लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २९६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २९५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २९६
[[लेखकः :|]]
अध्यायः २९७ →


 श्रीनारायण उवाच-
 शृणु लक्ष्मि! त्रयस्तेऽपि गत्वा गोलोकमित्यथ । विशश्रमुः क्षणं पश्चात्। कृष्णो द्वाभ्यां प्रपूजितः ।। १ ।।
 पुरुषोत्तममहिमा गोलोके बहुधाऽभवत् । कृष्णं नत्वा चाययतुरधोमास नरायणौ ।। २ ।।
 वैकुण्ठं चाथ तत्रापि मासो महत्त्वमाप्तवान् । पुरुषोत्तममासं च वासयामास वै हरिः ।। ३ ।।
 वासमासाद्य मासोऽपि रमते विष्णुना सह । मासानामधिपो भूत्वा गौरवेण व्यवस्थितः ।। ४ ।।
 अथात्र च महालक्ष्म्या गौरवेण प्रपूजितः । द्रुतं नारायणेनापि प्रतिब्रह्माण्डमेव ह ।। ५ ।।
 तृतीयायाश्चापराह्णे प्रेषयित्वा स्वपार्षदान् । समुद्धोषितमेवाऽयं मलमासो महोत्तमः ।। ६ ।।
 पुरुषोत्तमनामाऽसौ पुरुषोत्तमदैवतः । पुरुषोत्तमनाथेन स्वर्गदो मोक्षदः कृतः ।। ७ ।।
 स्वगुणाश्चार्पिता ह्यस्मै न न्यूनः पुरुषोत्तमात् । पूजने वन्दने जापे दाने स्नाने व्रतेऽपि च ।। ८ ।।
 पुरुषोत्तमतुल्योऽयं पुरुषोत्तमयोगदः । नरो नारी सुरो देवी येऽपि स्थावरजंगमाः ।। ९ ।।
 भावतोऽप्येककालेऽपि व्रतं चाथ प्रपूजनम् । अधिमासस्य सर्वांगं करिष्यन्ति मदिच्छया ।। १० ।।
 प्राप्स्यन्ति स्वेप्सितं सर्वं नारायणो ब्रवीम्यहम् । किमु तर्हिं त्रिकाले च व्रते वक्तव्यमस्य हि ।। ११ ।।
 मासव्रते तु नैवैव वक्तव्यं शिष्यते मम । तस्मात्पूज्यश्चैककालं द्विकालं समयत्रयम् ।। १२।।
 यथेष्टं प्राप्स्यति नारी नरोऽपीष्टमवाप्स्यति । क्षणं क्षणार्धं घटिकां सायं प्रातः प्रमध्यके ।। १३ ।।
 यथाशक्ति यथावस्तु पूज्योऽयं पुरुषोत्तमः । नारायणो ब्रवीम्यत्र पुरुषोत्तमसाक्षिकः ।। १४।।
 श्रीकृष्णसाक्षिकश्चापि पुरुषोत्तमसंज्ञके । मासेऽत्र मां क्षणमात्रं पूजयिष्यन्ति भावत ।। १५ ।।
 स्वर्गे सत्यं चैशलोकं प्राप्स्यन्ति स्वेष्टमित्यपि । प्राप्स्यन्ति मां सुखवार्धि परंब्रह्म परात्परम् ।। १६ ।।
 नारायणेच्छया येऽत्र पूजयिष्यन्ति भावतः । वैकुण्ठस्थं च ते मां वै प्राप्स्यन्त्येव नरायणम् ।। १७।।
 श्रीमत्कृष्णेच्छया येऽत्र पूजयिष्यन्ति भावतः । गोलोकस्थं च ते मां वै प्राप्स्यन्त्येव हि माधवम् ।। १ ८।।
 पुरुषोत्तमकामेन पूजयिष्यन्ति ये जनाः । ब्रह्मधामगतं प्राप्स्यन्त्येव मां पुरुषोत्तमम् ।। १९।।
 यद्यद्रूपं च मां येऽत्र पूजयिष्यन्ति देहिनः । तत्तद्रूपं तत्र तत्र प्राप्स्यन्ति ते तु मां तथा ।।२०।।
