लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १७०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १६९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १७०
[[लेखकः :|]]
अध्यायः १७१ →


श्रीलक्ष्मीरुवाच-
ननु विभावरी केयं या सती दक्षपुत्रिका ।
जाता ब्रह्मात्मिका देवी संशयं छिन्धि मे हरे ।। १ ।।

श्रीनारायण उवाच-
शृणु लक्ष्मि सती विभावरी रात्रिर्यथाऽभवत् ।
गोलोके धाम्नि भगवान् श्रीमान् कृष्णो विराजते ।। २ ।।
परब्रह्मस्वरूपः स गोलोकाधिपतिः प्रभुः ।
महामाया च या मूला प्रकृतिर्ब्रह्मवामगा ।। ३ ।।
कृष्णवामे स्थिता क्वापि लीनरूपा विराजते ।
नैकाकी रमते कृष्णः स तदैच्छद् द्वितीयकम् ।। ४ ।।
तदा कृष्णस्य वामांगादाविरास सुकन्यका ।
धावित्वाऽऽनीय कुसुमं राजचम्पकवृक्षजम् ।। ५ ।।
कृष्णस्य चरणे न्यस्य स्वयं रासे दधार च ।
तेन राधा तदा प्रोक्ता कार्यसिद्धिकरी तु सा ।। ६ ।।
कान्तं कृष्णं सह नीत्वा वृक्षकुंजे विवेश सा ।
रत्यानन्दं ददात्यस्मै सोऽपि रतिप्रमूर्छनाम् ।। ७ ।।
अवाप चापि च निद्रां सुप्रवृत्ते महासुखे ।
राधा प्राह तदा कृष्णं किं न कृष्णः प्रचेष्टसे ।। ८ ।।
कृष्णः प्राह प्रिये निद्रा समायाता क्षणं श्रमात् ।
राधा क्रुद्धा तदा निद्रोपरि निद्रापि बालिका ।। ९ ।।
भूत्वा पार्श्वे स्थिता नम्रा कृष्णनेत्रे विहाय वै ।
दृष्ट्वा प्राह तदा राधा रे निद्रे रतिखण्डिके ।। 1.170.१० ।।
माऽस्तु गोलोकवासस्ते गच्छ वैराजपूरुषे ।
सर्वानन्दनाशयित्री तामसी रुद्रसंगता ।। ११ ।।
भव तामसभावा त्वं देवी संहारिणी सदा ।
अभावप्रत्ययाधारा वृत्तिर्निद्रा विनाशिनी ।। १२।।
घोरा ह्यासुरनाशाय पर्याप्ता भव सर्वदा ।
दैत्यसैन्येषु नित्यं त्वं सन्नद्धा भव तामसी ।। १३।।
सृष्टौ सर्वत्र जीवानामिन्द्रियेषु विरामिका ।
भव स्थितिं कृतवती रुद्राणी रुद्रसंगता ।। १४।।
रानार्थस्य हि भानस्य अन्त्री रात्रिर्भविष्यसि ।
भानं च विगतं यस्माद्विभावरी भविष्यसि ।। १५।।
वैराजपुत्रीं त्वां ब्रह्म स्वयं सृष्टौ ग्रहीष्यति ।
स च विभावरीं देवीं दक्षाय पुत्रिकात्मिकाम् ।। १६।।
दास्यति प्रवरां कन्यां दक्षः सतीं तु शंभवे ।
सा काली चण्डिका देवी ह्यसुरान् नाशयिष्यति ।। १७।।
सा त्वं काली तथा रात्रिर्विभावरी च निद्रिका ।
रुद्रसहचरी भूत्वा विहरिष्यसि तामसी ।। १८।।
इत्यादेशाद्धरेः कामाद्भाविकार्यवशात्तथा ।
विभावरी सती रात्रिर्दक्षकन्या बभूव सा ।। १ ९।।
श्रीलक्ष्मीरुवाच-
ननु शंभुर्यदोत्पन्नो वैराजात्पुरुषात्तदा ।
