लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २९६

विकिस्रोतः तः
← अध्यायः २९५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २९६
[[लेखकः :|]]
अध्यायः २९७ →


श्रीनारायण उवाच-
शृणु लक्ष्मि! त्रयस्तेऽपि गत्वा गोलोकमित्यथ ।
विशश्रमुः क्षणं पश्चात्।
कृष्णो द्वाभ्यां प्रपूजितः ॥ १ ॥
पुरुषोत्तममहिमा गोलोके बहुधाऽभवत् ।
कृष्णं नत्वा चाययतुरधोमास नरायणौ ॥ २ ॥
वैकुण्ठं चाथ तत्रापि मासो महत्त्वमाप्तवान् ।
पुरुषोत्तममासं च वासयामास वै हरिः ॥ ३ ॥
वासमासाद्य मासोऽपि रमते विष्णुना सह ।
मासानामधिपो भूत्वा गौरवेण व्यवस्थितः ॥ ४ ॥
अथात्र च महालक्ष्म्या गौरवेण प्रपूजितः ।
द्रुतं नारायणेनापि प्रतिब्रह्माण्डमेव ह ॥ ५ ॥
तृतीयायाश्चापराह्णे प्रेषयित्वा स्वपार्षदान् ।
समुद्धोषितमेवाऽयं मलमासो महोत्तमः ॥ ६ ॥
पुरुषोत्तमनामाऽसौ पुरुषोत्तमदैवतः ।
पुरुषोत्तमनाथेन स्वर्गदो मोक्षदः कृतः ॥ ७ ॥
स्वगुणाश्चार्पिता ह्यस्मै न न्यूनः पुरुषोत्तमात् ।
पूजने वन्दने जापे दाने स्नाने व्रतेऽपि च ॥ ८ ॥
पुरुषोत्तमतुल्योऽयं पुरुषोत्तमयोगदः ।
नरो नारी सुरो देवी येऽपि स्थावरजंगमाः ॥ ९ ॥
भावतोऽप्येककालेऽपि व्रतं चाथ प्रपूजनम् ।
अधिमासस्य सर्वांगं करिष्यन्ति मदिच्छया ॥ १० ॥
प्राप्स्यन्ति स्वेप्सितं सर्वं नारायणो ब्रवीम्यहम् ।
किमु तर्हिं त्रिकाले च व्रते वक्तव्यमस्य हि ॥ ११ ॥
मासव्रते तु नैवैव वक्तव्यं शिष्यते मम ।
तस्मात्पूज्यश्चैककालं द्विकालं समयत्रयम् ॥ १२॥
यथेष्टं प्राप्स्यति नारी नरोऽपीष्टमवाप्स्यति ।
क्षणं क्षणार्धं घटिकां सायं प्रातः प्रमध्यके ॥ १३ ॥
यथाशक्ति यथावस्तु पूज्योऽयं पुरुषोत्तमः ।
नारायणो ब्रवीम्यत्र पुरुषोत्तमसाक्षिकः ॥ १४॥
श्रीकृष्णसाक्षिकश्चापि पुरुषोत्तमसंज्ञके ।
मासेऽत्र मां क्षणमात्रं पूजयिष्यन्ति भावत ॥ १५ ॥
स्वर्गे सत्यं चैशलोकं प्राप्स्यन्ति स्वेष्टमित्यपि ।
प्राप्स्यन्ति मां सुखवार्धि परंब्रह्म परात्परम् ॥ १६ ॥
नारायणेच्छया येऽत्र पूजयिष्यन्ति भावतः ।
वैकुण्ठस्थं च ते मां वै प्राप्स्यन्त्येव नरायणम् ॥ १७॥
श्रीमत्कृष्णेच्छया येऽत्र पूजयिष्यन्ति भावतः ।
गोलोकस्थं च ते मां वै प्राप्स्यन्त्येव हि माधवम् ॥ १ ८॥
पुरुषोत्तमकामेन पूजयिष्यन्ति ये जनाः ।
ब्रह्मधामगतं प्राप्स्यन्त्येव मां पुरुषोत्तमम् ॥ १९॥
यद्यद्रूपं च मां येऽत्र पूजयिष्यन्ति देहिनः ।
तत्तद्रूपं तत्र तत्र प्राप्स्यन्ति ते तु मां तथा ॥२०॥
इति प्रश्रावितं लक्ष्मि! ब्रह्माण्डेषु पुनः पुनः ।
