वटेश्वरसिद्धान्तः/द्युगणविधिः

विकिस्रोतः तः
← मानविवेकः वटेश्वरसिद्धान्तः
वटेश्वरः

3. द्युगणविधिः

[ अहर्गणानयने सामान्यविधिः ]

कोत्पत्ति-कल्प-युगयातसमा इन[१२]घ्ना मासान्विताः खगुण[३०]सङ्गुणिता अहोभिः ।
युक्ताः पृथ[क्त्व]धिकसङ्गुणिता इनाहैर्लब्धाधिमासदिवसैः सहिताः पृथक्स्थाः ॥ १ ॥
दिनक्षयघ्नाः शिशिरांशुवासरैरवाप्तहीनाहगणैविवर्जिताः ।
द्युराशयस्तेष्वग[७]भक्तशिष्टको दिनाधिपो मन्द-यम-द्युपादित:[1] ॥ २ ॥

[ अधिमासावमौ विनाऽहर्गणः ]

यातोऽर्कमासनिकरः क्षणदाकराहैर्निघ्नोऽर्कवासरहृतो गगनाग्नि[ ३०]निघ्नः ॥
तिथ्यन्वितः कुदिनसङ्गुणितो विभक्तश्चान्द्रद्युभिर्दिनगणः खलु वा स सैकः ॥ ३ ॥

[ अधिमासशेषज्ञानेन अहर्गणः ]

युगक्वहघ्रा रवियातवासराः खराम[ ३०]निघ्नाधिकशेषवर्जिताः ॥
विभाजिताः सूर्ययुगोत्थवासरैरहर्गणः स्यादथवैकसंयुतः ॥ ४ ॥


Text of Ms. A :

[1] कोत्पत्तिकल्पयुगयातसमा इनघ्ना मासान्विताः खागुणसंगुणिता अहोभिः

द्युक्ताः पृथ*धिकसंगुणिता इनाहैर्लब्दाधिम्पसदिवसैस्सहिताः पृथक्छाः ।। २६ ॥

[2] दिनक्षयघ्नाः शिशिरांशुवासरैरवामहीनाहगणैर्विवजिताः ।

द्युराशयस्तेष्टगभक्तशिष्टको दिनाधियो मन्मयमघुपाधिपः ॥ २७ ॥

[3] यातोर्कमासनिकरः क्षणदाकराहैर्निघ्नोर्कवासरहृत्तो गगनाग्निनिघ्नः

स्तिथ्यन्वितः कुदिनसंगुणितो विभक्तश्चंद्रद्युभिर्दिनगणः खलु वा भ्रसैक ॥ २८ ॥

[4] घृगक्वहघ्र्ना रवियातवासराः खरामनिघ्नाधिकशेषवर्जिताः

विभाजितास्सूर्ययुगोत्थवासरैरहर्गणस्स्पादथवैकसंयुतः ॥ २६ ॥

Ms. B: 1 d °धिमास्°  2 b °रवाप्त°  2 d दिनाधिपो  3d °चन्द्रघु°


^  1. मन्दः = शनिः, यमः = शनिः, द्युपः = रविः । कोत्पत्तिदिवसः शनिः, कल्पादिदिवसः , शनिः, युगादिदिवसः रविः। Also see infra, vs. 20.

[ अन्यः सरलविधिः ]

बृद्ध्यहावमविशेषसङ्गुणाः प्रेतसूर्यदिवसा विभाजिताः ।
प्रोक्तवद्रविदिनैस्त्वहर्गणः सैकयातरविवासरान्विताः ॥ ५ ॥

[ अधिमासावमशेषयोः ज्ञातेऽहर्गणः ]

भूदिनैरधिकशेषमाहतं वाऽधिकैरवमशेषमेतयोः ।
संयुतिः शशधरद्युभाजिता स्यात्स्फुटं त्वधिकमासशेषकम् ॥ ६ ॥
गताधिकघ्नाः स्फुटशेषसंयुताः कुवासरा वा द्युगणोऽधिकोद्धृताः ।