 इति प्रश्रावितं लक्ष्मि! ब्रह्माण्डेषु पुनः पुनः । महादुन्दुभिभिर्दूतैः पार्षदैर्दिव्यविग्रहैः ।।२१ ।।
 मलमासस्तृतीयायां निश्येव बहुकोटिभिः । सत्कृतः पूजितः सम्यग्भोजितः श्रममाप वै ।।२२।।
 चतुर्थ्यां तु प्रगे सप्तद्वयलोकनिवासिभिः । स्नानव्रतार्चनदानाद्यैरतीव प्रतोषितः ।।२३।।
 बहवः स्थावराश्चापि चेतना व्रतकारिणः । समाजग्मुर्हरेर्धाम लक्षशः कोटिशस्तथा ।।२४।।
 चतुर्थ्यास्तु प्रगे कोटिदासीयुक्ता विमानगा । रमादेवी समायाता वैकुण्ठं क्षैरसागरात् ।।२५।।
 वधूटीरूपतां प्राप्ता वरमालासमन्विता । लक्ष्मीसमा तु सर्वांगे न वै न्यूना मनागपि ।।२६।।
 नारायणाऽऽज्ञया सा तु लक्ष्म्यादिभिः सुसत्कृता । सभाजिता ततो नारायणेनांऽके निषादिता ।।२७।।
 लक्ष्म्यादयस्तदाश्चर्ये सम्प्रापुस्तद्विलोक्य वै । कथं पत्नीस्वरूपेयं स्वामीनांऽगीकृता द्रुतम् ।।२८।।
 अथ लक्ष्म्या रमा पृष्टा तदितिवृत्तवित्तये । कथं कस्मात् समायाता कथं नारायणः पतिः ।।२९।।
 कस्य पुत्री कथं प्राप्ता किं कृत्वैनं नरायणम् । वद सुभ्रु स्वसः सर्वं परिवेद्यं सुखोत्तरम् ।।३०।।
 लक्ष्म्या नारायणेनापि भोजिता सत्कृता हि सा । समारेभे प्रवक्तुं च स्वकं वृत्तं यथातथम् ।। ३१ ।।
 वरमालां हरेः कण्ठे प्रसमर्प्याऽग्रतः स्थिता । नारायणांऽगुष्ठवारि पीत्वा कृत्वा प्रदक्षिणम् ।।३६।।
 कुंकुमतण्डुलैः कृत्वा भाले शोभनचन्द्रकम् । वरमालाऽर्धकं स्वस्याः कण्ठे कृत्वाऽथ पायसम् ।।३३।।
 भोजयित्वा हरिं दत्वा ताम्बूलं तत्प्रसादकम् । गृहीत्वा च स्वयं नारायणांके कुसुमांजलिम् ।।३४।।
 साक्षतां च सलाजां च प्रसमर्प्याऽऽसने स्थिता । पत्नी भूत्वा जगादेदं शृणु लक्ष्मि! रमोदितम् ।।३५।।
 शृण्वत्सु सर्वभक्तेषु भक्तासु प्राह यद् रमा । मम पूज्ये महालक्ष्मि! तृतीयारात्रिसंचरे ।।३६।।
 दुन्दुभिः सुश्रुतः सर्वैर्नारायणस्य नामतः । अधिमासे पूजकस्य पूरयिष्ये मनोरथान् ।।३७।।
 मयाऽपि कन्यया क्षीरोदधेर्गृहे स संश्रुतः । वाञ्छितश्च पतिर्नारायणो लक्ष्मीपतिः प्रभुः ।।३८।।
 मलमासे तृतीयायां सायं वै भोजनं विना । विना जलं व्रतं कृत्वा स्नात्वा चाऽपूजयं हरिम् ।।।३६।।
 पृष्ट्वा मे जनकं क्षीरसागरं च तदाज्ञया । मण्डपं कदलीस्तम्भैः शोभितं पत्रतोरणैः ।।४० ।।
 कारयित्वा च तन्मध्ये दोलां रम्यां सुशोभनाम् । लक्ष्मीनारायणमूर्तिं सौवर्णीं रत्नराजिताम् ।।४१।।
 संस्नाप्य सर्वसामुद्रैः रत्नैः प्रपूज्य भावतः । दिव्यवस्त्रैर्विभूषाभिश्चालंकृत्य द्रवादिभिः ।।।४२।।
 सम्पूज्य धूपदीपैश्च भोजनैर्जलपानकैः । आरार्त्रिकस्तुतिप्रदक्षिणाभिरभिवन्द्य च ।।४३।।