सहैव शांभवी शक्तिः प्रोत्पन्ना श्रूयते तु या ।।1.170.२० ।।
तस्याः शिवाया अस्याश्च रात्र्या भेदोऽस्ति वा न वा ।
शिवा तु सर्वदा पत्नी रात्रिर्जायाऽपराऽस्ति किम् ।। २१।।
श्रीनारायण उवाच-
योग्यं पृष्टं त्वया देवि गहनं मम चेष्टितम् ।
नान्यैस्तु ज्ञायते चैतत्कदा किंकिमभूदिति ।। २२।।
शृणु पूर्वं यथावृत्तं ज्ञातव्यं भवतीति यत् ।
कथयामि कथाशेषं शिवस्याऽनादिभावनम् ।।२३।।।
नारायणः सर्वपतिः सर्वकारणकारणम् ।
अक्षरे च परे धाम्नि राजते मुक्तसेवितः ।।२४।।
यथेच्छति यदा सृष्टिं तदा तां सृज्जति ध्रुवम् ।
तदा तेन कृतं कीदृक् प्रसंगात्कथयामि ते ।।२५।।
परब्रह्मण एवांगाद् राधा यदोपजायत ।
तदर्थं धाम गोलोकं कृष्णं रूपं चकार च ।।२६।।
सा च कृष्णस्य पत्न्यासीत्प्राणेभ्योऽपि गरीयसी ।
देवी षोडशवर्षीया प्रोद्भिन्ननवयौवना ।।२७।।
वह्निशुद्धांशुकाधाना कोमलांगी समुज्ज्वला ।
पुष्टनितम्बभारार्ता सुन्दरी सुमनोहरा ।।२८।।।
रक्तमृदुसुन्दरौष्ठा पीनश्रोणिपयोधरा ।
मुक्तापंक्तिसमचंचद्दन्तपक्तिमनोहरा ।।२९।।
कोटिपार्वणचन्द्रातिरिक्ततेजोभरानना ।
पद्मपत्रायतनेत्रा केशवेशादिमण्डिता ।।1.170.३०।।
तिलपुष्पशुकचञ्चुसमनासाऽतिसुन्दरा ।
स्वर्णवर्णसमगण्डयुग्मकान्तिबहूज्ज्वला ।।३ १ ।।
धृतस्वर्णमणिरत्नभूषाकर्णसुशोभना ।
चन्दनाऽगुरुकस्तूरीसिन्दूरकुंकुमादिभिः ।।३२।।
कपालयोः कृतपत्रा पुष्पग्रथितधम्मिला ।
कृतसृतिससिन्दूररेखाकबरीमस्तका ।।३३।।
स्थलपद्मदलकान्तिलसच्चरणसचला ।
हंसहस्तिगतिद्योतद्वक्षःपिण्डोभमन्थरा ।।३४।।
रत्नहारान्मणिहारान् वनमालां मनोहराम् ।
हारान् हीरकनिर्माणान् रत्नकेयूरकंकणम् ।।३५।।
सद्रत्नसारनिर्माणवलयान् रत्नवंगदाः ।
स्वर्णकिंकिणिकागुंजद्रशनां दधती सती ।।३६।।
अमूल्यरत्ननिर्माणक्वणन्मंजीररंजिता ।
नानाप्रकाररत्नाढ्यपद्मकं परिबिभ्रती ।।३७।।
अलक्तस्पृशकरपत्तलनखौष्ठमंजुला ।
उवास सस्मिता भर्तुः रत्नसिंहासनाऽर्धके ।।।३८।।
अथाऽस्या लोमकूपेभ्यः सद्यो गोपांगनागणः ।
वेशरूपाकृतिभिस्तत्समः सुस्थिरयौवनः ।। ३९।।
लक्षकोटिप्रमातश्च गोलोके गोपिकागणः ।
प्राविर्बभूव वै शश्वत्कृष्णदासीसमाह्वयः ।।1.170.४० ।।
कृष्णस्य लोमकूपेभ्यः सद्यो गोपगणोऽप्यथ ।
आविर्बभूव वै शश्वद्रूपवेशादिभिः समः ।।४१।।
त्रिंशत्कोटिप्रमातश्च कृष्णदासगणः स हि ।
कृष्णस्य लोमकूपेभ्यः सद्यश्चाविर्बभूव च ।।४२।।
बहुवर्णो गोगणश्च शश्वत्सुस्थिरयौवनः ।
सुरभ्यश्च बलीवर्दा वत्सतर्यश्च वत्सकाः ।।।४३।।
