लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २९५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २९४ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २९५
[[लेखकः :|]]
अध्यायः २९६ →


श्रीनारायण उवाच-
शृणु लक्ष्मि! ययुः कृष्णो नारायणोऽधिमास्तथा ।
गोलोकादुपरि दिव्यव्योममार्गेण वै क्षणात् ॥ १ ॥
सच्चिदानन्दसन्दोहान्वितमक्षरधाम यत्।।
ब्रह्महृदे त्रयः स्नात्वा पुरुषोत्तमरूपिणः ॥ २ ॥
भूत्वाऽवलोकयन्तश्च मुक्तानां मण्डलानि ते।
द्विभुजान्द्व्यष्टवर्षीयान् रूपानुरूपविग्रहान् ॥ ३ ॥
कोटिनारायणतुल्यान् रूपतेजःसुसिद्धिभिः ।
गोलोकादपि सौन्दर्ये तेषु कोटिगुणं च वै ॥ ४ ॥
वर्तते तादृशान् दृष्ट्वा पुरुषोत्तमरूपिणः ।
त्रय आश्चर्यसम्पन्ना बभूवुः कृष्टमानसाः ॥ ५ ॥
उद्यानानि च सौधानि मुक्तानामवलोक्य ते ।
विमानान्युपकरणान्यालोक्य विस्मयं गताः ॥ ६ ॥
अक्षरं वस्तु चालोक्य विरागोऽभूत् स्वधामसु ।
अक्षरधामवस्तूनां तुलनायां स्वधामजम् ॥ ७ ॥
वस्तुमात्रं निरानन्दमिवाऽऽभातं तदा तु तैः ।
नीतं यद्वस्तु वैकुण्ठात् पुरुषोत्तमपूजने ॥ ८ ॥
गोलोकाद्वा च तत्सर्वं निरानन्दमभासत ।
निस्तेजस्कमिवैभिस्तद्दृष्टं स्वधामवस्तुकम् ॥ ९ ॥
ततस्ते भग्नमनसो ह्युपदाविषये खलु ।
सञ्जातास्तावता ब्रह्मसरस्तत्र व्यलोकयन् ॥ १० ॥
अनन्तयोजनायामं दिव्यवारिरसात्मकम् ।
यत्र स्नानेन वस्तु श्रीपुरुषोत्तमभोग्यताम् ॥ ११ ॥
लभते ते त्रयः स्नाता ब्रह्मसरसि वै मुदा ।
उपदाः प्रोक्षितास्तेन योग्यं वस्तु तदाऽभवत् ॥ १२ ॥
अथ दृष्टो विशालश्च लक्षयोजनविस्तृतः ।
प्रासादो रक्षकान् पृष्ट्वा द्वारमुक्ताँस्त्रयस्ततः ॥ १३ ॥
विविशुर्यत्र वै राजाधिराजः पुरुषोत्तमः ।
राजतेऽसंख्यदिव्यात्ममुक्तैः संसेवितः प्रभुः ॥ १ ४॥
कृष्णनारायणौ वीक्ष्य त्वागतौ पुरुषोत्तमः ।
अतीव जहृषे स्वामी नमन्तौ तौ पुनः पुनः ॥ १५ ॥
पप्रच्छ कुशलं स्वस्वधाम्नः स्वस्ति च शाश्वतम् ॥
भगवत्कृपया सर्वं स्वस्तिमत्कुशलं बहु ॥ १६ ॥
इत्युक्त्वाऽऽसनयोस्तौ संराजितौ नृनरायणौ ।
ततीयाऽधिकमासोऽपि कृत्वा वै पञ्चदण्डवत् ॥ १७॥
दासवत् तिष्ठते पार्श्वे तयोस्तावत्पुमुत्तमः ।
अक्षराधिपतिस्तौ च पप्रच्छ तं तदा प्रति ॥ १८ ॥
कोऽयं 'किमर्थमायातो युवाभ्यां धाम्नि मे त्विह ।
मन्ये शरण्यमाश्रित्य महालाभार्थमागतम् ॥ १९ ॥
एवं पृच्छति सर्वेशे कृष्णनारायणावुभौ ।
पूजयामासतुर्दिव्यैः पारिबर्हैरनन्तकैः ॥ २ ० ॥
ब्रह्मसरोजलैः पूर्वे सम्यक् पादावनेजनम् ।
पञ्चामृतैर्दिव्यरसैराप्लवनं तदुत्तरम् ॥ २१ ॥
