्यङ्ग्यः । “सव्यङ्ग्य-
मुत्तमं काव्यमिति” । णिच् । व्यञ्जयति ल्युट् । व्यञ्ज-
पृष्ठ ०१९५
नम् । “अन्यार्थधीकृत् व्यापृतिरञ्जनम्” का० प्र० ।
कर्त्तरि ल्यु । व्यञ्जना एकत्रार्थेऽन्यधीहेतुर्व्यञ्जना साभिधा-
श्रयेति” सा० द० ।

अन्त न० अम--तन् । स्वरूपे, स्वभावे च । शेषे पु० न० ।

नाशे, सीमायां, निश्चये, शेषावयवे च पु० । निकटे,
मनोहरे च त्रि० । तत्र स्वरूपे “मृदुलतान्तलतान्तमलो-
कयदिति” माघः । नाशे “पतत्यविरतं वारि नृत्यन्ति
शिखिनो मुदा । “अद्य कान्तः कृतान्तो वा दुःखस्यान्तं
करिष्यतीति” उद्भटः । “वैरस्यान्तं करिष्यति” रामा० ।
सीमायां “वनान्तपर्य्यन्तमुपेत्य सस्पृहमिति” नैष० ।
“ओदकान्तात् स्निग्धोऽनुगन्तव्य” इति श्रुतिः । सीमाऽवधिः
स च दैशिकः कालिकश्च । तत्र दैशिक उक्तोदाहरणे
कालिकस्तु । “पक्षान्ते निष्फला यात्रा मासान्ते मरणं
ध्रुवमिति” ज्योति० । “दशाहान्ते पुनः क्रियेति” स्मृतिः
शेषसीमायाम् “अमुं वनान्ताद्वनितवहारिणमिति”
माघः । “दिगन्ते श्रूयन्ते मदमलिनगण्डाः करटिन”
इति भामिनी० । “गङ्गाप्रपातान्तविरूढ़शष्पसिति” रघुः ।
शेषावयवे “नेत्रान्तमुद्वीक्षते” इति वेदान्त इत्यादि ।
निश्चये । “उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिरिति”
गीता । उभयोः सदसतोरित्यर्थः । निकटे अन्तपालः ।
स्मभावे शुद्धान्तः । शेषे निशान्तः ।

अन्तःकरण न० कृ--करणे ल्युट् अन्तरभ्यन्तरस्थं करणं, कर्म्म०,

तद्वृत्तिपदार्थानां सुखादीनां करणं ज्ञानसाधनं ६ त०
वा । ज्ञानसुखादिसाधने आभ्यन्तरे मनोबुद्धिचित्तादि-
पदाभिलप्यमाने इन्द्रिये । तच्चान्तःकरणम् वेदान्तिमते
चतुर्विधम् । “मनो बुद्धिरहङ्कारश्चित्तं करणमान्त-
रम् । संशयो निश्चयो गर्वः स्मरणं विषया इमे”
इत्युक्तकार्य्यभेदात् । अन्यत्र व्यक्तमुक्तम् “यदा तु संकल्प-
विकल्पकृत्यं तदा भवेत्तन्मन इत्यभिख्यम् । स्याद्बुद्धि
संज्ञं च यदा तु वेत्ति सुनिश्चितं संशयरूपहीनम् ।
अनुसन्धानरूपं तच्चित्तञ्च परिकीर्त्तितम् । अहंकृत्यात्मवृत्त्या
तु तदहङ्कारतां गतमिति” । एतदनुसारेणैव शारादायामुक्तम्
“अन्तःकरणमात्मनः । मनोबुद्धिरहङ्कारश्चित्तञ्चेति प्रकी-
र्त्तितमिति” । तस्य च ज्ञानादिप्रत्यक्षकरणत्वादन्तःकरण-
त्वम् । तत्साधकमनुमानञ्चेत्थम् ज्ञानसुखादिप्रत्यक्षं
स्वग्राहकेन्द्रियसापेक्षं प्रत्यक्षत्वात् रूपादिप्रत्यक्षवत् ।
नच चक्षुरादीनां तत्करणत्वं सम्भवति रूपादित्वाभावा-
दित्यन्तःकरणसिद्धिरिति नैयायिकादयः । सांख्यादयस्तु
महत्तत्त्वापरपर्य्यायमेवान्तःकरणमङ्गीचक्रुः । पञ्चतन्मा-
त्रेभ्यो भूतेभ्यश्चाहङ्काररूपद्रव्यसिद्धिमुक्त्वा “तेना-
ऽन्तःकरणस्येति” सां० सू० तत्सिद्धिरुक्ता तदनुमाने च
भाष्ये एवं प्रयोगादिकं दर्शितम् । “अहङ्कारद्रव्यं निश्चय-
वृत्तिमद्द्रव्योपादानकं निश्चयकार्यद्रव्यत्वात् यन्नैवं
तन्नैवं यथा पुरुषादिरिति । अत्राप्ययं तर्कः, सर्वोऽपि
लोकः पदार्थमादौ स्वरूपतो निश्चित्य पश्चादभिमन्यते
अयमहं, मयेदं कर्त्तव्यमित्यादिरूपेणेति, तावत् सिद्धमेव ।
तत्राहङ्कारद्रव्यकारणाकाङ्क्षायां वृत्त्योः कार्यकारणभावेन
तदाश्रययोरेव कार्यकारणभावो लाघवात् कल्प्यते कारे-
णस्य वृत्तिलाभेन कार्यवृत्तिलाभस्यौत्सर्गिकत्वादिति ।
यद्यपि अन्तःकरणमेकं तथापि वंशपर्वस्विवान्तरभेद-
माश्रित्यान्तःकरणत्रये क्रमः, कार्यकारणभावश्चोक्तः योगो-
पयोगिश्रुतिस्मृतिपरिभाषानुसारादिति मन्तव्यम् । तदुक्तं
वाशिष्ठे । “अहमर्थोदयो योऽयं चित्तात्मा वेदनात्मकः ।
एतच्चित्तद्रुमस्यास्य वीजं विद्धि महामते! ॥ एतस्मात्
प्रथमोद्भिन्नादङ्कुरोऽभिनवाकृतिः । निश्चयात्मा निराकारो
बुद्धिरित्यभिधीयते ॥ अस्य बुद्ध्यभिधानस्य याङ्कुरस्य प्रपी-
नता । सङ्कल्परूपिणी तस्याश्चित्तचेतोमनोभिधा” इति ।
अहमर्थोऽग्तःकरणसामान्यम् । अत्र वाक्ये बीजाङ्कुर-
न्यायेनैकस्यैवान्तःकरणवृक्षस्य वृत्तिमात्ररूपेण चित्ताद्यव-
स्थाभेदाः क्रमिकास्त्रिविधाः परिणामा उक्ता इति ।
साङ्ख्यशास्त्रे च चिन्तनावृत्तिकस्य चित्तस्य बुद्धावेवान्तर्भावः ।
अहङ्कारस्य चात्र वाक्ये बुद्धावन्तर्भावः” इति ॥ कारिकाया-
मपि “अन्तःकरणं त्रिविधं दशधा वाह्यं त्रयस्य
विषयाख्यमिति” त्रैविध्यमुक्त्वा “सान्तःकरणा बुद्धिः सर्वं विषय-
मवगाहते यस्मात्, तस्मात्त्रिबिधं करणंद्वारि, द्वाराणि शेषा-
णीति” तत्त्रयस्यैव प्राधान्यमुक्तम् । एवञ्च पुरुषस्य
सन्निधिमात्रादधिष्ठातृत्वं गौणं मुख्यमधिष्ठातृत्वन्तु
अन्तःकरणस्यैव यथोक्तम् “अन्तःकरणस्य तदुज्ज्वलितत्वा-
ल्लौहवदधिष्ठातृत्वम्” सां० सू० ॥ “अन्तःकरणस्यानुपच-
रितमधिष्ठातृत्वं सङ्कल्पादिद्वारकं प्रत्येतव्यम् । नन्वधि-
ष्ठातृत्वं घटादिवदचेतनस्य न युक्तं तत्राह ।
लौहवत् तदुज्ज्वलितत्वादिति । अन्तःकरणं हि तप्तलौहव-
च्चेतनोज्ज्व लितं भवति । अतस्तस्य चेतनांयमानतयाधि-
ष्ठातृत्वं घटादिव्यावृत्तमुपपद्यत इत्यर्थः । नन्वेवं चैतन्येना-
न्तःकरणस्योज्ज्व लने चितेः सङ्गित्वमग्निवदेव स्यादिति
चेन्न नित्योज्ज्वलचैतन्यसंयोगविशेषमात्रस्य संयोगविशेष
पृष्ठ ०१९६
जन्यचैतन्यप्रतिविम्बस्य वान्तःकरणोज्ज्वलनरूपत्वात् । न तु
चैतन्यमन्तःकरणे संक्रामति येन सङ्गिता स्यात् ॥ अग्ने-
रपि हि प्रकाशादिकं न लौहे संक्रामति, किन्त्वग्नि-
संयोगविशेष एव लौहस्योज्ज्वलनमिति । नन्वेवमपि संयो-
गेन परिणामित्वमिति चेन्न सामान्यगुणातिरिक्तधर्म्मोत्प-
त्तावेव परिणामव्यवहारादिति । अयं च संयोगविशेषो-
ऽन्तःकरणस्यैव सत्त्वोद्रेकरूपात् परिणामाद्भवतीति
फलबलात् कल्प्यते पुरुषस्यापरिणामित्वेन संयोगे तन्निमित्त-
कविशेषासम्भवादिति । अयमेव च संयोगविशेशो बुद्ध्या-
त्मनोरन्योऽन्यप्रतिविम्बने हेतुरिति” सा० प्र० भा० ।
अन्तःकरणस्य च वृत्तयस्त्रिधा “शान्ताघोरास्तथामूढ़ा
मनसो वृत्तयस्त्रिधा । वैराग्यं क्षन्तिरौदार्य्यमित्याद्याः
शान्तवृत्तयः । तृष्णा स्नेहोरागलोभावित्याद्या घोरवृत्तयः ।
सम्मोहोभयमित्याद्या कथिता मूढ़वृत्तयः” इति तास्वेव
वृत्तिषु ज्ञानत्वोपचारात् तत्साधनत्वमिन्द्रियाणाम् “अन्तः-
करणवृत्तौ ज्ञानत्वोपचारादिति” पञ्चपादिकाविवरणम् ।
शान्तादीनामेव सात्विक्यादिरूपेण व्यवहारः । ताश्च वृत्तयः
“क्रमशोऽक्रमशश्च वृत्तय इति सां० सू० उक्तेः युगपदपि
भवन्तीति सांख्यादयः । नैयायिकादयस्तु “अयौपद्याज्ज्ञा-
नाना” मित्युक्तेः क्रमिकत्वमेवाङ्गीचक्रुः । तच्चान्तःकरणमणु-
परिमाणमिति नैयायिकादयः । यावद्देहकार्य्य कारित्वात्
जलावगाहे एकदैव सर्वदेहगतशैत्याद्युपलब्धेर्मध्यपरिमाण-
मिति सांख्यादयः । तेषां च चतुर्ण्णां चन्द्रचतुर्मुखश-
ङ्कराच्युता अधिष्ठातारोदेवा इति ।

अन्तःकुटिल पु० अन्तर्मध्ये कुटिलः । वक्राकारमध्यावयव-

वति शङ्खे । वक्रान्तःकरणे त्रि० ।

अन्तःकृमि पु० अन्तरभ्यन्तरे कृमिर्यस्य । (गुटि) इति ख्याते

कृमिकोषफले । मध्यस्थकृमियुक्ते फलादौ त्रि० ।

अन्तःकोटरपुष्पी स्त्री अन्तःकोटरे अभ्यन्तरे पुष्पं यस्याः

जातित्वात् ङीप् । अन्तःकोटरपुष्पवत्यां नीलवुह्नायाम् ।

अन्तःपदवी स्त्री ७ त० । सुषुम्णामध्यगते पथि ।

अन्तःपशु पु० अन्तःग्राममध्ये पशवो यत्र । ग्राममध्ये

पशुस्थितिकाले प्राह्णे, सायाह्ने च “अन्तःपशौ
पशुकामस्य सायं प्रातः” कात्या० ४, १५, १४ । “अन्तः-
पशौ काले ग्राममध्ये पशवो यस्मिन् काले, सायं पशुषु
ग्राममध्येषु आगतेषु, प्रातश्च ग्रामादनिःसृतेष्विति” तद्व्या० ।

अन्तःपात पु० अन्तर्मध्ये पततीति पत--कर्त्तरि ण । सन्धि-

स्थाने । भावे घञ् । मध्यपतने ।

अन्तःपातिन् त्रि० अन्तःपतति पत--णिनि ६ त० । मध्य-

प्रविष्टे । स्त्रियां ङीप् ।

अन्तःपात्य पु० अन्तर्मध्ये पात्यते पत--णिच्--आधारे

यत् । मध्ये पातनाधारे देशे “अन्तःपूर्ब्बेण यूपं परीत्यान्तः-
पात्यदेशे स्थापयतीति” कात्या० १५, ६, २२, “स्थापित-
गवानां पतये स्वभ्रात्रे द्रव्यं शतमधिकं वा दत्त्वा यूपात्
पूर्ब्बदिशि परीत्यान्तःपात्यदेशे स्थापयेदिति” वेददीपः ।

अन्तःपुर न० अन्तरभ्यन्तरं पुरं गृहं कर्म्म० । (अन्दर) इति

प्रसिद्धे राज्ञां स्त्रीणां स्थानयोग्ये गृहे । “त्रितयमिदम-
पूर्बं दृष्टमन्तःपुरे ते” इत्युद्भटः “व्यायम्याप्लुत्य मध्याह्ने
भोक्तुमन्तःपुरं विशेत् इति” भुक्तवान् विहरेच्चैव
स्त्रींभिरन्तःपुरे सहेति । “अन्तःपुरप्रचारञ्च प्रणिधीनाञ्च
चेष्टितमिति” च मनुः । तत्र स्थितत्वात् राजमहि-
लायामपि । “दाक्षिन्येनददाति वाचमुचितामन्तःपुरेभ्यो
यदेति” शकु० । पुर्शब्दसमासे अचि स्त्रीत्वात् ङीप् ।
अन्तःपुरीत्यपि स्त्री ।

अन्तःपुरचर पु० अन्तःपुरे चरति चर--ट ७ त० । राजन्तः-

पुरचारिणि कञ्चुक्यादौ । अन्तःपुरस्थस्त्रियाम् स्त्री ङीप् ।

अन्तःपुरसहाय पु० अन्तःपुरे सहायः । राज्ञामन्तःपुर-

सहचरे विदूषकादौ ।

अन्तःपुराध्यक्ष पु० ६ त० । “वृद्धः कुलोद्गतः शक्तः पितृ-

पैतामहः शुचिः । राज्ञामन्तःपुराध्यक्षो विनीतश्च तथेष्यते”
इति नरपत्युक्तलक्षणेऽन्तःपुराधिवृते । अन्येऽपि पञ्च तथा,
“पञ्चापरे वामनको जघन्यः कुब्जोऽपरो मण्डलकोऽथ
सामी । पूर्ब्बोक्तभूपानुचरा भवन्ति सङ्कीर्णसंज्ञाः शृणुलक्षणै-
स्तान् ॥ सम्पूर्णाङ्गो वामनो (१) भग्नपृष्ठः किञ्चिच्चोरु-
र्मध्यकक्षान्तरेषु । ख्यातो राज्ञो ह्येष भद्रानुजीवी स्फीतो
दाता वासुदेवस्य भक्तः ॥ मालव्यसेवी तु जघन्यनामा
खण्डेन्दुतुल्यश्रवणः सुसन्धिः । शुक्रेण सारः पिशुनः
कविश्च रूक्षच्छविः स्थूलकराङ्गुलीकः ॥ क्रूरो धनी स्थूल-
मतिः प्रतीतस्ताम्रच्छविः स्यात् परिहासशीलः । उरोऽंह्रि-
हस्तेष्वसिशक्तिपाशपरश्वधाङ्कश्च जघन्थनामा (२) ॥ कुब्जो (३)
नाम्नायः स शुद्धो ह्यधस्तात् क्षीणः किञ्चित्पूर्वकाये नतश्च ।
हंसासेवी नास्तिकोऽर्थैरुपेतो विद्वान् शूरः सूचकः स्यात्
कृतज्ञः ॥ कलास्वभिज्ञः कलहप्रियश्च प्रभूतभृतः प्रमदा-
जितश्च । सम्पूज्य लोकं प्रजहात्यकस्मात् कुब्जोऽयमुक्तः
सततोद्यतश्च ॥ मण्डलकनामधेयो ४ रुचकानुचरोऽभिचार-
वित् कुशलः । कृत्यावैतालादिषु कर्मसु विद्यासु चानुरतः ॥
पृष्ठ ०१९७
वृद्धाकारः खररूक्षमूर्धजः शत्रुनाशने कुशलः । द्विजदेव-
यज्ञयोगप्रसक्तधीः स्त्रीजितो मतिमान् ॥ सामीति (५) यः
सोऽतिविरूपदेहः शशानुगामी खलु दुर्भगश्च । दाता
महारम्भसमाप्तकार्यो गुणैः शशस्यैव भवेत् समानः” वृहत्-
संहितोक्तलक्षणादिभेदपञ्चकात् ।

अन्तःपुरिक त्रि० अन्तःपुरे नियुक्तः ठक् संज्ञापूर्ब्बकविधे-

रनित्यत्वान्नवृद्धिः । अन्तःपुराध्यक्षे कञ्चुक्यादौ “अस्मत्-
प्रार्थनामन्तःपुरिकाभ्यो निवेदयेति” चण्डकौ० ।

अन्तःपुष्प न० अन्तर्गतं पुष्पं स्त्रीरजः । द्वादशवर्षादूर्द्धमभ्य-

न्तरजाते स्त्रीणां रजसि । “वर्षद्वादशकादूर्द्ध्वं यदि पुष्पं
वहिर्नहि । अन्तःपुष्पं भवत्येव पणसोडुम्बरादिवत्” ।
इति काश्यपसंहिता ।

अन्तःप्रकृति स्त्री अन्तर्वर्त्तिनी प्रकृतिः राज्याङ्गम् । राज्ञां

सन्निकृष्टप्रकृतौ अमात्यादौ । “अन्तःप्रकृतिकोपनं हि
राज्ञां महद्व्यसनमिति” नीति० ।

अन्तःप्रज्ञ त्रि० अन्तःस्था प्रत्यक्तत्त्वविषयिणी प्रज्ञा यस्य । आत्मानुसन्धानपरे ।

अन्तःप्रविष्ट त्रि० अन्तःकरणे, मध्ये वा प्रविष्टः । हृदय-

गते, अभ्यन्तरगते च । “अन्तःप्रविष्टकर्णपल्लवप्रतिविम्बे-
नेति” काद० ॥

अन्तःशरीर न० अन्तः स्थूलदेहमध्यस्थं शरीरम् । स्थूल-

देहमध्यवर्त्तिनि वेदान्तमतसिद्धे सूक्ष्मशरीरे । तच्च “पञ्च-
प्राणमनोबुद्धिदशेन्द्रियसमन्वितम् । अपञ्चीकृतभूतोत्थं
सूक्ष्माङ्गं भोगसाधन” मित्युक्तं सप्तदशावयवं भोगसाधनं
सूक्ष्ममङ्गम् । शरीरस्य मध्ये अव्ययी० । देहमध्ये
इत्यर्थे अव्य० । अन्तर्देहादयोऽप्युक्तार्थयोः । अन्तरेव
देहः । मनोरूपदेहे न० ।

अन्तःशल्य न० अन्तःकरणस्य शल्यमिव पीड़कत्वात् । मनसो दुःखदायके ।

अन्तःसंज्ञ त्रि० अन्तः अभ्यन्तरवर्त्तिनी कथनायोग्यत्वात् अप्र-

काश्या संज्ञा चेतना यस्य । वृक्षादौ । ते च मनुना
दर्शिता यथा “उद्भिज्जा स्थावराः सर्व्वे वीजकाण्डप्ररो-
हिणः । ओषध्यः फलपाकान्ताः बहुपुष्पफलोपगाः ।
अपुष्पाः फलवन्तोये ते वनस्पतयः स्मृताः । पुष्पिणः
फलिनश्चैव वृक्षास्तूभयतः स्मृताः । गुच्छगुल्मं तु विविधं
तथैव तृणजातय, । वीजकाण्डरुहाण्येव प्रतानाः वल्ल्य
एव च । तमसा बहुरूपेण वेष्टिताः कर्म्महेतुना । अन्तः-
संज्ञाभवन्त्योते सुखदुःखसमन्विता” इति ।

अन्तःसत्त्वा स्त्री अन्तरभ्यन्तरे गर्भे सत्त्वं प्राणि सारो वा

यस्याः यस्य वा ६ ब० । गर्भिण्यां स्त्रियाम् । अन्तःसारे त्रि० ।

अन्तःसुख त्रि० अन्तरात्मनि तदनुसन्धाने एव सुखं यस्य ।

आत्मानुसन्धानमात्रसुखे वाह्यसुखशून्ये । “योऽन्तः-
सुखोऽन्तराराम इति” गीता ।

अन्तःस्वेद पु० अन्तःस्वेदो मदस्यन्दनं मदजलं यस्य ६ ब० । मदस्राविणि हस्तिनि ।

अन्तक पु० अन्तयति अन्तं करोति अन्त + णिच्--ण्वुल् ।

मृत्यौ “व्याजेनापि कृता राजन् नो दर्शयति सान्तक-
मिति” नार० पु० । देहिनां स्वस्वकर्मानुसारेण विनाशनाय
ईश्वरनियुक्ते यमाख्ये देवभेदे “ऋषिप्रभावान्मयि नान्तकी-
ऽपि प्रभुः प्रहर्त्तुं किमुतान्यहिंस्रा” इति रघुः । विनाश-
कमात्रे त्रि० “क्रोधान्धस्तस्य तस्य स्वयमिह जगतामन्तक-
स्यान्तकोऽहमिति” वेणी० । परमेश्वरे पु० तस्य सर्वभूतानां
प्रलये संहर्त्तृत्वात्तथात्वम्, “महीदधिशयोऽन्तक” इति
विष्णुसह० ।