शोभना मंगलकरा ह्यासन् प्रादुस्तदा शुभाः ।
तेषामेकं बलीवर्दं कोटिसिंहसमं बले ।।४४।।
शंभुवाहनलाभार्थं कृष्णोऽरक्षन्मनोहरम् ।
कृष्णांघ्रिनखरन्ध्रेभ्यो हंसपक्तिः सुपाण्डुरा ।।४५।।।
आविर्बभूव शश्वत्स्त्रीपुंलक्ष्मातिसुन्दरा ।
तेषामेकं राजहंसं वेधोवाहनलब्धये ।।४६।।
कृष्णोऽरक्षत्सुधवलं महाबलपराक्रमम् ।
कृष्णस्य वामकर्णस्य विवरात्सुमनोहरः ।।४७।।
गणः श्वेततुरंगाणामाविर्बभूव नित्यकः ।
तेषां श्वेततमं त्वेकं धर्मवाहनलब्धये ।।४८।।
कृष्णोऽरक्षद्ददौ चान्यान्सुरेभ्यो भगवान् स्वयम् ।
कृष्णस्य दक्षकर्णस्य विवराच्छोभनाकृतिः ।।४९।।
प्राविर्भूता सिहपंक्तिर्महाबलपराक्रमा ।
तेषामेकं ददौ कृष्णो विभावर्यै महाबलम् ।।1.170.५० ।।
भोग्यं यद्यत् तदाऽपेक्ष्य कृतं कृष्णेन योगिना ।
तथा सर्वगतं दिव्यं चकार रथपंचकम् ।।५१ ।।
विविधरत्नखचितं मनोयायि महत्तरम् ।
लक्षयोजनायतं च शतयोजनमूर्ध्वगम् ।।५२।।
लक्षचक्रं वायुरंहो लक्षक्रीडागृहान्वितम् ।
भोग्यशृंगारतल्पादिविहारोद्यानराजितम् ।।५३।।
रत्नप्रदीपलक्षाणां प्रकाशाश्च गृहे गृहे ।
दिव्यतोरणकलशध्वजचित्रादिबृंहितम् ।।५४।।
रत्नदर्पणचामरछत्रमुक्तागवाक्षकम् ।
मणीन्द्रमुक्तामाणिक्यहीरहारसुशोभितम् ।।५५।।
नीलरक्तपिशंगपाण्डुरपंकजशोभनम् ।
एकस्तेषु प्रदत्तो वैकुण्ठवासिस्वरूपिणे ।।५६।।
अपरोऽव्याकृतवासिभूम्नेऽर्पितः स्वरूपिणे ।
तृतीयस्तु महाविष्णुस्वरूपाय स्वरूपिणे ।।५७।।
चतुर्थो राधिकायै च पंचमः स्वाय रक्षितः ।
आविर्बभूवुः कृष्णस्य गुह्यदेशात्तु गुह्यकाः ।।५८।।
कुबेरो गुह्यकेशश्च सुन्दरी गुह्यकी तथा ।
अथ कृष्णस्य मुखतो ह्याविर्भूताश्च पार्षदाः ।।५९।।
पीतवस्त्रा वनमालाधराः श्यामाश्चतुर्भुजाः ।
शंखचक्रगदापद्मकिरीटरत्नकुण्डलाः ।।1.170.६० ।।
नारायणाय वैकुण्ठे ददौ चतुर्भुजान् बहून् ।
द्विभुजाः श्यामला कृष्णसदृशाः पार्षदाः कृताः ।।६ १ ।।
वैष्णवा दास्यदासाश्च कृताः कृष्णपरायणाः ।
रक्षिताः स्वीयसेवायां ध्यायन्तश्चरणाम्बुजम् ।।६२।।
आविर्बभूव कृष्णस्य वामनेत्रात् त्रिशूलधृक् ।
श्वेतवर्णस्तामसश्च त्रिनेत्रो भालचन्द्रकः ।।६३।।।
व्याघ्रचर्मधरो हस्ते डमरुं धारयन् जटी ।
स ईशानो महाभागो दिक्पालानामधीश्वरः ।।६४।।
तथा त्रिशूलपट्टीशधराश्च चन्द्रशेखराः ।
त्रिनेत्राश्च महाकाया गणाश्चान्ये बभूविरे ।।६५।।
सुरास्त्रिकोटिसंख्याताः कृष्णमूर्तेः प्रतिस्थलात् ।
प्रादुर्बभूवुः सर्वे ते यथास्थानमवस्थिताः ।।६६।।
रतिर्मूर्तिश्च सावित्री मनोरमा सरस्वती ।