जलैः रसात्मकैश्चाभिषेचयित्वाऽक्षराधिपम्।
चन्दनादिद्रवैः सम्यक्पूजयित्वा ततश्च तौ ॥२२॥
वस्त्राभूषण हारादि चार्पयामासतुर्मुदा ।
छत्र चामर रत्नादि पादुका यष्टिकादिकम् ॥२३॥
ऊर्मिकांगद मुकुट शृंखला कल्गिमण्डनम् ।
स्वर्णफुल्लरिका माला रशना कंकणादिकम् ॥२४॥
भक्ष्यभोज्य लेह्य चोष्य शर्करावृतमिश्रितम् ।
भोज्यान्नपेयसुस्वाद्य भोग्यचर्वणकादिकम् ॥२५॥
स्वर्णाम्बरासन पात्र दिव्यफलरसादिकम् ।
यद्यद् योग्यं समर्प्यं चाऽभूत्तदाऽर्पयतां तदा ॥२६॥
आरार्त्रिकं कृतवन्तौ स्तुत्वा निषेदतुः सुखम् ।
गृहीतातिथ्यसत्कारौ प्रोचतुश्चाधिमासिकम् ॥२७॥
अयं मासोऽधिकमासो मलमासोऽस्ति धिक्कृतः ।
सर्वमासैः ऋषिभिश्च निषिद्धः शुभकर्मसु ॥ २८॥
तदयं वै मया कृष्णेनाऽस्य सौभाग्यता कृतो ।
किन्तु विनाधिदेवं स गणनां तेषु नार्हति ॥२९॥
एतदीयं महद्दुःखमनिवार्य भवदृते ।
अत एनं निरातंकं सानन्दं कृपया कुरु ॥३०॥
अस्मदर्थं च कर्तव्यमस्य दुःखनिवारणम् ।
श्रुत्वैवं त्वक्षरातीतः प्राह श्रीपुरुषोत्तमः ॥३ १ ॥
समीचीनं कृतं कृष्ण यदत्रागतवान् भवान् ।
नारायणोऽपि चात्राद्यागतस्तदपि शोभनम् ॥३२॥
मलमासे करे कृत्वा लोके कीर्तिमवाप्स्यथः ।
भवद्भ्यां संधृतो हस्ते स मयैव करे धृतः ॥ ३३ ॥
अत एन करिष्यामि सर्वोपरि मया समम् ।
यथाऽहं स्वगुणैर्युक्तस्तथैनं विदधामि वै ॥ ३४॥
सामर्थ्यैश्चाऽर्च्यभावेन तथा वरपराक्रमैः ।
मम तुल्यं विदधामि न तोऽन्यत् किमपेक्ष्यते ॥३५॥
विनष्टसर्वपाप्मत्वं सत्यसंकल्पदायिता ।
कामनाफलदायित्वं मत्सारूप्यप्रदायिता ॥३६॥
स्वर्गादिप्रापयितृत्वं मोक्षस्थानप्रदायिता ।
एभिः सामर्थ्यकैर्युक्तो भवत्वधिकमासकः ॥३७॥
मम सर्वे गुणाश्चान्येऽधिमासाय समर्पिताः ।
पुरुषोत्तमसंज्ञा मे वस्तुष्ट्यै चार्पिता तथा ॥ ३८॥
अस्य स्वामी भवाम्येव ब्रह्मेशः पुरुषोत्तमः ।
मम नाम्ना जगत्सर्वं तन्नामाऽपि ग्रहीष्यति ॥३९॥
विधूय स्वानि पापानि पावनं च भविष्यति ।
मत्स्वरूपो ह्ययं भूत्वा जगत्पूज्यो भविष्यति ॥४० ॥
सर्ववन्द्यः सर्वमासोत्तमो मासो भविष्यति ।
एनमाश्रित्य वै लोका व्रतिनो जापकाऽर्चकाः ॥४ १ ॥
दातारः स्नानकर्तारो भोजयितार इत्यपि ।
किंचित्पुण्यस्य कर्तारश्चापि मे तु प्रभावतः ॥४२॥
दुःखदारिद्यतापाऽधिव्याधिपीडाविधूय च ।
सुखसम्पद्धनदाराऽपत्यारोग्यसमृद्धिभिः ॥४३॥
राजमानसुभवना भविष्यन्त्युत्सवान्विताः ।
शृंगाराभरणान्नार्थपात्रपरिच्छदादिभिः ॥४४॥
दासदासीजनमित्रसेवकाश्चितभूमिभिः ।
योगक्षेमबलाऽदैन्यैर्भविष्यन्ति महोत्सवाः ॥४५॥
भोज्यपानोपभोग्यैश्च सत्ताविद्याप्रथादिभिः ।