 पुष्पांजलिं प्रदायैव संकल्प्य मनसा पुनः । पतिर्मे भव विश्वात्मन् रमायास्त्वं नरायण! ।।४४।।
 इति संस्तूय चरणामृतं पीत्वा सुकोमले । पर्यंके श्रीहरिः प्रेम्णा मया प्रस्वापितः सह ।।४५।।
 ध्यातो मया स निद्रायां सेवयामि हरिं ततः । पादसंवाहनं तस्य करोमीति निभालितः ।।४६।।
 क्षणं स्वप्ने हरिर्दृष्टो मया स्वे शयने सह । हसन्मां स्वकटाक्षेणाऽऽकर्षयन्निव भावतः ।।४७।।
 वदन् श्रुतो व्रतेन त्वां स्वीकरोमि प्रियां रमे! । प्रातर्नेतुं मम लोकं त्वागमिष्ये पुनः प्रिये ।।४८।।
 इति द्रागेव संश्राव्य स्वयमदृश्यतां गतः । सोऽयं नारायणः स्वामी लक्ष्मीपतिर्विराजते ।।४९।।
 मया नारायणे याते मुहूर्ते ब्राह्मसंज्ञके । चतुर्थ्यामधिमासस्य ध्यात्वैनं पुरुषोत्तमम् ।।५०।।
 स्नात्वा शय्यागतं देवं स्नापयित्वाऽतिभावतः । क्षीरादिभिस्तथा वार्भिश्चन्दनादि प्रमर्द्य च ।।५१।।
 श्रांगारिकाण्यर्पयित्वा विवाहवरवत् कृतः । दत्तं पीताम्बरं चातिमूल्यं पीतांगरक्षकम् ।।५२।।
 प्रावारं स्वर्णताराढ्यं चोत्तरीयं तथोत्तमम् । मस्तके स्वर्णमुकुटः सकल्गिः कुण्डले श्रुतौ ।।५३।।
 तिलकं चन्द्रको भाले कज्जलं नेत्रयोर्भ्रुवि । चन्दनं गण्डयोर्बिन्दू चिबुके स्वल्पचन्द्रकः ।।५४।।
 पुष्पप्रावरणं भाले वरमाला च कण्ठके । वक्षसि स्वर्णहाराश्च कंकणे करयोः शुभे ।।५५।।
 ऊर्मिकाश्चांगुलिग्रामे भुजबन्धौ भुजद्वये । तुलसीपुष्पहाराश्च खङ्गो हस्ते सुवर्णजः ।।५६।।
 नारिकेलफलं चापि करे कट्यां च मेखला । नुपूरे पादयोश्चापि पादुके कानकी शुभे ।।५७।।
 कामफलं प्रकोष्ठे वै भोजने पायसं शुभम् । ताम्बूलकं जलपानं फलं द्राक्षा रसात्मिका ।।५८।।
 पूगीफलं ततो दानं दक्षिणा वरमालिका । हवनानि शतं चाष्टौ घृतेन वह्निमण्डले ।।५९।।
 आरार्त्रिकं पञ्चवर्ति प्रदक्षिणचतुष्टयम् । वरेण्यो वरदश्चासि वरो मे भव सद्वचाः ।।६० ।।
 पुष्पांजलिस्तथाऽर्घ्यं च नमस्कारः क्षमार्थना । विसर्जनं पादवारिपानं च शेषभक्षणम् ।।६१।।
 स्वप्नदृष्टस्य संध्यानं प्रतीक्षा च कदाऽऽगमः । कृष्णनारायणनाम्ना भजनं चातिहर्षणम् ।।।६२।।
 भोजनं बालिकाभ्यश्च दानं कन्याभ्य इत्यपि । ध्यानं नारायणे देहः क्षीरसागरके गृहे ।।६३।।
 नेत्रे व्योम्नि परे मार्गे ह्यात्मा वैकुण्ठवासिनि । इत्येवं परिवाराढ्येऽधिमासे पूजिते हरौ ।।६४।।
 नत्वा च जनकं कृत्वा पारणां पयसा मनाक् । यावत् तिष्ठामि भवने तावन्नारायणो ह्ययम् ।।६५।।
 प्रादुर्भूतो ममाग्रेतिरूपानुरूपराजितः । प्रसन्नश्चातितेजस्वी चाऽस्पृशन्मां करेण वै ।।६६।।
 स्वसमीपं समाकृष्य समागच्छेत्युवाच माम् । मलमासे ह्येककाले तृतीयायां त्वयाऽर्चितः ।।६७।।