महादुन्दुभिभिर्दूतैः पार्षदैर्दिव्यविग्रहैः ॥२१ ॥
मलमासस्तृतीयायां निश्येव बहुकोटिभिः ।
सत्कृतः पूजितः सम्यग्भोजितः श्रममाप वै ॥२२॥
चतुर्थ्यां तु प्रगे सप्तद्वयलोकनिवासिभिः ।
स्नानव्रतार्चनदानाद्यैरतीव प्रतोषितः ॥२३॥
बहवः स्थावराश्चापि चेतना व्रतकारिणः ।
समाजग्मुर्हरेर्धाम लक्षशः कोटिशस्तथा ॥२४॥
चतुर्थ्यास्तु प्रगे कोटिदासीयुक्ता विमानगा ।
रमादेवी समायाता वैकुण्ठं क्षैरसागरात् ॥२५॥
वधूटीरूपतां प्राप्ता वरमालासमन्विता ।
लक्ष्मीसमा तु सर्वांगे न वै न्यूना मनागपि ॥२६॥
नारायणाऽऽज्ञया सा तु लक्ष्म्यादिभिः सुसत्कृता ।
सभाजिता ततो नारायणेनांऽके निषादिता ॥२७॥
लक्ष्म्यादयस्तदाश्चर्ये सम्प्रापुस्तद्विलोक्य वै ।
कथं पत्नीस्वरूपेयं स्वामीनांऽगीकृता द्रुतम् ॥२८॥
अथ लक्ष्म्या रमा पृष्टा तदितिवृत्तवित्तये ।
कथं कस्मात् समायाता कथं नारायणः पतिः ॥२९॥
कस्य पुत्री कथं प्राप्ता किं कृत्वैनं नरायणम् ।
वद सुभ्रु स्वसः सर्वं परिवेद्यं सुखोत्तरम् ॥३०॥
लक्ष्म्या नारायणेनापि भोजिता सत्कृता हि सा ।
समारेभे प्रवक्तुं च स्वकं वृत्तं यथातथम् ॥ ३१ ॥
वरमालां हरेः कण्ठे प्रसमर्प्याऽग्रतः स्थिता ।
नारायणांऽगुष्ठवारि पीत्वा कृत्वा प्रदक्षिणम् ॥३६॥
कुंकुमतण्डुलैः कृत्वा भाले शोभनचन्द्रकम् ।
वरमालाऽर्धकं स्वस्याः कण्ठे कृत्वाऽथ पायसम् ॥३३॥
भोजयित्वा हरिं दत्वा ताम्बूलं तत्प्रसादकम् ।
गृहीत्वा च स्वयं नारायणांके कुसुमांजलिम् ॥३४॥
साक्षतां च सलाजां च प्रसमर्प्याऽऽसने स्थिता ।
पत्नी भूत्वा जगादेदं शृणु लक्ष्मि! रमोदितम् ॥३५॥
शृण्वत्सु सर्वभक्तेषु भक्तासु प्राह यद् रमा ।
मम पूज्ये महालक्ष्मि! तृतीयारात्रिसंचरे ॥३६॥
दुन्दुभिः सुश्रुतः सर्वैर्नारायणस्य नामतः ।
अधिमासे पूजकस्य पूरयिष्ये मनोरथान् ॥३७॥
मयाऽपि कन्यया क्षीरोदधेर्गृहे स संश्रुतः ।
वाञ्छितश्च पतिर्नारायणो लक्ष्मीपतिः प्रभुः ॥३८॥
मलमासे तृतीयायां सायं वै भोजनं विना ।
विना जलं व्रतं कृत्वा स्नात्वा चाऽपूजयं हरिम् ॥३६॥
पृष्ट्वा मे जनकं क्षीरसागरं च तदाज्ञया ।
मण्डपं कदलीस्तम्भैः शोभितं पत्रतोरणैः ॥४० ॥
कारयित्वा च तन्मध्ये दोलां रम्यां सुशोभनाम् ।
लक्ष्मीनारायणमूर्तिं सौवर्णीं रत्नराजिताम् ॥४१॥
संस्नाप्य सर्वसामुद्रैः रत्नैः प्रपूज्य भावतः ।
दिव्यवस्त्रैर्विभूषाभिश्चालंकृत्य द्रवादिभिः ॥४२॥
सम्पूज्य धूपदीपैश्च भोजनैर्जलपानकैः ।
आरार्त्रिकस्तुतिप्रदक्षिणाभिरभिवन्द्य च ॥४३॥
पुष्पांजलिं प्रदायैव संकल्प्य मनसा पुनः ।