अन्तकर त्रि० अन्तं नाशं करोति कृ--ट उप० स० ।

नाशकारके । “अहमन्तकरो नूनं ध्वान्तस्येव दिवाकर” इति
भट्टिः । स्त्रियां ङीप् ।

अन्तकरण त्रि० अन्तं करोति नन्द्या० ल्यु । नाशकारके ।

“द्यूतं समाह्वयञ्चैव राजा राष्ट्राद्विवासयेत् । राज्यान्त-
करणावेतौ द्वौ दोषौ पृथिवीक्षितामिति” मनुः । भावे
ल्युट् । नाशने न० ।

अन्तकर्म्मन् न० अन्तस्य नाशस्य परिच्छेदस्य वा कर्म्म उत्पाद-

नम् । नाशने । “षो अन्तकर्म्मणि इति” पा० धातु० । स्यते-
र्नाशनार्थत्वात् सकर्म्मकत्वम् तेन “राघव! स्य शरैर्घोरैर्घोरं
रावणमाहवे” इत्यादौ वारणस्य कर्म्मता स्येति स्यतेर्लीटो
मध्यमैकवचनान्तरूपम् । परिच्छेदकरणे “अवासासीच्च
वैयासकीमित्यादि ।

अन्तकारिन् त्रि० अन्तं करोति कृ--णिनि ६ त० । अन्त-

कारके विनाशके । स्त्रियां ङीप् । ण्वुल् । अन्तंकारको-
ऽप्युक्तार्थे त्रि० ।

अन्तकाल पु० ६ त० । मृत्युकाले, “स्थित्वाऽस्यामन्तकालेऽपि ब्रह्म निर्वाणमृच्छतीति” गीता ।

अन्तकृत् त्रि० अन्तं करोति कृ--क्विप् ६ त० । विनाशके ।

अन्तग त्रि० अन्तं गच्छति गम--ड उप० स० । कार्य्यान्त-

गामिनि, निरवशेषकार्य्यकारके, पारगामिनि, च “यत्नेन
भोजयेच्छ्राद्धे बह्वृचं वेदपारगम् । शाखान्तगमथाध्वर्य्यं
छन्दोगं च समाप्तिकमिति” मनुः ।

अन्तचर त्रि० अन्ते शेषावधौ चरति चर--ट । कार्य्यादिशेषगामिनि ।

पृष्ठ ०१९८

अन्ततस् अव्य० अन्त + सार्वविभक्तिकस्तसि । अन्तेन अन्ते

अन्तादित्याद्यर्थे । तत्र तृतीयार्थे । “वैश्योऽद्भिः प्रासिता-
भिस्तु शूद्रः स्पृष्टाभिरन्तत” इति मनुः । “शुध्येत
स्त्री च शूद्रश्चसकृत्स्पृष्टाभिरन्तत” इति या० । सप्तम्यर्थे
“सह द्यावापृथिव्योश्च तथा स्विष्टकृतेऽन्तत” इति मनुः ।
“अन्ततः उपस्पृश्य शुचिरिति गोभि० । अन्ततः
अन्तावच्छेदे इत्यर्थः “तामन्ततोऽपक्रम्येत्यादौ तु पञ्चम्यर्थे ।
अपेक्षायां, सम्भावनायाञ्च । अवयवे, शासने च विश्व० ।

अन्तम त्रि० अन्तिक + तमप् “तादेश्चेति” वेदे तिकशब्दलोपः ।

अन्तिकतमे अत्यन्तुनिकटस्थिते । शिक्षा अन्तुमस्येति
ऋ० १, २७, ५, “तनूऽपा अन्तमो भवेति” ऋ०
६, ४६, १०, । भाष्यकृतोक्तार्थतयैव व्याख्यातम् ।

अन्तपाल त्रि० पु० अन्तं समीपदेशं द्वारं पालयति । द्वार-

प्राले । “सुद्युम्नस्त्वन्तपालेभ्यः श्रुत्वा लिखितमागतमिति”
भा० शा० प० ।

अन्तर् अव्य० अम--अरन् तुड़ागमश्च । मध्ये, “अन्तःशाक्ता

वहिःशैवाः सभायां वैष्णवा मता” इति तन्त्रम् । “अन्त-
र्विश्वानि भेषजा” ऋ० १, २३, २० “अप्स्वन्तरमृतमप्सु”
इति ऋ० १, २३, १९, “न श्मश्रुणि गतान्यास्यान्न
दन्तान्तरधिष्ठितमिति” मनुः “प्रतिबलजलधेरन्तुरौ-
र्वायमाण” इति “अन्तर्ज्वालावलीढ़ेति” च वेणी० ।
सर्व्वमध्यस्थे परमेश्वरे देहमध्यस्थे जीवे च अन्तःप्रज्ञः
अन्तर्ज्योतिरित्यादि । चित्ते “अन्तर्गता मदनवह्निशिखा-
वली येत्युद्भटः “अन्तर्गतं प्राणभृतां हि वेदेति” रघुः ।
प्राप्ते, स्वीकारे च । अस्य च मध्यार्थेऽव्ययीभावः ।
अन्तर्जलधि अन्तुर्गृहमित्यत्यादि अव्य० ।

अन्तर न० अन्तं राति ददाति रा--क । अवकाशे, अवधौ,

परिधानांशुके अन्तर्द्धाने, भेदे, परस्परवैलक्ष्यण्यरूपे विशेषे,
तादर्थ्ये, छिद्रे, आत्मीये, विनार्थे, वहिरर्थे, व्यवधाने,
मध्ये, सदृशे च । आसन्ने त्रि० । “कृष्वायुज-
श्चिदन्तरम् ऋ० १, १०, ९, अन्तरं कृष्व आसन्नं कुरु” भा०
“पायुरन्तरो निषङ्गाय” ऋ० १, ३१, १३, “अन्तरः समीप-
वर्त्तीति” भा० “न यत्परो नान्तर इति” ऋ० २, ४१, ८,
“अन्तरः समीपवर्त्तीति” भा० निकटस्थे “यज्ञोहीलो वो
अन्तर इति” ८, १८, १९, अन्तरः अन्तिके वर्त्तमान इति
भा० । अन्तरयति दूरीकरोति अन्तर--णिच् + अच् ।
अपसारणे । अन्तर्गते त्रि० । “ह्रदो अस्त्वन्तरम्” ऋ० ७, १०१, ५
“अन्तुरमन्तर्गतमिति” भा० । वृ० उप० अन्तर्यामिब्राह्मणे
अन्तर्गते बहुशः प्रयुक्तः तच्च (१३०) पृष्ठे दृश्यम् ।
“यो अन्तुरोमित्रमहो वनुष्यात् ऋ० ६, ५, ४, अन्तरः
अभ्यन्तुरवर्त्तीति भा० । “पुरोहितोऽन्तरोयासिदूत्यम्
ऋ० १, ४४, १२, “अन्तरः देवयजनमध्ये वर्त्तमान”
इति भा० । अवकाशे, “मृणालसूत्रान्तुरमप्य-
लभ्यम्” कुमा० । “तत्रान्तरे जघ्नुरमुं कटाक्षैः”
माघः । मध्ये, “दिलीपसूनोः स वृहद्भुजान्तरमिति”
रघुः । “आवयोरन्तरे जाताः पर्वताः सरितो द्रुमा”
इति रामा० । व्यवधाने गिरिर्वा व्यवधायकः । “महानद्यन्तरं
यत्र तद्देशान्तरमुच्यते वृ० मनुः । “निरन्तराभ्यन्तरवात-
वृष्टिषु” कुमा० निरन्तरमव्यवधानम् इत्यर्थः । “एका-
न्तुरे आनुलोम्यादिति” मनुः । भेदे “सैव विशि-
नष्टि पुनःप्रधानपुरुषान्तरं सूक्ष्ममिति” सा० का० ।
“शरीरस्य गुणानाञ्च दूरमत्यन्तमन्तरमिति” हितो० ।
“यदन्तरं सर्षपशैलराजयोर्यदन्तरं वायसवैनतेययो-
रिति” रामा० । व्यसने । “प्रहरेदन्तरे रिपुम्” ।
वहिर्योगे “अन्तरे च पुरात् चाण्डालावासा” इति ।
उपसंव्याने (उत्तरीयवस्त्रे,) अन्तरं परिदधाति । सदृशे, “स्थाने-
ऽन्तरतम” इति पा० अन्तरशब्दस्य पुरीभिन्ने एव विशेष्ये
सर्वनामकार्य्यम् “सुमेधसामन्तरस्मै” इति सि० कौ०, मु० बो० ।
पुर्य्यान्तु न, अन्तरायै नगर्य्यै । तत्रापि वहिर्योगे उपसंव्याने
एव सर्वनामता । मयूरव्यंसादित्वात् नञादेशान्तरशब्दस्य
स्वजातीयभिन्ने वृत्तिः शब्दस्वाभावात् “राजान्तरं राजसुतां
निनायेति” रघुः । अन्यो राजा मयू० “राजान्तरमिति”
मल्लिना० “देशान्तरमृते पत्यौ साध्वी तत्पादुकाद्वय-
मिति” स्मृतिः “स्वमेव मूर्त्त्यन्तरमष्टमूर्त्तिरिति “अर्थोऽय-
मर्थान्तरभाव्य एव” इति च कुमा० । अन्तरस्य
भावः ब्राह्मा० ष्यञ् । आन्तर्य्यंसादृश्ये न० “यत्रानेकविध-
मान्तर्य्यं तत्र स्थानत आन्तर्य्यं बलीय” इति परि० सि०
कौ० । अन्तरे भवः अण् आन्तरः तद्भवे त्रि० । “कश्चन
आन्तरो भाव इति” सा० द० । “अन्तःकरणमान्तर-
मिति” वेदा० व्यवकलने (वियोजने) “कुर्य्याद् यथा
स्थाननकमन्तरं वेति” लीला० ।

अन्तरग्नि पु० अन्तर्वर्त्ती अग्निः । जठरानले “दीप्तान्तरग्निः

परिशुद्धकोष्ठ” इति “शाम्यन्ति चायं चिरमन्तरग्नेरिति”
“इच्छाभिघातभयशोकहतेऽन्तरग्नौ” इति च सुश्रुतम् ।
अग्नेर्मध्ये अव्य० । अग्निमध्ये अव्य० ।

अन्तरङ्ग पु० अन्तरं सदृशमङ्गं यस्य । अत्यन्तप्रिये, “समीप-

गोऽन्तरङ्गःप्रियो भवतीति” छा० उप० भा० । “चरमगिरि-
कुरङ्गीशृङ्गकण्डूयनेन स्वपिति सुखमिदानीमन्तरङ्गः
पृष्ठ ०१९९
कुरङ्गः” इति । वहिरङ्गशास्त्रीयनिमित्तसमुदायमध्ये
अन्तभूतानि अङ्गानि निमित्तानि यस्य । व्याकरणोक्ते
परनित्यवहिरङ्गबाधके नैमित्तिककार्य्यभेदे, तद्बोधकशास्त्रे च ।
यथा ग्रामणिनी कुले इत्यादौ “इकोऽचीति” पा० नित्यप्राप्त
नुमं बाधित्वा “ह्रस्वो नपुंसके” इति पा० ह्रस्वः । पूर्ब्बं
कृते तु नुमि अजन्तत्वाभावात् ह्रस्वो न स्यात् । ततश्च
नुम्रूपकार्य्यं प्रत्ययस्थाज्रूपं निमित्तमपेक्षतेइति तद्वहिरङ्ग,
ह्रस्वस्तु प्रकृतिमात्रसापेक्षत्वात् अन्तरङ्ग इति तस्य वहिरङ्ग-
निमित्तककार्य्यबाधकत्वे वीजम् । “परनित्यान्तरङ्गापवादा-
नामुत्तरोत्तरं बलोय इति” “असिद्धं वहिरङ्गमन्तरङ्ग” इति
च परि० सि० को० । एतन्मूलिकैव “वहिरङ्गविधिभ्यस्तु
अन्तरङ्गविधिर्बलीति” कारिका । अन्तः आसन्नमङ्गं कर्म्म० ।
आरादुपकारके न० यथा ब्रह्मसाक्षात्कारे श्रवणमनन
निदिध्यासनानि, संप्रज्ञातसमाघौ च धारणादीनि त्रीणि
अन्तरङ्गाणि । यमादयस्तु पञ्च वहिरङ्गाणि । तथा हि
यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयैत्यष्टौ
संप्रज्ञातसमाधेरङ्गानि तत्र यमादयः वहिरङ्गाणि, प्रति-
बन्धकस्य चित्तकायप्राणेन्द्रियमलस्य निवर्त्तनेन परम्परया
उपकारकत्वात्, धारणादयस्तु संप्रज्ञातसमाधेः समान-
विषयतया साक्षात्स्वरूपोपकारकत्वादन्तरङ्गाणीति अत एव
धारणादित्रयमभिधाय “त्रयमन्तरङ्गं पूर्ब्बेभ्य” इति
पात० सूत्रे धारणादित्रयस्यान्तरङ्गत्वमुक्तम् । धारणादि-
स्वरूपादि तत्तच्छब्दे वक्ष्यते । असंप्रज्ञातसमाधौ तु सर्व्वा-
ण्येव वहिरङ्काणि असमानविषयत्वादिति बोध्यम् ।

अन्तरचक्र न० अन्तरं मध्यवर्त्ति चक्रम् । तन्त्रोक्तेषु

देहस्थसुषुम्णामध्यस्थेषु मूलाधारादिषु षट्सु पद्माकारचक्रेषु ।
विवरण षट्चक्रशब्दे दृश्यम् । ६ त० । आत्मीयसमूहे न० ।

अन्तरज्ञ त्रि० अन्तरं भेदं विशेषं जानाति ज्ञा--क ६ त० ।

विशेषज्ञे “नान्तरज्ञाः श्रियो जातु प्रियैरासां न भूयते”
इति किरा० ।

अन्तरण न० अन्तरं व्यवहितं करोति अन्तर + णिच्--भावे

ल्युट् । अन्तरितकरणे व्यवधापने, “हविरन्तरणे प्राक्
प्रधानेज्याया” इति कात्या० २५, ५, १५, “यदि नाम
हविरन्तरितं न गृहीतमेव, प्राक् प्रवानेज्यायाः स्मृत्वा
अन्वाहरेत् हरिषोऽन्तरणं बहूनां मध्ये एकस्याग्रहण-
मिति” तद्व्या० ।

अन्तरतम त्रि० अतिशयेन अन्तरः सदृशः, अत्यन्तसदृशे

“स्थानेऽन्तरतम” इति पा० । सादृश्यञ्च “तुल्यास्यप्रयत्न-
मिति” पा० सूत्रोपात्त स्थानादिसाम्यम्, यथा कका
रादीनां ङकारादिषु तुल्यस्थानप्रयत्नवत्त्वेन साम्यम् एवं
सकारस्य थकारे । आत्मीयतमे च ।

अन्तरतस् अव्य० सप्तम्यर्थे तसि । मध्ये इत्याद्यर्थे । “तृण-

मन्तरतःकृत्वा रावणं वाक्यमब्रवीत्” इति रामा० ।

अन्तरदृश् पु० अन्तरे दृग् यस्य । अन्तरज्ञे परमात्मानुसन्धा

यिनि । अन्तरंभेदं पश्यति दृश--क्विप् ६ त० । विभेदज्ञे त्रि० ।

अन्तरदेश पु० कर्म्म० । मध्यदेशे तद्विवरणं मध्यदेशशब्दे दृश्यम्

अन्तरपु(पू)रुष पु० अन्तरः मध्यवर्त्ती पुरुषः वा दीर्घः ।

अन्तयामिनि परमेश्वरे । “मन्यन्ते च पापकृतो “न कश्चित्
पश्यतीति नः” । तांस्तु देवाः प्रपश्यन्ति स्वस्यैवान्तर-
पूरुष” इति मनुः ।

अन्तरपूजा स्त्री ७ त० तन्त्रोक्ते मनःकल्पितोपचारेण पूजा-

याम् तत्प्रकारस्तु अन्तर्यागशब्दे वक्ष्यते ।

अन्तरप्रभव पु० अन्तरेभ्यो भिन्नवर्ण्णमातृपितृभ्यः प्रभवति

प्र + भू--अच् ५ त० । सङ्कीर्णवर्ण्णे मूर्द्धावसिक्तादौ । अन्तर-
प्रभवाश्च द्विविधाः अनुलोमजाः, प्रतिलोमजाश्च तत्रोत्कृष्ट-
वर्ण्णात् अपकृष्टवर्ण्णायां स्त्रियां जाताः मूर्द्धावसिक्तादयः
अनुलोमजाः, अपकृष्टवर्ण्णात् उत्कृष्टवर्णायां स्त्रियां जाताः
प्रतिलोमजाः सूतादयः । “भगवन्! सर्व्ववर्ण्णानां
यथावदनुपूर्ब्बशः । अन्तरप्रभवानाञ्च धर्म्मान्नो वक्तुमर्हसीति”
मनुः । एतेषां भिन्नवर्ण्णजातत्वात् अन्तरनामत्वमपि
मनुना हि अनुलोमजान् प्रतिलोमजांश्च उक्त्वा “तान-
न्तरनाम्नस्तु मातृदोषात् प्रचक्षते” इत्युक्तम् । अधिकं वर्ण्ण-
सङ्करशब्दे वक्ष्यते ।

अन्तरय पु० अन्तर्मध्ये अयः गमनम् इण्--अच् । मध्यगतौ

व्यवधाने । ल्युड़न्तमप्यत्र न० । अन्तरं याति या--क ।
देहमध्यस्थचित्तगते त्रि० ।

अन्तरशायिन् पु० अन्तरे शेते शी + णिनि । चित्तस्थे

जीवे । तस्य तत्र प्रतिविम्बरूपेण स्थितत्वात्तथात्वम् ।

अन्तरस्थ पु० अन्तरे देहमध्ये तिष्ठति स्था--क ७ त० ।

देहमध्यस्थचित्तस्थे जीवे ।

अन्तरा अव्य० अन्तरेति इण्--डा । निकटे, मध्ये, विनार्थे

च । तत्र मध्ये “अन्तरा पतिते पिण्डे सन्देहे वा
पुनर्हरेदिति” या० । “अन्तरा मृतसूतके” इति स्मृतिः ।
“पशुमण्डूकमार्ज्जारश्वसर्पनकुलादिभिः अन्तरा गमने,
विद्यादनध्यायमहर्निशमिति” मनुः । “सौमित्रेर्निशि-
तैर्वाणैरन्तरा शकलीकृता” इति रघुः । “अक्षेत्रे वीज-
पृष्ठ ०२००
मुत्सृष्टमन्तरैव विनश्यति इति मनुः । द्वयोर्मध्ये “अन्स-
रान्तरेण युक्ते” पा० उक्तेः एतत्सम्बन्धिपदात् द्वितीया ।
अन्तरा त्वां मां हरिरिति” सि० कौ० । वर्ज्जने निकटे च
मेदिनिः ।

अन्तरात्मन् पु० कर्म्म० । जीवात्मनि । “तदपि न हरिणाक्षीं विस्मरत्यन्तरात्मेति” सा० द० ।