[ सशेषयातावमदिनानां ज्ञातेऽहर्गणः ]

सशेषयातावमभूदिनाहतेर्युगावमैर्लब्धमहर्गणोऽथवा ॥ ७ ॥

[ भगणादिसूर्यस्य चन्द्रस्य च ज्ञातेऽहर्गणः ]

शशधरभगणघ्ने यातसूर्यद्युराशौ युगरविदिनभक्ते मण्डलादिः शशाङ्कः ।
त्रिकु[१३]हतदिन[कृद् jधीनेन्दुभाद्यर्धितोऽक्षं[५]र्हत इनगतवर्षेरन्वितः शुद्धयहानि ॥ ८ ॥
भोदयैर्गतखरांशुवासराः सङ्गुणा युगदिनेशवासरैः ।
भाजिताः कथितशुद्धिर्वजिताः स्याद् द्युराशिरथवैकसंयुतः ॥ ९ ॥


Text of Ms. A :

[5] वद्ध्यहावमविशेषसंगुणाः प्रेतसूर्यदिवसा दिवर्जिताः

प्रोक्तवद्विभजितास्त्वह । र्गणस्सैकपातरविवासरान्वितः ॥

[6] भूदिनेरधिकशेषमाहतं । वाधिकैरवमशेषमेतयोः

संयुतिः शशिधरद्युभाजिता स्यात्स्फुटं त्वधिकमासशेषकं ॥

[7] गताधिकघ्नाः स्फुटशेषसंयुक्ताः कुरामरा वा द्यगणोधिकोद्धृतः

सशेषयातावमभूदिनाहते द्युगावमैर्लव्दमहर्गणोथवा ॥ ॥

[8] शशिपरभगणघ्ने पातसूर्यद्युराशौ युगरविदिनभक्ते मंडलादिः शशांकः

त्रिकुहितदिनहीनौ ‘ ’ ष्टुभाद्यधितोक्षर्हत इवगतवर्षरन्वितः शुद्ध्यहानि ।

[9] भोदपैर्गतखरांशुवासरास्संगुणा युगदिनेशवासरैः

भाजिताः कथिवशुद्धिवर्जितास्स्पाद्द्युराशिरथवैकसंगुणः ।
Ms. B : 6 a भूदिनै°

[ प्रकारान्तरेण अहर्गणः ]

भोदयार्कभगणान्तरेण वा प्रोक्तवद्दिनगणोऽर्कवत्सराः ॥ १० ॥

[ वर्षाधिपः ।]

ऽर्कवत्सराः ।। १० ।।

नवाष्टरामाङ्गरसैः [६६३८९] समाहताः खखाभ्रषट्क[६०००]प्रविभाजिताः फलम् ।
खराम[ ३०]शेषं दिनशुद्धिरिष्यते मधोः सितादेदिवसैरिनाब्दपः ॥ ११ ॥

[ शुद्धेः ज्ञातेऽहर्गणः ]

विश्वरामनवमङ्गलैककै[१८९३१३]स्ताडिता गतसमा विभाजिताः ।
खाभ्रखाङ्गदहनै[३६०००]रवाप्तकं शुद्धिहीनमथ चैत्रशुक्लतः । १२ ॥
वासरैर्युतमवद्युवर्जितं वर्षवासरयुतं दिवागणः ॥ १३ ॥

[ वर्षान्ताहर्गणः ]

विश्वरामनवभिः [९३१३] समाहताः [ खाभ्रखाङ्गगुण ३६००० भाजिताः फलम् ।]
प्राग्वदक्षरसराम[ ३६५]सङ्गुणैरब्दकैर्युतमहर्गणोऽथवा ॥ १४ ॥



Text of Ms. A :