उद्यानयानवाहाद्यैर्भविष्यन्ति समन्विताः ॥४६॥
रसैर्वृक्षफलैःपुष्पैर्गोधनैः स्वर्णरूप्यकैः ।
मणिरत्नहीरकाद्यैर्भविष्यन्ति सदोज्ज्वलाः ॥४७॥
पुरुषोत्तममासस्य व्रतिनो मद्गता हि ते ।
मत्तः प्राप्स्यन्ति सर्व ते यथा चिन्तामणेर्जनः ॥४८॥
स्वर्गे वा वैधसं वापि वैराजं वैष्णवं च वा ।
रौद्रं भौमं च वा क्षैर स्थलं प्राप्स्यन्ति यन्मतम् ॥४९॥
पत्नीः पतीन् गृहं सौधान् सुपुत्रान् रूपवैभवान् ।
अक्षतानव्ययान् प्राप्स्यन्त्यधिमासस्य सेवनात् ॥५० ॥
सकामा वापि निष्कामाः प्राप्स्यन्तीष्टतमं ह्यतः ।
सकामश्चाथ निष्कामो यथाऽहं पुरुषोत्तमः ॥५ १ ॥
तथाऽयं वै जनेष्टस्य पूरको मोक्षदः कृतः ।
यथाऽहं परिपूर्णोऽस्मि तथाऽयं चाऽव्ययः कृतः ॥५२॥
एवं ये चेषणावन्तो यद्वेषणाविवर्जिताः ।
पूजयिष्यन्ति ते स्वेष्टं लब्ध्वा मोक्षमवाप्नुयुः ॥९३॥
एनं प्रपूज्य कर्माणि कर्मिणां यान्ति भस्मताम् ।
आत्मा दिव्यो महाशुद्धो मामेवैष्यति चाक्षरे ॥५४॥
मदर्थं वै महायत्ना यतयो ब्रह्मचारिणः ।
साधवश्च महात्मानो योगिनस्तापसास्तथा ॥९५॥
योगिन्यः सांख्ययोगिन्यः साध्व्यः सत्यस्तथाऽधवाः ।
विरागाश्च विरागिण्यो निर्वाणसत्कृतादराः ॥५६॥
निर्मोहिन्यस्तथा ब्रह्मवादिन्यो न्यासतत्पराः ।
प्रयतन्ते वत्सराणां सहस्रात्प्रासहस्रकम् ॥५७॥
तथापि नैव यान्त्येते मद्धाम परमात्परम् ।
पुरुषोत्तमभक्तास्तु यान्ति मद्धाम मासतः ॥५८॥
अन्ये तपस्विनः शान्ता निराहारा निराशयाः ।
पत्रपुष्पफलाहारा जलमात्रनिषेविणः ॥५९॥
वायुमात्र कृताहारा बाष्पभोजिन एव च ।
धूम्रपाना जलावासाः शीतातपसहास्तथा ॥६ ० ॥
शुष्कदेहा भग्नशिश्ननाडिका ब्रन्धरन्ध्रगाः ।
परकायप्रवेशार्हा व्रतदार्ढ्ययुता अपि ॥ ६१ ॥
मम भक्तिं विना नैव यान्ति मद्धाम ते खलु ।
पुरुषोत्तममासस्य व्रतिनो ये तु ते मम ॥ ६२॥
भक्ता मम व्रतिनस्ते मासमात्रेण मत्पदम् ।
मत्कृपया प्रयास्यन्ति शाश्वतं त्वमृतं पदम् ॥६३ ॥
कृष्ण! नारायण! तस्मान्मासोऽयं भवतोः कृते ।
कृतो मया तु मूर्धन्यः सर्वकामार्थसाधकः ॥६४॥
ये जनाः सेवयिष्यन्ति मासं श्रीपुरुषोत्तमम् ।
धर्मार्थकाममोक्षाणां सिद्धिमाप्स्यन्ति ते जनाः ॥ ६५ ॥
तस्मात् संसेव्यतां सर्वैर्मासोऽयं पुरुषोत्तमः ।
श्रेष्ठक्षेत्रनिभो मासोऽधिको बीजप्ररोहणे ॥६६ ॥
फलं कोटिगुणं पुण्यं ददाति पुरुषोत्तमः ।
स्वर्गे भुक्त्वा पुनर्यांति चातुर्मास्यप्रयाजिनः ॥ ६७॥
अक्षरं शाश्वतं यान्ति पुरुषोत्तमयाजिनः ।
सप्ताऽधिकसप्तशतकुलान्युद्धारयत्ययम् ॥ ६८ ॥
अन्यमासव्रतकर्ता पुनर्जन्मातिगो न वै ।