अन्तरापत्या स्त्री अन्तरे गर्भमध्येऽपत्यं यस्याः । गर्भवत्यां

स्त्रियाम् ।

अन्तराय त्रि० अन्तरं व्यवधानमयते अय--अच् । व्यव-

धानकारके । “अस्य ते वाणपातपथवर्त्तिनः कृष्णसार-
स्यान्तरायौ तपस्विनौ संवृत्तौ” शकु० । विघ्ने च
“त्वमन्तरायो भवसि च्युतो विधिरिति” रघुः । “वैरी
न चेद् वेपथुरन्तराय” इति सा० द० “समाध्यन्तरा
याश्च लयादयः वेदान्तसारे दर्शिताः यथा ।
“अस्याङ्गिनोनिर्विकल्पकस्य लयविक्षेपकषायरसास्वाद-
लक्षणाश्चत्वारोविघ्नाः सम्भवन्ति । लयस्तावदखण्डवस्त्वन-
वलम्बनेन चित्तवृत्तेर्निद्रा । अखण्डवस्त्वनवलम्बनेन
चित्तवृत्तेरन्यावलम्बनं विक्षेपः । लयविक्षेपणाभावेऽपि
चित्तवृत्ते रागादिवासनया स्तब्धीमावादखण्डवस्त्वनवलम्बनं
कषायः । अखण्डवस्त्वनवलम्बनेनापि चित्तवृत्तेः
सविकल्पानन्दास्वादनं रसासास्वादः, समाध्यारम्भसमये
सविकल्पानन्दास्वादनं वा । अनेन विघ्नचतुष्टयेन रहितं
चित्तं निर्व्वातदीपवदचलं सदखण्डचैतन्यमात्रमवतिष्ठते
यदा, तदा निर्व्विकल्पकसमाधिरित्युच्यते । तदुक्तम् । “लये
संबोवयेत् चित्तं विक्षिप्तं शमयेत्पुनः । सकषायं विजा-
नीयात् शमप्राप्तं न चालयेत् । नास्वादयेद्रसं तत्र निःसङ्गः
प्रज्ञया भवेत्” इति । योगशास्त्रोक्ताः प्रधानपुरुषसाक्षात्-
कारात् प्राम्भवाः प्रातिभादयः सिद्धयः विवेकसाक्षात्कार-
स्योपसर्गापरपर्य्याया अन्तरायाः यथोक्तं पातञ्जलसूत्रे “ततः
प्रातिभश्रावणवेदनादर्शास्वादवार्त्ता जायन्ते” इत्यनेन
प्रातिभादिसिद्धीरुक्त्वा “ते समाधावुपसर्गा व्युत्थाने सिद्धय
इति” अयमर्थः । योगजशुक्लधर्म्मानुगृहीतेन मनोमात्रेण
सर्वगोचरज्ञानं प्रातिभसिद्धिः । दिव्यानां शब्दस्पर्शरूप-
रसगन्धानां ग्रहणे योगजधर्म्मानुगृहीतानि श्रवणादीनि
यथाक्रमं समर्थानि यदा भवन्ति तदा श्रावणवेदनादर्शास्वाद-
वार्त्ताख्याः सिद्धयः । तथा च दिव्यशब्दग्रहणे यदा
योगिनः श्रवणं समर्थं भवति तदा श्रावणमिति संज्ञा
एवं दिव्यस्पर्शग्रहणसमर्था त्वक् वेदनासंज्ञा, दिव्यरूपग्रहणे
समर्थं नेत्रं दर्शसंज्ञम् । दिव्यरसास्वादे समर्था रसना
आस्वादसंज्ञा, दिव्यगन्धग्रहणे समर्थं घ्राणं वार्त्तासंज्ञा ।
ते प्रातिभादयः निःश्रेयसफले समाधौ तस्य योगिनः
व्युत्थानसमये योगविरामकाले जायमानाः उपसर्गा
भवन्ति । अतो मोक्षार्थी तानुपेक्षेतेति उपदेशप्रयोजनम्
नह्यात्मसाक्षात्कारं विना सिद्धिकोट्यापि कृतकृत्यता
भवतीति ।

अन्तराराम पु० अन्तरे सर्व्वाभ्यन्तरेऽतिसूक्ष्मत्वात्

आत्मनि आरमते क्रीड़ति आ + रम कर्त्तरि घञ् ।
आत्माभिरते । “योऽन्तःसुखोऽन्तराराम” इति गीता ।

अन्तराल न० अन्तरं व्यवधानसीमामाराति गृह्णाति आ +

राक रस्य लत्वम् । मध्ये अभ्यन्तरे । “तुतोष पश्यन्
वितृणान्तराला” इति भट्टिः । “वधूप्रवेशोऽष्टिदिनान्तराल”
इति मुहू० दिङ्नामान्यन्तराले” पा० । सङ्कीर्णवर्णे च ।
“वर्णानां सान्तरालानां स सदाचार उच्यते” मनुः ।
तद्वर्त्तिनि त्रि० स्वार्थे अणि आन्तरालमप्यत्र न० ।

अन्तरालदिक् स्त्री अन्तराला दिक् । दिशो मध्यायां

विदिशि ऐशान्यादौ कोणे ।

अन्तरावेदि(दी) स्त्री अन्तरा मध्यस्था वेदिः वा ङीप् ।

गजयोर्यु व्यमानयोर्मध्यस्थायां मृण्मयवेद्याम् । “जयन्श्री-
रन्तरावेदी मत्तवारणयोरिव” रघुः । अन्तरेति पृथक्पद-
मिति मल्लि० । “समूहे चान्तरावेद्यामिति” त्रिका० ।

अन्तरिक्ष न० अन्तः स्वर्गपृथिव्योर्मध्ये ईक्ष्यते ईक्ष--कर्म्मणि

घञ्, अन्तः ऋक्षाणि अस्य वा पृषो० पक्षे ह्रस्वः ऋकारस्य
रित्वं वा । पक्षिमेघसञ्चारयोग्ये भूलोकस्वर्गमध्यवर्त्तिनि
आकाशप्रदेशे । “पृथिवी हिङ्कारोऽन्तरिक्षं प्रस्ताव”
इति छा० उप० । “अन्तरिक्षगतांश्चैव मुनीन् देवांश्च
इति” मनुः । “तिर्य्यक् चान्तरिक्षं व्यपोहितमिति”
अथ० । “अदितिर्द्यौरदितिरन्तरिक्षमिति” ऋ० १, ८९,
१० । “अदितिरदींना अखण्डनीया वा पृथिवी
देवमाता वा सैव द्यौर्द्योतनशीलो नाकः ततश्च सैवान्तरिक्षम्
अन्तरा द्यावापृथिव्योर्मध्ये ईक्ष्यमाणं व्योमेति” भा० ।
“विश्वमाप्रा अन्तरिक्षमिति” ऋ० १, ५२, १३ । अन्तरिक्ष-
मन्तरिक्षान्तं द्यावापृथिव्योर्मध्ये वर्त्तमानमाकाशं विश्वं
सर्वमिति” भा० । “दिवञ्च पृथिवीं चान्तरिक्षमथो स्वरिति”
सन्ध्यामन्त्रः । ततश्च द्यावापृथिवीमध्यस्थाकाशस्यैव
भुवर्लोकरूपस्यान्तरिक्षत्वम् । “सादयाम्यन्तरिक्षस्य धर्त्त्री-
मिति” य० १४, ५ । अन्तरिक्षस्य भुवर्लोकस्य धर्त्त्री-
मिति” वेददीपः । अत्र अन्तरीक्षमपि । अस्यचान्तरीक्ष-
पृष्ठ ०२०१
निरुक्तिः श्रुतौ । “योऽन्वरे नाकाश आसीदन्तरीक्षमभव-
दीक्षं हि तन्नाम ततः पुरान्तरा वा इदानीमीक्षमभूदिति”
तस्मादन्तरीक्षमिति” ।

अन्तरिक्षप्रा त्रि० अन्तरिक्षं प्राति पूरयति प्रा--पूरणे

विच् । अन्तरिक्षपूरके “अन्तरिक्षप्रां तविषीभिरावृतमिति”
ऋ० १, १५, २ । “अन्तरिक्षं द्युलोकं स्वतेजसा प्राति
प्रयतीति” विच्, भा० ।

अन्तरिक्षप्रुत् त्रि० अन्तरिक्षं प्रवते प्रुङ्गतौ क्विप् । अन्त-

रिक्षचरे “अन्तरिक्षप्रुद्भिरपोदकाभिरिति” ऋ० १, ११६, ३ ।

अन्तरिक्षसद् त्रि० अन्तरिक्षे सीदति सञ्चरति सद--गतौ

क्विप् । आकाशचारिणि । “हंसः शुचिषद्वसुसदन्तरिक्ष-
सदिति ऋ० ४, ४०, ५ । “अन्तरिक्षसद अन्तरिक्षसञ्चा-
रीति” भा० ।

अन्तरिक्षसद्य त्रि० अन्तरिक्षे सद्यम् सदनं सद--भावे

यत् । अरिक्षसदने । “उपरि सद्यं वा एष जयति यो
जयत्यन्तरिक्षसद्यमिति” कौ० ब्राह्म० ।

अन्तरिक्ष्य त्रि० अन्तरिक्षे भवः यत् । अन्तरिक्षभवे ।

“पवतामन्तरिक्ष्या इति ऋ० ९, ३६, ५ ।

अन्तरित त्रि० अन्तर्--इण--कर्त्तरि क्त २ त० । अन्तर्गते

अन्तरं व्यवधानं करोतीति णिचि कर्म्मणि क्त । व्यवघानी
गते, व्यवधापिते, तिरस्कृते आच्छादिते, “द्विरेफवृन्दान्त-
रितैः सरोरुहैरिति” किरा० । अपसारिते, “कुर्य्यात्
यथास्थानकमन्तरं वेति” लीलावत्यामन्तरशब्दस्य वियोजने
प्रयोगात् तत्प्रकृतिकतया वियोजिते च ।

अन्तरिन्द्रिय न० कर्म्म० । अन्तःकरणे ।

अन्तरीक्ष न० अन्तरिक्षवत्सर्व्वम् ।

अन्तरीक्षजल न० अन्तरीक्षात् पतितंजलम् शा० त० । दिव्योदके आकाशात्पतितजले

अन्तरीप पु० अन्तर्मध्ये गता आपोऽस्य ब० अच् समा०

आतईत्त्वम् । द्वीपभेदे । द्वीपस्य हि जलमध्यस्थत्वात् अन्तर्गत-
जलत्वात्तथात्वम् इयांस्तु भेदः चतुर्दिक्षु जलसत्त्वे तस्य
अन्तरीपत्वम् द्वयोर्दिशोर्जलसत्त्वे द्वीपत्वमित्यनयो-
र्भेदः । काकाक्षिगोलकन्यायात् “द्वीपोऽस्त्रियामन्तरीप-
मित्यत्रापि अस्त्रियामित्यस्य अन्वय इति तेनायं पुंस्त्री०
इति केचित् ।

अन्त रीय न० अन्तरे भवं गहादित्वात् छ । “नाभौ धृतञ्च

यद्वस्त्रमाच्छादयति जानुनी । अन्तरीयं प्रशस्तं
तदच्छिन्नमुभयान्तयो” रित्येवंलक्षणे परिधाने वस्त्रे । भवाद्यर्थे
धूमा० वुञ् । आन्तरीयकः तद्भवे त्रि० ।

अन्तरे अव्य० अन्तरेति इण्--विच् । मध्ये । “आनन्देऽथा-

न्तरेऽन्तरा, अन्तरेण च मध्ये स्युरित्यमरः” ।

अन्तरेण अव्य० अन्तरेति इण्--ण टवर्गादित्वेऽपि णस्य नेत्त्वम् ।

विनार्थे, मध्यार्थे च । तत्र विनार्थे “अन्तरेणाञ्जलिं बद्ध्वा
लक्ष्मणस्य प्रसादनमिति” रामायणम् । मध्ये “अन्तरेण
वै योनिं गर्भः सञ्चरति” कौ० ब्रा० । “अन्तरेणापां गुणम्
इति” स्मृतिः । तत्र विनार्थे, द्वितीयातृतीये पर्य्यायेण,
“श्रीर्नेशेन विना शम्भुनान्तरेणाच्युतं सुखमिति” मु० बो० ।
उभयोर्मध्येऽर्थे द्वितीया “अन्तरेणाहवनीयं गार्हपत्यञ्चेति”
कौ० ब्रा० ।

अन्तर्गडु त्रि० अन्तर्मध्ये गडुरिव निरर्थकः । ग्रीवाप्रदेशे

जातस्य गलमांसपिण्डस्य गडोर्यथा निरर्थकत्वम् तद्व-
न्निरर्थके । “किमनेनान्तर्गडुनेति सर्व्वदर्शन सं० । “अन्त-
र्गडु निरर्थकमिति” मेदिनिः ।

अन्तर्गत त्रि० अन्तःअन्तकरणे गतः । अन्तःकरणस्थे देहस्थे च

“अन्तर्गतं प्राणभृतां हि वेद” इति रघुः । “येषामन्तर्गतं
पापं जनानां पुण्यकर्म्मणामिति” पुरा० “अन्तर्गता
मदनवह्निशिखावली या सा बाध्यते किमिह चन्दनचर्च्चिते-
नेति” उद्भटः । अभ्यन्तरस्थे च “अन्तर्गतशवे ग्रामे
वृषलस्य च सन्निधाविति” । “नेत्रवक्त्रविकारेण गृह्यते-
ऽन्तर्गतं मनः” इति च मनुः । अन्तर्गतफलारम्भाः
शस्यानामिव सम्पदः” इति रघुः ।

अन्तर्गर्भ त्रि० अन्तरभ्यन्तरस्थो गर्भोऽस्य । अभ्यन्तरस्थगर्भयुक्ते ।

“कुशौ समावप्रशीर्णाग्रावनन्तर्गर्भाविति” कात्या० २, ३,
३१ । गर्भस्य मध्यम् अव्ययी० । गर्भमध्ये अव्य० ।

अन्तर्गर्भिन् त्रि० अन्तर्म्मध्ये गर्भोऽस्त्यस्य इनि । मध्यस्थ-

गर्भयुक्ते । “अनन्तर्गर्भिणं साग्रं कौशं द्विदलमेव चेति”
पवित्रलक्षणे कात्यायन स्मृतिः ।

अन्तर्गृह न० अन्तःस्थं गृहम् । वाराणसीस्थे सप्तावरणवति

स्थानविशेषे “अन्यस्थाने कृतं पापं वाराणस्यां
विनश्यति । वाराणस्यां कृतं पापं पञ्चक्रोश्यां विनश्यति ।
पञ्चक्रोश्यां कृतं पापमन्तर्गृहे विनश्यति” ॥ काशीमा०
अन्तर्गेहमप्यत्र “अन्यत्र यत्कृतं पापं तत्काश्यां परिणश्यति
वाराणस्यां कृतं पाप मन्तर्गेहे विनश्यति अन्तर्गेहे कृतं पापं
पैशाच्यनरकावहमिति” “देवो विरजसः पीठादन्तर्गेहं विवेश
हेति” च काशी० । मध्यस्थगृहे च । गृहस्य मध्यम्
अव्ययी० गृहस्य मध्ये अव्य० ।
पृष्ठ ०२०२

अन्तर्घण पु० अन्तर्हन्यते क्रोडीभवत्यस्मिन् अन्तर् + हन--अप्

नि० घादेशः णत्वम् । द्वारमतिक्रम्य स्थिते सावकाशे देशे
“तस्मिन्नन्तर्घणे पश्यन् प्रघणे सौधसद्मनः” इति भट्टिः ।

अन्तर्जठर अव्य० जठरस्य मध्यम् अव्ययी० । जठरस्य

मध्ये, उपचारात् तत्स्थकोष्ठे न० ।

अन्तर्जात त्रि० अन्तर्देहमध्ये जातः । देहाभ्यन्तरजाते ।

अन्तर्जानु अव्य० जानुनोर्मध्यम् अव्ययी० । जानुनोर्मध्ये

“अन्तर्जानु शुचौ देश उपविष्ट उदङ्मुखः । प्राङ् वा
ब्राह्मेण तीर्थेन द्विजो नित्यमुपस्पृशेदिति” या० “जानु-
नोर्मध्ये हस्तौ कृत्वेति” रघु० ।

अन्तर्ज्योतिस् न० अन्तर्गतं ज्योतिःप्रकाशकत्वात् चैतन्यम् ।

सर्वान्तर्यामिनि परब्रह्मरूपचैतन्ये तस्य सर्वान्तर्यामित्वा-
त्तथात्वम् ।

अन्तर्ज्वलन न० अन्तः देहान्तरस्य ज्वलनम् । रोगकृते

देहान्तर्दाहे । अन्तःस्थो ज्वलनः । जठरानले पु० ।

अन्तर्दधन न० अन्तर्दध्यते आधीयते मादकताऽनेन

दधकरणे ल्यट् । किणुप्रभृतौ मद्यवीजे ।

अन्तर्दशा स्त्री अन्तर्गता दशा आधिपत्यकालः । ज्योतिषोक्ते

महादशान्तर्गते ग्रहाणां स्वाधिपत्ययुक्तकालभेदे । दशा च
नानाविधा ताश्च दशाशब्दे वक्ष्यन्ते । तत्राष्टोत्तरीयदशा-
यामन्तर्दशाऽभिधीयते वङ्गे च तस्या एव प्रचलितत्वम् ।
“षट्सूर्य्यस्य दशा ज्ञेयाः शशिनोदश पञ्च च । अष्टावङ्गा-
रके ज्ञेया बुधे सप्तदश स्मृताः । शनैश्चरे दश प्रोक्ता
गुरोरेकोनविंशतिः । राहोर्द्वादश वर्षाणि भृगोरप्येक-
विंशति” रित्युपक्रम्य सत्याचार्य्यः “कृत्तिकादित्रये सूर्य्यः
सोमो रौद्रचतुष्टये । मघादित्रितये भौमो बुधो हस्त-
चतुष्टये ॥ अनुराधात्रये सौरिर्गुरुःपूर्ब्बाचतुष्टये ।
धनिष्ठात्रितये राहुः शेषे शुक्रःप्रकीर्त्तितः ॥ सूर्य्योप-
प्लवभौमार्किदशातिकष्टदा नृणाम् । गुरुज्ञचन्द्रशुक्राणां
यथेप्सितफलप्रदा” ॥ अन्तर्दशाज्ञानं यथा । “स्वद-
शाभिर्दशां हत्वा नवभिर्भागमाहरेत् । लब्धा मासास्तु
तच्छेषं पूरयित्वा तु त्रिंशता ॥ अङ्कैर्हृत्वा दिनं लभ्यं
तच्छेषे वष्टिपूरिते । नवभिश्च हृते लब्धा ज्ञेया दण्डा-
स्तदन्तरे ॥ रवेः षड़्वर्षमध्ये तु वेदा ४ मासा रवेर्निजाः ।
चन्द्रस्य दश मासाश्च दिग्दिनं पञ्चमासकाः । कुजस्य,
ज्ञस्य रुद्रास्तु मासा दिग्दिवसाः, शनेः । ऋतुमासाद्यु विंशश्च
गुरोर्व्वर्षोद्युविंशतिः । राहोर्मासाष्टकं ज्ञेयं भृगोर्वर्षस्तु
मासकौ एवं ग्रहाणामन्येषामूह्याश्चैवान्तरादयः । यद्ग्रह-
स्यान्तरे यस्तु यत्संख्यकालमाप्तवान् । तत्संख्यं स्वान्तरे
तस्मै स दद्यादिति निश्चयः । स्वान्तरे ग्रहणे स्वांशं स्वांशेन
पूरयेत् सदा इति” ज्यो० त० । विंशोत्तरीये तु । आचं
कुराजीशबुकेशुपूर्ब्बा वह्न्यादितो भात्क्रमशस्त्रिवारम् । मानं
रसाशानगदन्तिचन्द्रकलाङ्कचन्द्राद्रिरसाद्रिविंशा” इत्युक्तेः
कृत्तिकादिक्रमेण रव्यादीनां त्रिवारं रसादिमिता वर्षा
महादशा । यथा कृत्तिकायां जातौ रवेः षट्वर्षाः, रोहि-
ण्यां जातौ चन्द्रस्य १० वर्षाः, मृगे, कुजस्य ७ वर्षाः,
आर्द्रायां राहोः १८ वर्षाः, पुनर्वसौ जीवस्य
१६ वर्षाः, पुष्ये जातौ शनेः १९ वर्षाः, अश्लेषायां बुधस्य
१७ वर्षाः, मघायां केतोः ७ वर्षाः, पूर्ब्बफाल्मुन्यां
जातस्य शुक्रस्य २० वर्षाः, एवमुत्तरफाल्गन्यादिषु नवसु
उत्तराषाढ़ादिषु नवसु च रव्यादीनां यथाक्रमं षड़ादि-
वर्षाः । तदन्तर्दशा तु “स्वदशाभिर्दशां हत्वा वसुभिर्भाग-
माहरेदिति” विशेषः । ततश्च उभयोर्दशयोरनुपाते-
नान्तर्दशामानमुन्नेयम् यथा यदि १०८ वर्षैः ६
वर्षाः तदा ६ वर्षैः किमिति इत्यादिक्रमेण त्रैराशिकेन
तत्तन्मानम् एवं १२० वर्षैः यदि ६ वर्षाः तदा ६ वर्षैः
किमित्यादिक्रमेण त्रैराशिकेन तत्तन्मानसिद्धिः । एवं
योगिन्यादिदशायामपि अन्तर्दशामानमुन्नेयम् ।

अन्तर्दशाह अव्य० दशाहस्य मध्यम् अव्ययी० । दशाहा-

भ्यन्तरे “अन्तर्दशाहे स्याताञ्चेत् पुनर्मरणजन्मनी” इति
मनुः दशाहपदं स्वस्वजात्युक्ताशौचदिनपरमु ।

अन्तर्दहन न० अन्तरभ्यन्तरे दहनम् । रोगकृते देहाभ्य-

न्तरदाहे । अन्तःस्थः दहनः । जठरानले पु० ।

अन्तर्दाह पु० अन्तर्मध्ये दाहः । देहाभ्यरसन्तापे ।

अन्तर्दुष्ट त्रि० अन्तः अन्तःकरणे दुष्टः । दुष्टान्तःकरणे ।

अन्तर्द्वार न० अन्तर्गतं द्वारम् । गृहमध्यस्थे गुप्तद्वारे ।

जालद्वारे क्षीरस्वामी (खिड़्की) द्वारे शवरः ।

अन्तर्द्धा स्त्री अन्तर् + धा स्त्रियां भावेऽङ् । अन्तर्द्धाने तिरो-

धाने “अन्तर्द्धामुपययुरुत्पलावलीषु” इति माघः ।

अन्तर्द्धान न० अन्तर् + धा--ल्युट् । तिरोधाने दृश्यपदार्थस्य

दर्शनायोग्यस्थाने स्थितौ, मुन्यादीनां शरीरत्यागे च ।
“अन्तर्द्धानं गते रामेइति” रामायणम् ।

