लेखकःशूद्रकः

विकिस्रोतः तः
शूद्रकः
(१३०–१५५)

शूद्रकः (Shudraka) नाट्यकारः आसीत्। अस्य जन्मादि विषये सप्रमाणयुक्तयः न लब्धाः । किन्तु सः त्रीणि नाटकानि अरचयत्।

देशः कालश्च[सम्पाद्यताम्]

अस्य कालनिर्णये बहवो मतभेदाः –

  • स्कन्दपुराणमतेन विक्रमादित्यात् पूर्ववर्त्ती नृपोऽयम् ।
  • अनेके विद्वांसो राज्ञा शिमुकेनान्ध्रभृत्यकुलोत्पन्नेन सहास्याभेदं कल्पयन्तोऽस्य समयं विक्रमप्रथमशतकं कल्पयन्ति ।
  • वामनः स्वग्रन्थे शूद्रकं स्मरति । वामनपूर्ववर्त्ती दण्डी स्वीये काव्यादर्शे ‘लिम्पतीव तमोऽङ्गानीति शूद्रकपद्यमुध्दरति । एतेन सप्तमशतकपूर्ववर्त्तित्वमायाति ।
  • मृच्छकटिकस्य नवमेऽङ्के बृहस्पतिर्मङ्गलविरोधितया स्मर्थते, वराहमिहिरश्च तयोर्मैत्रीमाह । एतेनास्य ग्रन्थस्य वराहमिहिरकालपूर्वभवत्वे सिध्दे वराहमिहिरस्य षष्ठशातकोत्पन्नतायां प्रतीतायां शूद्रकस्य तत्पूर्वकालिकत्वं मन्तव्यम् ।

चन्द्रबली पाण्डेयोऽमून्याश्रीत्य शूद्रकं वसिष्ठीपुत्रं श्रीपुलुमाविनाऽभिन्नं प्रतीत्य १३०-१५५ ख्रीष्टाब्दकालिकं प्रमापयति ।

कृतयः[सम्पाद्यताम्]

  1. मृच्छकटिकम्
  2. वीणावासवदत्ता,
  3. पद्मप्रभृत्तकम् (भाणम्)
"https://sa.wikisource.org/w/index.php?title=लेखकःशूद्रकः&oldid=217667" इत्यस्माद् प्रतिप्राप्तम्