 निशि सवाहितश्चापि चतुर्थ्यां चातिपूजितः । प्रातरेव त्वया मान्ये! चार्जितोऽस्मि व्रतेन वै ।।६८।।
 यथा भावनया सुभ्रु त्वया चाद्य प्रपूजितः । तथा प्राप्तोऽस्मि कल्याणि! सुभगेऽसि मम प्रिये! ।।६९।।
 समागच्छ मया सार्धं जाताऽसि शाश्वती वधूः । तव व्रतेन ते दास्यः सर्वा अपि मम गृहम् ।।७०।।
 समायान्तु मम दास्यो भाविन्यः सर्वथा रमे । इति कृत्वा गरुडं स्वं दर्शयामास सद्वरः ।।७१।।
 यानानि वाहनान्यत्र यानि सन्ति सहस्रशः । मया मत्पितरं गत्वाऽऽवेदितं सर्वमेव तत् ।।७२।।
 सोपि तत्र समागत्य दत्तवान् मां हरेः करे । पित्राज्ञया कृतकृत्या जाताऽरुरोह पक्षिणम् ।।७३।।
 पित्रा प्रस्थापिता सैन्ययुता सत्कारपूर्वकम् । यौतकं संगृहीत्वैव समायाता हरेः पुरम् ।।७४।।
 सोऽयं नारायणश्चात्र भवनेऽपि विलोकितः । मया सहापि स एव वर्तते पश्य भामिनि! ।।७५।।।
 अधिमासे निशि प्रातः पूजनेऽस्य फलेन वै । प्राप्ताऽहं सत्पतिं नारायणं चात्र समागता ।।७६।।
 नीता तेनैव कृष्णेन प्रापितांऽकमनेन वै । कृता नववधूश्चापि पत्नी वैकुण्ठवासिनी ।।७७।।
 रमाऽस्मि ते सखी दासी त्वत्कृपाकांक्षिणी सदा । इत्येवं चाऽधिमासस्य फलं प्राप्तं मयाऽनघे ।।७८।।
 मया नारायणपूजा कृता तद्वत् करिष्यति । कन्यका युवती वापि प्राप्स्यत्येनं नरायणम् ।।७९।।
 कृष्णनारायणं चाधिमासे संपूज्य सर्वथा । चतुर्थ्यां प्रातरेवापि मध्याह्ने वा निशीथके ।।८० ।।
 पूजयिष्यन्ति यद्वृत्त्या पूरयिष्यत्ययं तथा । धनं पुत्रान् सुखं दारान् पतिं धान्यानि सद्गृहम् ।।८ १ ।।
 यानं च वाहनं तेजो रूपमैश्वर्यमुत्तमम् । राज्यं सत्तां प्रियां भार्या दासान् दासीश्च वैभवान् ।।।८२।।।
 भोग्यान् भोगोपसम्बद्धान् भोज्यान्पेयाननन्तकान् । पदार्थान् दिव्यतत्त्वस्थान् यथेष्टान् सुरतान् रतिम् ।।८३।।
 स्वर्गान् सत्यपरान् लोकान् पारमेष्ठिस्थलान्यपि । वैराजाँश्चापि वैकुण्ठभूमिका धेनुभूमिकाः ।।८४।।
 गोलोकं चाक्षरं चापि दिव्यं चाऽदिव्यमेव यत् । संकल्प्याऽधिकमासे वै नारायणस्य पूजकाः ।।८५।।
 नरा नार्यो देवदेव्यश्चतुर्दशस्तरस्थिताः । प्राप्स्यन्ति स्वेप्सितं सर्वे पुरुषोत्तमवाञ्छया ।।८६।।
 यथाऽहं स्वल्पयत्नेन संजाता शाश्वतीसमाः । सुसौभाग्यवती लक्ष्मि! तथाऽन्यापि भविष्यति ।।८७।।
 विधवापि यदि स्त्री वै मद्वत् कृष्णस्य पूजनम् । करिष्यत्यधिमासे सा वैकुण्ठं प्राप्स्यति ध्रुवम् ।।८८।।
 नारायणं पतिं लब्ध्वा स्यात् सौभाग्यवती सदा । वृद्धा वा रोगिणी यद्वा तिरस्कृता च बान्धवैः ।।८९।।
 कर्मणा या परिभ्रष्टा पश्चात्तापेन संयुता । अनाथा चैकला चात्याश्रिता रण्डा च पुंश्चली ।।९ ०।।