महालक्ष्मीः सती लक्ष्मीर्बभूवुर्हृदयाम्बुजात् ।।६७।।
नारायणाय प्रददौ महालक्ष्मीं सरस्वतीम् ।
सावित्रीं ब्रह्मणे प्रादात् मूर्तिं धर्माय सादरम् ।।६८।।
रतिं कामाय रूपाढ्यां कुबेराय मनोरमाम् ।
लक्ष्मीं च विष्णवे प्रादात् सतीं शिवाय चार्पयत्। ।।६९ ।।
शिवः प्राह तदा योगी प्रणतः कृष्णमच्युतम् ।
अधुनाऽहं न गृह्णामि प्रकृतिं प्राकृतो यथा ।।1.170.७०।।
योगज्ञानब्रह्मचर्यदास्यभक्तिविरोधिनीम् ।
मुक्तीच्छाबन्धकर्त्री च सकामां कामवर्धिनीम् ।।७१ ।।
तपस्यानाशिनीं चित्तसन्तोषभक्षिकां क्षुधाम् ।
भवकाराग्रहे घोरे दृढनिगडरूपिणीम् ।।७२।।
शश्वद्विबुद्धिजननीं सद्बुद्धिच्छेदकारिणीम् ।
सदा भोगार्थसारां च विषयेच्छाविवर्धिनीम् ।।७३।।
मलमूत्रमयीं वल्लीं देहतरुप्रबन्धनाम् ।
रतिकार्याऽधिककाक्षेपिणीं स्वार्थतन्मयीम् ।।७४।।
स्वातन्त्र्यनाशिनीं शोकमोहस्थानमयीं दृढाम् ।
धारणाध्यानगुप्तांगां ब्रह्मध्यानविरोधिनीम् ।।७५।।
नेच्छामि गृहिणीं नाथ वरं देहि मदीप्सितम् ।
त्वद्भक्तौ दासभावे च प्रेम संवर्धतेऽनिशम् ।।७६।।
त्वन्नामजपने पादसेवनेऽर्चनकर्मणि ।
श्रवणे कीर्तने स्तोत्रे स्मरणे मित्रभावने ।।७७।।
सर्वदा जाग्रति स्वप्ने त्वय्येव प्रभ्रमाम्यहम् ।
तृप्तिर्जायेत नैव त्वद्ध्याने योगे तपस्सु च ।।७८।।
तवाऽऽवाहनासनाचामनाभिस्नानसेवने ।
गन्धपुष्पधूपवस्त्रदीपचन्दनचर्चने ।।७९।।
नैवेद्यजलताम्बूलाऽऽरार्त्रिकस्तुतिवन्दने ।
नमस्कारप्रदक्षिणाऽलंकृतिसत्फलार्पणे ।।1.170.८० ।।
समर्पणे चात्मनश्च नित्यप्रसादभोजने ।
तृप्तिर्यथा न जायेत तथा देहि दयानिधे ।।८ १ ।।
सार्ष्टिसालोक्यसारूप्यसामीप्यसाम्यलीनताः ।
तव भक्तिसुखांशस्य कलां नार्हन्ति षोडशीम् ।।८२।।
अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा ।
ईशित्वं च वशित्वं च सर्वकामावसायिता ।।८३।।
सार्वज्ञ्यं दूरदर्शित्वं दूरसंश्रवणं तथा ।
परकायप्रवेशश्च वाक्सिद्धिः कल्पवल्लिता ।।८४।।
जनिनाशमहाशक्तिः तथाऽमरत्वमित्यपि ।
सिद्धयः षोडश भक्तेः कलां नार्हन्ति षोडशीम् ।।८५।।
योगास्तपांसि दानानि व्रतान्यनशनानि च ।
यशः कीर्तिर्वचःसत्यं धर्मस्तीर्थं सुरार्चनम् ।।८६।।
देवार्चादर्शनं सर्वभूमिमण्डलप्रक्रमम् ।
सर्वस्वर्गसुखाऽऽभोगः सर्वाऽब्धिस्नानमित्यपि ।।८७।।
अवभृथानि सर्वाणि ब्रह्मविष्णुमहेशता ।
वैराजता चापि ततोऽन्यविधाः स्मृद्धयश्च याः ।।८८।।
तव भक्तिकलांशस्य कलां नाऽर्हन्ति षोडशीम् ।
तस्माद् भक्तिं विना चान्यन्नैव प्रार्थ्यं मया विभो ।।८९।।
