लेखकःशूद्रकः
दिखावट
←Authors without initials | शूद्रकः (१३०–१५५) |
शूद्रकः (Shudraka) नाट्यकारः आसीत्। अस्य जन्मादि विषये सप्रमाणयुक्तयः न लब्धाः । किन्तु सः त्रीणि नाटकानि अरचयत्।
देशः कालश्च
[सम्पाद्यताम्]अस्य कालनिर्णये बहवो मतभेदाः –
- स्कन्दपुराणमतेन विक्रमादित्यात् पूर्ववर्त्ती नृपोऽयम् ।
- अनेके विद्वांसो राज्ञा शिमुकेनान्ध्रभृत्यकुलोत्पन्नेन सहास्याभेदं कल्पयन्तोऽस्य समयं विक्रमप्रथमशतकं कल्पयन्ति ।
- वामनः स्वग्रन्थे शूद्रकं स्मरति । वामनपूर्ववर्त्ती दण्डी स्वीये काव्यादर्शे ‘लिम्पतीव तमोऽङ्गानीति शूद्रकपद्यमुध्दरति । एतेन सप्तमशतकपूर्ववर्त्तित्वमायाति ।
- मृच्छकटिकस्य नवमेऽङ्के बृहस्पतिर्मङ्गलविरोधितया स्मर्थते, वराहमिहिरश्च तयोर्मैत्रीमाह । एतेनास्य ग्रन्थस्य वराहमिहिरकालपूर्वभवत्वे सिध्दे वराहमिहिरस्य षष्ठशातकोत्पन्नतायां प्रतीतायां शूद्रकस्य तत्पूर्वकालिकत्वं मन्तव्यम् ।
चन्द्रबली पाण्डेयोऽमून्याश्रीत्य शूद्रकं वसिष्ठीपुत्रं श्रीपुलुमाविनाऽभिन्नं प्रतीत्य १३०-१५५ ख्रीष्टाब्दकालिकं प्रमापयति ।
कृतयः
[सम्पाद्यताम्]- मृच्छकटिकम्
- वीणावासवदत्ता,
- पद्मप्रभृत्तकम् (भाणम्)