पतिर्मे भव विश्वात्मन् रमायास्त्वं नरायण! ॥४४॥
इति संस्तूय चरणामृतं पीत्वा सुकोमले ।
पर्यंके श्रीहरिः प्रेम्णा मया प्रस्वापितः सह ॥४५॥
ध्यातो मया स निद्रायां सेवयामि हरिं ततः ।
पादसंवाहनं तस्य करोमीति निभालितः ॥४६॥
क्षणं स्वप्ने हरिर्दृष्टो मया स्वे शयने सह ।
हसन्मां स्वकटाक्षेणाऽऽकर्षयन्निव भावतः ॥४७॥
वदन् श्रुतो व्रतेन त्वां स्वीकरोमि प्रियां रमे! ।
प्रातर्नेतुं मम लोकं त्वागमिष्ये पुनः प्रिये ॥४८॥
इति द्रागेव संश्राव्य स्वयमदृश्यतां गतः ।
सोऽयं नारायणः स्वामी लक्ष्मीपतिर्विराजते ॥४९॥
मया नारायणे याते मुहूर्ते ब्राह्मसंज्ञके ।
चतुर्थ्यामधिमासस्य ध्यात्वैनं पुरुषोत्तमम् ॥५०॥
स्नात्वा शय्यागतं देवं स्नापयित्वाऽतिभावतः ।
क्षीरादिभिस्तथा वार्भिश्चन्दनादि प्रमर्द्य च ॥५१॥
श्रांगारिकाण्यर्पयित्वा विवाहवरवत् कृतः ।
दत्तं पीताम्बरं चातिमूल्यं पीतांगरक्षकम् ॥५२॥
प्रावारं स्वर्णताराढ्यं चोत्तरीयं तथोत्तमम् ।
मस्तके स्वर्णमुकुटः सकल्गिः कुण्डले श्रुतौ ॥५३॥
तिलकं चन्द्रको भाले कज्जलं नेत्रयोर्भ्रुवि ।
चन्दनं गण्डयोर्बिन्दू चिबुके स्वल्पचन्द्रकः ॥५४॥
पुष्पप्रावरणं भाले वरमाला च कण्ठके ।
वक्षसि स्वर्णहाराश्च कंकणे करयोः शुभे ॥५५॥
ऊर्मिकाश्चांगुलिग्रामे भुजबन्धौ भुजद्वये ।
तुलसीपुष्पहाराश्च खङ्गो हस्ते सुवर्णजः ॥५६॥
नारिकेलफलं चापि करे कट्यां च मेखला ।
नुपूरे पादयोश्चापि पादुके कानकी शुभे ॥५७॥
कामफलं प्रकोष्ठे वै भोजने पायसं शुभम् ।
ताम्बूलकं जलपानं फलं द्राक्षा रसात्मिका ॥५८॥
पूगीफलं ततो दानं दक्षिणा वरमालिका ।
हवनानि शतं चाष्टौ घृतेन वह्निमण्डले ॥५९॥
आरार्त्रिकं पञ्चवर्ति प्रदक्षिणचतुष्टयम् ।
वरेण्यो वरदश्चासि वरो मे भव सद्वचाः ॥६० ॥
पुष्पांजलिस्तथाऽर्घ्यं च नमस्कारः क्षमार्थना ।
विसर्जनं पादवारिपानं च शेषभक्षणम् ॥६१॥
स्वप्नदृष्टस्य संध्यानं प्रतीक्षा च कदाऽऽगमः ।
कृष्णनारायणनाम्ना भजनं चातिहर्षणम् ॥६२॥
भोजनं बालिकाभ्यश्च दानं कन्याभ्य इत्यपि ।
ध्यानं नारायणे देहः क्षीरसागरके गृहे ॥६३॥
नेत्रे व्योम्नि परे मार्गे ह्यात्मा वैकुण्ठवासिनि ।
इत्येवं परिवाराढ्येऽधिमासे पूजिते हरौ ॥६४॥
नत्वा च जनकं कृत्वा पारणां पयसा मनाक् ।
यावत् तिष्ठामि भवने तावन्नारायणो ह्ययम् ॥६५॥
प्रादुर्भूतो ममाग्रेतिरूपानुरूपराजितः ।
प्रसन्नश्चातितेजस्वी चाऽस्पृशन्मां करेण वै ॥६६॥
स्वसमीपं समाकृष्य समागच्छेत्युवाच माम् ।
मलमासे ह्येककाले तृतीयायां त्वयाऽर्चितः ॥६७॥