न सती न शठी मे चापेक्ष्यते प्रकृती ह्युभे ।
विरक्तौ यादृशं सौख्यं सानुरागे न तादृशम् ।।1.170.९० ।।
श्रुत्वैवं शांकरं वाक्यं भगवान्प्राह सस्मितम् ।
यदीदानीं त्वया शंभो नेष्यते प्रकृतिः सती ।।९ १।।
सा वसतु मम नेत्रे योगनिद्रामयी शिवा ।
यदाऽऽवश्यकता ते स्यात्तदा दास्ये विभावरीम् ।।९२।।
तावत्कालं मम सेवां नेत्रयोः संकरिष्यति ।
इत्यभिधाय भगवान् जग्राह नेत्रयोः शिवाम् ।।९३।।
शंभुं च दास्यसेवायामरक्षद्वैष्णवं सुतम् ।
प्राह कृष्णस्तदा शंभुं मत्सेवां कुरु सर्वथा ।।९४।।
यावत् तेऽवश्यकार्यं च सृष्टौ नैवोपतिष्ठते ।
तपस्विसिद्धयोगिज्ञसुरवैष्णवपूजितः ।।९५।।
वसाऽत्राऽमरभावं च लभ मृत्युंजयो भव ।
वेदशास्त्रादिसार्वश्यसिद्धिं प्राप्नुहि मद्वरात् ।।९६।।
असंख्यब्रह्मणां नाशं लीलयाऽत्रैव पश्य वै ।
ज्ञानेन तेजसा शक्त्या वयसा यशसा श्रिया ।।९७।।
पराक्रमेण तपसा महसा मत्समो भव ।
मम प्राणादधिकस्त्वं प्रेयान् भक्तोत्तमः शिव ।।९८।।
ममोक्तं वचनं सार्थं काले कर्तुं त्वमर्हसि ।
तव वाक्यं पालयामि पुत्र त्वं मद्गृहे वस ।।९९।।
मद्वाक्यं च स्ववाक्यं च पालनीयं करिष्यसि ।
काले गृहीत्वा प्रकृतिं शृंगारं च करिष्यसि ।। 1.170.१० ०।।
न केवलं तपस्वी त्वं चेश्वरो मत्समो महान् ।
काले गृही तथा काले तपस्वी भव वाञ्छया ।। १०१ ।।
दुःखं तु दारसंयोगे यत् त्वया कथितं शृणु ।
कुस्त्री ददाति दुःखं च स्वामिने न पतिव्रता ।। १ ०२।।
महत्कुलप्रसूता या सत्कुला कुलमानिनी ।
करोति सुखिनं कान्तं सेवयाऽऽत्मार्पणाह्वया ।। १०३ ।।
पतिर्बन्धुः पतिर्भर्ता पतिः परमदैवतम् ।
पतिरेव परंब्रह्म पतिः स्वं कुलयोषिताम् ।। १ ०४।।
पतितोऽपतितो वापि कृपणश्चेश्वरो दृढः ।
शिथिलो वापि सर्वस्वं पतिर्वै कुलयोषिताम् ।। १ ०५।।
असत्कुलप्रसूता या पित्रोर्दुःशीलमिश्रिता ।
ध्रुवं सा परभोग्या स्यात् पतिनिन्दा परा सदा ।। १ ०६।।
पतिः कृष्णः पतिर्विष्णुः पतिः शंभुः सदा मम ।
पतिदेवे सर्वदेवा दृश्यन्ते कुलयोषिताम् ।। १ ०७।।
एतादृशी तु ते साध्वी शिवाऽस्ति महती सती ।
भविता सा शिवा शैवी प्रकृतिर्वैष्णवी शिव! ।। १ ०८।।
गोलोके वस देवेश यावत्सृष्टौ न ते कृतिः ।
मत्समाधौ सदा मग्नो मम सेवापरश्च वा ।। १ ०९।।
इत्यभिधाय कृष्णस्तं स्वसेवायामरक्षयत् ।
गोलोकस्यैकदिवसे वैराजानां सहस्रकम् ।। 1.170.११ ०।।
नश्यति तत्र का संख्या क्षुद्रब्रह्माण्डवेधसाम् ।
यदा वैराजदेहाच्च ब्रह्मा विष्णुर्भविष्यतः ।। १११ ।।
तदा तेजःप्रवाहे वै भविष्यति सदाशिवः ।