अन्तर्द्धि पु० अन्तर् + धा--कि । आच्छादने, व्यवधाने, अन्त-

र्धाने च “अन्तर्द्धौ येनादर्शनमिच्छति” पा० ।

अन्तर्नगर न० नगरस्य मध्यम् अव्ययी० । नगरमध्ये

अन्तःस्थं नगरम् कर्म्म० । अन्तःपुरे । “दशाननान्तर्नगरं
ददर्शेति” रामा० ।
पृष्ठ ०२०३

अन्तर्भाव पु० अन्तर्मध्ये भावः प्रवेशः । मध्यप्रवेशे समुदाय-

मध्यपाते । “आत्मानमात्मना बिभ्रदस्तोति व्यवदिश्यते
अन्तर्भावाच्च तेनासौ कर्म्मणा न सकर्म्मक” इति हरिका०
स्वविषयकज्ञानविषयत्वे च भवति च वह्निमह्नोधविषयत्वा-
द्वह्नेर्वह्निमदन्तर्भावः । अन्तःस्थोभावः । चित्तवृत्तिभेदे ।

अन्तर्भावना स्त्री अन्तःस्था व्यञ्जकचेष्टाकारादिरहिता

भावना । व्यञ्जकचेष्टादिशून्ये चिन्तने ।

अन्तर्भावित त्रि० अन्तर् + भू--णिच्--क्त । मध्यप्रवेशिते

समुदायान्तर्भूतीकृते । “अन्तर्भावितसत्त्वं चेत् कारणं
तदसत्त्वतः । नान्तर्भावितसत्त्वं चेत् कारणं तदसत्त्वत” इति
खण्डनखण्डखाद्यम् । अव्यवहितपूर्बवर्त्तितया
कारणस्य यत् सत्त्वसुररीक्रियते तस्य सत्त्वमस्ति न वा तस्य
सत्त्वस्वीकारे पुनस्तत्सत्त्वस्य सत्त्वस्वीकारेऽनवस्थापातः
ततश्च उत्तरत्र एकस्य सत्त्वमनङ्गीकृत्यैव अनवस्था वारणीया
तथाच कारणसत्त्वेऽपि कुतः तथा नाङ्गीक्रियते । एवं च
विनापि सत्त्वं, तदङ्गीकृत्य कारणतास्वीकारे न कोऽपि
दोषोऽस्ति इति तदाशयः ।

अन्तर्भूत त्रि० अन्तर्मध्ये भूतः भू + क्त । मध्यस्थिते, अन्त-

र्गते च । “कालभावाध्वदेशानामन्तर्भूतक्रियान्तरैः । सर्वै-
रकर्मकैर्योगे कर्मत्वमुपजायते” इति हरिका० “एष वै
भगवान् विष्णुरन्तर्भूतः सनातन” इति पुरा० ।

अन्तर्मनस् त्रि० अन्तर्गतं वाह्यव्यापारशून्यतया अन्तरेव

स्थितं मनो यस्य । व्याकुलचित्ते, समाहितमनस्के च ।
दुःखितस्य हि वाह्येतदितरव्यापारशून्यतया तत्प्रती
कारचिन्तनायान्तरेव मनसः स्थितत्वात् तथात्वम् समाधि-
स्थस्य तु वाह्यविषयपरिहारेण ध्येयात्ममात्रगीचरमन-
स्कतया तथात्वमिति भेदः ।

अन्तर्मुख त्रि० अन्तःपरमात्मा मुखं प्रवेशद्वारं यस्य । वाह्य-

वस्तुपरिहारेण परमात्मविषयकतया प्रवेशयुक्ते चित्तादौ ।
अन्तरभ्यन्तरे मुखं यस्य । सुश्रुतोक्ते व्रणस्रावणसाधने शस्त्र
भेदे न० । “सूचीकुशपत्राचीमुखशरारीमुखान्तर्मुस्वत्रिकू-
र्चकानि विस्रावणे” इति सुश्रुतम् । अन्तःकरणं अविद्या-
वृत्तिरूपं द्वारं सुखानुभवे यस्य । स्वरूपसुखानुभवहेतुना
अविद्यावृत्तिरूपान्तःकरणेन सुषुप्तौ आनन्दानुभवकारके
प्राज्ञाख्ये जीवभेदे “आनन्दभुक् चेतोमुखः प्राज्ञः” इति
श्रुतौ प्राज्ञस्य आनन्दभोगे चेतोमुस्वत्वोक्त्या तथात्वम् ।
मुखस्य मध्यम् अव्ययी० । मुखस्य मध्ये इत्यर्थे अव्य० ।

अन्तर्मातृका स्त्री अन्तःस्था षट्चक्रस्था मातृका अकारादि-

वर्ण्णाः । तन्त्रोक्तेषु षट्पद्मस्थेषु अकारादिषु वर्ण्णेषु । ते
च वर्ण्णा अन्तर्मातृकान्यासशब्देऽनुपदं वक्ष्यन्ते ।

अन्तर्मातृकान्यास पु० अन्तःस्थाया मातृकाया न्यासः उच्चा-

रणपूर्ब्बकं तत्तत्स्थानेषु न्यासः । अन्तस्थमातृकावर्णानां
स्मरणपूर्ब्बकं तत्तत्स्थानेषु न्यासे । यथा “न्यासोऽय-
मान्तर” इत्युपक्रम्य “द्व्यष्टपत्राम्बुजे कण्ठे स्वरान् षोड़श
विन्यसेत् । द्वादशच्छदहृत्पद्मे कादीन् द्वादश विन्यसेत् ।
दशपत्राम्बुजे नाभौ डकारादीन्न्यसेद्दश । षट्पत्रमध्ये
लिङ्गस्थे बकारादीन्न्यसेच्च षट । आधारे चतुरोवर्णान्
न्यसेद्वादीन् चतुर्द्दले । हक्षौ भ्रूमध्यगे पद्मे द्विदले विन्यसेत्
प्रिये! । तन्मध्ये परविन्दुञ्च सृष्टिस्थितिलयात्मकम् । एवं
समाहितमना ध्यायेन्न्यासोयमान्तरः” इति तन्त्रसारः ।

अन्तर्मृत पु० स्त्री अन्तर्गर्भाशये मृतः । गर्भाशये मृते

बालकादौ “भवत्युच्छासपूतिञ्च शूलं चान्तर्मृते शिशौ”
इति सुश्रुतम् ।

अन्तर्य्य त्रि० अन्तरे भवः दिगा० य । मध्यभवे ।

अन्तर्याग पु० अन्तरन्तःकरणेन मनसा कल्पितोपचारैर्यागः

पूजा होमश्च । तन्त्रोक्ते मानसोपचारैः पूजने, होमभेदे च ।
“अर्च्चयन् विषयैः पुष्पैस्तत्क्षणात् तन्मयो भवेत् । न्यासै-
स्तन्मयताबुद्धिः सोहंभावेन पूजयेत्” । तन्मयेति तदेकत्व-
ज्ञानं सोहमिति, “मन्त्राक्षराणि तच्छक्तौ प्रोतानि परिभाव-
येत् । तामेव परमव्योम्नि परमानन्दवृंहिते । दर्शयत्यात्मसद्भावं
पूजा होमादिभिर्विनेति” । विषयपुष्पाणि यथा ।
अमायामनहङ्कारमरागमगदं तथा । अमोहकमदम्भञ्च
अनिन्दाऽक्षोभकौ तथा । अमात्सर्य्यमलोभञ्च दशपुष्पं
विदुर्बुधाः । अहिंसा परमं पुष्पं पुष्पमिन्द्रियनिग्रहः ।
दया पुष्पंक्षमा पुष्पं ज्ञानं पुष्पञ्च पञ्चमम् । इत्यष्टसप्तभिः
१५ पुष्पैः पूजयेत् परदेवताम्” । अथ होमः । “आत्मा-
नमपरिच्छिन्नं विभाव्यात्मानमन्तरा परमात्मज्ञानमेकस्व-
रूपं संविभाव्य च । चतुरस्रं तु चित्कुण्डमानन्दमेखला-
युतम् । अर्द्धमात्राकृतिर्योनिस्तया चैव विभूषितम् । नाभौ
ध्यात्वा तन्मयस्थज्ञानाग्नौ जुहुयात् यथा । मूलान्ते नाभि-
चैतन्यरूपाग्नौ हविषा स्रुचा । ज्ञानप्रदीपिते नित्यमक्षवृत्ती-
र्जुहोम्यहम्” । (स्वाहा इति प्रथमाहुतिः, मूलान्ते) घर्म्मा-
धर्म्महविर्दीप्ते आत्माग्नौ मनसा स्रुचा । सुषुम्णावर्त्मना
नित्यमक्षवृत्तीर्जुहीम्महम्” । (स्वाहेति द्वितीयाहुतिः,
मूलान्ते) “प्रकाशाकाशहस्ताभ्यां अवलम्बन्मनःस्रुचा ।
धर्म्माधर्म्मकलास्नेहपूर्ण्णमग्नौजुहोम्यहम्” । (स्वाहेति तृती-
पृष्ठ ०२०४
याहुतिं जुहुयात् । ततो मूलान्ते) । “अन्तर्निरन्तर-
निरिन्धनएधमाने मायान्धकारपरिपन्थिनि संविदग्नौ ।
कस्मिंश्चिदद्भुतमरीचिविकाशमूमौ विश्वं जुहोमि वसुघादि-
शिवासनान्तम् । इत्यन्तर्यजनं कृत्वा साक्षाद्ब्रह्ममयो भवेत् ।
न तस्य पापपुण्यानि जीवन्मुक्तोभवेद्ध्रुवम्” । “अयमन्त-
र्यागोज्ञानिनामेव । अथान्तःपञ्चमकारयजनप्रकारः ॥
तदुक्तं कुलार्ण्णवे अन्तर्यजने” । “सुरा शक्तिः शिवोमांसं
तद्भोक्ता भैरवःस्वयम् । तयोरैक्यसमुत्पन्ने आनन्दोमोक्ष
उच्यते । आनन्दं ब्रह्मणोरूपं तच्च हव्ये व्यवस्थितम् ।
तस्याभिव्यञ्जकं द्रव्यं यीगिभिस्तेन पीयते । लिङ्गत्रय-
विशेषज्ञः षट्चक्रपद्मभेदतः । पीठस्थानानि चागम्य महा
पद्मवनं व्रजेत् । आमूलाधारमाब्रह्मरन्धं गत्वा पुनः पुनः ।
चिच्चन्द्रकुण्डलीशक्तिसामरम्यमहोदयः । व्योमपङ्कजनि-
ष्यन्दसुधापानरतो नरः । मधुपानमिदं देवि! चेतरन्मद्य-
पानकम् । पुण्यापुण्यं पशुं हत्वा ज्ञानखड़्गेन योगवित् ।
परे लयं नयेच्चित्तं पलाशीति निगद्यते । मानसादिन्द्रिय-
गणं संयम्यात्मनि योजयेत् । मांसाशी स भवेद्देवि! इतरे
प्राणिघातकाः । शिवशक्त्यात्ममिथुनसंयोगानन्दनिर्भराः ।
मुक्तास्ते सैथुनं तत्स्यादितरे स्त्रीनिषेवकाः” इति त० सा०
“अन्तःपूजां विधायैव वाह्यपूजां समाचरेदिति” तन्त्रम् ।

अन्तर्याम पु० अन्तर्यामो यस्मात् । ग्रहरूपे सामापराख्ये

पात्रभेदे । “त्रिष्टुभः स्वारं स्वारादन्तर्यामः “अन्तर्या-
मात् पञ्चदश” इति यजु० १३, ५५ स्वारात् साभ्नोऽन्त-
र्यामं ग्रहं निरमिमीतेति” श्रुतेरिति वेददीपः ।
तच्च यज्ञियं पात्रभेदः । “सुहवा सूर्य्यायान्तर्याममनु-
मन्त्रयेदिति” श्रुतिः “उन्नेतुः पात्रयोजनमित्युपक्रम्य”
खरोत्तरपूर्ब्बार्द्धे उपांश्वन्तर्यामयोः” कात्या० ९, १, २,
खरस्य उत्तरपूर्ब्बार्द्धेईशानकोणे, उपांश्वन्तर्यामयोः पात्रयो
र्योजयति सादयतीति वा” तद्व्या० ।

अन्तर्यामिन् पु० अन्तर्मध्येऽनुप्रविश्य यमयति स्वस्वकर्म्मणि

इन्द्रियादीनि जीवं वा व्यापारयति यम + णिच्--णिनि ।
“अन्तराविश्य भूतानि यो बिभर्त्त्यात्मकेतुभिः । अन्तर्यामी-
श्वरः ताक्षात् भवे” दित्युक्ते ईश्वरे “अन्तरेष यमयती-
त्यादि” वृहदारण्यकान्तर्यामिब्राह्मणोक्तेस्तस्य तथात्वम् ।
आत्मकेतुभिः निजव्यापारैः प्राणादिवृत्तिभिरित्यर्थः ।
वायौ च तस्य सर्व्वप्राणिषु अध्यात्मवायुरूपेण स्थितत्वा-
त्तथात्वम् । अन्तर्गतवस्तुज्ञातरि त्रि० ।

अन्तर्यामिव्राह्मण न० अन्तर्यामिन ईश्वरस्य ज्ञापकम्

ब्राह्मणं मन्त्रेतरवेदभागः । वृहदाण्यकान्तर्गते अन्तर्या-
मिनः ईश्वरस्य ज्ञापके ब्राह्मणे । तच्च १३० पृष्टे दर्शितम् ।

अन्तर्लोम न० अन्तर्गतमाच्छाद्यं लोम अच् समा० ।

आच्छाद्ये लोम्नि ।

अन्तर्वंशिक त्रि० अन्तर्वंशे राज्ञामाभ्यन्तरगृहे नियुक्तः

नियुक्तार्थे ठक् संज्ञापूर्ब्बकविधेरनित्यत्वान्न वृद्धिः, अन्त-
र्वंशः नियोज्यतयाऽस्त्यस्य ठन् वा । राज्ञामन्तःपुरे रक्ष-
णार्थं नियुक्ते कुब्जवामनादौ ।

अन्तर्वण अव्य० वनस्य मध्यम् णत्वम् । वनसध्ये इत्यर्थे ।

अन्तर्वत्नी अन्तरस्त्यस्य गर्भ इति वाक्ये “अन्तर्वत्पतिवतो-

र्नुगिति” पा० अन्तःशब्दस्याधिकरणशक्तिप्रधानतयाऽस्ति-
सामानाधिकरण्याभावात् अप्राप्तौ मतुप् अदुपपत्वे
मस्य वः नुक् च । गर्भवत्याम् स्त्रियाम् । “तस्यामेवास्य
यामिन्यामन्तर्वत्नी प्रजावती सुतावसूत सम्पन्नाविति”
रघुः । अन्तःशब्दस्य तत्स्थलक्षणया अस्त्यर्थे मतुप् मस्य
वः । अन्तःस्थपदार्थवति त्रि० । “पुमानन्तर्वाँ स्थविरः
पयस्वानिति” अथ० ९, ४, ३, ।

अन्तर्वमि पु० अन्तःस्थित एव वाणयति उद्गारशब्दं कारयति

वण--शब्दे इन् णस्य मत्वम् । (ढेकुर) इतिख्यात-
स्योद्गारशब्दस्य कारके अजीर्णनामके रोगभेदे ।

अन्तर्वर्त्तिन् त्रि० अन्तः मध्ये वर्त्तते वृत--णिनि । मध्य-

वर्त्तिनि । “अन्तर्वर्त्तिनीं विभक्तिमाश्रित्येति” सि० कौ० ।

अन्तर्वा त्रि० अन्तः अन्तरङ्गभावम् अन्तःकरणंवा वाति गच्छति

स्निग्धत्वेन वा--गतिगन्धनयोः विच् । पुत्रपश्वादिषु ।

अन्तर्वाणि त्रि० अन्तर्गता अन्तःकरणे स्थिता शास्त्रवाक्या-

त्मिका वाणी यस्य ब० समासान्तविधेरनित्यत्वान्न कप्
ह्रस्वश्च । बहुशास्त्रवाक्याभिज्ञे पण्डिते ।

अन्तर्वावत् त्रि० अन्तर्वाः पुत्रादिरस्त्यस्मिन् मतुप् मस्य वः ।

पुत्रादिमति “अन्तर्वावत् क्षयं दधे” इति ऋ० १, ४०, ७,
“अन्तर्वावत् अन्तःस्थितपुत्रादिमत्त्वात् बहुगुणोपेतं क्षयं
गृहमिति” भा० ।

अन्तर्वाष्प त्रि० अन्तर्गतं वाष्पम् । वाह्याप्रकाशिते कण्ठ-

पथाप्राप्ते रोदनजन्यजलकणे । ब० । तद्युक्तपदार्थे
त्रि० । “अन्तर्वाष्पविलोचने” इति ।

अन्तर्विगाह पु० अन्तर्भूत्वा विगाहः । मध्यप्रवेशं । ल्युट् ।

अन्तर्विगाहनमप्यत्र न० हेम० ।
पृष्ठ ०२०५

अन्तर्वेदि पु० अन्तर्गता वेदिर्यत्र देशे । ब्रह्मावर्त्तदेशे, स च

देशः आ प्रयागात् हरिर्द्वारपर्य्यन्तो गङ्गायमुनयोर्मध्यदेशः ।
वेद्या मध्यम् अव्ययी० । वेदिमध्ये अव्य० । “श्रपणस्य
पश्चादुपविशत्यन्तर्वेदि वा कात्या० २, ५, ११, “अन्तर्वेदि
वेद्याः करिष्यमाणायाः प्रदेशो लक्ष्यते तस्य देशस्याभ्यन्तरे
उपविशतीति” तद्व्या० “अन्यदन्तर्वेदि” कात्या० १३, ३, ३ ।
अन्तर्वेदि विहितं कर्न्म ठन् । अन्तर्वेदिकम् अन्तर्वेदि-
विहिते इष्ट्यादौ कर्म्मणि “नित्यमैष्टिकपौर्त्तिकमिति”
मनुबचने ऐष्टिकमन्तर्वेदिकमिति” कूल्लू० ।

अन्तर्वेदी स्त्री पृथिव्या मध्यस्थितत्वादन्तर्वेदीव । हरिद्वारा-

वधिप्रयागपर्य्यन्ते शशस्थलीति ब्रह्मावर्त्त इति च ख्याते देशे

अन्तर्वेशिक त्रि० अन्तर्वेशे अन्तःपुरे नियुक्तः ठक् संज्ञा

पूर्ब्बकविधेरनित्यत्वात् न वृद्धिः । अन्तःपुररक्षणाय नियुक्ते
कञ्चुक्यादौ । अन्तर्वेश्मिकादयोऽप्यत्र ।

अन्तर्हत्य अव्य० अन्तर् + हन--ल्यप् । मध्ये हत्वेत्यर्थे “अन्त-

रपरिग्रहे” पा० अपरिग्रह एवास्य गतित्वेन समासः
परिग्रहे तु न, “अन्तर्हत्वा गतः हतं परिगृह्येति”
सि० कौ० ।

अन्तर्हास पु० अन्तरप्रकाशो हासः । गूढ़हास्ये, ६ त० । तद्वति त्रि० ।

अन्तर्हित त्रि० अन्तर् + धा--क्त । गुप्ते, तिरोहिते च ।

“अन्तर्हितण्यर्थ” इति सि० कौ० ।

अन्तवत् त्रि० अन्तो नाशः परिच्छेदो वाऽस्य मतुप् मस्य वः ।

अवश्यनश्वरे “अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिण”
इति गीता । परिच्छेदयुक्ते सीमावति च । “स हैतानन्तवत
उपास्तेऽन्तवतः स लोकान् जयतीति” वृ० उ० ।
“अन्तवतः परिच्छिन्नानिति” भा० । स्त्रियां ङीप् ।

अन्त(न्ते)वासिन् पु० अन्ते समीपे वस्तुं शीलमस्य वस--णिनि

सप्तम्या वा अलुक् । शिष्ये । स्त्रियां ङीप् । समीपस्थिते
त्रि० ।

अन्तवेला स्त्री अन्तस्था वेलाऽवधिः कालो वा ६ त० । शेषसीमायाम्, नाशसमये च ।

अन्तशय्या स्त्री शयनं शय्या शीङ्--भावे क्यप् अन्तस्य

नाशार्थं शय्या चतुर्थ्यर्थे ६ त० । मरणार्थं भूमिशय्यायाम्,
तद्धेतुत्वात् श्मशाने च । अन्त एव शय्या निर्व्यापारत्व-
सादृश्यात् कर्म्म० । मरणे ।

अन्तसद् पु० अन्ते निकटे सीदति सद--क्विप् । अन्तेवासिनि

शिष्ये । “तमुपासते गुरुमिवान्तसद” इति किरा० ।
समीपगे त्रि० ।

अन्तस्सलिल न० अन्तरप्रकाशं सलिलम् । भूमिमध्यस्थे जले

“गङ्गाया अन्तस्सलिलवाहित्वान्न दोष” इति रघु० ।
सत्वाभावपक्षे अन्तःसलिलमप्यत्र । अन्तर्गतं सलिलं यस्याः ।
अप्रकाशितजलायां सरखतीनद्यां स्त्री । सलिलस्य
मध्यम् अव्ययी० । जलमध्ये अव्य० । अन्तःसलिलमव-
गाहेतेति” स्मृतिः ।