निशि सवाहितश्चापि चतुर्थ्यां चातिपूजितः ।
प्रातरेव त्वया मान्ये! चार्जितोऽस्मि व्रतेन वै ॥६८॥
यथा भावनया सुभ्रु त्वया चाद्य प्रपूजितः ।
तथा प्राप्तोऽस्मि कल्याणि! सुभगेऽसि मम प्रिये! ॥६९॥
समागच्छ मया सार्धं जाताऽसि शाश्वती वधूः ।
तव व्रतेन ते दास्यः सर्वा अपि मम गृहम् ॥७०॥
समायान्तु मम दास्यो भाविन्यः सर्वथा रमे ।
इति कृत्वा गरुडं स्वं दर्शयामास सद्वरः ॥७१॥
यानानि वाहनान्यत्र यानि सन्ति सहस्रशः ।
मया मत्पितरं गत्वाऽऽवेदितं सर्वमेव तत् ॥७२॥
सोपि तत्र समागत्य दत्तवान् मां हरेः करे ।
पित्राज्ञया कृतकृत्या जाताऽरुरोह पक्षिणम् ॥७३॥
पित्रा प्रस्थापिता सैन्ययुता सत्कारपूर्वकम् ।
यौतकं संगृहीत्वैव समायाता हरेः पुरम् ॥७४॥
सोऽयं नारायणश्चात्र भवनेऽपि विलोकितः ।
मया सहापि स एव वर्तते पश्य भामिनि! ॥७५॥
अधिमासे निशि प्रातः पूजनेऽस्य फलेन वै ।
प्राप्ताऽहं सत्पतिं नारायणं चात्र समागता ॥७६॥
नीता तेनैव कृष्णेन प्रापितांऽकमनेन वै ।
कृता नववधूश्चापि पत्नी वैकुण्ठवासिनी ॥७७॥
रमाऽस्मि ते सखी दासी त्वत्कृपाकांक्षिणी सदा ।
इत्येवं चाऽधिमासस्य फलं प्राप्तं मयाऽनघे ॥७८॥
मया नारायणपूजा कृता तद्वत् करिष्यति ।
कन्यका युवती वापि प्राप्स्यत्येनं नरायणम् ॥७९॥
कृष्णनारायणं चाधिमासे संपूज्य सर्वथा ।
चतुर्थ्यां प्रातरेवापि मध्याह्ने वा निशीथके ॥८० ॥
पूजयिष्यन्ति यद्वृत्त्या पूरयिष्यत्ययं तथा ।
धनं पुत्रान् सुखं दारान् पतिं धान्यानि सद्गृहम् ॥८ १ ॥
यानं च वाहनं तेजो रूपमैश्वर्यमुत्तमम् ।
राज्यं सत्तां प्रियां भार्या दासान् दासीश्च वैभवान् ॥८२॥
भोग्यान् भोगोपसम्बद्धान् भोज्यान्पेयाननन्तकान् ।
पदार्थान् दिव्यतत्त्वस्थान् यथेष्टान् सुरतान् रतिम् ॥८३॥
स्वर्गान् सत्यपरान् लोकान् पारमेष्ठिस्थलान्यपि ।
वैराजाँश्चापि वैकुण्ठभूमिका धेनुभूमिकाः ॥८४॥
गोलोकं चाक्षरं चापि दिव्यं चाऽदिव्यमेव यत् ।
संकल्प्याऽधिकमासे वै नारायणस्य पूजकाः ॥८५॥
नरा नार्यो देवदेव्यश्चतुर्दशस्तरस्थिताः ।
प्राप्स्यन्ति स्वेप्सितं सर्वे पुरुषोत्तमवाञ्छया ॥८६॥
यथाऽहं स्वल्पयत्नेन संजाता शाश्वतीसमाः ।
सुसौभाग्यवती लक्ष्मि! तथाऽन्यापि भविष्यति ॥८७॥
विधवापि यदि स्त्री वै मद्वत् कृष्णस्य पूजनम् ।
करिष्यत्यधिमासे सा वैकुण्ठं प्राप्स्यति ध्रुवम् ॥८८॥
नारायणं पतिं लब्ध्वा स्यात् सौभाग्यवती सदा ।
वृद्धा वा रोगिणी यद्वा तिरस्कृता च बान्धवैः ॥८९॥
कर्मणा या परिभ्रष्टा पश्चात्तापेन संयुता ।
अनाथा चैकला चात्याश्रिता रण्डा च पुंश्चली ॥९ ०॥