[10] भोदयांतदिवसांतरेण वा प्रोक्तवद्दिनगणोर्कभान्वितः ।

[11 ] नवाष्टरामांगरसस्समाहताः खखाभ्रषट्कप्रविभाजिताः फलं

खरामशेषं दिनशुद्धिरिष्यते मधोस्सितादेर्दिवसैदिनाब्दकः ॥

[12] विश्वरामनवमंगलैककैस्ताडितागत्तसमा विभाजिताः

खाभ्रखांगदहतैरवाप्तपूकंशुद्धिहोनमथ चैत्रशुक्लतः ।

[13] बासरैर्युतमितर्नुवजितं । वर्षवासरयुतं दिवागणः

[14] विश्बरामनवभिस्समाहताः

प्राग्वदक्षरसरामसंगुणः । अब्दकैर्युतमहर्गणोथवा


Ms. B : 13 a °मितर्तु

[ प्रकारान्तरेण वर्षान्ताहर्गणः ]

विश्वरामशरवेद[४५३१३]ताडिताः [खाभ्रखाङ्गगुण ३६००० भाजिताः फलम् ॥]
प्राग्वदब्धिरसराम[ ३६४]ताडितैरब्दकैर्युतमहर्गणोऽथवा ॥ १५ ॥

[ लघ्वहर्गणः ]

अब्द-वेदरसपावका[३६४]हन्ति नो क्षिपेद्दिनगणो लघुर्भवेत् ।
एवमेव शतशः प्रसाधयेद् वासरौघमलधुं लघुं क्रमात् ॥ १६ ॥

[ कजन्मतोऽहर्गणः ]

शून्यनखाड्कनवैकरस[६१९९२००]घ्ना भूदिवसा द्युगणः कदिनादौ ।
नन्दशराब्धि[४५९]गुणाश्च कृतादौ तिष्यमुखस्त्रि[३]गुणः कृत[४]भक्तः ॥ १७ ॥
तद्योगः कल्यादौ द्युगणः कोत्पत्तितोऽथवा निघ्नः ।
नवगुणरसाष्टनवनगवेदभुजैः [२४७९८६३९] कुदिनवेदांशः [ हैं.] ॥ १८ ॥
खैकाक्षि[खशर]शरशरवसुनवरूपाक्षतत्त्ववस्वगाङ्काः [९७८२५५१९८५५५०२१०]
कल्यादौ द्युगणोऽयं कलिगतद्युगणेन संयुतस्त्विष्टः ॥ १९ ॥


Text of Ms. A :

[15] विश्वरामशरवेदत्ताडिताः

प्राग्वदठिदरसरामताडितै । रव्दकैर्युत्तमहर्गणोथवा ॥ ॥

[16] अव्दवेदरसरामकाहातिर्नोंक्षिपेद्दिनगणो लघुर्भवेत् ।

एवमेव शतशः प्रशाधयेद्वासरौघमलघुं लघुं क्रमात् ।

[17] शून्यनखांकनवैकासघ्ना भूदिवसा द्युगणाः कदिनादौ

तं द शराब्दिगुणाश्च कृतादौ तिष्पमुखत्रिगुणः कृतभक्तः ।

[18] तद्योगः कल्पादौ द्युगुणः कोत्पत्तितोथवा निघ्नः ।

नवगुणरसाष्टनवनगवेदभुजैः कुदिनवेदांशः ॥ ॥

[19] खैकाक्षिशरशरवसुनवरूपाक्षत्तत्ववस्वगांकाः

कल्पादौ पुगणोयं कलिगतयुगणेन संयुक्तिस्त्विष्टस्स्पात् ।


Ms. B : 16 b द्विनगणो 17 b द्युगणः

[ व्यस्तगणनया दिनाधिपः ।]

सप्ता[७]भ्यस्तात्कुदिनाद् द्युगणोनात्सप्त[७]भाजिताच्छेषम् ।
शनिमन्देनसिताद्यो व्यस्तगणनया दिनाधिपतिः ॥ २० ॥

[ चान्द्रसौराहर्गणौ ]

द्युगणोऽधोऽवमगुणितात् कुदिनहृतादाप्तयुग् विधोर्द्युगणः ।
पृथगधिकगुणो विधुदिनहृतोऽधिमासदिनवजितोऽर्काहाः ॥ २१ ॥

[ प्रकारान्तरेण तदेव ]

