लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १६९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १६८ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १६९
[[लेखकः :|]]
अध्यायः १७० →

श्रीलक्ष्मीरुवाच-
श्रुतं देव्याश्चरित्रं वै महाबलपराक्रमम् ।
अथ श्रोतुं समिच्छामि सतीचरितमद्भुतम् ।। १ ।।
दक्षगृहे सतीजन्म सतीलग्नं च शंभुना ।
दक्षयज्ञे तथा सत्या वह्निस्नानं सकारणम् ।। २ ।।
हिमाद्रेर्मेनकायां च सतीजन्मोग्रतत्तपः ।
मध्ये शंभोर्लिंगपातो महच्चान्यत्पराक्रमम् ।। ३ ।।
तत्सर्वं श्रोतुमिच्छामि कृपया तव केशव! ।
इत्यर्थितः श्रिया स्वामी लक्ष्मीं वक्तुं प्रचक्रमे ।। ४ ।।
श्रीनारायण उवाच-
कश्यपेन पुरा स्नेहात् दितिः प्रोक्ता स्वभावतः ।
वज्रसारमयैरंगैः पुत्रो देवि भविष्यति ।। ५ ।।
वज्रांगं नाम सा देवी सुषुवे वज्रदुश्चिदम् ।
स जातमात्र एवाऽभूत् सर्वयुद्धविशारदः ।। ६ ।।
प्राह स्वजननीं मातर्यदाज्ञा करवाणि तत् ।
दितिः प्राह महेन्द्रेण पुत्रा मे बहवो हताः ।। ७ ।।
तेषामपचितिं कर्तुं गच्छ शक्रं दिवि स्थितम् ।
सहस्राक्षं स बद्ध्वा स्वमातुरग्रे निनाय सः ।। ८ ।।
ब्रह्मणा मोचितः पश्चाद्गतस्त्विन्द्रः स्वमालयम् ।
वज्रांगस्य वरांग्यां तारकासुर इति बली ।। ९ ।।
सुतोऽभवत् महादुष्टो देवांश्चक्रे वशान् रणे ।
लोकपालानिन्द्रमुख्यान् बद्ध्वा पाशैः पशूनिव ।। 1.169.१ ०।।
निनाय मेरुशिखरं यत्रास्ति स्वकमालयम् ।
कालनेमिः सुरान्बद्ध्वा प्रादाय द्वारि तिष्ठति ।। १ १।।
यथेष्टं तारकः प्राह द्रुतं कारागृहे क्षिप ।
केवल वासवं त्वेकं मुण्डयित्वा विमोचय ।। १ २।।
एवं कृतं तदा देवाः समाजग्मुः पितामहम् ।
तारकस्य विनाशाय प्रार्थयांचक्रुरंजसा ।। १३ ।।
निशां सस्मार च ब्रह्मा सोपतस्थे पितामहम् ।
ब्रह्मोवाच महत्कार्यं विभावरि! उपस्थितम् ।। १४।।
तारकासुरनाशार्थं सती दक्षसुता भव ।
तव स्कन्दः सुतः सप्तदिनेष्वेव महासुरम् ।। १५।।
कार्तिकेयस्तारकाख्यं हनिष्यति न संशयः ।
त्वं कालरात्रिनिःशेषभुवनावलिवासिनी ।। १६।।
शंभुकण्ठग्रहाऽऽनन्ददायिनी त्वं विभावरी ।
गच्छ दक्षगृहं शीघ्रं भव पुत्री हरप्रिया ।। १७ ।।
इत्युक्ता तु निशादेवी ययौ वै दक्षमन्दिरम् ।
तत्राऽऽसीनां महाहर्म्ये रत्नभीत्तिसमाश्रयाम् ।। १८ ।।
