वराहपुराणम्/अध्यायः १६७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १६६ वराहपुराणम्
अध्यायः १६७
[[लेखकः :|]]
अध्यायः १६८ →

श्रीवराह उवाच ।।
शृणु देवि यथा संज्ञा विश्रान्तेः कीर्तिता पुरा ।।
राक्षसेन पुरा प्रोक्ता ब्राह्मणाय महात्मने ।। १ ।।
पृथिव्युवाच ।।
किमर्थं राक्षसेनोक्ता संज्ञा विश्रान्तिसंज्ञिता ।।
किमर्थं पृष्टवान्विप्रः सर्वं कथय मे प्रभो ।। २ ।।
श्रीवराह उवाच ।।
उज्जयिन्यामभूद्विप्रः सदाचारविवर्जितः ।।
न स पूजयते देवान्न स साधून्नमस्यति ।। ३ ।।
पुण्यतीर्थं समासाद्य न च स्नानं करोति सः ।।
वेदवेदाङ्गरहितः परदाररतः सदा ।। ४ ।।
सन्ध्ये द्वे शयने चैव नित्यं मूढः स तिष्ठति ।।
न स देवमनुष्यांश्च पितॄन्पूजयते सदा ।। ५ ।।
पापाचाररतो नित्यं पापसङ्गः सुदुर्मतिः ।।
गार्हस्थ्यधर्ममाश्रित्य मोहितो वर्त्तते सदा ।। ६ ।।
गार्हस्थ्यं सर्वधर्माणां श्रेष्ठमुक्तं स्वयंभुवा ।।
यावन्ति जन्तवः सर्वे यथा गोः सर्वतः स्थिताः ।। ७ ।।
यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः ।।
एवं गार्हस्थ्यमाश्रित्य सर्वे जीवन्ति जन्तवः ।। ८ ।।
ततः स चौर्यं कुर्वाणः पापैः सह नराधमः ।।
स च रात्रौ द्रवँल्लोकाँल्लब्धोऽसौ राजरक्षिभिः ।। ९ ।।
पलायमानः स परमन्धकूपेऽपतत्तदा ।।
मृतोऽसौ पतितस्तत्र राक्षसत्वमुपागतः ।। 167.१० ।।
अन्धकूपे स पतितो घोररूपोऽवसत्तदा ।।
कदाचिदथ कार्येषु महान्सार्थ उपागतः ।। ११ ।।
तेषां मध्ये द्विजः कश्चिद्रक्षां कृत्वा वसुन्धरे ।।
रक्षोघ्नेन च मन्त्रेण सर्वं सार्थं च रक्षति ।। १२ ।।
तत्रागत्य च रक्षस्तु ब्राह्मणं वाक्यमब्रवीत् ।।
राक्षस उवाच ।।
अहं दास्यामि ते विप्र यत्ते मनसि वर्त्तते ।। १३ ।।
बहुकालेन संप्राप्तं भोजनं च यथेप्सितम् ।।
उत्तिष्ठ विप्र गच्छ त्वमन्यत्र शयनं कुरु ।। १४ ।।
येनाहं भक्षये सार्थं यावत्तृप्तिर्भवेन्मम ।।
राक्षसस्य वचः श्रुत्वा विप्रो वचनमब्रवीत् ।। १५ ।।
एकः सार्थं प्रयातोऽहं नोत्सृजामि कथंचन ।।
तस्माद्राक्षस गच्छ त्वं सार्थं मम परिग्रहम् ।। १६ ।।
निरीक्षितुं न शक्तोऽसि मम मन्त्रबलेन हि ।।
राक्षस उवाच ।।
मम भक्ष्ये हते विप्र दोषस्तव भविष्यति ।। १७ ।।
दयां कुरु त्वं विप्रर्षे भोजनं मम दीयताम् ।।
ततोऽपृच्छदसौ विप्रो राक्षसं दारुणं प्रति ।। १८ ।।
केन त्वं कर्मदोषेण राक्षसत्वमुपागतः ।।
ततश्च कथयामास कथावृत्तं पुरातनम् ।। १९ ।।
अनाचारादि हेतोश्च राक्षसत्वमुपागतः ।।
आत्मानं कथयामास विप्राग्रे स यथायथम् ।।167.२० ।।
तस्य दुःखेन संयुक्तो विप्रोऽसौ वाक्यमब्रवीत् ।।
विप्र उवाच ।।
मित्रत्वे वर्त्तसे रक्षस्तव दास्यामि किं वद ।। २१ ।।
आत्मना चोपकारेण प्रियं किं करवाणि ते ।।
राक्षस उवाच ।।
ददासि यदि तद्विप्र यन्मे मनसि वर्त्तते ।। २२ ।।
मथुरायां च यत्स्नातं कृतं विश्रान्तिसंज्ञके ।।
तच्च स्नानफलं देहि येन मुक्तिं व्रजाम्यहम् ।। २३ ।।
तेन दुःखेन संयुक्तो विप्रो वाक्यमथाब्रवीत् ।।
विप्र उवाच ।।
कथं जानासि रक्षस्त्वं तीर्थं विश्रान्तिसंज्ञकम् ।। २४ ।।
कथं च संज्ञा तस्याभूत्कथय त्वं हि राक्षस ।।
राक्षस उवाच ।।
पुरी उज्जयिनी नाम्ना तस्यां वासो हि मे सदा ।। २५ ।।
कस्मिंश्चिदथ कालेन गतोऽहं विष्णुमन्दिरम् ।।
तस्याग्रे तिष्ठते विप्रो वाचको वेदपारगः ।। २६ ।।
विश्रान्तितीर्थमाहात्म्यं श्रावयन्स दिनेदिने ।।
तस्य श्रवणमात्रेण मम भक्तिर्हृदिस्थिता ।।२७।।
सा संज्ञा च श्रुता तत्र विश्रान्तेश्च मयाऽनघ ।।
वासुदेवो महाबाहुर्जगत्स्वामी जनार्दनः ।। २८ ।।
विश्रामं कुरुते तत्र तेन विश्रान्तिसंज्ञिता ।।
राक्षसस्य वचः श्रुत्वा विप्रो वचनमब्रवीत् ।। २९ ।।
एकस्नानस्य हि फलं तव दत्तं च राक्षस ।।
विप्रे चेत्युक्तमात्रे च मोक्षावासमवाप सः ।। 167.३० ।।
इति श्रीवराहपुराणे मथुरामाहात्म्ये विश्रान्तिमाहात्म्यं नाम सप्तषष्ट्यधिकशततमोऽध्यायः ।।१६७।।