यातावमेन्दुदिनराशिचयौ स्वशिष्ट्या युक्तोनितावमगणः शशिवासरा वा ।
हीनौ गताधिकगणश्च रविद्युराशिस्तद्योगतो रविदिनानि गताधिमासाः ॥ २२ ॥

[ अन्ये विधयः ]

पृथगिनदिनराशिश्चन्द्रभ[२७१]घ्नो विभक्तः शतगुणितखखेषुव्योमवेदै[४०५००००]विहीनः ।
रसनगनव[९७६]लब्धव्योमराम[३०lघ्नयुक्तः पृथगज[११lहतराशिद्विष्ठ ऊर्ध्वं विभक्तः ॥२३॥
खाग्निखेकशरषण्मुखे[१६५१०३०]र्युतो रामखाग[७०३]भजिताप्तवर्जितः ।
स्याद्द्युराशिरिनसावनोऽथवा सूर्यमासनिकरो द्विधा स्थितः ॥ २४ ॥


Text of Ms. A :

[20] सद्याभ्यस्ताः कुदिना द्युगणोना समभाजिताः शेषं ।

शनिमंदेन सिताद्यो व्यस्तगणनया दिनाधिपतिः ।

[21] द्युगणोधोवमगुणितः कुदिनहृताप्ताहयुग्वियोर्द्युगणः

पृथगधिकगुणो विधुदिनह्रतोधिमासदिनवर्जितोर्काहाः ॥ ॥

[22] पातावमेन्दुदिनराशिवयस्खशिष्ट्या युक्तोयुतावमहृतः शशिवासरा वा ।

एवं गताधिकगुणाश्च रविर्द्युराशिरन्पोत्पतोवमदिनानि गताधिमासः ॥ ॥

[23] पृथगिनदिनराशिश्चंद्रभाग्नो विभक्तः शतगुणितखखेषुव्यासवेदैविर्हीना।

रसनगनवलव्दव्योमरामघ्नयुक्त: पृथगजहतराशिर्द्विष्ट ऊध्वं विभक्तः ॥ ॥

[24] खाग्निखैकशरषण्मुखैर्युतो रामखागभजितापूर्वजितः

स्याद्द्युराशिरिनसावनोथवा सूर्यमासनिकरो द्विधा स्छितः
Ms, B: 20 b सप्तभा 20 c सिताद्यो 23 c लब्द 23 d 3:ऊब्पं


गोगजाग्निरसषङ्[६६३८९]गुणो हृतः खाभ्रखाभ्ररसरूपबाहुभिः[२१६००००] ।
लब्धमाससहितोऽभिताडितः खाग्नि[ ३०]भिस्तिथियुतः पृथग्घतः ॥ २५ ॥
मूर्छनाभ्रनवखाक्षि[ २०९०२१]भिहृतः खार्क[१२०]भक्तशिशिरांशुवासरैः ।
लब्धहीनदिवसापवर्जितः स्याद्द्युराशिरिनसावनोऽथवा ॥ २६ ॥

विश्वाग्निनन्दमन्वग्निशशि[१३१४९३१३]घ्ना भाजिताः समाः ।
खखाभ्राङ्गगुणै[ ३६०००]र्लब्धं मेषाद्यहर्युतं च वा ॥ २७ ॥

द्युगणविधिस्तृतीयः ।



Text of Ms. A :


[25] गोगजाग्निरसषड्गुणो हृतः खाभ्रखाभ्ररसरूपवाहुभिः I

लब्दमाससहितोभिताडितः खाग्निभिस्तिथियुतः पृथग्घतः ।

[26] मूर्छनाभ्रनवखाक्षिभिर्हतः खार्कभक्तशिशिरांशुवासरैः

लव्दहीनदिवसापवर्जितस्स्पातः द्युराशिरिनसावनोथवा ।

[27] विर्श्वाग्निनंदमन्वग्निशशिघ्ना भाजितास्समाः

खखाभ्रांकगुणैर्लव्दं मेषाद्यहधुतं च वा।

घुणविधिस्तृतीयः ।


Ms. B : 27 c °लठद