अन्तस्ताप पु० अन्तःस्थितः तापः । चित्ततापे, देहमध्यतापे च ।

अन्त(न्ते)स्था पु० अन्तः स्पर्शोष्मणोर्वर्णयोर्मध्ये तिष्ठतीति स्था-

क्विप् । यरलवाख्येषु वर्णेषु ते हि कादिमावमानस्पर्शानां
शषसहरूपोष्यणश्चमध्यस्थाः । वा विसर्गलोपेऽन्तस्था अपि ।
“हकारं पञ्चमैर्युक्तमन्तस्थाभिश्च संयुतम् । औरस्यं तं
विजानीयात् कण्ठ्यमाहुरसंयुतमिति” पा० शि० । स्था--क ।
अन्तःस्थोऽप्यत्र मध्यस्थितमात्रे त्रि० । भवादौ गहा०
छ । अन्तःस्थीयः मध्यस्थभवे त्रि० ।

अन्तादि त्रि० आदिश्च अन्तश्च द्व० राज० वा परनिपातः ।

आद्यन्तयोः । “अन्तादिवच्चेति” पा० ।

अन्तानल पु० अन्तस्य प्रलयस्यानलोवह्निः । प्रलयानले,

अन्त्येष्टिकर्म्माङ्गवह्नौ च ।

अन्तार पु० अन्तं वनपर्य्यन्तदेशमृच्छति ऋ--अण् उप० ।

“अघिष्ठातारमन्तारं पशूनां पुरुषं विदुरिति” भारतोक्ते
पशुपालके ।

अन्तावशायिन् पु० अन्ते पर्य्यन्तदेशेऽवशेते

अव + शी--णिनि । चाण्डालादौ तस्य ग्रामान्तस्थत्वात्तथात्वम् ।

अन्तावसायिन् पु० नखकेशानामन्तमवसातुं छेत्तुं शीलमस्य

अव + सो--णिनि युक् च । नापिते । अन्ते वृद्धे वयसि
अवस्यति निश्चिनोति तत्त्वम् । मुनिभेदे । “अन्ताय स्वतो-
षार्थं जन्तुनाशाय अवस्यति । प्राणिहिंसके चाण्डालादौ ।

अन्ति (का) स्त्री अन्त्यते संबध्यते अन्त--इ । नटाभिनयन-

काले तदुक्तौ ज्येष्ठभगिन्याम् । स्वार्थेके टापि अन्तिके-
त्यपि । सामीप्यार्थे अव्य० “मुग्धप्रभीतवदुपेयतुरन्ति मात्रो-
रिति” भाग० “यो नो अग्नेऽभिदासत्यन्ति दूरे पदीष्ट स”
इति ऋ० १, ७९, ११, “अन्ति अन्तिके” भा० । “नही
नु वो मरुतो अन्त्यस्मे” ऋ० १, १६७, ९ । अस्य सामीप्यार्थ-
त्वात् पदान्तरेण अव्ययीभावे । तत्तदर्थसामीप्ये “वृष-
णावन्तिदेवगिति ऋ० १, १८०, ७ ।

अन्तिक त्रि० अन्त्यते संबध्यते सामीप्येन, अन्त--घञ्

सोस्यास्तीति मत्वर्थीयः ठन् । सामीप्यवति । “विप्रान्तिके
पितॄन् ध्यायन्निति” “शनैः पिण्डान्तिके पुनरिति” “वसे-
युश्च गृहान्तिके” इति च मनुः । “तामन्तिकन्थस्तबलि-
प्रदीपामिति” रघुः । स्वार्थे ठनि सामीप्ये न० । चूल्ल्याम
न० । ओषधिभेदे स्त्री । अन्तं शेषसीमां व्याप्नोति
अन्त + कन् । पर्य्यन्तव्यापके त्रि० । “केशान्तिको ब्राह्म-
पृष्ठ ०२०६
णस्य दण्डः कार्य्यः प्रमाणतः । ललाटसस्मितो राज्ञः
स्यात्तु नासान्तिको विश” इति “षट्त्रिंशदाब्दिकं
चर्य्यं गुरौ त्रैवेदिकं व्रतम् । तदर्द्धिकं पादिकं वा ग्रहणा-
न्तिकमेव वेति” च मनुः । “जनान्ते स्याज्जनान्तिक-
मिति” सा० द० ।

अन्तिकतम त्रि० अतिशयेनान्तिकः अतिशायने तमप् ।

अत्यासन्ने वेदे तु “तादेश्चेति” तिकलोपे अन्तमोऽप्युक्तार्थे ।

अन्तिकाश्रय पु० अन्तिकं समीपम् आश्रयते आ + श्री--अच् ।

निकटस्थे, अवलम्बनस्थाने च ।

अन्तितस् अव्य० अन्तिक + तसिल् कलोपः अन्तिशब्दाद्वा

तसिल् । अन्तिके इत्यर्थे “नकिष्टं घ्नन्त्यन्तितोनदूरादिति”
ऋ० २, २७, १३, “अन्तितः अन्तिकादिति” भा० ।

अन्तिम त्रि० अन्ते भवः अन्त + डिमच् । अन्तभवे, चरमे च ।

“अजातमृतमूर्खानां वरमाद्यौ नचान्तिमः । सकृद्दोष-
करावाद्यावन्तिमश्च पदे पदे” हितो० ।

अन्तिवाम त्रि० अन्ति अन्तिके वामं वननीयं धनमस्य ।

निकटस्थधने “अन्तिवामा दूरे” इति ऋ० ७, ७७, ४ ।
“अन्ति अस्मदन्तिके वामं धनं यस्याः सान्तिवामेति” भा० ।

अन्तेवसत् पु० अन्ते निकटे बिद्याग्रहणाय वसति वस--शतृ

७ त० अलुक्समा० । शिष्ये अन्तेशब्दस्य पृथक्स्थितावपि
तत्सभभिव्याहारमात्रेण तदर्थता । “बसन्निवान्ते
विनयेन जिष्णुः” किरा० ।

अन्तेवासिन् पु० अन्ते निकटे विद्याग्रहणाय वसति

वसणिनि ७ त० अलुक्समा० । शिष्ये “याज्यान्तेवासिनोर्वापि
न त्वन्यत इति स्थितिरिति” मनुः “कलापिवैशम्पाय-
नान्तेवासिभ्यश्चेति” “आचार्य्योपसर्जनान्तश्चान्तेवासीति” च
पा० । “वामदेवान्तेवासी तदाश्रमवासीति” दशकु० ।
ग्रामादेरन्तेवासिनि चाण्डालादौ त्रि० ।

अन्तोदात्त न० अन्ते उदात्तः स्वरो यस्य । अन्तोदात्तस्वर-

युक्ते पदे “पथिमथोः सर्व्वनामस्थाने” पा० सूत्रे “सर्व्व-
नामस्थाने किम्? ज्योतिष्मतः पथो रक्षेति उदात्त-
निवृत्तिस्वरेणान्तोदात्तं पदमिति” सि० कौ० । अन्ते अन्ता
वयवे उदात्तः । यादृशसमुदायस्य अन्त उदात्तः तादृशे
समुदाये “कर्षात्वतो घञोऽन्त उदात्त” इत्यधिकारे विहिते
अन्तोदात्तस्वरे, कार्षःपाक इत्यादि । “धातोः” पा०
अन्तोदात्तः । “गोपायतन्न” इति सि० कौ० । “फिषो-
ऽन्त उदात्त” इत्यधिकारे शान्तनवाचार्य्यप्रणीतसूत्रैः
प्रातिपदिकस्यान्त उदात्तः । तानि च सूत्राणि सि० कौ०
उत्तरार्द्धे ५५१, पृष्ठादौ उपात्तानि । तादृशसूत्रोत्पात्तानां
प्रातिपादिकानामन्तोदात्तता बोध्या ।

अन्त्य त्रि० अन्ते पर्य्यन्ते वसतीति अन्त + यत् । चाण्डाले ।

“अन्त्यादपि वरं धर्म्मं स्त्रीरत्नं दुष्कुलादपीति” मनुः
“अन्त्यश्चण्डाल” इति कुल्लू० । भ्लेच्छे, चण्डांलान्त्य-
स्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च पतत्यज्ञानतो विप्रो
ज्ञानात् साम्यं तु गच्छति” नर्क्षवृक्षनदीनाभ्नीं नान्त्यपर्वत-
नामिकामिति” “नान्त्यो न विकलेन्द्रिय” इति च
मनुः । “अन्त्यश्चण्डालादिरिति” “नक्षत्रवृक्षनदीम्लेच्छ-
पर्वतनामिकामिति” च कुल्लू० । म्लेच्छानां सर्व्वाप-
कर्षान्तभवत्वात्तथात्वम् । अवसानभवे, “जायायै पूर्व्व-
मारिण्यै दत्त्वाग्नीनन्त्यकर्म्मणीति” मनुः “नानावीजेष्वन्त्य
एव सामर्थ्यात्” कात्या० २, ४, १०, “असह्यपीड़ं भगवन्!
ऋणमन्त्यमवेहि मे” इति “विससर्ज्जतदन्त्यमण्डनमिति”
च रघुः “क्रियतां कथमन्त्यमण्डनमिति” कुमा० ।
अवसानञ्च दैशिकं कालिकञ्च उक्तोदाहरणे यथायथं बोध्यम्
अन्ताय परिच्छेदाय हितः यत् । परिच्छेदकारके
वैशिषिकोक्ते विशेषपदार्थे “अन्त्यो नित्यद्रव्यवृत्तिर्विशेषः
परिकीर्त्तित” इति भाषा० प्रलये परमाणूनां गगनादी-
नाञ्च अन्यस्य विशेषकारकस्याभावात् विशेषस्यैव परिच्छेद-
करत्वमिति तस्यान्त्यत्वम् । सुस्तायाम् स्त्री । अन्तिमे
वस्तुनि त्रि० । यथा नक्षत्राणां मध्ये रेवती, राशीनां
मध्ये मीनः, वर्ण्णानां मध्ये हकार इत्यादि । संख्याभेदे
न० “जलधिश्चान्त्यं मध्यं परार्द्धमिति दशगुणोत्तरा संख्ये” ति
भास्कृराचार्य्योक्ते परार्द्धशतभागे । गणितशास्त्रोक्ते सर्वस्य
वामस्थिताङ्के “स्थाप्योऽन्त्यवर्गो द्विगुणान्त्यनिघ्न” इति
लीला० । लग्नावघिद्वादशराशौ पु० षष्ठेऽष्टमेऽन्त्ये भुवि-
चेन्थिहेश इति नील० ता० । “त्रिकोणाष्टकयूकान्त्यग्रहा-
यद्वत् फलं तथा इति” ज्योति० । अन्तेभवः दिगा० यत् ।
सिद्धान्तशिरोमण्युक्तायां चरजीवया युतोनायां त्रिज्यायाम्
स्त्री । यथा “क्षितिज्ययैवं द्युगुणश्च सा हृतिश्चरज्य-
यैवं त्रिगुणोऽपि सान्त्यका” । “द्युज्यैव क्षितिज्ययो-
त्तरगोले युता, याम्ये रहिता हृतिर्भवति । एवं त्रिज्या
चरजीवया युतोनान्त्या स्यात् । अत्रोपपत्तिः । अत्र
गोलेऽहोरात्रवृत्तक्षितिजसंपातयोर्बद्ध यत् तदुदयास्त-
सूत्रम् । एवमुन्मण्डलसंपातयोर्बद्धं तदहोरात्रवृत्तव्यास-
सूत्रम् । तदुदयास्तसूत्रयोरन्तरं सर्व्वत्र कुज्या । अथ
याम्योत्तरवृत्तसंपातयोर्बद्धं तत् तन्मितं तस्य व्याससूत्रम् ।
पृष्ठ ०२०७
तयोर्व्याससूत्रयोर्यः संपातस्तस्मादुपरितनं खण्डं द्युज्या ।
सोऽत्तरगोलेऽधःस्थया कुज्यया युता यावत् क्रियते
तावद्दिनार्धोर्कोदयास्तसूत्रयोरन्तरं स्यात् । दक्षिणे तु कुज्यया
हीना । यतस्तत्रोदयास्तसूत्रादधः कुज्या । यदर्को-
दयास्तसूत्रयोरन्तरं सा च हृतिरुच्यते । एवमन्त्यापि ।
अत्राहोरात्रवृत्तव्यासार्धं त्रिज्यातुल्यैरङ्कैरङ्क्यते तावत्
त्रिज्यातुल्यं भवति । तैरङ्कैर्यावत् कुज्या गण्यते
तावच्चरज्यातुल्या भवति । अथ चरज्यया त्रिज्या युतो-
नाऽन्त्यासंज्ञा भवति । नह्यन्त्याहृत्योः क्षेत्रसंस्थानभेदः ।
किन्त्वङ्कानां गुरुलघुत्वात् केवलं सख्याकृतो भेद इत्युप-
पन्नम्” प्रमिता० ।

अन्त्यकम्मन् न० अन्ते नाशे भवं कर्म्म । अन्त्येष्टिक्रियायाम् ।

“जायायै पूर्व्वमारिण्यै दत्त्वाग्नीनन्त्यकर्भणि” “व्रात्यानां
याजनं कृत्वा परेषामन्त्यकर्म च अभिचारमहींनञ्च त्रिभिः
कृच्छ्रैर्व्यपोहति” इति “जातकर्म्मान्त्यकर्माणि नवश्राद्धं
तथैव चेति” च मनुः । “तमेनं मृतमितोऽस्माद्ग्रामात्
अग्नये” इति छा० उप० अग्नयेऽग्न्यर्थमृत्विजोहरन्ति
पुत्त्रा वान्त्यकर्म्मणि” इति छा० उप० भा० ।

अन्त्यज पु० स्त्री० अन्त्यः सन् जायते जन--ड । शूद्रे तस्थ

वर्ण्णमध्ये शेषभवत्वात्तथात्वम् । “येन केनचिदङ्गेन हिंस्याच्चे-
च्छ्रेष्ठमन्त्यज” इति मनुः । “अन्त्यजः शूद्रः” इति कुल्लू० ।
शेषजातमात्रे त्रि० । अन्त्यश्चाण्डाल इव जायते
जनड । रजकादिषु सप्तषु जातिषु पु० स्त्री० “रजकश्चर्मकारश्च
नटो वरुड़ च । कैवर्त्तमेदभिल्लाश्च सप्तैते अन्त्यजाः
स्मृताः” अत्रिसंहिता । “न शूद्रराज्ये निवसेदित्यधिकृत्य
नोपसृष्टेऽन्त्यजैर्नृभिरिति” “सहस्रं त्वन्त्यजस्त्रियामिति”
च मनुः ।

अन्त्यजन्मन् पु० स्त्री० अन्त्यं जन्म यस्य । शूद्रे, “प्रतिग्रहस्तु

क्रियते शूद्रादप्यन्त्यजन्मन” इति मनुः । शेषजातमात्रे त्रि० ।

अन्त्यजाति पु० स्त्री० अन्त्या जातिर्यस्य । शूद्रे । “शरीरजैः

कर्मदोषैर्याति स्थावरतां नरः । वाचिकैः पक्षिमृगतां
मानसैरन्त्यजातितामिति” मनुः । चण्डालादौ च ।
“अन्त्यजातिरविज्ञातो निवेशश्चास्य वेश्मनीति” आप० ।

अन्त्यभ न० कर्म० । मीनराशौ, रेवतीनक्षत्रे च तयीः राशि

चक्रस्यान्ते स्थितत्वात्तथात्वम् ।

अन्त्ययोनि पु० स्त्री० अन्त्या योनिरुत्पत्तिर्यस्य । शूद्रे,

चण्डालादौ च “शूद्राश्च सन्तः शूद्राणामन्त्यानामन्त्य-
योनय” इति मनुः ।

अन्त्यवर्ण्ण पु० स्त्री० कर्म्म० । शूद्रे । पदवाक्यादेरवसानस्थिता-

क्षरे पु० ।

अन्त्यानुप्रास पु० कर्म० । शब्दालङ्काररूपे अनुप्रासभेदे (१७८) पृष्ठेऽस्य विवरणम् ।

अन्त्यावसायिन् पु० स्त्री० “निषादस्त्री तु चण्डालात् पुत्त्र-

मन्त्यावसायिनम् । श्मशानगोचरं सूते” इति मनूक्ते
निषादस्त्रियां चण्डालजाते (मुरदाफरास) इति ख्याते
सङ्कीर्णवर्णे स्त्रियां ङीप् । “चण्डालः श्वपचःक्षत्ता सूतो
वैदेहकस्तथा । मागघायोगवौ चैव सप्तैतेऽन्त्यावसायिनः”
इत्यङ्गिरसोक्तचाण्डादिषु च । “अन्त्यावसायिनामन्न-
मश्नीयाद्यस्तु कामत” इति अङ्गिरःस्मृतिः ।

अन्त्याश्रम पुंन० कर्म्म० । चतुर्थाश्रमे भिक्षुरूपशेषाश्रमे ।

अन्त्याश्रमिन् पु० अन्त्याश्रमोऽस्त्यस्य इनि । चतुर्थाश्रमयुक्ते ।

अन्त्याहुति स्त्री कर्म्म० । अन्त्येष्टौ साग्निकस्य मृतस्य

देहसंस्कारके यज्ञभेदे “अन्त्याहुतिं हावयितुं सविप्रा”
इति भट्टिः ।

अन्त्यूति स्त्री अन्ति अन्तिकस्य वा ऊतिः रक्षणम् अव--क्विप्

कलोपः । आसन्नरक्षणे “अहमन्त्यूतिमयोभुवमिति”
ऋ० १, १३८, १ ।

अन्त्येष्टि स्त्री अन्तेभवा इष्टिः । साग्निकस्य मृतस्य

देहसंस्कारार्थमिष्टिभेदे तत्समत्वात् निरग्नेर्दाहमात्रसंस्कारे
च । “पतितानां न दाहःस्यात् नान्त्येष्टिर्नास्थिसञ्चय”
इति शु० त० स्मृतिः ।

अन्त्र न० अन्त्यते देहो बध्यतेऽनेन अति--बन्धने करणे ष्ट्रन् ।

देहबंन्धने--“उक्ताः सार्द्धास्त्रयो व्यामाः पुंसामन्त्राणि
सूरिभिः अर्द्धव्यामेन हीनानि स्त्रीणामन्त्राणि निर्द्देशेत्” ।
इति वैद्यकोक्तपरिमाणवति नाड़ीभेदे । “सार्द्धत्रि व्यामान्य-
न्त्राणि पुंसः स्त्रीणामर्द्धव्यामहीनानि” सुश्रुतम् । “निर्य्य-
दन्त्रविभूषितमिति दुर्गाध्यानम्” “यस्यान्त्रमन्नैरुपले-
पिभिरिति” सुश्रुतम् ।

अन्त्रकूज पु० अन्त्रस्य कूजः शब्दभेदः । अन्त्रविकूजने “पक्वा-

शयस्थोऽन्त्रकूजं शूलं नाभौ करोति वेति” सुश्रुतम् ।

अन्त्रपाचक अन्त्रस्थं दोषं पाचयति । त्वचिसारे निर्य्यास-

विषे औषधिभेदे “स्थावरञ्जङ्गमञ्चैव द्विविधं विषमुच्यते”
इत्युपक्रम्य । “दशाधिष्ठानमाद्यन्तु द्वितीयं षोड़शाश्रयमि-
त्यभिधाय “मूलं पुत्रं फलं पुष्पं त्वक् क्षीरं सार एव च
निर्य्यासाः धातवश्चैव कन्दश्च दशमः स्मृत” इति विशेषतः
स्थावरस्य स्थानमुक्त्वा “अन्त्रपाचककर्त्त्ररीयसौरीयककर-
घाटक रम्भनन्दनवराटकानि सप्त त्वक्सारनिर्य्यासविषाणा-
ञ्चेति” २५२ पृ० सुश्रुते उक्तम् । विवरणं विषशब्दे दृश्यम् ।
पृष्ठ ०२०८

अन्त्रमांस न० “आन्त्रिकं छिद्रमार्गेण धौतं निर्मलधा-

रिणा । तस्य खण्डान् संविधाय वेसवार (वेसम) युतान्
पचेत् । निःसारं विरसोद्गारमन्त्रमांसमुदाहतमिति
वैद्यकोक्ते पक्वमांसभेदे आन्त्रिके ।