ददर्श दक्षपत्नीं चाऽसिक्नीं विरणकन्यकाम् ।
चमत्कृतिप्रभाव्याप्ताऽऽपाण्डुराऽऽननवारिजाम् । । १९ ।।
किंचित्क्षामां मुखोदग्रस्तनभारावनामिताम् ।
महौषधिगणैर्मन्त्रैरैश्वर्यैरभिसेविताम् । । 1.169.२ ० ।।
उद्वहत्स्वर्णसन्नद्धजीवचक्रां सुरूपिणीम् ।
मणिमालामहाज्योतिष्परिधिचक्रकाऽऽननाम् । । २१ ।।
स्वर्णताराऽभिग्रथितप्रान्तचञ्चलशाटिकाम् ।
तैलचन्दनसौगन्ध्यद्रव्यशृंगारशोभिताम् । । २ २ ।।
स्वर्णकलशचीनांशुककारक्तच्छत्रछायिताम् ।
ददर्श दिवसस्यान्ते महासनविराजिताम् ।। २३ ।।
नमस्कृत्य निशोवासाऽसिक्नीभ्रूरोमराजिषु ।
प्रसुप्तप्रायःपुरुषे निद्राभूतोपचारके ।। २४। ।
स्फुटालोके चन्द्रमसि कृतमनसिजाऽऽदरे ।
गाढकण्ठग्रहालग्नसमये दक्षसन्निधौ । । २५ । ।
रतिकाले पक्षपत्नीनेत्रयोः प्राविशन्निशा ।
आविवेश मुखे रात्रिर्दक्षेणाऽद्भुतसंगमे । । २६ । ।
श्वाससृत्या तदाऽसिक्न्याः क्रमेण जठरान्तरे ।
आविवेश स्थिता बीजे दक्षकृतनिषेचने । । २७ । ।
दक्षपत्नी तदारभ्य दौहृदाऽशोभताऽतिगम् ।
आधानादिप्रसंस्कारा दक्षेणापि निवर्तिताः ।। २८ । ।
प्राप्ते प्रसूतिसमयेऽदीपयद्ग्रहमन्दिरम् ।
ब्राह्मे मुहूर्ते सुभगे प्रासूयत विभावरीम् । । २९ । ।
महातेजस्विनीं देवीं कनकोज्ज्वलमूर्धजाम् ।
पद्मपत्राभनयनां स्थलपद्मगुणालयाम् । । 1.169.३० । ।
लक्ष्मीचिह्नातिशोभाढ्याऽवयवां च त्रिनेत्रकाम् ।
चन्द्रभालां शूलघटधनुर्ध्वजकरांबुजाम् । । ३१ । ।
स्वस्तिकचक्रडमरूपद्म हारकरान्विताम् ।
ऊर्ध्वरेखानागवल्लीदलमीनादिपत्तलाम् । । ३२ ।।
साम्राज्यचिह्नसहितां दैवीरेखासमन्विताम् ।
दृष्ट्वा दक्षस्तथाऽसिक्नी मुमुदतुर्हृदन्तरे । । ३२ ।।
तस्यां तु जायमानायां जन्तवः स्थिरजंगमाः ।
अभवन् सुखिनः स्मृद्धा तं सर्वलोककृतालयाः । । ३४। ।
नारकाणामपि स्वर्गसमं जातं तदा सुखम् ।
चेतांसि क्रूररसत्त्वानां सुशान्तान्यभवँस्तदा । । ३५ ।।
ज्योतिषामपि सुतरां तेजोऽवर्धत चाम्बरे ।
देवाः प्रहर्षमतुलं लेभिरे देवतायुताः ।। ३६ । ।
अरण्यौषधयः स्वादुफलपुष्पसुगन्धयः ।
दिशः प्रसेदुरत्यर्थं विमलं च नभोऽभवत् । । ३७।।
मारुतश्च सुखस्पर्शो मन्दसुगन्धशीतलः ।
सर्वर्तुफलयुगपदुद्भवा ह्यभवन्द्रुमाः । । ३८ ।।
सस्यलक्ष्मीधरा पृथ्वी रसाऽऽविर्भावशोभना ।
जलप्रस्रवणा भूमौ प्राकट्यमनुलेभिरे । । ३९ ।।