मम मासे व्रतकर्ता पुनर्जन्मगमो न हि ॥६९॥
अत्र मासे त्वहं साक्षान्निवसाम्यधिदैवतः ।
मन्नामाऽपि कृतं चास्य तस्मात्तदात्मको ह्यहम् ॥ ७० ॥
तदाश्रितानां सर्वेषां पूरयिष्यामि वाञ्छितान् ।
गणयिष्ये नाऽपराधान् भक्तां त्वस्य सर्वथा ॥ ७१ ॥
मे भक्त्यपेक्षया मदीयस्य भक्तिर्मम प्रिया ।
विलम्बो न मदीयमासभक्तानां मनोरथे ॥७२॥
मम भक्तं विहायैव तेषां पूर्णं करोम्यहम् ।
सर्वं ददामि तेभ्यो वै यतो मन्मासयाजिनः ॥७३ ॥
ममातिवल्लभास्ते वै न तथा मुक्तकोटयः ।
मम मासं समासाद्य जपदानादिवर्जिताः ॥७४॥
स्नानपूजाविहीनाश्च सत्कार्यपरिपन्थिनः ।
कूपवापीतडागादिपूर्तयज्ञविवर्जिताः ॥७५ ॥
देवतीर्थद्विजसाधुसाध्वीदेवालयद्विषः ।
निन्दकास्ते भविष्यन्ति काकवर्चस्कभक्षिणः ॥७६ ॥
कुष्ठिनः श्वशृगालास्ते भविष्यन्ति निराश्रयाः ।
दुर्भाग्यानां निन्दकानां सुखं न स्याद्दिवानिशम् ॥ ७७ ॥
मम मासे व्रतिनां ये दुःखं कुर्वन्ति चाऽधमाः ।
परताडनपाशास्ते भविष्यन्ति प्रगर्दभाः ॥७८ ॥
तिरस्कुर्वन्ति मे मासं ये च धर्मविदूषकाः ।
भक्तिमार्गेऽत्र विघ्नस्य कर्तारो येऽप्यसूयकाः ॥ ७९ ॥
वृक्षवागूरिकास्ते तु भविष्यन्ति मलादनाः ।
प्रतितृतीयवर्षे ये ह्यासाद्य पुरुषोत्तमम् ॥८ ० ॥
आत्मश्रेयो न कुर्वन्ति ते यास्यन्ति ममालयम् ।
दुःखदामानलव्याप्ताश्चात्र भूत्वा प्रदुःखिनः ॥८ १ ॥
श्रीदः सम्पत्करस्तस्मादतिमृत्युजयप्रदः ।
व्यर्थश्चायं न नेतव्यो मासो मे पुरुषोत्तमः ।।८ २ ॥
कन्यका वा युवत्यश्च सधवाश्चाऽधवास्तथा ।
सपत्न्यो योषितो वृद्धाः सुभगा दुर्भगा अपि ॥ ८३॥
असुखाः सुसुखाश्चापि स्वेष्टप्राप्त्यर्थमेव याः ।
मम मासे करिष्यन्ति व्रतं दानं मदर्चनम् ॥८४ ॥
स्नानं मालां देवसेवां पुण्यकार्याणि यान्यपि ।
तासां सर्वप्रदश्चाहं भगवान्पुरुषोत्तमः ॥८५ ॥
धर्मं कामं तथा द्रव्यं सुखं मोक्षं ददाम्यहम् ।
भोज्यं पाचनसामर्थ्यं रतेः शक्तिं वरं पतिम् ॥८ ६ ॥
पुत्रं पौत्रं दासदासीः तत्तदिष्टं ददाम्यहम् ।
भ्रातृपितृकुटुम्बस्य सुखदाता भवाम्यहम् ॥८७॥
याभिर्मासो योषित(?)श्च शून्यो मे पुरुषोत्तमः ।
तासां शून्य भवेत्सर्वं सद्भाग्यं शून्यतां व्रजेत् ॥ ८८ ॥
धनाढ्या ये गृहस्थाश्च विना दानादिकं मम ।
मासं शून्यं यापयन्ति तत्कोशः शून्यतां व्रजेत् ॥ ८९ ॥
ब्रह्मचारिवानप्रस्था यतयस्त्यागमार्गगाः ।
मासं शून्यं विना भक्तिं यापयन्ति च ते यदि ॥ ९० ॥
तपस्विनोऽपि ते सर्वे मुक्तिशून्या भवन्ति वै ।
शूद्राः स्त्रियस्तथा दासवर्गाः श्रीपुरुषोत्तमम् ॥ ९१ ॥
गुरोर्देवस्य च सेवां विना निर्गमयन्ति चेत् ।