तेजो लिंगं शिवो मूर्तिर्लोके ख्यातिं गमिष्यति ।। ११ २।।
शिवपार्श्वगता साध्वी शिवा सह भविष्यति ।
ततः कालान्तरे दक्षपुत्री सती भविष्यति ।। ११ ३।।।
भगवांश्च ततः प्राह शिवां नेत्राधिवासिनीम् ।
अधुना तिष्ठ वत्से त्वं गोलोके मम नेत्रयोः ।। १ १४।।
काले भजिष्यसि शंभुं विराट्पुत्रं शिवायनम् ।
तेजःसु सर्वदेवानामाविर्भूय ततः पुनः ।। १ १५।।
संहृत्य दैत्यान्सर्वांश्च भविता विन्ध्यवासिनी ।
भविता दक्षकन्या च सुशीला शंभुगेहिनी ।। १ १६।।
ततः शरीरं सन्त्यज्य यज्ञे भर्तुस्तु निन्दया ।
मेनायां शैलभार्यायां भविता पार्वतीति च ।। १ १७।।
बहुकार्यकरी क्रूरा चण्डिका त्वं भविष्यसि ।
बहुनाम्नी बहुरूपा तामसी त्वं भविष्यसि ।। १ १८।।
पंचायतनदेवेषु शिवा शिवश्च तत्सुतः ।
मुख्याः सर्वेषु विश्वेषु भविष्यन्त्येव मद्वरात् ।। १ १९।।
ग्रामेषु नगरेष्वेव पूजिता ग्रामदेवता ।
भवती भविता तत्र भिन्ननामादिधारिणी ।। 1.170.१२०।।
भविष्यन्ति महान्तश्च तत्र ते परिचारकाः ।
धर्मार्थकाममोक्षाणां सिद्धार्थफललिप्सवः ।। १ २१।।
ये त्वां तत्र भजिष्यन्ते पृथ्व्यां पुण्ये सुतीर्थके ।
तेषां यशश्च कीर्तिश्चैश्वर्यं वर्धिष्यते बहु ।। १२२।।
इत्याशीर्भिः शिवां शर्वं तोषयामास माधवः ।
शर्वं ररक्ष सेवायां शिवां ररक्ष नेत्रयोः ।। १ २२।।
नेत्रस्थत्वाच्छिवा जाता निद्रा सुखकरी सदा ।
निद्रा विभावरी रात्रिश्चैकैव नाऽपरा तु सा ।। १२४।।
सा कृष्णहृदयाज्जाता शिवा नेत्रद्वये स्थिता ।
राधिकावचनात् निद्रा गता वैराजनेत्रयोः ।। १२५।।
सार्धं च शंभुना तत्र शिवा नित्याऽभिव्यंजिता ।
सैव नारायणस्येन्द्रियेषु दुग्धाब्धिके स्थिता ।। १२६।।
सैव सर्वाऽग्र्यदेवानामिन्द्रियव्रातसंस्थिता ।
सैव शेषशयानश्रीनारायाणेन्द्रियादितः ।। १२७।।
शिवा शक्तिर्योगनिद्रा रात्रिर्विभावरी सती ।
कात्यायनी कौशिकी चण्डिका काली च पार्वती ।। १२८।।
क्रमयोगाद्यथापेक्षं यथाकार्यं प्रकाशिता ।
इति ते कथितं लक्ष्मि! सतीरूपं सदात्मकम् ।। १ २९।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सतीचरित्रे गोलोके राधारतौ कृष्णनेत्रनिद्रायै शापः, श्रीकृष्णांगेभ्यो राधागोपगोपीगोगणहंसश्वेततुरगसिंह- रथपंचकशिवशिवामहालक्ष्मीसरस्वतीरतिमूर्तिसावित्र्याद्याविर्भावः, सत्याः शिवार्पणे शिववैराग्यं, कृष्णनेत्रस्थशिवाया वैराजपुत्रीत्वं ततो देवेन्द्रियजकात्यायनीत्वं दक्षपुत्रीसतीत्वं हिमालयपुत्रीपार्वतीत्वं चेत्यादिनिरूपणनामा सप्तत्यधिकशततमोऽ
ध्यायः ।। १७०।।