स्वैरिणी कामिनी वापि येन केनापि संगता ।
ज्ञातिहीना व्रतहीना पशुसंसर्गकारिणी ॥९ १ ॥
जैह्व्ये रत्यां सदा लुब्धा मद्यमांसादिनी किमु ।
राजस्वल्यादिदोषस्था सांकर्यदोषसंस्थिता ॥९२॥
श्वपचाद्याश्रयापन्ना सुसंस्कारविवर्जिता ।
या कापि वा भवेन्नारी शुभसंस्कारयोगतः ॥९३॥
श्रुत्वा कथां व्रतं कृत्वाऽधिमासे तु यथाबलम् ।
हरिप्राप्तीच्छया चैकभुक्तं नक्तमयाचितम् ॥९४॥
फलाहारं पयःपानं कृत्वापि श्रीहरेर्बलात् ।
प्रमार्ज्य सर्वपापातिपापानि चातिपावनी ॥ ९५॥
पंक्तिसंपावनी भूत्वा वेश्या वा गणिकापि वा ।
नर्तकी वा प्रभण्डा वा कुट्टिनी वा प्रसाधिनी ॥ ९६॥
या वा का वा भवेल्लोके भूत्वा पवित्रविग्रहा ।
क्षेत्रं विष्णोः कृपायाश्च भूत्वा कांचनसदृशी ॥९७॥
दिव्या शुद्धा पापहीना पुण्यपुञ्जान्विता सती ।
कृष्णनारायणविष्णुकृपाभिरतिपाविता ॥ ९८॥
स्वसमानास्तथाऽन्याश्च पावयित्वा स्वसंगतः ।
सनातनं परं धाम विष्णोर्यत् तत्प्रयास्यति ॥ ९९ ॥
रमाऽहं संस्थिता नारायणांऽके लक्ष्मि! सर्वथा ।
कथयामि पुनः सत्यं सा प्राप्स्यति हरेः पदम् ॥ १०० ॥
षण्ढो वा षण्ढतुल्यो वा षंढा वा षण्ढसदृशी ।
अनार्तवी विचित्ता वा वानरीव व्रतच्युता ॥ १०१ ॥
या कापि वा भवेत् साऽपि मासे श्रीपुरुषोत्तमे ।
व्रतं कृत्वा वरं नारायणं समर्जयिष्यति ॥ १० २॥
निष्कामो वाऽथ निष्कामा मुक्ततां प्राप्य सर्वथा ।
हरेर्दिव्याक्षरं धाम प्राप्स्यत्येव न संशयः ॥ १०३ ॥
किम्वधिकं कथयामि मायाऽप्यमायिकी भवेत् ।
यद्योगात्तर्हि नारीणां का कथा मुक्तिसंगमे ॥ १ ०४॥
तस्माद्व्रतं प्रकर्तव्यं त्वधिमासस्य सर्वथा ।
भुक्तिर्मुक्तिस्तथा स्वर्गं सर्वं प्राप्येत यद्बलात् ॥ १ ०६॥
अहं चात्र स्थिता ज्येष्ठे! निभाल्याऽनुग्रहेण वा ।
इत्युक्त्वा प्रणनामैनां लक्ष्मीं वात्सल्यवर्धिनीम् ॥ १०६ ॥
नारायणोऽपि तामेनां भवनानि निनाय च ।
रमयामास सत्कामैः पूरयामास भावनाः ॥ १ ०७॥
एवं प्रिये! रमा जाता कथं नारायणप्रिया ।
क्षीरसागरपुत्रीयं सा तुभ्यं कथिता कथा ॥ १०८ ॥
अस्याः श्रवणमात्रेण पठनेन च पूजया ।
अधिमासव्रतजन्यं फलं विन्देत्तु मानवः ॥ १० ९॥
इतिश्रीलक्ष्मीनारायणीय संहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममास माहात्म्ये नारायणाधिमासयोर्वैकुण्ठवसतिर्ब्रह्माण्डेष्वधिकमासव्रतार्थे दुन्दुभिघोषणा, तां श्रुत्वा क्षीरसागरपुत्रीरमया तृतीयासायं चतुर्थीप्रातर्व्रतपूजादि-करणेन वैकुण्ठे नारायणपत्नीत्वप्राप्तिरित्यादि-निरूपणनामा षण्णवत्यधिकद्विशत-तमोऽध्यायः ॥ १.२९६ ॥