अन्त्रवृद्धि पु० अन्त्रनिमित्ता वृद्धिः । सुश्रुतोक्ते रोगभेदे

स च रोगः मु० २८९ पृ० सुश्रुते दर्शितो यथा
“वातपित्तश्लेष्मशोणितमेदोमूत्रान्त्रनिमित्ताः सप्त वृद्धयः ।
तासां मूत्रान्त्रनिमित्ते वृद्धी वातसमुत्थे केवलमुत्पत्ति-
हेतुरन्यतमः ॥ अधःप्रकुपितोऽन्यतमो हि दोषः
फलकोशवाहिनीरभिप्रपद्य धमनीः फलकोशयोर्वृद्धिं
जनयति तां वृद्धिमित्याचक्षते ॥ तासां भविष्यन्तीनां पूर्ब्बरूपाणि
बस्तिकटीमुष्कमेढ्रेषु वेदना मारुतनिग्रहः फलकोशशोफ-
श्चेति तत्रानिलपरिपूर्ण्णां वस्तिमिवाततां परुषामनिमित्ता-
निलरुजं वातवृद्धिमाचक्षते, पक्वोडुम्बरसङ्काशां ज्वर-
दाहोष्मवतीं चाशु समुत्थानपाकां पित्तवृद्धिं, कठिनामल्प-
वेदनां शीतां कण्डूमतीं श्लेष्मवृद्धिं, कृष्णस्फोटावृतां पित्त-
वृद्धिलिङ्गां, रक्तवृद्धिं मृदुस्निग्धां कण्डूमतीमल्पवेदनां
तालफलप्रकाशां मेदोवृद्धिम् ॥ मूत्रसन्धारणशीलस्य मूत्रवृद्धि-
र्भवति सा गच्छतोऽम्बुपूर्णा दृतिरिव क्षुभ्यति मूत्रकृच्छ
वेदनां वृषणयोः श्वयथुं कोशयोश्चापादयति तां मूत्रवृद्धिं
विद्यात् ॥ भारहरणबलवद्विग्रहवृक्षप्रपतनादिभिरायास-
विशेषैर्व्वायुरतिप्रवृद्धः प्रकुपितश्च स्थूलान्त्रस्येतरस्य चैकदेशं
द्विगुणमादायाधोगत्वा वङ्क्षणसन्धिमुपेत्य ग्रन्थिरूपेण
स्थित्वाऽप्रतिक्रियमाणे च कालान्तरेण फलकोशं प्रविश्य
मुष्कशोफमापादयत्याध्मातो वस्तिरिवाततः प्रदीर्घः शोफो
भवति सशब्दमवपीड़ितश्चोद्ध्वमुपैति । विमुक्तश्च पुनराथ-
मति तामन्त्रवृद्धिमसाध्यामित्याचक्षते” इति । “षण्मासानु-
पयुज्यैतमन्त्रवृद्धिं व्यपोहति” सुश्रुतम् ।

अन्दिका स्त्री अदि + बन्धने ण्वुल् । नाट्योक्तौ ज्येष्ठ-

भगिन्यामित्यमरटीकायां नीलकण्ठः ।

अन्दू स्त्री अन्द्यते बध्यतेऽनेन अदि + कू । निगड़े स्त्रीपाद-

भूषणभेदे च । स्वार्थे कन् “केऽण इति” ह्रस्वः । अन्दु-
कोऽप्यत्र “स्वार्थिकप्रत्ययस्य प्रकृतितो लिङ्गवचनातिक्रमस्य
देवताशब्दादौ दर्शनात् पुंस्त्वम् ।

अ(आ)न्दोल दोलने अद० चु० उभ० सक० सेट् ।

अ(आ)न्दोसयति ते आन्दुदोलत्--त । ल्युट् । अ(आ)न्दो-
लनम् “किन्त्वासामरविन्दसुन्दरदृशां द्राक्चामरान्दोल-
नादि” त्युद्भटः । अ(आ)न्दोलितः । चुरादेराकृतिगणत्व-
नायमुत्प्रेक्षितः स च दीर्घादिः । “आन्दोलत् क दोलने
इति कविकल्पद्रुमोक्तेः ह्रस्वान्त इत्यन्ये तन्मूलं मृग्यम् ।

अन्ध दृष्टिविघाते अद० चु० उभ० धात्वर्थगृहीतकर्म्मकत्वा-

दकर्मकः सेट् । अन्धयति--ते आन्दिधत्--त । अन्धयन्
अन्धितः । “कनकमृगतृष्णान्धितधियेति” सा० द० ।
दृष्टिरत्र नेत्रेन्द्रियजं प्रत्यक्षं विवेकज्ञानञ्च तद्विघाताश्रयस्य
कर्त्तृत्वम् ।

अन्ध त्रि० अन्ध--अच् । नेत्रद्वयशून्ये एकचक्षुर्हीने तु नास्य

प्रयोगः अनुपहतनेत्रान्तरेण तस्य दर्शनसम्भवात् । अन्धश्च
द्विविधः जन्मान्धः, उत्पत्तौ नेत्रद्वयवानपि रोगादिना
उपहतनेत्रद्वयश्च उभयत्रैव तत्प्रयोगात् । “जड़मूकान्ध-
बधिरानिति” “उन्मत्तोऽन्धश्च वर्ज्याः स्युरिति” च मनुः ।
“इहैवास्ते तु सा लोके गौरन्धेवैकवेश्मनीति” “अनंशौ
क्लीवपतितौ जात्यन्धबधिरौ” तथेति स्मृत्यन्तरम् “अन्धो-
गगनं न पश्यतीति” व्यु० गदा० “वृद्धोऽन्धः पतिरेष
मञ्चकगत” इति सा० द० । चक्षुःसत्त्वेऽपि आलोकादि
सहकारिकारणान्तराभावेन दृष्टिराहित्येऽपि अस्य प्रयोगः ।
यथा “दिवान्धाः प्राणिनः केचिद्रात्रावन्धास्तथा परे ।
केचिद्दिवा तथा रात्रौ प्राणिनस्तुल्यदृष्टय” इति देवी० ।
तत्र पेचकानां दर्शने आलोकाभावस्यैव सहकारितया
तेषां दिवान्धत्वम् । कपोतादीनां तु सूर्य्यालोकाभावे-
ऽपि दीपाद्यालोकान्तरसद्भावे रात्रावन्धता । मनुष्याणान्तु
दिवा सूर्य्यालोकात्, रात्रौ दीपाद्यालोकात् उभयत्र
दृष्टिमत्त्वान्नान्धत्वम् । विवेकज्ञानशून्ये “क्रोधान्धस्तस्य
तस्य स्वयमिह भवितेति” वेणो० “नैवान्यत्र मदान्धसिन्दूर-
घटेति” गङ्गास्तोत्रम् । “स्मरान्धा गाढ़तारुण्या समस्त-
रतकोविदेति” सा० द० “अज्ञानतिमिरान्धस्येति” गुरु-
नतिः । परिव्राजकभेदे, तस्य “सचक्षुरचक्षुरिव सकर्ण्णः
अकर्ण्ण इवे” त्यादि श्रुत्या वाह्यवस्तुदर्शनशून्यचक्षुःशून्य-
त्वोक्तेरन्धत्वम् अतएव “तिष्ठतोव्रजतोवापि यस्य चक्षुर्न
दूरगम् । चतुष्पदां भुवं मुक्त्वा, परिव्राडन्ध उच्यते” इत्यनेन
तस्यान्धत्वं परिभाषितम् । नष्टद्रवलाभालाभोपयोगितया
ज्योतिषपरिभाषिते राशिभेदे च । “मेषो वृषो मृगेन्द्रश्च
दिवान्धाः परिकीर्त्तिताः । नृयुक्कर्कटकन्याश्च रात्रावन्धाः
प्रकीर्त्तिता” इति तथा च मेषादिषु दिवा नष्टद्रव्यस्य
लाभः तत्र ग्रहीतुश्चौरस्य दिवान्धत्वात् । मिथुनादिषु तु
रात्रौ नष्टद्रव्यस्य लाभः तत्र ग्रहीतुश्चौरस्य रात्रावन्धत्वात्
पृष्ठ ०२०९
अन्यत्र नष्टस्य न लाभ इत्येतत्परतया तत्रान्धत्वम्
भाक्तम् । अन्धयतीत्यन्धम् अन्ध--चु० प्रेरणे णिच्--अच्,
अन्ध--करणे अच् वा । तमसि अन्धकारे “अन्धं तमस्ते
प्रविशन्ति ये के चात्महनोजना इति” श्रुतिः । यथार्थ
ज्ञानावरके वेदान्तिमतसिद्धे अज्ञाने च “आसीदिदं
तमोभूतमिति” मनौ “तमसावृततत्त्वेनेति” “तमसै
वावृतं तत्त्वं नानुपश्यति मूढ़घीरिति” च पुराणे
तमःशब्देनाज्ञानस्यैवाभिधानात्तथात्वम् । जले न० मेदि० ।
तस्य मनुष्याणामन्धकारित्वात्तथात्वम् तेषां हि जलमध्ये
उन्मीलितनेत्राणामपि न दर्शनमित्यनुभवसिद्धम् ।

अन्धक पु० अन्ध--ण्वुल् । दैत्यभेदे स च दैत्यः दितौ

कश्यपादुत्पन्नः तस्य वरेण महादेवैरबध्यतामापेदे यथोक्तं
हरिवंशे १४५ अ० “दितिरुवाच हतपुत्त्राऽस्मि भगवन्!
देवैर्धर्म्मभृताम्बर! । अबध्यं पुत्त्रमिच्छामि देवैरमित-
विक्रमम् । कश्यप उवाच । अबध्यस्ते सुती देवि!
दाक्षायणि! भवेदिति । देवानां संशयो नात्र कश्चित्
कमललोचने! । देवदेवमृते रुद्रं तस्य न प्रभवाम्यहम् ।
आत्मा ततस्ते पुत्त्रेण रक्षितव्यो हि सर्व्वथा । अन्वालभत
तां देवीं कश्यपः सत्यवागथ । अङ्गुल्योदरदेशे तु सा पुत्रं
सुषुवे ततः । सहस्रबाहुं कौरव्य! सहस्रशिरसं तथा ।
द्विसहस्रेक्षणञ्चैव तावच्चरणमेव च । स व्रजत्यन्धवद्यस्मादन-
न्धोऽपि हि भारत! । तमन्धकोऽयं नाम्नेति प्रोचुस्तत्र
निवासिनः । अबध्योऽस्मीति लोकान् स सर्व्वान् बाधति
भारत! । हरत्यपि च रत्नानि सर्व्वाण्यात्मबलाश्रयात् ।
वासयत्यात्मवीर्य्येण निगृह्याप्सरसां गणान् । स्ववेश्मन्यू-
र्ज्जितोऽत्यर्थं सर्व्वलोकभयङ्करः । परदारापहरणं
पररत्नविलोपनम् । चकार सततं मोहादन्धकः पापनिश्चयः”
इति “निशितत्रिशूलदीरितान्धकमहासुर इति” काद० ।
अन्ध एव अन्धकः स्वार्थे कन् । मुनिभेदे स च
वृहस्पतिज्येष्ठभ्रातुः उतथ्यात् ममतायामुत्पन्नः वृहस्पति-
शापादन्धत्वमापेदे । तस्य जात्यन्धत्वात् दीर्घतमा इति
नामान्तरं तत्कथा भा० आ० प० १०४ अ०
“उतथ्यस्य यवीयांस्तु पुरोधास्त्रिदिवौकसाम् । वृहस्पतिर्वृ-
हत्तेजा ममतामन्वपद्यत ॥ उवाच ममता तन्तु देवरं
वदताम्बरम् ॥ अन्तर्वत्नी त्वहं भ्रात्रा ज्येष्ठेनारम्यता-
मिति । अयञ्च मे महाभाग! कुक्षावेव वृहस्पते! ।
औतथ्यो वेदमत्रापि षड़ङ्गं प्रत्यधीयत ॥ अमोधरेतास्त्व-
ञ्चापि द्वयोर्न्नास्त्यत्र सम्भवः । तस्मादेवं गतेऽद्य त्वमुपार-
मितुमर्हसि ॥ एवमुक्तस्तया सम्यक् वृहस्पतिरुदारधीः ।
कामात्मानं तदात्मानं न शशाक नियन्त्रितुम् ॥ स बभूव
ततः कामी तया सार्द्धमकामया । उत्सृजन्तं तु तं रेतः
स गर्भस्थोऽभ्यभाषत ॥ भोस्तात! मा गमः कामं द्वयोर्ना-
स्तीह सम्भवः । अल्पावकाशो भगवन्! पूर्ब्बञ्चाहमिहा-
गतः । अमोघरेताश्च भवान्न पीडां कर्त्तुमर्हसि ॥ अश्रुत्वैव
तु तद्वाक्यं गर्भस्थस्य वृहस्पतिः । जगाम मैथुनायैव ममतां
चारुलोचनाम् ॥ शुक्रोत्सर्गं ततो बुद्ध्वा तस्या गर्भगतो
मुनिः । पद्भ्यामरीधयन्मार्गं शुक्रस्य च वृहस्पतेः ॥ स्थान-
मप्राप्तमथ तद्रेतः प्रतिहतन्तदा । पपात सहसा भूमौ
ततः क्रुद्धो वृहस्पतिः ॥ तदृष्ट्वा पतितं शुक्रं शशाप
सरुषान्वितः । उतथ्यपुत्रं गर्भस्थं निर्भत्स्य भगवानृषिः ॥
यन्मां त्वमीदृशे काले सर्व्वभूतेप्सिते सति । एवमात्य
वचस्तस्मात्तमो दीर्घं प्रवेक्ष्यसि ॥ स वै दीर्घतमा नाम शापा-
दृषिरजायत । वृहस्पतेर्वृहत्कीर्त्तेर्वृहस्पतिरिवौजसा ॥
जात्यन्धोवेदवित् प्राज्ञः पत्नीं लेभे स विद्यया । तरुणीं
रूपसम्पन्नां प्रद्वेषीं नाम ब्राह्मणीम् ॥ स पुत्रान् जन
यामास गौतमादीन् महायशाः” इति । यादवभेदे च
“सात्त्वतान् सत्त्वसम्पन्नात् कौशल्या सुषुवे सुतान् ।
भजिनं भजमानञ्च दिव्यं देवावृधं नृपम् । अन्धकञ्च
महाबाहुं वृष्णिञ्च यदुनन्दनम् । तेषां विसर्गाश्चत्वारो
विस्तरेणेह तान् शृणु । अन्धकात् काश्यदुहिता चतुरो-
ऽलभ्मतात्मजान् । कुकुरं भजमानञ्च शभं कम्बलवर्हिषम्” ।
इति हरिवंशे ३८ अ० । “दूतं संप्रेषयामास वृष्ण्यन्धक-
निवेशनम्, ततो वृष्ण्यन्धकाः कृष्णमिति” हरिवंशः ।

अन्धकरिपु पु० ६ त० । महादेवे तस्य तन्नाशकत्वात्तथात्वम्

यथा हरिवंशे १४६ अ० “मुमोच भगवाञ्छूलं प्रदीप्ताग्नि-
समप्रभम् । तत पपात हरोत्सृष्टमन्धकोरसि दुर्द्धरम् ।
भस्मसाच्चाकरोद्रौद्रमन्धकं साधुकण्ठकमिति” । अन्धकहन्त्रा-
दयोऽप्यत्र । अन्धकस्यान्धकारस्य रिपुरपसारकत्वात् ।
सूर्य्ये; चन्द्रे, वह्नौ, च पु० ।

अन्धकवर्त पु० अन्धक इव वर्त्तते वृत--अच् । पर्वतभेदे

गहा० छ । अन्धकवर्त्तीयस्तद्भवे त्रि० ।

अन्धकार पुंन० अन्धं करीति कृ--अण् उप० स० । तमसि

तच्च तेजोद्रव्यसामान्याभावरूपमिति नैयायिकाः । नीलं
तमोधावतीति प्रयोगात् नीलरूपवत् धावनादिक्रिया-
वच्च द्रव्यान्तरम्, आलोकस्य अन्यत्र चाक्षुषप्रत्यक्षे
सहकारित्वेऽपि तत्प्रत्यक्षे पेचकप्रत्यक्षैव न सहकारिता
पृष्ठ ०२१०
वस्तुस्वाभाव्यादिति भेद इति मीमांसकादयः । “दिवा-
कराद्रक्षति यो गुहासु लीनं दिवाभीतमिवान्धकारमिति”
कुमा० “सुखं हि दुःखान्यनुभूय शोभते घनान्धकारेष्विव
दीपदर्शनमिति” मृच्छ० “अथान्धकारं गिरिगह्वराणा-
मिति” रघुः । अन्धकारस्य दृष्टिविघातकत्वं मनुष्याणामेव
तेषामेवालोकसहकारेण दर्शनोदयात् उन्दुरादीनान्तु
तदभावेऽपि दृष्टेरुदयात् । ततश्च आलोकरूपसहकारिविघटने-
नास्य दृष्टिरोधकत्वमवसेयम् । यथार्थज्ञानविरोधिनि वेदा-
न्तिमतसिद्धे अज्ञाने च ।

अन्धकारमय त्रि० अन्धकार + प्राचुर्य्ये मयट् । प्रचुरान्धकारे ।

अन्धकारि पु० अन्धकः तदाख्यस्यासुरस्यारिः ६ त० । शिवे

अन्धकरिपुशब्देऽस्य विवृतिः ।

अन्धकासुहृत् पु० अन्धकस्य असून् हरति हृ--क्विप् तुक्

च, अन्धकस्यासुरस्य असुहृत् रिपुर्वा ६ त० । महादेवे ।

अन्धकूप पु० अन्धयतीत्यन्धः स चासौ कूपः । सान्धकारे

कूपे । अन्धः कूपो यत्र ७ ब० । नरकभेदे यथा
“यस्त्विह वै भूतानामीश्वरकल्पितवृत्तीनामविविक्तपरव्य-
थानां स्वयं पुरुषोपकल्पितवृत्तिर्विविक्तपरव्यथोव्यथा-
माचरति स परत्रान्धकूपे तदभिद्रोहेण निपतति ॥ तत्र-
ह्यसौ तैस्तैर्जन्तुभिः पशुमृगपंक्षिसरीसृपैर्मशकयूकमत्-
कुणमक्षिकादिभिः, ये के चाभिद्रुग्धास्तैश्च सर्व्वतोऽभि-
द्रुह्यमाणस्तमसि विहतनिद्रानिर्वृतिरलब्धावस्थानः
परिक्रामति यथा कुशरीरे जीवः ईति भाग० ५ स्क० ।
अन्धस्य दृष्ट्यभावस्य कूप इव । मोहे । सहि सर्व्वदृष्ट्य-
भावस्याकरः इति तस्य तथात्वम् ।

अन्धङ्करण न० अन्धःक्रियतेऽनेन च्व्यर्थे कृ--करणे ख्युन् । अन्धकरणसाधने ।

अन्धतमस न० अन्धयति अन्ध + अच् ताम्यति अनेनेति

तम--करणे--असि कर्म्म० अच् समासान्तः । निविड़ान्ध-
कारे, तद्युक्ते नरकभेदे च ।

अन्धतामस न० तम एव तामसं प्रज्ञा० स्वार्थेअण् अन्धयतोति

अन्धं कर्म्म० । निविड़ान्धकारे ।

अन्धतामिस्र न० तमिस्रा तमस्ततिः तमिस्रैव तामिस्रम् अन्ध-

वतीत्यन्धम् कर्म्म० । निविड़ान्धकारे । अन्धम् अन्धकारकं
तामिस्रं यत्र ७ ब० । नरकविशेषे पु० न० । “तामिस्रमन्धता-
मिस्रं महारौरवरौरवौ नरकं कालसूत्रञ्च नहानरकमेव-
चेत्यादिना” मनुना गणितेषु एकविंशतिनरकभेदेषु द्वितीये
नरले तत्स्वरूपम् । “यस्तु परवित्तापत्यकलत्राण्य-
शहरति स हि कालपाशबद्धो यमपुरुषैरतिभयानकै
स्तामिस्रे नरके बलान्निपात्यते ॥ अनशनानिपान-
दण्डताड़नसन्तर्जनादिभिर्यातनाभिर्यात्यमानो जन्तुर्यत्र
कश्मलमासादितएकदैक मूर्च्छामुपयाति तासिस्रप्राये ॥
एवमेव अन्धतामिस्रे । यस्तु “वञ्चित्वा पुरुषं दारादीनुप-
युङ्क्ते यत्र शरीरी निपात्यमानो यातनास्थो वेदनया
नष्टमतिर्नष्टदृष्टिश्च भवति यथा वनस्पतिर्वृश्च्यमार्नमूल-
स्तस्मादन्धतामिस्रं तमुपदिशन्ति इति भाग० ५ स्क० ॥
सांख्यशास्त्र प्रसिद्धे भयविशेषविषयकेऽभिनिवेशे पु० ।
तामिस्रोऽष्टादशधा तथा भवत्यन्धतामिस्रः इति सा० का० ।
“अभिनिवेशस्त्रासः दिव्यादिव्यशब्दविषयत्वेन दशविष-
यकत्वात् अणिमाद्यष्टविधैश्वर्य्यविषयत्वाच्चाष्टादशधा । तथा
हि देवाः खल्वणिमादिकमष्टविधमैश्वर्य्यमामाद्य दश
शब्दादीन् भुञ्जानाः “शब्दादयो भोग्यास्तदुपायाश्चाणि-
मादयोऽस्माकं असुरादिभि र्मास्म उपघानिषतेति बिभ्यति
तदिदं भयमभिनिवेशोऽन्धतामिस्रोऽष्टादशविषयत्वादष्टादश-
धेति” सा० कौ० । वेदान्तिमतसिद्धे “देहे नेष्टे अहमेव
नष्टोऽस्मीत्येवं” रूपे अज्ञाने च ।

अन्धत्व न० अन्धस्य भावः । नेत्रघाते चक्षुषः स्वग्राह्यासामर्थ्ये

“एकादशेन्द्रियबधा” इत्यादि सा० का० (४९) व्याख्याने
कौमुद्याम् “बाधिर्य्यं कुष्ठितान्धत्वजड़ताऽजिघ्रता तथा ।
मूकता कौण्यपङ्गुत्वक्लैव्योदावर्त्तमन्दता इत्यादिना श्रीत्रा-
दीनां क्रमेण इन्द्रियाणां घातोदर्शितः ।