तेऽपि सम्पद्विहीनाः स्युर्दुःखदारिद्र्यपीडिताः ॥ ९२ ॥
गुरुः सेव्यो हरिः सेव्यः सेव्याः पित्रादयो जनाः ।
गौः संसेव्या पतिः सेव्यः सती सेव्या यथा ह्यहम् ॥ ९३ ॥
तत्र तत्र स्थितश्चाहं फल दास्यामि सर्वथा ।
तस्मात् सर्वात्मना सर्वैः सेव्यः श्रीपुरुषोत्तमः ॥ ९४ ॥
आत्मश्रेयः प्रकर्तव्यं धर्मो भक्तिश्च मोक्षणम् ।
विधुरत्वं च वैधव्यं मलमासस्य नाऽऽवहेत् ॥ ९५ ॥
कृष्णनारायणमासाः शृण्वन्तु मद्वचो ध्रुवम् ।
ममाज्ञया तु ये लोका ब्रह्माण्डवर्तिनः खलु ॥ ९६ ।।
यत्र यत्राऽस्त्ययं मासस्तत्र तत्रापि मामकम् ।
अधिष्ठानस्वरूपं मां पूजयिष्यन्ति सर्वथा ॥ ९७॥
ते मद्भक्ता मम धामाऽक्षरं प्राप्स्यन्ति शाश्वतम् ।
गोलोकं चापि वैकुण्ठं चामृतं वापि चैश्वरम् ॥९८॥
यथेष्टं कृपया ते ते तत्तद्भक्तास्तथा तथा ।
यास्यन्ति परमं स्थानं मम मासप्रभावतः ॥९९॥
तृतीयायां मम मासे युवाभ्यां पूजितोऽस्म्यहम् ।
तथा ये पूजयिष्यन्ति तेषां पूर्णमनोरथाः ॥ १०० ॥
सर्वथैव भविष्यन्ति स्नानदानजपादिभिः ।
युवां चिन्तां कुरुतं मा लक्ष्मीश राधिकेश्वर ॥ १०१ ॥
यातं निजं निजं लोकं गृहीत्वा पुरुषोत्तमम् ।
इत्यादेशमधिप्राप्य ते प्रणम्य ययुस्त्रयः ॥ १ ०२॥
शृणु लक्ष्मि! तृतीयायां स्नास्यन्ति येऽधिके जलैः ।
तेषां ब्रह्महदे स्नानं तथा ब्रह्मसरोवरे ॥ १० ३॥
कृतं स्नानं तु यद्वद् वै तत्पुण्यं संभविष्यति ।
मम पूजा यथा ताभ्यां कृता तत्र यदर्पितम् ॥ १ २४॥
तथा पूजां मम मासे करिष्यन्ति च ये जनाः ।
दानान्यपि करिष्यन्ति तत्पुण्यं शाश्वतं भवेत् ॥ १ ०५॥
तृतीयायां मम पूजा कृता ताभ्यां यतो मम ।
तृतीयायां महापूजा कर्तव्या मानवैरपि ॥ १०६॥
नारायणस्य कृष्णस्याऽपि पुरुषोत्तमस्य च ।
कर्तव्या महती पूजा सुखमोक्षादिदायिनी ॥१ ०७॥
यथाऽहं ब्रह्मधाम्न्यस्मि तथा मासात्मकोऽपरः ।
ब्रह्माण्डे सर्वथा चास्मि तथाऽस्म्यन्तर्हृदि स्थितः ॥ १०८॥
कृष्णनारायणश्चास्मि राधालक्ष्म्यादिसेवितः ।
अहं सर्वं विजानामि नान्ये जानन्ति मां तथा ॥ १ ०९॥
पार्वत्या प्रभया साकं माणिक्या विहरामि च ।
नैकरूपोऽप्येक एवाऽस्मीति विद्धि मदंगने! ॥ ११ ०॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये श्रीकृष्णनारायणमलमासानामक्षर-धामगमने ब्रह्मह्रदब्रह्मसरोवरस्नानोत्तरं श्रीपुरुषोत्तमस्य-सन्निधिगमनं सुपूजनं स्वनिवेदनोत्तरमधिकमासस्य पुरुषोत्तमनामैश्वर्यस्वामिकत्वादिप्राप्तिस्तृतीया-तिथिकृत्पूजनदानादिफलनिरूपणं कृष्ण-नारायणमासानां पुनः स्वस्वधामाऽ- ऽगमनमित्यादिनिरूपणनामा-पञ्चनवत्यधिकद्विशततमोऽध्यायः ॥।
१.२९५॥।