विस्मृतानि च बोधानि स्मृतेर्मार्गं प्रपेदिरे ।
तीर्थसामर्थ्यमत्युत्कर्षतां प्राप्तमकाशत । । 1.169.४० । ।
जीवाश्चतुर्दशलोकस्थिताः शान्तिं गतास्तदा ।
सात्त्विकानां शकुनानि सुशुभान्यभवँस्तदा ।।४ १ ।।
स्वप्नान्यपि महोत्सवकराण्यासन् द्युमन्ति च ।
मानसेषु जनानां च प्रोत्साहाः प्राभवँस्तदा ।।।७२ ।।
अन्तरीक्षेऽमरास्त्वासन् विमानेषु सहस्रशः ।
ब्रह्मा सप्तर्षयो मन्वन्तराणि दिक्प्रपालकाः ।।।४३ ।।
लोकपालाश्च मुनयः सन्तः साध्व्यो महर्षयः ।
पितरो वह्नयः साध्या विश्वेदेवा मरुद्गणाः । ।४४ ।।
किन्नराश्च किंपुरुषा देवा देव्यश्च कोटिशः ।
सिद्धाश्च चारणा सूता मागधा वन्दिनस्तथा । ।४५ । ।
सात्त्विका राजसाश्चैव तथा पातालवासिनः ।
दक्षगृहोपरि व्योम्नो मुमुचुः पुष्पवर्षणम् ।।४६ ।।
जगुर्गन्धर्वमुख्याश्च ननृतुश्चाप्सरोगणाः ।
वादित्राणि ह्यवाद्यन्त स्तावकाश्चक्रिरे स्तुतीः । । ४७।।
पर्वताश्च समुद्राश्च सरांसि सरितस्तथा ।
वनाऽरण्यानि मूर्तानि समाजग्मुश्च सर्वशः । ।४८ । ।
मूर्तिमन्ति च तत्त्वानि गुणा मूर्ता विभूतयः ।
तत्र महोत्सवे जग्मुर्दिव्या उपदपाणयः । । ४९ । ।
दक्षगृहं तदारभ्य तीर्थीभूतमकूपरम् ।
नित्यं कोटिजनास्तत्र यान्ति दर्शनलब्धये । । 1.169.५० । ।
या परब्रह्मशक्तिः सा चतूरूपा व्यवस्थिता ।
शान्तिर्विद्या प्रतिष्ठा च निवृत्तिश्चेति ताः स्मृताः । ।५ १ ।।
वासुदेवेऽनिरुद्धे च प्रद्युम्ने समकर्षणे ।
क्रमशः संस्थिताश्चात्र तत्र सृष्टौ कृतादराः । । ५२ ।।
ता एव चापि वैराजे ह्यजे विष्णौ महेश्वरे ।
तिष्ठन्त्येव च शाश्वत्यो योगिभिः स्वात्मसु धृताः । । ५३ । ।
प्रमाणविपर्ययविकल्पनिद्रात्मिकाश्च ताः ।
शाब्दिकैस्तु परा पश्या मध्यमा वैखरीति ताः । । ५४। ।
विमर्शबिन्दुनादध्वन्यात्मिकाश्चापि ताः कृताः ।
शान्तं जाग्रत् तथा स्वप्नं सुषुप्तं चापि ता मताः । ।५५।।
गर्भो बाल्यं युवत्वं च हासोऽवस्थाश्च ताः स्मृताः ।
बीजं चोत्पत्तिरप्यत्र स्थितिर्लयश्च ता मताः ।।५६ ।।
अऋतुर्वार्ष्टिकम शैत्यं चौष्ण्य चापि मताश्च ताः ।
अजा ईशा तथा देवी चासुराणी च ता मताः ।।५७।।
शान्ता क्रूरा व्यवसाया शूद्री वृत्तय एव ताः ।
ब्राह्मं प्राप्तस्तथा सायं निशा चापि च ता मताः ।।५८।।
किमु वक्तव्यमेतासु चतस्र एव सर्वथा ।