अन्धपूतना स्त्री ३८४ सुश्रुतोक्ते बालग्रहभेदे “स्कन्दग्रहश्च

प्रथमः स्कन्दापस्मार एव च शकुना रेवती चैव पूतना चान्ध-
पूतने” त्युद्दिश्य । “योद्वेष्टि स्तनमतिसारकासहिक्काछर्दीभि-
र्ज्वरसहिताभिरर्द्यमानः दुर्वर्णः सततमधःशयोऽम्लगन्धिस्तं
ब्रूयुर्वरर्भिषजोऽन्धपूतनार्त्तमिति” तल्लक्षणमुक्तम् ।

अन्धमूषिका स्त्री अन्धं दृष्ट्यभावं मुष्णाति मुष--ण्वुल् दीर्घः ।

देवताडवृक्षे तत्सेवने हि चक्षुष्मत्ता भवतीति वैद्यकप्रसिद्धम् ।

अन्धम्भविष्णु त्रि० अनन्धोऽन्धोभवति भू--च्व्यर्थे स्विष्णुच् ।

अन्धीभवितरि ।

अन्धम्भावुक त्रि० अन्ध च्व्यर्थे भू--खुकञ् । अन्धीभवितरि

अन्धम् न० अद्यते अद--असुन् नुम् धश्च । ओदने ।

अमृतान्धसोदेवाः । “द्विजातिशेषेण यदेतदन्धसा” किरा०
“विपानं शुक्रमन्धस इति” यजु० १९, ७५ ।

अन्धाहि पु० अन्धोऽहिरिव । (कुचिया) इति प्रसिद्धे मत्स्ये ।

अन्धवर्त्मन् पु० अन्धं सूर्य्यप्रकाशरहितत्वादप्रकाशं वर्त्म

यत्र । वायोः सप्तमे स्कन्धे । “मरुदिन्द्रः सरभसः साम-
ज्ञोमानुषीतिपाः देवीविशोऽन्धवर्त्मा च स्कन्धः सप्तम आ
ध्रुवादिति” पुरा० ।
पृष्ठ ०२११

अन्धातमस न० कर्म्म० अन्येभ्योऽपीति दीर्घः । निविड़ान्ध-

कारे । रजन्यान्तु स्त्री ।

अन्धिका स्त्री अन्धयति अन्ध--प्रेरणे णिच् ण्वुल् । द्यूत-

क्रीड़ायाम् तया हि जनः अन्धैव विवेकशून्यः क्रियते ।
सर्षप्याञ्च तस्याश्चात्यन्तसेवनात् दृष्टिक्षयः वैद्यकप्रसिद्धः ।

अन्धु पु० अन्ध--कु । कूपे । कूपतुल्यच्छिद्रवत्त्वात् पुंचिह्ने च ।

“वाक्पाणिपादपाय्वन्धुसंज्ञान्याहुर्मनीषिण” इति शा०
ति० । अन्धुर्लिङ्गमिति शब्दा० चि० ।

अन्धुल पु० अन्ध--उलच् । शिरीषवृक्षे । तत्पुष्पदर्शनात्

वियोगिनामन्धत्वात्तथात्वम् ।

अन्ध पु० अन्ध--रन् । देशभेदे स च देशः । “जगन्नाथादूर्द्ध-

भागादर्वाक् श्रीभ्रमरात्मकात् तावदन्ध्राभिधोदेश इत्युक्तः” ॥
वैदेहेन कारावरस्य स्त्रियामुत्पादिते अन्त्यजभेदे च ।
व्याधभेदे इति काश्यपः ।

अन्न न० अनित्यनेन अन--नन्, अद्यते इति अद--क्त वा

“अन्नाण्ण इति” पा० निर्द्देशात् अन्नार्थतया न जग्धिः ।
ओदने, स्विन्नान्ने, “शस्यं क्षेत्रगतं प्रोक्तं सतुषं धान्य-
नुच्यते । आमं तु वितुषं ज्ञेयं स्विन्नमन्नमुदाहृतम्” इति वसि०
स्मृ० । अन्नमूलं हि जीवनमित्युक्तेः तेषां प्राणहेतुत्वात्तथा-
त्वम् । तत्रामान्नेऽपि अन्नशब्दप्रयोगः “आमान्नं हरये
दत्त्वा पक्वं कृत्वाथ खादयेत् । षष्टिर्वर्षसहस्राणि विष्ठायां
जायते कृमिरिति” पुराणे “चाण्डालान्नं भुक्त्वा त्रिरात्र
मुपवसेत् सिद्धं भुक्त्वा पराक” इति विष्णुसूत्रे, आदित्या-
ज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजा” इति मानवे च तत्र प्रयो-
गात् “स्विन्नमन्नमुदाहृतमिति वशिष्ठोक्तिस्तु परिभाषार्था
न तु तन्मात्रस्यैवान्नताबोधनार्था । अतएव “अन्नमाश्रित्य
पापानि तिष्ठन्ति हरिवासरे” इत्यादिनिषेघे आमान्न-
भक्षणस्यापि ग्रहणम् अन्नानि च विविधानि “अन्नानि
विविधानीह भवन्ति गिरिसम्भवे”! इत्युपक्रम्य अष्टादश-
विधानि धान्यान्यभिधाय “अन्नवर्ज्जब्रते देवि! एतान्येव
विवर्ज्जये” दित्यनेन पद्मपुराणे अन्नबर्ज्जनव्रते तेषां वर्ज्जनी-
यत्वाभिधानात् अष्टादश धान्यानि च धान्यशब्दे वक्ष्यन्ते
“अन्नमशितं त्रेवा विधीयते तस्य यःस्थविष्ठोधातुस्तत्पुरीषं
यन्मध्यमस्तन्मांसं योऽणिष्ठस्तन्मन” इति श्रुत्या “अन्नमयं
हि सोम्य मन इति” श्रुत्यन्तरोक्तं मनसोऽन्नमयत्वं यत्
समर्थितं तत् सर्व्वप्रकारान्नविकारत्वेनैव । ततश्च “राजान्नं
तेज आदत्ते” इत्यादौ निषिद्धतापि सर्वेषाभेव । “शूद्रेषु
दासगोपालकुलमितार्द्धसीरिणः । भोज्यान्नाः नापितश्चैव
यश्चात्मानं निवेदये” दित्यादावपि दासादेर्भोज्यान्नताप्रति-
प्रसवः अष्टादशान्नविषयएव दासादयश्च संकीर्ण्णजातिभेदाः
पराशरोक्ता वेदितव्यास्ते च तत्तच्छब्दे दर्शयिष्यन्ते ।
“गोरसं तिलसक्तूंश्च तिलपिण्याकमेव च । अपूपान् भक्ष-
येत् शूद्राद्यच्चान्यत् पयसाकृतमिति” संवर्त्तवचनन्तु आपदि
शूद्रान्ननिवृत्तानामपि भक्ष्यतार्थम् । “कन्दुपक्वं तैलपक्वं
पायसं दघि सक्तवः । एतान्यशूद्रान्नभुजां भोज्यानि मनुर-
व्रवीदिति” हारीतवचने अशूद्रान्नभुजामिति विशेषणा-
त्तथावगतेः एवमेव प्रा० वि० । “अन्नं हि भूतानां श्रेष्ठं
तस्मात् सर्व्वौषधमुच्यते” इति श्रुतौ अन्नस्य सर्व्वौषधिरूप-
त्वोक्तेः सर्वेषांव्रीह्याद्योषधीनामन्नत्वं व्यक्तमुक्तं “पृथिव्या
ओषधय ओषथिभ्योऽन्नमिति” श्रुतौ च ओषधिजमात्रस्य
अन्नत्वमुक्तम् “अद्यतेऽदन्ति च भूतानि तस्मादन्नमित्युच्यते”
इति तन्निरुक्तिरपि श्रुतौ दर्शिता । पृथिव्यां, तस्याश्च अन्न-
हेतुत्वादन्नशब्दवाच्यता । “अद्भ्योऽन्नमिति श्रुतेः” “यत्
कृष्णं रूपं तदन्नस्येति” छा० उप० श्रुतेश्च । अत एव
भाष्यकृता “हन्ताहमिमास्तिस्री देवता” इति श्रुतौ इदमा
तेजोबन्नात्मिकाया देवतायाः परामर्शः इत्युक्तम् । उदके
च निरुक्त० तस्य च “वृष्टेरन्नं ततः प्रजा इति” मनुना
अन्नहेतुत्वोक्तेस्तथात्वम् । तथाऽनिति प्राणित्यनेनेति व्युत्पत्तेः
उदकस्य प्राणहेतुत्वादन्नत्वम् “आपोमयः प्राण” इत्युक्त्वा
तत्समर्थनाय “आपः पीतास्त्रेधा विधीयन्ते तासां
यःस्थविष्ठोधातुस्तन्मूत्रं योमध्यमः तल्लोहितं योऽणिष्ठः
स प्राण इति छान्दोग्येऽपां प्राणहेतुत्वमुक्तम् । तथा
“षोड़शकलो वा असौ पुरुषः” इत्युपक्रग्य “पञ्चदशाहानि
माशीः काममपः पिबापोमयः प्राणो न पिबितो विच्छेत्-
स्यते” इति तत्रैव जलपानाभावे प्राणविच्छेद उक्तः ।
प्राणानन्दहेतुत्वाद्वा अन्नस्य तथात्वम् यथा “आपो वा
अन्नाद्भूयस्यस्तस्माद्यदा सुवृष्टिर्न भवति व्याधीयत्ते प्राणाः
अन्नं कणीयो भविष्यतीति अथ यदा सुसुष्टिर्भवति
आनन्दिनः प्राणाः भवन्ति अन्नं बहु भविष्यतीति छा० उप० ।
सूर्य्ये पु० सि० कौ० तस्य अन्नहेतुवृष्टिहेत्वात्तथात्वम्
“आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजा” इति मनुना तद्धेतु-
त्वोक्तेस्तथात्वम् भोगसाधने उपकरणे, न० “स्त्रियोऽन्नं
पशवोऽन्नञ्च विशोऽन्नञ्च महीक्षितामिति” मनुः । भक्ष्य-
द्रव्ये च “प्राणस्यान्नमिदं सर्वं प्रजापतिरकल्पयत् । स्थावर
जङ्गमञ्चैव सर्वं प्राणस्य भोजनमिति” मनुना जङ्गम-
स्याप्यन्नत्वोक्तेः ।
पृष्ठ ०२१२

अन्नकिट्ट न० ६ त० । अन्नपाकशब्दे वक्ष्यमाणे अन्नमलभेदे ।

अन्नकोष्ठ पु० अन्नस्य ब्रीह्यादेः स्वल्पं कोष्ठमिव अल्पार्थे कन् ।

(कुटी) इति ख्याते धान्यादेः स्थापनस्थाने ।

अन्नद त्रि० अन्नं ददाति दा--क । अन्नदातरि “वारिद-

स्तृप्तिमाप्तोति सुखमक्षय्यमन्नद” इति मनुः । अन्नपूर्ण्णाख्य-
देवीभेदे स्त्री तत्पूजादि अन्नदाकल्पग्रन्थे दृश्यम् ।

अन्नदास पु० अन्नेन पालितो दासः । अन्नमात्रलाभेन

प्राप्तदासत्वे भक्तदासे (पेटभाता) अन्नस्य दासमात्रे च,
“अन्नस्य पुरुषो दास” इति भारते पुरुषस्य अन्नहेतुनैव
दांसत्वोक्तेः ।

अन्नदोष पु० अन्नस्य भोजनप्रतिग्रहादिकृतः दोषः

पापविशेषः धातुवैषम्यं वा । अभक्ष्यान्नभक्षणजनिते अग्राह्या
न्नपतिग्रहजनिते च पापहेतौ अपथ्यभोजनजधातुवैषम्यकृते
च दोषभेदे “आलस्यादन्नदोषाच्च मृत्युर्विप्रान् जिघांसति”
मनुः । अभक्ष्याण्यन्नानि द्विविधानि स्मृत्यादौ निषिद्धतया
उक्तानि, तानि च अभक्ष्यशब्दे वक्ष्यन्ते । वैद्यके
रोगनिदानतया उक्तानि च, तानि धातुवैषम्यसम्पादनद्वारा
रोगनिदानतया वैद्यके प्रसिद्धानि यथा मन्दाग्नेः गुर्व-
न्नादीनि ।

अन्नपाक पु० ६ त० । अन्नस्य ब्रीह्यादेर्लौकिकदहनेन

विक्लित्त्यनुकूलव्यापाररूपे पचने, भुक्तान्नस्य जठरानलेन
रसरक्तादिरूपालरापादने च तत्र लौकिकपाकः चूल्ल्युपरि-
स्थापनपूर्ब्बाधःसन्तापनादिर्लोकसिद्धः । जाठरपाको यथा
पदार्थादर्शे योगार्ण्णवे । “आयुष्यं भुक्तमाहारं स वायुः
कुरुते द्विधा संप्रविश्यान्नमध्यन्तु पृथक् किट्टं पृथग्जलम् ।
अग्नेरूर्द्ध्वं जलं स्थाप्य तदन्नं च जलोपरि । जलस्याधः स्वयं
प्राणः स्थित्वाग्निं धमते शनैः । वायुना ध्मायमानो-
ऽग्निरत्युष्णं कुरुते जलम् । अन्नं तदुष्णतोयेन
समन्तात् पच्यते पुनः । द्विधा भवति तत् पक्वं पृथक् किट्टं
पृथग्जलम् । रसेन तेन ता नाड़ीः प्राणः पूरयते पुनः ।
प्रतर्पयन्ति सम्पूर्ण्णास्ताश्च देहं समन्ततः । रसः स नाड़ी-
मध्यस्थः शरीरे चोष्मणा भृशम् । पच्यते पच्यमानस्तु भवेत्
पाकद्वयं पुनः । चर्म्मावेष्ट्य समन्ताच्च रुधिरञ्च प्रजायते”
इति त्वगादिधातुपाकस्तु ४९ पृष्ठे उक्तः ।

अन्नपान न० अन्नस्य अभ्यवहार्य्यमात्रस्य पानमुगभोगः ।

यावददनीयादिभक्षणे, “अथातोऽन्नपानविविधाध्यायं व्या-
ख्यास्याम” इति प्रतिज्ञाय “तस्याशितपीतलीढ़स्वादि-
तस्य नानाद्रव्यात्मकस्येति” सुश्रुते उक्तत्वात् सर्व्वेषामन्न-
पानत्वम् ।

अन्नपूर्ण्णा अन्नं पूर्ण्णं यया । देवीभेदे “अन्नपूर्णे! सदापूर्णे! शड्कर

प्राणबल्लमे! । ज्ञानवैराग्यसिर्द्ध्यथं भिक्षां मे देहि पार्व्वतीति,
शङ्कराचार्य्यः । एषा च काशीश्वरगृहिणी काशीखण्डे
एतस्याभूरिशो वर्ण्णनम् ।

अन्नपूर्ण्णेश्वरी स्त्री भैरवीभेदे, तन्त्रसारेऽस्या विवरणम् । अन्न-

पूर्ण्णायामपि “भिक्षां देहि कृपावलोकनकरी मातान्न-
पूर्णेश्वरीति” शङ्कराचार्य्यः ।

अन्नप्राशन “न० प्रकृष्टं विधानेन प्रथममाशनं प्राशनं ६ त० ।

षष्ठाष्टममासादौ वालकादेर्विधानेन प्रथममन्नभोजने ।
“षष्ठेऽन्नप्राशनं मासि यद्वेष्टं मङ्गलं कुले” इति मनुः ।
“ततोऽन्नप्राशनं षष्ठे मासि कार्य्यं यथाविधि । “अष्टमे
वास्य कर्त्तव्यं यद्वेष्टं मङ्गलं कुले” इति स्मृत्यन्तरम् । षष्ठ
इति मुख्यकल्प इति रघु० । तत्रायं विशेषः कृत्य-
चिन्तामणौ । “अन्नस्य प्राशनं कार्य्यं मासि षष्ठेऽष्टमे
बुधैः स्त्रीणान्तु पञ्चमे मासि सप्तमे प्रजगौ” मुनिः ।
तत्र विहिततिथ्यादि यथा
“पष्ठे मासि निशाकरे शुभकरे रिक्तेतरे वा तिथौ सौम्या-
दित्यसितेन्दुजीवदिवसे पक्षे च कृष्णेतरे । प्राजेशादिति
पौष्णवैष्णवयुगैर्हस्तादिषट्कोत्तरैराग्नेयाप्पतिपैत्र्यभैश्च
नितरामन्नादिभक्षः शुभ इति, भुज० भी० । प्राजेशादयश्च
रोहिण्यादयः ४, ५, ७, ८, २७, १, २२, २३, १३, १४, १५,
१६, १७, १८, १२, २१, २६, ३, २०, १०, । तथाचैतन्मि-
तानि नक्षत्राणि तत्र । विहितानि । तत्र वर्ज्यानि ।
“द्वादशीसप्तमीनन्दारिक्ताषु पञ्चपर्वसु । बलमायुर्य्यशोह-
न्यात् शिशूनामन्नभक्षणम् । कृत्यचि० । “वेधं सर्वत्र
वर्ज्जये” दित्युक्तेर्नक्षत्रवेधस्यापि तत्र वर्ज्यता ।

अन्नभक्त त्रि० अन्नार्थं भक्तः दासः । अन्नमात्रदानेन प्रतिपा-

दिते दासभेदे भक्तदासे विवृतिरस्य दासशब्दे दृश्या ।

अन्नमय पु० अन्नस्य विकारः अन्न + विकरार्थे मयट् । स्थूलश-

रीरे । स्थूलशरीरस्य अन्नविकारत्वादन्नमयत्वम् अतएवोक्तम्,
“पितृभुक्तान्नजाद्वीर्य्याज्जातोऽन्नेनैव वर्द्धते, देहः सोऽन्नमयो-
नात्मा प्राक् चोर्द्धं तदभावत इति” वृद्धोक्तिः “सवा एष
पुरुषोऽन्नरस” इति श्रुतौ अन्नरसत्वोक्तेस्तस्य अन्नमय-
त्वम् । “अन्नाद्रेतः रेतसः पुरुषः” इति श्रुतौ च देहस्यान्न-
षयत्वे प्रकारोदर्शितः ॥ अन्नविकृतिमात्रे त्रि० । “अन्नमयं
पृष्ठ ०२१३
हि सौम्य! मन” इति श्रुतिः विवरणं कोशशब्दे । अन्न-
प्रकृतमुच्यतेऽस्मिन् “तत् कृतवचने” पा० मयट् । अन्न-
प्रचुरे यज्ञादौ “अन्नमयोयज्ञ” इति सि० कौ० ।

अन्नमल न० पु० अन्नस्य मलः किट्टः । निस्सारितरसभागभेदें

(सिटि) इति ख्यातेऽन्नकिट्टे “वर्चस्कः मल” इति सि०
कौ० । सुरायाञ्च “सुरा वै मलमन्नानां पुरीषं मलमुच्यते ।
तस्मात् ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेदिति”
प्रा० वि० स्मृतिः ।

अन्नरस पु० अन्नस्य रसः सारांशः स्वादो वा । भुक्तस्य अन्नस्य

सारांशे “सवा अयं पुरुषोऽन्नरस” इति श्रुतिः अपथ्यैः
सह संभुङ्क्ते व्याधिरन्नरसे यथेति” वै० । रसस्तु जठरा-
नलेनान्नस्य परिपाकात् कश्चित् सारांशः । अन्नपाकशब्दे
तद्विवरणम् । अन्नस्यास्वादे च ।

अन्नविकार पु० अन्नस्य विकारः । शोणितादिषु सप्तसु

धातुषु “प्रधानेन व्यपदेशाभवन्तीति” न्यायात् चरमधाता-
वेवास्य प्रयोगोपाधित्वात् चरमे धातौ शुक्रे रा० नि० ।
शुक्रोत्पत्त्यर्यमेव हि क्रमशःशोणितादिपाकात्तस्य प्राधा-
न्यम् । अत एव “अन्नाद्रेत” इति श्रुतौ अन्नतो रेतस
उत्पत्तिर्दर्शिता सा च परम्परयैव ।

अन्नाद त्रि० अन्नमत्तुं शक्नोति अद--अण् उप० । अन्न-

भोजनसामर्थ्यवति दीप्ताग्नौ । “अन्नवानन्नादोभवति य
एवं विद्वानिति छा० उप० । “अन्नादः दीप्ताग्निरिति”
शा० भा० । “त्विषिमानपचितिमान् यशस्वी ब्रह्मवर्चस्य-
न्नाद” इति कात्या० ३, ३, ५ । अन्नभक्षके त्रि० “टिड्-
ढाणञित्यादि” पा० सूत्रे आद्यन्तयोस्तद्धितसाहचर्य्यात्
तद्धिताणन्तादेव ङीप् अन्यतोन, तेनातः स्त्रियां टाप् ।

अन्नादिन् त्रि० अन्नमत्ति अद--णिनि ६ त० । अन्नभक्षके । “भैक्षेण

वर्त्तयेन्नित्यं नैकान्नादी भवेद्व्रतीति” मनुः स्त्रियां ङीप् ।

अन्नाद्य न० अन्नरूपमाद्यं भक्ष्यम् । अन्नरूपभक्ष्ये । “अग्नि-

मन्नादमन्नाद्यायादधे” य० ३, ५, । अन्नमाद्यं यस्य । अन्न-
प्रभृतौ त्रि० “अन्नाद्याय व्यूहध्वं सोमोराजा यमागमदिति”
दन्तधावनमन्त्रः । “अन्नाद्येनोदकेन वा” इति मनुः ।