 स्वैरिणी कामिनी वापि येन केनापि संगता । ज्ञातिहीना व्रतहीना पशुसंसर्गकारिणी ।।९ १ ।।
 जैह्व्ये रत्यां सदा लुब्धा मद्यमांसादिनी किमु । राजस्वल्यादिदोषस्था सांकर्यदोषसंस्थिता ।।।९२।।
 श्वपचाद्याश्रयापन्ना सुसंस्कारविवर्जिता । या कापि वा भवेन्नारी शुभसंस्कारयोगतः ।।९३।।
 श्रुत्वा कथां व्रतं कृत्वाऽधिमासे तु यथाबलम् । हरिप्राप्तीच्छया चैकभुक्तं नक्तमयाचितम् ।।९४।।
 फलाहारं पयःपानं कृत्वापि श्रीहरेर्बलात् । प्रमार्ज्य सर्वपापातिपापानि चातिपावनी ।। ९५।।
 पंक्तिसंपावनी भूत्वा वेश्या वा गणिकापि वा । नर्तकी वा प्रभण्डा वा कुट्टिनी वा प्रसाधिनी ।। ९६।।
 या वा का वा भवेल्लोके भूत्वा पवित्रविग्रहा । क्षेत्रं विष्णोः कृपायाश्च भूत्वा कांचनसदृशी ।।९७।।
 दिव्या शुद्धा पापहीना पुण्यपुञ्जान्विता सती । कृष्णनारायणविष्णुकृपाभिरतिपाविता ।। ९८।।
 स्वसमानास्तथाऽन्याश्च पावयित्वा स्वसंगतः । सनातनं परं धाम विष्णोर्यत् तत्प्रयास्यति ।। ९९ ।।
 रमाऽहं संस्थिता नारायणांऽके लक्ष्मि! सर्वथा । कथयामि पुनः सत्यं सा प्राप्स्यति हरेः पदम् ।। १०० ।।
 षण्ढो वा षण्ढतुल्यो वा षंढा वा षण्ढसदृशी । अनार्तवी विचित्ता वा वानरीव व्रतच्युता ।। १०१ ।।
 या कापि वा भवेत् साऽपि मासे श्रीपुरुषोत्तमे । व्रतं कृत्वा वरं नारायणं समर्जयिष्यति ।। १० २।।
 निष्कामो वाऽथ निष्कामा मुक्ततां प्राप्य सर्वथा । हरेर्दिव्याक्षरं धाम प्राप्स्यत्येव न संशयः ।। १०३ ।।
 किम्वधिकं कथयामि मायाऽप्यमायिकी भवेत् । यद्योगात्तर्हि नारीणां का कथा मुक्तिसंगमे ।। १ ०४।।
 तस्माद्व्रतं प्रकर्तव्यं त्वधिमासस्य सर्वथा । भुक्तिर्मुक्तिस्तथा स्वर्गं सर्वं प्राप्येत यद्बलात् ।। १ ०६।।
 अहं चात्र स्थिता ज्येष्ठे! निभाल्याऽनुग्रहेण वा । इत्युक्त्वा प्रणनामैनां लक्ष्मीं वात्सल्यवर्धिनीम् ।। १०६ ।।
 नारायणोऽपि तामेनां भवनानि निनाय च । रमयामास सत्कामैः पूरयामास भावनाः ।। १ ०७।।
 एवं प्रिये! रमा जाता कथं नारायणप्रिया । क्षीरसागरपुत्रीयं सा तुभ्यं कथिता कथा ।। १०८ ।।
 अस्याः श्रवणमात्रेण पठनेन च पूजया । अधिमासव्रतजन्यं फलं विन्देत्तु मानवः ।। १० ९।।
इतिश्रीलक्ष्मीनारायणीय संहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममास माहात्म्ये नारायणाधिमासयोर्वैकुण्ठवसतिर्ब्रह्माण्डेष्वधिकमासव्रतार्थे दुन्दुभिघोषणा, तां श्रुत्वा क्षीरसागरपुत्रीरमया तृतीयासायं चतुर्थीप्रातर्व्रतपूजादि-करणेन वैकुण्ठे नारायणपत्नीत्वप्राप्तिरित्यादि-निरूपणनामा षण्णवत्यधिकद्विशत-तमोऽध्यायः ।। १.२९६ ।।