वराहपुराणम्/अध्यायः १८४

विकिस्रोतः तः
← अध्यायः १८३ वराहपुराणम्
अध्यायः १८४
[[लेखकः :|]]
अध्यायः १८५ →

अथ ताम्रार्चास्थापनम् ।।
श्रीवराह उवाच ।।
ताम्रेण प्रतिमां कृत्वा सुरूपां चैव भास्वराम् ।।
उचितेनोपचारेण वेश्ममध्यमुपानयेत् ।। १ ।।
ततो वेश्मन्युपागम्य स्थापयित्वा उदङ्मुखः ।।
चित्रायां चैव नक्षत्रे कुर्याच्चैवाधिवासनम् ।।२।।
जलं च सर्वगन्धेन पंचगव्येन मिश्रितम् ।।
स्नापयेच्च ततो मां वै इमं मन्त्रमुदाहरेत् ।। ३ ।।
मन्त्रः-
योऽसौ भवांस्तिष्ठति सारभूतः त्वं ताम्रके तिष्ठसि नेत्रभूतः ।।
आगच्छ मूर्त्तौ सह पंचभूतैर्मया च पात्रैः सह विश्वधामन् ।। ४ ।।
अनेनैव तु मन्त्रेण स्थापयित्वा यशस्विनि ।।
पूर्वन्यायेन कर्त्तव्यमधिवासनपूजनम् ।। ५ ।।
व्यतीतायां च शर्वर्यामुदिते च दिवाकरे ।।
ऋचा शुद्धिं विधायाऽथ स्नापयेन्मन्त्रपूर्वकम् ।। ६ ।।
ब्राह्मणा वेदपाठांश्च कुर्युस्तत्र समागताः ।।
बहुनि मङ्गलान्यत्र मण्डपे स्थापयेत्ततः ।।७।।
सुगन्धद्रव्यसंयुक्तं जलं चादाय पूजकः।।
ततो मे स्नपनं कार्यमिमं मन्त्रमुदाहरेत्।।८।।
मन्त्रः –
ॐ योऽसौ भवान्सर्ववरः प्रभुश्च माया बलो योगबलप्रधानः ।।
आगच्छ शीघ्रं च मम प्रियाय सन्तिष्ठ ताम्रेष्वपि लोकनाथ ।। ९ ।।
ज्वलन पवनतुल्यावन भावन तपन श्वासन स्वयं तिष्ठ भगवन् पुरुषोत्तम ओम् ।। इति ।।
ततो द्वारमुपागम्य वेश्म शीघ्रं प्रवेशयेत् ।।
आसने चापि मां स्थाप्य पूजयेद्भक्तिपूर्वकम् ।।184.१०।।
मन्त्रेणानेन मां स्थाप्य गन्धपुष्पादिदीपकैः ।। ११ ।।
स्थापनामन्त्रः –
ॐ प्रकाशप्रकाश जगत्प्रकाश विज्ञानमयानन्दमय त्रैलोक्यनाथात्रागच्छ इह
सन्तिष्ठतां भवान्पुरुषोत्तम मामव इति ।।
अनेन स्थापनां कृत्वा मम शास्त्रानुसारतः ।।
शुक्लवस्त्रं समादाय इमं मन्त्रमुदाहरेत् ।। १२ ।।
मन्त्रः-
ॐ शुद्धस्त्वमात्मा पुरुषः पुराणो जगत्सु तत्त्वं सुरलोकनाथ ।।
वस्त्राणि गृह्णीष्व मम प्रियाणि नमोऽस्तु तस्मै पुरुषोत्तमाय ।। १३ ।।
वस्त्रैर्विभूषितं कृत्वा मम कर्मपरायणः।।
यथान्यायेन मे शीघ्रमर्च्चनं तत्र कारयेत् ।।१४ ।।
अर्च्चनालंकृतं कृत्वा गन्धधूपादिभिः प्रभुम् ।।
सम्पूज्य विधिवन्मां तु नैवेद्यं परिकल्पयेत् ।।१५।।
दत्त्वा स्वादु च नैवेद्यं शान्तिपाठं तु कारयेत् ।।
मन्त्रः –
शान्तिर्भवतु देवानां विप्राणां शान्तिरुत्तमा।।१६।।
शान्तिर्भवतु राज्ञां च सराष्ट्राणां तथा विशाम् ।।
बालानां व्रीहिपण्यानां गर्भिणीनां च देहिनाम् ।। १७ ।।
शान्तिर्भवतु देवेश त्वत्प्रसादान्ममाखिला।।
एवं शान्तिं पठित्वा तु ब्राह्मणांस्तत्र पूजयेत् ।।१८।।
गुरुं भागवतं चैवमर्चयेच्च यथाविधि।।
ब्राह्मणान्भोजयेत्तत्र यथोत्पन्नेन माधवि ।। १९।।
विशेषेण गुरुं पूज्य वस्त्रालंकारभोजनैः ।।
तेनाहं पूजितो भूमे सत्यमेतद्ब्रवीमि ते ।। 184.२० ।।
गुरुर्यस्य न तुष्टो वै तस्माद्दूरतरो ह्ययम् ।।
य एतेन विधानेन कुर्यात्संस्थापनं मम ।। २१ ।।
तारितं च कुलं तेन नवभिः सप्तविंशतिः ।।
एतत्ते कथितं भद्रे ताम्रार्च्चास्थापनं मम ।। २२ ।।
कथयिष्यामि ते ह्येवं कार्त्स्न्येन प्रतिमार्च्चनम् ।।
जलस्य बिन्दवो यावन्मम स्नाने च सुन्दरि ।।
तावद्वर्षसहस्राणि मम लोके महीयते ।। २३ ।।
इति श्रीवराहपुराणे ताम्रार्चास्थापनं नाम चतुरशीत्यधिकशततमोऽध्यायः ।। १८४ ।।