अन्नायुस् त्रि० अन्नमायुर्जीवनसाधनमस्य । अन्नजीवने “स

एषोऽन्नस्य ग्रहोयद्वायुरन्नायुर्व्वा एष यद्वायुरिति” ऐ०
उप० । अन्नायुरन्ननिबन्धनायुरन्नजीवन इत्यर्थः ।

अन्नावृध त्रि० अन्नं वर्द्धतेऽनेन वृध--करणे क्विप् ६ त० पूर्ब्ब-

पददीर्घः । अन्नवर्द्धके । “अत उत्वा पितुभृतोजनित्री-
रन्नावृघं प्रतिचरन्त्यन्नैरिति ऋ० १०, १, ४, ।

अन्नाशन न० अन्नस्य विधानेन आशनम् । अन्नप्राशनार्थे ।

अन्य त्रि० अन--अघ्न्यादि० य । भिन्ने, सदृशे च ।

“उत्थितं दृदृशेऽन्यच्च कबन्धेभ्यो न किञ्चनेति” रघुः ।
“शरीरेण समं नाशं सर्वमन्यद्धि गच्छति” हितो० ।
“अन्यदुच्छृङ्खलं सत्वमन्यच्छास्त्रनियन्तितमिति” माघः
धन्यास्तागुणरत्नरोहणभुवोधन्यामृदन्यैव सेति” सा० द०
सदृशे अन्योक्तिः मुख्यत्वेऽस्य सर्वनामता । “नान्वये
सति सर्व्वस्वं यच्चान्यस्मै प्रतिश्रुतमिति” या० । “व्याप्तिः
साध्यवदन्यस्मिन्निति” भाषा० । “वृत्रहन्नन्येषां या
शतक्रतोरिति ऋ० ८, ३३, १४, अत्यस्मित् यूपे, निदधाति ।
रेत इति ऋ० ३, ५५, १७ । द्वन्द्वेऽन्त्यस्य न तत्कार्य्यम्,
“साध्वन्यानां सखिद्विषे” इति मु० बो० जसि तु वा
साध्यन्ये--साध्वन्याः । तस्येदमित्यर्थे छ दुक् । अन्यदीयः ।

अन्यकारुक प्र० अन्यत् करोति कृ--उण् स्वार्थे कन् कारुकः ।

पुरीषकिट्टे हारा० । अन्यस्य कारके त्रि० ।

अन्यचित्त न० अन्यदिव स्वव्यापराक्षमं चित्तं कर्म्म० ।

विषयालोचनासमर्थे चित्ते । ६ त० । अन्यमनस्के त्रि० ।

अन्यत् अव्य० । अन--बा० यति । अन्यार्थे । “देव-

दत्तोगच्छति अन्यच्च यज्ञदत्त” इति गण० महो०
स्वरादिपाठादव्ययत्वम् ।

अन्यतम त्रि० अन्य + डतमैति, मुग्धबोधम् । बहूनां मध्ये

निर्द्धारिते एकस्मिन् । न्यायमते अनेकभेदावच्छिन्नप्रतियो-
गिताकभेदवति तच्च तद्भिन्नत्वे सति तद्भिन्नत्वे सति तद्भिन्न-
भिन्नत्वम् । यथा धटपटगृहान्यतम इत्यादौ घटादिभेद-
त्रयभेदो घटपटगृहेष्वेव, तद्भिन्नेषु सर्वत्र तत्त्रयभेदस-
त्त्वात् । अनेकत्वञ्च अपेक्षाबोधविषयत्वं तथा च यावन्तः
पदार्थाः अन्यतमघटकप्रथमभेदप्रतियोगितया विवक्षिता-
स्तावन्तएव भेदा ग्राह्यास्तथा च तावत्पदार्थभिन्नभेद-
वत्त्वमेवान्यतमशब्दार्थः । “अन्यतरान्यतमशब्दौ अव्युत्पन्नो
प्रातिपदिके इति” कैयटः । तेनान्यतमस्य न सर्वनामका-
र्य्यम् “किंयत्तदोनिर्द्धारणे इति” पा० किंयत्तद्भ्योऽन्यत्र
डतरादिविधानाभावान्न डतमान्तत्वम् अतोऽव्युत्पन्नत्वम् ।
इति भा० प्र० उ० । अतएव सर्वनामसंज्ञासूत्रे डतरडत-
मान्तयोरुक्तत्वेऽपि अन्यतरशब्दस्य पृथग्ग्रहणम् ।
“कर्म्मादिषट्कान्यतमत्वं कारकत्वमिति” सारमञ्जरी
“अधःप्रकुपितोऽन्यतमो हि दोष” इति सुश्रुतम् ।
पृष्ठ ०२१४

अन्यतर त्रि० अन्य + डतर मु० बो० । द्वयोर्मध्ये निर्द्धारिते

एकस्मिन् । न्यायमते मेदद्वयादिच्छन्नप्रतियोगिताकभेदवति
तच्च तद्भिन्नत्वे सति तद्भिन्नभिन्नत्वमधिकमन्यतमशब्दे दृश्यम्
अव्युत्पन्नत्वेऽपि अस्य स्वशब्देनोपात्तत्वात् सर्वनामकर्य्यम् ।
किंयत्तद्भ्योऽन्यत्र डतराद्यभावात् अव्युत्पन्नत्वमिति भाष्य०
प्र० उद्योत० । शुभ्रादि० अपत्ये ठक् । आन्यतरेयस्तदपत्ये
पुंस्त्री० ।

अन्यतरेद्युस् अव्य० अन्यतरस्मिन्नहनि एद्युस् । अन्यतरदिवसे ।

अन्यतस् अव्य० अन्य + सप्तम्याद्यर्थे तसिल् । अन्यत्र अन्यं-

स्मादित्याद्यर्थे । तत्र सप्तम्यर्थे “नैव न प्रियतमोभयथासो
यद्यमुंन वृणुते वृणुते वा । एकतस्तु धिगमूमगुणज्ञाम-
न्यतः कथमदःप्रतिलम्भः इति” नै० “एकतस्तु सकलानि
निमित्त न्यन्यतो मनसः प्रतित्तिरिति” नीति० “गुरो र्यत्र
परीवादोनिन्दा वापि प्रवर्त्तते । कर्ण्णौ तत्र पिधातव्यौ
गन्तव्यं वा ततोऽन्यत” इति मनुः । पञ्चम्यर्थे तु “या
नियुक्तान्यतः पुत्रं देवराद्वाप्यवाप्नुयादिति” मनुः ।

अन्यतस्त्य त्रि० अन्यतोऽन्यस्मिन् स्वेतरपक्षे भवः अन्यतस् +

त्यप् । सपत्ने । “स य एतमुपास्ते जिष्णुर्हापराजिष्णु-
र्भवत्यन्यतस्त्यजायीति” श्रुतिः ।

अन्यत्कारक त्रि० अन्यस्य कारकः ६ त० दुक् च । अन्यस्यकारके ।

अन्यत्र अव्य० अन्यस्मिन् + अन्य + त्रल् । अन्यस्मिन्नित्यर्थे ।

“अन्यत्र निद्रद्रव्येभ्य आश्रितत्वमिहेष्यते इति” भाषा०
न चानुमानगम्यं शास्त्रप्रामाण्यं येनान्यत्र दृष्टं निदर्शन-
मपेक्षते इति” अन्यत्र प्रजापतिव्रतादिभ्यः इति च शारी०
भा० । प्रकरणबलाच्च कालो देशो वा विशेष्यः तत्र
कालः । “अन्यत्र निधनात् पत्युः पत्नी केशान्न वापयेदि-
त्यादौ” निधनकालभिन्ने काले इत्यर्थः । उक्तोदाहरणे तु देश
इति । “इतराभ्योऽपि दृश्यन्ते इति” पा० उक्तेः तत्रभवा-
नित्यादिवत् प्रथमार्थे त्रल् । प्रथमार्थे “देवा अन्यत्राश्विभ्यां
सत्वं निषेदुरिति” कौ० ब्रा० । अन्यत्र अन्ये इत्यर्थः
“अन्यत्र धर्म्मादन्यत्राधर्म्मादन्यत्र कृताकृतात् अन्यत्र
भूताद्भव्याच्चेति” कठ० उप० । धर्म्मादन्यैत्यर्थः ।

अन्यथा अव्य० अन्य + प्रकारार्थेथाच् । अन्यप्रकारे “यदभावि

न तद्भावि भावि चेन्न तदन्यथेति” हितो० । “अवाप्यते
वा कथमन्यथा द्वयमिति” कुमा० । निष्कारणे
मेदि० अभावार्थे च “अन्यथानुपपत्तिरिति” ।

अन्यथाकारम् अव्य० अन्यथा + कृ + णमुल् । अन्यप्रकारेण

कृत्वेत्यर्थे यस्य यथाकरणमुचितं ततोन्यरूपेण कृत्वेत्यर्थे ।

अन्यथाख्याति स्त्री अन्यथा अन्यरूपेण ख्यातिर्ज्ञानम् ।

यस्य यद्धर्म्मवत्त्वेन ज्ञानमुचितं तस्य तद्भिन्नधर्मेण ज्ञाने ।
यथा ह्रदो वह्निमानित्यादिज्ञानम् तच्च भ्रमात्मकं तदभाव
वति तत्प्रकारकत्वात् । तच्च विशिष्टमेकं ज्ञानं तस्यैव
प्रवर्त्तकत्वात् तथा च शुक्तौ रजतत्वभ्रमात् रजतार्थिनस्तद्-
ग्रहणे प्रवृत्तिरुपजायते इति नैयायिकादयः । मीमांस-
कादयस्तु तत्र ज्ञानद्वयम् वह्निज्ञानं ह्रदज्ञानञ्च असंसर्गा-
ग्रहवशाच्च तयोः विशिष्टज्ञानकार्य्यकारिता सति च ह्रदे
वह्नेरसंसर्गज्ञाने तत्र न प्रवृत्तिरित्यतोऽसंसर्गाग्रह एव तत्
प्रवर्त्तकः अप्रवृत्तिस्तु तदभावे इत्याहुः । वेदान्तिनस्तु
धर्म्मिणोऽसन्निकुष्टस्थले नान्यथाख्यातिः किन्तु
अलौकिकपदार्थान्तरोत्पत्त्या तस्य लौकिकं प्रत्यक्षं जायते
यथा इदं रजतमिति ज्ञानं तद्विवरणमध्यासशब्दे १४०
पृष्ठे उक्तम् । अतोऽसत एव तत्र ख्यातिरित्यसत्ख्यातिः
धर्म्मिसन्निकर्षस्थले तु जपासन्निकृष्टस्फटिकादौ अन्यथा
ख्यातिरिति भेद इत्यङ्गीचक्रुः ।

अन्यथानुपपत्ति स्त्री अन्यथा अभावे न उपपत्तिःअसम्भवः

स्वाभावप्रयोज्यासम्भवे, अर्थापपत्तिप्रमाणे च तथा हि
पीनो देवदत्तो दिवा न भुङ्क्ते इत्यादौ दिवाऽभोक्तुर्देवदत्तस्य
पीनत्वं रात्रिभोजनं विनाऽनुपपन्नम् (असम्भवि) इति
ज्ञानात् रात्रिभोजनाकर्त्तृवृत्तिपीनत्वेन रात्रिभोजनं कलप्यते
तथा च भोजनस्य पीनत्वव्यापकतया व्यापकाभावस्य च
व्याप्या भावव्याप्यतया साध्याभावव्यापकीभूताभावप्रतियो-
गित्वरूपव्यतिरेकव्याप्तिज्ञानात् अनुमितिरूपार्थापत्ति-
रुदेति । सेयमर्थापत्तिः मीमांसकमते प्रमाणान्तरं नैयायि-
कानां मते व्यतिरेकव्यप्तिज्ञानहेतुकानुमितिरिति भेदः ।

अन्यथाभाव पु० अन्यथा अन्यरूपेण भावः । यस्य

यथारूपमुचितं तस्य ततोऽन्यथारूपेण भवने । अन्यरूपाशये
च । “अतो मय्यन्यथाभावी न कर्त्तव्य इति” छा० उप०
भौ० “ज्ञातेऽपि विषये तवानुक्तिरित्येवं रूपो भाव इत्यर्थः ।

अन्यथाभूत त्रि० अन्यथा अन्यप्रकारेण भूतः । प्रकारा-

न्तरतां प्राप्ते । “अन्यथाभूतखिरिति” मु० बो० ।

अन्यथावृत्ति स्त्री अन्यथाऽन्यरूपेण वृत्तिः । चित्तादेः अन्य-

प्रकारेण वृत्तौ, (परिणामे) अन्यथास्थितौ च ।

अन्यथासिद्ध त्रि० अन्यथा अन्यप्रकारेण सिद्धः । अन्य-

प्रकारेण सिद्धे पदार्थे, न्यायादिमते अन्यथासिद्धिरूपाणां
कारणताप्रतिबन्धकानां दोषाणामाश्रये वस्तुनि च । अन्यथा-
सिद्धानि च पञ्च तत्र घटादौ दण्डत्वादिकमाद्यम् दण्डादि-
रूपं द्वितीयं, कुलालजनकः तृतीयः, गगनादि चतुर्थम्
रासभादि पञ्चमम्, यथोक्तं भाषायाम् “येन सह पूर्ब्ब-
पृष्ठ ०२१५
भावः कारणमादाय वा यस्य । अन्यं प्रति पूर्ब्बभावे ज्ञाते
यत्पूर्ब्बभावविज्ञानम् ॥ जनकं प्रति पूर्ब्बवर्त्तितामपरिज्ञाय
न यस्य गृह्यते । अतिरिक्तमथापि यद्भवेन्नियतावश्यक-
पृर्ब्बभाविनः ॥ एते पञ्चान्यथासिद्धा दण्डत्वादिकमादि-
मम् । घटादौ, दण्डरूपादि द्वितीयमपि दर्शितम् ॥
तृतीयन्तु भवेद् व्योम कुलालजनकोऽपरः । पञ्चमो
रासभादिः स्यादेतेष्वावश्यकस्त्वसौ” इति ॥

अन्यथासिद्धि स्त्री अन्यथा अन्यप्रकारेण सिद्धिः । अन्य-

प्रकारेण सिद्धौ न्यायाद्युक्तकारणताप्रतिबन्धकरूपे पञ्च-
विधे दोषे च ।

अन्यदर्थ पु० अन्योऽर्थः कर्म्म० दुक् । भिन्नार्थे । ६ त० ३ त०

वा अन्यार्थः अन्यस्यान्येन वाऽर्थे पु० । अन्यः अर्थोयस्य
अन्यार्थः भिन्नार्थके त्रि० । “अन्यार्थ उपन्यास इति”

अन्यदा अव्य० अन्यस्मिन् काले दा । अन्यस्मिन् काले इत्यर्थे

“अन्यदा भूषणं पुंसां क्षमा लज्जेव योषितामिति” माघः

अन्यदाशा स्त्री अन्या आशा दुक् । भिन्नप्रार्थने । अन्य-

स्वाशा ६ त० । अन्यस्य वाञ्छायाम् अन्यलाभाशये ।

अन्यदाशिस् स्त्री अन्या आशीः दुक् । अन्याशीर्वादे

अन्यस्य अन्येन वाशीरिति ६ त० ३ त० वा । अन्या-
शीरित्येव । अन्यस्य अन्येन वाऽशास्यप्रार्थने ।

अन्यदास्था स्त्री अन्यस्मिन् आस्था दुक् । अन्यस्मिन्नास्थायाम्

अन्यस्यास्था ६ त० । अन्यास्थेत्येव अन्यस्यास्थायाम् ।

अन्यदास्थित त्रि० अन्यमास्थितः दुक् । अन्यरूपास्थिते

३ त० । अन्यास्थित इत्येव अन्येनास्थिते ।

अन्यदीय त्रि० अन्यस्यायम् गहा० छ दुक् च । अन्यसम्बन्धिनि

अन्यदुत्सुक त्रि० अन्यस्मिन् उत्सुकः दुक् । अन्य-

विषयोत्कण्ठिते । अन्येन उत्सुकः ३ त० । अन्योत्-
सुक इत्येव तत्रैवार्थे त्रि० ।

अन्यदूति स्त्री अन्या ऊतिः दुक् । अन्यरक्षणे । अन्यस्य

ऊतिः ६ त० । अन्योतिरित्येव अन्यस्य रक्षणे ।

अन्यद्राग पु० अन्यस्मिन् रागः दुक् । अन्यविषयरागे ।

अन्येन अन्यस्य वा रागः ३ त० ६ त० वा । अन्यराग
इत्येव अन्यकरणके अन्यसम्बन्धिनि च रागे ।

अन्यपुष्ट पुंस्त्री० अन्यया नातृभिन्नया पुष्टः सर्वनाम्नो वृत्तौ

पुंवद्भावः । कोकिले “अप्यन्यपुष्टाः प्रतिकूलशब्दाः
श्रोतुर्वितन्त्रीरिव ताड्यमानेति” कुमा० । “बलिपुष्ट-
कुलादिवान्यपुष्टैरिति” माघः ।

अन्यपूर्व्वा स्त्री अन्यः पूर्व्वो यस्याः । पूर्व्वपतिमरणादौ

पश्चात् कृततद्भिन्नपतिकायां पुनर्भूस्त्रियाम् । अन्यपूर्व्वा
च सप्तविधाः यथोक्तं नारदेन “परपूर्ब्बाः स्त्रियस्त्वन्याः
सप्त प्रोक्ता यथाक्रमम् । पुनर्भूस्त्रिबिधा तासां खैरिणी
तु चतुर्व्विधा । कन्यैवाक्षतयोनिर्य्या पाणिग्रहण-
दूषिता । पुनर्भूः प्रथमा प्रोक्ता पुनःसंस्कारकर्म्मणा ।
देशधर्म्मानवेक्ष्य स्त्री गुरुभिर्य्या प्रदीयते । उत्पन्नसाहसान्यस्मै
सा द्वितीया प्रकीर्त्तिता” । (उत्पन्नसाहसा उत्पन्नव्यभिचारा) ।
“असत्सु देवरेषु स्त्री बान्धवैर्य्या प्रदीयते । सवर्णाय
सपिण्डाय सा तृतीया प्रकीर्त्तिता” । स्त्री प्रसूताऽप्रसूता वा
पत्यावेव तु जीवति । कामार्थमाश्रयेदन्यम्प्रथमा स्वैरिणी
तु सा । कौमारम्पतिमुत्सृज्य या त्वन्यं पुरुषं श्रिता ।
पुनः पत्युर्गृहं यायात्सा द्वितीया प्रकीर्त्तिता । मृते
भर्तरि तु प्राप्तान् देवरादीनपास्य या । उपगच्छेत्परं
कामात्सा तृतीया प्रकीर्त्तिता । प्राप्ता देशाद्धनक्रीता
क्षुत्पिपासातुरा तु या । तवाहमित्युपगता सा चतुर्थी
प्रकीर्त्तिता इति” । अन्या अपि सप्तविधाः कात्यायनेन
दर्शिता यथा “सप्त पौनर्भवाः कन्या वर्जनीयाः कुला-
धमाः । वाचा दत्ता मनोदत्ता कृतकौतुकमङ्गला ।
उदकस्पर्शिता या च या च पाणिगृहीतिका । अग्निं परिगता
या च पुनर्भूप्रभवा च या । इत्येताः काश्यपेनोक्ता दहन्ति
कुलमग्निवत्” इति । अन्यपूर्ब्बावेदनञ्च युगान्तरविषय-
मिति माधवाचार्य्यादयः “नष्टे मृते प्रव्रजिते क्लीवे वा
पतिते पतौ । पञ्चस्वापत्सु नारीणां पतिरन्योविधीयते
पराशरवाक्यस्य तेन युगान्तरविषयकत्वस्य व्यवस्थाप्रनात् ।
कलियुगेऽपि तत्कर्त्तव्यतेति आधुनिकामन्यन्ते तत्र
बलाबले तत्तद्ग्रन्थे एवावगन्तव्ये । अन्यस्वामिकमात्रेऽपि
“मनुप्रभृतिभिर्मान्यैर्भुक्ता यद्यपि राजभिः । तथाप्यनन्य-
पूर्ब्बेव तस्मिन्नासीत् वसुन्धरेति रघुः । ततः अर्शआदित्वादच्,
अन्या पूर्व्वा यस्य वा । तत्परिणेतरि पुनर्भूपतौ पु० ।

अन्यभाव पु० अन्यरूपो भावः । अन्यरूपभवने अन्यरूप-

चित्तभावे च । ब्रा० ष्यञ् । आन्यभाव्यं तद्भावे न० ।

अन्यभृत् पुंस्त्री० अन्यया भ्रियते भृ--कर्म्मणि क्विप् । कोकिले ।

अन्यभृत पुंस्त्री० अन्यया भृतः पुष्टः । कोकिले । “कलमन्य-

भृतासु भाषितमिति” रघुः । अन्यपुष्टमात्रे त्रि० ।

अन्यमनस् त्रि० अन्यस्मिन् मनोयस्य । स्वग्राह्यविषयपरि-

हारेण उत्कण्ठया व्याकुलीभावेन अन्यत्रासक्तचित्ते । वा
कप् । अन्यमनस्कोऽप्यत्र त्रि० ।

अन्यमातृज पु० अन्यस्या मातुर्जायते जन ड ५ त० पुंवद् ।

सापत्ने भ्रातरि “असंसृष्ट्यपि चादद्यात् संसृष्टोनान्य-
मातृज” इति याज्ञ० तादृशभगिन्यां स्त्री ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/अनुलेप&oldid=57607" इत्यस्माद् पुनः प्राप्तिः