वराहपुराणम्/अध्यायः ७७

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← अध्यायः ७६ वराहपुराणम्
अध्यायः ७७
[[लेखकः :|]]
अध्यायः ७८ →

रुद्र उवाच ।
यदेतत् कर्णिकामूलं मेरोर्मध्यं प्रकीर्तितम् ।
तद् योजनसहस्त्राणि संख्यया मानतः स्मृतम् ।। ७७.१ ।।

चत्वारिंशत् तथा चाष्टौ सहस्त्राणि तु मण्डलैः ।
शैलराजस्य तत्तत्र मेरुमूलमिति स्मृतम् ।। ७७.२ ।।

तेषां गिरिसहस्त्राणामनेकानां महोच्छ्रयः ।
दिगष्टौ च पुनस्तस्य मर्यादापर्वताः शुभाः ।। ७७.३ ।।

जठरो देवकूटश्च पूर्वस्यां दिशि पर्वतौ ।
पूर्वपश्चायतावेतावर्णवान्तर्व्यवस्थितौ ।
मर्यादापर्वतानेतानष्टानाहुर्मनीषिणः ।। ७७.४ ।।

योऽसौ मेरुर्द्विजश्रेष्ठाः प्रोक्तः कनकपर्वतः ।
विष्कम्भांस्तस्य वक्ष्यामि श्रृणुध्वं गदतस्तु तान् ।। ७७.५ ।।

महापादास्तु चत्वारो मेरोरथ चतुर्दिशम् ।
यैर्न चचाल विष्टब्धा सप्तद्वीपवती मही ।। ७७.६ ।।

दशयोजनसाहस्त्रं व्यायामस्तेषु शङ्क्यते ।
तिर्यगूर्ध्वं च रचिता हरितालतटैर्वृताः ।। ७७.७ ।।

मनःशिलादरीभिश्च सुवर्णमणिचित्रिताः ।ऽ
अनेकसिद्धभवनैः क्रीडास्थानैश्च सुप्रभाः ।। ७७.८ ।।

पूर्वेण मन्दरस्तस्य दक्षिणे गन्धमादनः ।
विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्थितः ।। ७७.९ ।।

तेषां श्रृङ्गेषु चत्वारो महावृक्षाः प्रतिष्ठिताः ।
देवदैत्याप्सरोभिश्च सेविता गुणसंचयैः ।। ७७.१० ।।

मन्दरस्य गिरेः श्रृङ्गे कदम्बो नाम पादपः ।
प्रलम्बशाखाशिखरः कदम्बश्चैत्यपादपः ।। ७७.११ ।।

महाकुम्भप्रमाणेश्च पुष्पैर्विकचकेसरैः ।
महागन्धबनोज्ञैश्च शोभितः सर्वकालजैः ।। ७७.१२ ।।

समासेन परिवृतो भुवनैर्भूतभावनैः ।
सहस्त्रमधिकं सोऽथ गन्धेनापूरयन् दिशः ।। ७७.१३ ।।

भद्राश्वो नाम वृक्षोऽयं वर्षाद्रेः केतुसंभवः ।
कीर्तिमान् रूपवाञ्छ्रीमान् महापादपपादपः ।
यत्र साक्षाद्धृषीकेशः सिद्धसङ्घैर्निषेव्यते ।। ७७.१४ ।।

तस्य भद्रकदम्बस्य तथाश्ववदनो हरिः ।
प्राप्तवांश्चामरश्रेष्ठः स हि सानुं पुनः पुनः ।। ७७.१५ ।।

तेन चालोकितं वर्षं सर्वद्विपदनायकाः ।
यस्य नाम्ना समाख्यातो भद्राश्वेति न संशयः ।। ७७.१६ ।।

दक्षिणस्यापि शैलस्य शिखरे देवसेविते ।
जम्बूः सद्यः पुष्पफला महाशाखोपशोभिता ।। ७७.१७ ।।

तस्या ह्यतिप्रमाणानि स्वादूनि च मृदूनि च ।
फलान्यमृतकल्पानि पतन्ति गिरिमूर्धनि ।। ७७.१८ ।।

तस्माद् गिरिवरश्रेष्ठात् फलप्रस्यन्दवाहिनी ।
दिव्या जाम्बूनदी नाम प्रवृत्ता मधुवाहिनी ।। ७७.१९ ।।

तत्र जाम्बूनदं नाम सुवर्णमनलप्रभम् ।
देवालङ्कारमतुलमुत्पन्नं पापनाशनम् ।। ७७.२० ।।

देवदानवगन्धर्वयक्षराक्षसगुह्यकाः ।
पपुस्तदमृतप्रख्यं मधु जम्बूफलस्त्रवम् ।। ७७.२१ ।।

सा केतुर्दक्षिणे वर्षे जम्बूर्लोकेषु विश्रुता ।
यस्या नाम्ना समाख्याता जम्बूद्वीपेति मानवैः ।। ७७.२२ ।।

विपुलस्य च शैलस्य दक्षिणेन महात्मनः ।
जातः श्रृङ्गेति सुमहानश्वत्थश्चेति पादपः ।। ७७.२३ ।।

महोच्छ्रायो महास्कन्धो नैकसत्त्वगुणालयः ।
कुम्भप्रमाणै रुचिरैः फलैः सर्वर्त्तुकैः शुभैः ।। ७७.२४ ।।

स केतुः केतुमालानां देवगन्धर्वसेवितः ।
केतुमालेति विख्यातो नाम्ना तत्र प्रकीर्तितः ।
तन्निबोधत विप्रेन्द्रा निरुक्तं नामकर्मणः ।। ७७.२५ ।।

क्षीरोदमथने वृत्ते माला स्कन्धे निवेशिताः ।
इन्द्रेण चैत्यकेतोस्तु केतुमालस्ततः स्मृतः ।
तेन तच्चिह्नितं वर्षं केतुमालेति विश्रुतम् ।। ७७.२६ ।।

सुपार्श्वस्योत्तरे श्रृङ्गे वटो नाम महाद्रुमः ।
न्यग्रोधो विपुलस्कन्धो यस्त्रियोजनमण्डलः ।। ७७.२७ ।।

माल्यदामकलापैश्च विविधैस्तु समन्ततः ।
शाखाभिर्लम्बमानाभिः शोभितः सिद्धसेवितः ।। ७७.२८ ।।

प्रलम्बकुम्भसदृशैर्हेमवर्णैः फलैः सदा ।
स ह्युत्तरकुरूणां तु केतुवृक्षः प्रकाशते ।। ७७.२९ ।।

सनत्कुमारावरजा मानसा ब्रह्मणः सुताः ।
सप्त तत्र महाभागाः कुरवो नाम विश्रुताः ।। ७७.३० ।।

तत्र स्थिरगतैर्ज्ञानैर्विरजस्कैर्महात्मभिः ।
अक्षयः क्षयपर्यन्तो लोकः प्रोक्तः सनातनः ।। ७७.३१ ।।

तेषां नामाङ्कितं वर्षं सप्तानां वै महात्मनाम् ।
दिवि चेह च विख्याता उत्तराः कुरवः सदा ।। ७७.३२ ।।

।। इति श्रीवराहपुराणे भगवच्छास्त्रे सप्तसप्ततितमोऽध्यायः ।। ७७ ।।