एकैव विद्यते कार्यकारणाऽभिन्नरूपिणी ।।५९।।
तस्मात्तु प्राणिनः सर्वे आकृष्टिं यान्ति तत्र वै ।
नित्यं तत्र समायान्ति दर्शनार्थम महोत्सवः ।।1.169.६० ।।
दक्षगृहे सदा जातो देवीवासेन सर्वथा ।
ज्ञानशक्तिर्भक्तिशक्तिः क्रियाशक्तिश्च मुक्तिका ।।६१ ।।
चतूरूपां जना द्रष्टुं समायान्ति च कोटिशः ।
अथ दक्षं प्राह पत्नी पश्य बालां सुशोभनाम् ।।६२।।
सर्वभूताधिवासां च राजीवदललोचनाम् ।
त्र्यम्बकां च चतुर्वक्त्रां तरुणादित्यसन्निभाम् ।।६३।।
श्रुत्वैवं तु पिता दक्षो यावत्पश्यति पुत्रिकाम् ।
तावद्दिव्यं दर्शनं वै पितुर्जातं कृपाकृतम् ।।६४।।
दक्षोऽपश्यत् महातेजस्तत्र सिंहासनोत्तमे ।
नारायणस्य वामांके स्थितां लक्ष्मीं ददर्श वै ।।६५।।
अथ लीनां पुनस्तत्र कृष्णं राधां ददर्श सः ।
अथ लीनां च तत्रैव शिवां शिवं ददर्श सः ।।६६।।
शिवांके संस्थितां देवीं चन्द्रावयवभूषणाम् ।
त्रिनेत्रामष्टहस्तां च सत्रिशूलादिचिह्निताम् ।।६७।।
तेजोपरिधिसंव्याप्तां चर्मचक्षुरलब्धिकाम् ।
प्रणम्य शिरसा भूमौ दक्षः प्रोवाच चेश्वरीम् ।। ६८।।
का त्वं देवि विशालाक्षि! महातेजोऽभिसंभृता ।
न मे चक्षुः क्षम त्वस्य तेजसस्ते ग्रहेऽस्ति वै ।।६९।।
न जाने त्वामहं वत्से स्वरूपं ब्रूहि मे सुते ।
देव्युवाच च मां विद्धि ब्रह्मशक्तिं परेश्वरीम् ।।1.169.७०।।
अजामेकां लोहितां च शुक्लां कृष्णां च निर्गुणाम् ।
बह्वीः प्रजाः सृजमानां सरूपाश्च चतूरूपाम् ।।७१ ।।
दिव्यं ददामि ते चक्षुः पश्य मे रूपमैश्वरम् ।
उक्त्वैवं दक्षनेत्रे स्वकराभ्यां सा त्वमार्जयत् ।।७२।।
दिव्ये क्षणात्तदा जाते क्षमे त्रिसृष्टिलोकने ।
स्वं रूपं दर्शयामास दिव्यं तत्पारमेश्वरम् ।।७३।।
कोटिसूर्यसमाऽऽभावत्तेजोबिम्बं सुखाश्रयम् ।
स्वर्णमालासहस्राढ्यं दिव्याम्बरविभूषितम् ।।७४।।
सौम्यं शान्तं ततः सम्यक् प्रवृत्तं राजसं शुभम् ।
ततः पश्चात् तदेवात्र महाक्रूरं भयानकम् ।।७५।।
ज्वालामालाऽयुतव्याप्तं कालानलशतान्वितम् ।
दंष्ट्राकरालं दुर्धर्षं जटामण्डलमण्डितम् ।।७६।।
गदाहस्तं समुकुटं शंखचक्रधरं तथा ।
महात्रिशूलहस्तं च घोरं लयभयानकम् ।।७७।।
चन्द्ररेखाढ्यभालं चानन्ताश्चर्यादिसंयुतम् ।
दिव्यमाल्याम्बरधरं नूपुरैरुपशोभितम् ।।७८।।
काम्यं कृत्तिधृतपृष्ठं दिव्यगन्धानुलेपनम् ।
