वराहपुराणम्/अध्यायः ७८
← अध्यायः ७७ | वराहपुराणम् अध्यायः ७८ [[लेखकः :|]] |
अध्यायः ७९ → |
रुद्र उवाच ।
तथा चतुर्णां वक्ष्यामि शैलेन्द्राणां यथाक्रमम् ।
अनुविध्यानि रम्याणि विहङ्गैः कूजितानि च ।। ७८.१ ।।
अनेकपक्षियुक्तात्मश्रृङ्गाणि सुबहूनि च ।
देवानां दिव्यनारीभिः समं क्रीडामयानि च ।। ७८.२ ।।
किन्नरोद्गीतघुष्टानि शीतमन्दसुगन्धिभिः ।
पवनैः सेव्यमानानि रमणीयतराणि च ।। ७८.३ ।।
चतुर्द्दिक्षु विराजन्ते नामतः श्रृणुतानघाः ।
पूर्वे चैत्ररथं नाम दक्षिणे गन्धमादनम् ।
प्रभावेण सुतोयानि नवखण्डयुतानि च ।। ७८.४ ।।
वनषण्डांस्तथाक्रम्य देवता ललनायुताः ।
यत्र क्रीडन्ति चोद्देशे मुदा परमया युताः ।। ७८.५ ।।
अनुबन्धानि रम्याणि विहगैः कूजितानि च ।
रत्नोपकीर्णतिर्थानि महापुण्यजलानि च ।। ७८.६ ।।
अनेकजलयन्त्रैश्च नादितानि महान्ति च ।
शाखाभिर्लम्बमानाभी रुवत्पक्षिकुलालिभिः ।। ७८.७ ।।
कमलोत्पलकह्लारशोभितानि सरांसि च ।
चतुर्षु तेषु गिरिषु नानागुणयुतेषु च ।। ७८.८ ।।
अरुणोदं तु पूर्वेण दक्षिणे मानसं स्मृतम् ।
असितोदं पश्चिमे च महाभद्रं तथोत्तरे ।
कुमुदैः श्वेतकपिलैः कह्लारैर्भूषितानि च ।। ७८.९ ।।
अरुणोदयस्य ये शैलाः प्राच्या वै नामतः स्मृताः ।
तान् कीर्त्त्यमानांस्तत्त्वेन श्रृणुध्वं गदतो मम ।। ७८.१० ।।
विकङ्को मणिश्रृङ्गश्च सुपात्रश्चोपलो महान् ।
महानीलोऽथ कुम्भश्च सुबिन्दुर्मदनस्तथा ।। ७८.११ ।।
वेणुनद्धः सुमेदाश्च निषधो देवपर्वतः ।
इत्येते पर्वतवराः पुण्याश्च गिरयोऽपरे ।। ७८.१२ ।।
पूर्वेण मन्दरात् सिद्धाः पर्वताश्च मदायुताः ।
सरसो मानसस्येह दक्षिणेन महाचलाः ।। ७८.१३ ।।
ये कीर्त्तिता मया तुभ्यं नामतस्तान् निबोधत ।
शैलस्त्रिशिरश्चैव शिशिरश्चाचलोत्तमः ।। ७८.१४ ।।
कपिश्च शतमक्षश्च तुरगश्चैव सानुमान् ।
ताम्राहश्च विषश्चैव तथा श्वेतोदनो गिरिः ।। ७८.१५ ।।
समूलश्चैव सरलो रत्नकेतुश्च पर्वतः ।
एकमूलो महाश्रृङ्गो गजमूलोऽपि शावकः ।। ७८.१६ ।।
पञ्चशैलश्च कैलासो हिमवानचलोत्तमः ।
उत्तरा ये महाशैलास्तान् वक्ष्यामि निबोधत ।। ७८.१७ ।।
कपिलः पिङ्गलो भद्रः सरसश्च महाचलः ।
कुमुदो मधुमांश्चैव गर्जनो मर्कटस्तथा ।। ७८.१८ ।।
कृष्णश्च पाण्डवश्चैव सहस्त्रशिरसस्तथा ।
पारियात्रश्च शैलेन्द्रः श्रृङ्गवानचलोत्तमः ।
इत्येते पर्वतवराः श्रीमन्तः पश्चिमे स्मृताः ।। ७८.१९ ।।
महाभद्रस्य सरस उत्तरेण द्विजोत्तमाः ।
ये पर्वताः स्थिता विप्रास्तान् वक्ष्यामि निबोधत ।। ७८.२० ।।
हंसकूटो महाशैलो वृषहंसश्च पर्वतः ।
कपिञ्जलश्च शैलेन्द्र इन्द्रशैलश्च सानुमान् ।। ७८.२१ ।।
नीलः कनकश्रृङ्गश्च शतश्रृङ्गश्च पर्वतः ।
पुष्करो मेघशैलोऽथ विरजाश्चाचलोत्तमः ।
जारुचिश्चैव शैलेन्द्र इत्येते उत्तराः स्मृताः ।। ७८.२२ ।।
इत्येतेषां तु मुख्यानामुत्तरेषु यथाक्रमम् ।
स्थलीरन्तरद्रोण्यश्च सरांसि च निबोधत ।। ७८.२३ ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे अष्टसप्ततितमोऽध्यायः ।। ७८ ।।