वराहपुराणम्/अध्यायः १६८

विकिस्रोतः तः
← अध्यायः १६७ वराहपुराणम्
अध्यायः १६८
[[लेखकः :|]]
अध्यायः १६९ →

धरण्युवाच ।।
मथुरां रक्षते कोऽसौ क्षेत्रपालो व्यवस्थितः ।।
तेन दृष्टेन यत्पुण्यं कथयस्वाखिलं प्रभो ।। १ ।।
श्रीवराह उवाच ।।
दृष्ट्वा भूतपतिं देवं वरदं पापनाशनम् ।।
तस्य दर्शनमात्रेण मथुरायां फलं भवेत् ।। २ ।।
पुरा वर्षसहस्रं तु तपस्तप्तं सुदारुणम् ।।
पूर्णे वर्षसहस्रे तु मया सन्तोषितो हरः ।। ३ ।।
वरं वरय भद्रं ते यस्ते मनसि वर्त्तते ।।
ईश्वर उवाच ।।
सर्वगस्त्वं हि देवेश मया ज्ञातं सुनिश्चितम् ।। ४ ।।
मथुरायां च मे स्थानं सदा देव प्रदीयताम् ।।
देवदेव वचः श्रुत्वा हरिर्वचनमब्रवीत् ।। ९ ।।
मथुरायां च देव त्वं क्षेत्रपालो भविष्यसि ।।
त्वयि दृष्टे महादेव मम क्षेत्र फलं भवेत् ।।६।।
अन्यथा नाप्नुयात् सिद्धिमेवमेतन्न संशयः ।।
येन यद्यादृशं पुण्यं कृतं तीर्थे प्रयत्नतः ।।७।।
भजते मनुजः सिद्धिमात्मभावेन तादृशीम् ।।
मम क्षेत्रप्रवेशे च भूमिः संसारनाशिनी ।। ८ ।।
इन्द्रस्यैव पुरी रम्या यथा नाकेऽमरावती ।।
जम्बूद्वीपे तथोत्कृष्टा मथुरा मम वल्लभा ।। ९ ।।
विंशतिर्योजनानां हि माथुरं मम मण्डलम् ।।
पदे पदेऽश्वमेधानां फलं नात्र विचारणा ।। 168.१० ।।
न मया कथितं देवि ब्रह्मणश्च महात्मनः ।।
रुद्रस्य न मया पूर्वं कथितं च वसुन्धरे ।। ११ ।।
मया सुगोपितं पूर्वं गुह्याद्गुह्यतरं परम् ।।
अत्र क्षेत्रे पुरी रम्या सर्वरत्नविभूषिता ।।१२।।
तस्यां तिष्ठन्ति तीर्थानि तानि वक्ष्यामि तच्छृणु ।।
षष्टिकोटिसहस्राणि षष्टिकोटिशतानि च ।। १३ ।।
तीर्थसंख्या च वसुधे मथुरायां मयोदिता ।।
गोवर्द्धनं तथाक्रूरं द्वे कोटी दक्षिणोत्तरे ।। १४ ।।
प्रस्कन्दनं च भाण्डीरं कुरुक्षेत्रसमानि षट् ।।
पुण्यात्पुण्यतरं श्रेष्ठमेतद्विश्रान्तिसंज्ञकम् ।। १५ ।।
असिकुण्डं सवैकुण्ठं कोटितीर्थोत्तमं स्मृतम् ।।
अविमुक्तं सोमतीर्थं यमनं तिन्दुकं ततः ।।१६।।
चक्रतीर्थं तथाक्रूरं द्वादशादित्यसंज्ञितम् ।।
एतत्पुण्यं पवित्रं च महापातकनाशनम् ।।१७।।
कुरुक्षेत्राच्छतगुणं मथुरायां न संशयः ।।
ये पठन्ति महाभागाः शृण्वन्ति च समाहिताः ।। १८ ।।
मथुरायास्तु माहात्म्यं ते यान्ति परमं पदम्।।
कुलानि ते तारयन्ति द्वे शते विंशयोर्द्वयोः ।। १९।।
एतन्मरणकाले तु यः स्मरेत्प्रयतो नरः।।
स गच्छेत्परमां सिद्धिमिह संसारनाशिनीम् ।।168.२० ।।
एतत्ते कथितं देवि सर्वपातकनाशनम् ।।
तीर्थानां चैव माहात्म्यं किमन्यच्छ्रोतुमिच्छसि ।।२१ ।।
इति श्रीवराहपुराणे भगवच्छास्त्रे मथुरामाहात्म्ये अष्टषष्ट्यधिकशततमोऽध्यायः ।। १६८ ।।