सर्वशक्त्याश्रयं शुभ्रं सर्वाधारमनामयम् ।।७९।।
ब्रह्मेन्द्रोपेन्द्रयोगीन्द्रैर्वन्द्यमानपदाम्बुजम् ।
सर्वतः पाणिपादान्तं सर्वतोऽक्षिशिरोमुखम् ।।1.169.८०।।
सर्वमावृत्य तिष्ठन्तं सर्वतः श्रुतिमत्परम् ।
एतादृशीं महादेवीं ददर्श परमेश्वरीम् ।।८१ ।।
तुष्टाव चाष्ट च शतं नाम्नामुच्चार्य दक्षराट् ।
परब्रह्माण्यक्षराणि शाश्वती परमेश्वरी ।।८२।।।
मुक्तानी सर्वगा माया सत्या लक्ष्मीनिरंजना ।
सर्वान्तरस्था चिच्छक्तिस्ताराऽमृतप्रदा रमा ।।८३।।
व्योमरूपाऽच्युता कार्यकारणात्मा कलामयी ।
प्राणेश्वरी महामाता प्रधाना प्रकृतिस्तथा ।।८४।।
विद्या विभूतिराकाशा शाब्दी नादमयी प्रसूः ।
सर्वयोनिः पुराणा च कूटस्था पौरुषी शिवा ।।८५।।
क्षेत्रज्ञा व्यापिनी व्यक्ता चाऽव्यक्ता त्रिगुणा लया ।
भून्तीचाऽव्याकृतिर्योनिर्वैद्युती मोहिनी तथा ।।८६।।
मूर्तिश्च वैष्णवी बुद्धिर्महती मानसी कृतिः ।
ईश्वराणी च शर्वाणी भवानी चाम्बिका तथा ।।८७।।
पतिव्रता च रुद्राणी योगिनी श्रीः सुमंगला ।
सावित्री कमला गंगा पार्वती च सरस्वती ।।८८।।
वाणी कीर्तिश्चान्नपूर्णा स्वधा स्वाहा जगद्भरा ।
सुधा सिद्धिः स्तुतिर्मेधा श्रुतिर्नीतिः स्मृतिस्तथा ।।८९।।
हंसा काली कौशिकी च कात्यायनी च चण्डिका ।
दुर्गा साध्वी च गौरी च त्रिनेत्रा ब्रह्मचारिणी ।।1.169.९०।।
विभावरी च दीक्षा च गीतिर्धेनुश्च मोहिनी ।
अविद्या दक्षिणा भर्गा सन्ध्या धात्री प्रभा च भूः ।।९ १ ।।
स स्तुत्वाऽष्टोत्तरशतनामभिर्दक्षराट् स्वयम् ।
भूयः प्रणम्य देवेशीं प्रोवाचेदं कृतांजलिः ।।९५।।
दृष्टं ते चैश्वरं रूपं रूपं सौम्यं प्रदर्शय ।
संहृत्य दर्शयामास रूपमन्यत्तदा पुनः ।।९३।।
द्वादशाब्दं तदा सौम्यं गौरं विकसिताकृति ।
सुगन्धाढ्यं द्विनेत्रं द्विभुजं नीलाऽलकान्वितम् ।।९४।।
रक्तपादाम्बुजतलं सुरक्तकरपल्लवम् ।
भूषितं चारुसर्वांगं ललाटतिलकोज्ज्वलम् ।।९५।।
ईषत्स्मितं सुबिम्बौष्ठं नूपुरारावसंयुतम् ।
स्वर्णहारान् दधद्वक्षःस्थलेऽङ्गुलीषु चोर्मिकाः ।।९६।।
स्वर्णवस्त्रसुशोभाढ्यं रम्यं सर्वांगकोमलम् ।
दिव्यं सुकन्यकारूपं कोटिकन्दर्पमोहनम् ।।९७।।
दृष्ट्वा दक्षः सुहृष्टात्मा बभाषे परमेश्वरीम् ।
अद्य मे सफलं जन्म चाद्य मे सफलं तपः ।।९८।।
अद्य मे पुण्यकल्लोलाः पुत्रीरूपा उपस्थिताः १
नारायण्या जगद्धात्र्या दर्शनं मेऽद्य जायते ।।९९।।
शिवायाः प्रकृतेर्देव्या दर्शनं मेऽद्य जायते ।
धन्योऽस्मि कृतकृत्योऽस्मि प्रसंपूर्णतमोऽस्मि च ।। 1.169.१० ०।।
अद्य मे नु जगन्मातुर्दर्शनं तव जायते ।
मम पुत्री स्वरूपा त्वं जगन्माता समागता ।। १०१ ।।
अतो मे कः परो लाभो यत्र देवाः प्रतिष्ठिताः ।
त्वं हि सा परमा शक्तिरनन्ता परमेष्ठिनी ।। १ ०२।।
त्वमेव परमानन्दा त्वमेवानन्ददायिनी ।
त्वयैव संगतो देवः स्वात्मानन्दं समश्नुते ।। १ ०३।।
शिवं सर्वगतं सूक्ष्मं परं ब्रह्म सनातनम् ।
त्वयि तिष्ठत्यभेदेन परब्रह्ममयी स्थिता ।। १ ०४।।
नमस्तेऽस्तु महादेवि! नमस्ते परमेश्वरि! ।
नमो भगवतीशानि शिवायै ते नमोनमः ।। १ ०५।।
त्वन्मयोऽहं त्वदाधारस्त्वमेव च गतिर्मम ।
त्वामेव शरणं यामि प्रसीद परमेश्वरि ।। १०६ ।।
मया नास्ति समो लोके देवो वा दानवोऽपि वा ।
जगन्मातेव मत्पुत्री संभूता सा स्वयं यतः ।। १ ०७।।
एषा तवाऽम्बाऽसिक्नी वीरकन्यकाऽप्यहो ।
जगन्मातुश्च माताऽद्य चाऽहोऽस्याः पुण्यगौरवम् ।। १ ०८।।
पाहि माममरेशानि चासिक्न्या सह सर्वदा ।
नमामि तव पादाब्ब्जं व्रजामि शरणं शिवम् ।। १०९ ।।
अहो मे सुमहद्भाग्यं महादेवीसमागमात् ।
आज्ञापय महादेवि किं करिष्यामि शांकरि ।। 1.169.११ ०।।
एतावदुक्त्वा वचनं तदा दक्षः प्रजापतिः ।
सम्प्रेक्षमाणो गौरीं तां प्रांजलिः पार्श्वतः स्थितः ।। १११ ।।
ध्यातवान् स्वसुतां देवीं परब्रह्मात्मिकां सतीम् ।
अशेषकल्याणमयीं सर्वविकृतिपारगाम् ।। ११ २।।
आदिमध्यान्तरहितां तमसः परतः स्थिताम् ।
जगत्प्रसूतिं वेदान्तविज्ञानगम्यविग्रहाम् ।। १ १३।।
आनन्दमात्रां प्रणवाभिधानां शरणप्रदाम् ।
सर्वभूतान्तरस्थां च प्रकृतिपुरुषाभिधाम् ।। १ १४।।
प्रधानपूरुषरूपां प्राणरूपां मनोमयीम् ।
सर्वाश्रयां सर्वत्रगां शुक्लां कृष्णां च लोहिताम् ।। ११५ ।।
ऐश्वर्यविज्ञानमूर्तिं धर्ममूर्ति सुमुक्तिदाम् ।
महाविष्णुस्वरूपां च हिरण्यांडमयीं तथा ।। १ १६।।
परमेष्ठिपदव्याप्तां वैराजीं सौरशक्तिकाम् ।
सहस्रकरपादास्यां जले नारायणात्मिकाम् ।। १ १७।।
संहारधर्मसंधर्त्रीं युगान्तक्षयसंज्ञिताम् ।
फणासहस्रभोगीन्द्रां रौद्रीं नेत्रत्रयान्विताम् ।। १ १८।।
सुकोमलांगां बालिकारूपां शुभ्रां सुतां निजाम् ।
आदिमध्यान्तसंस्थां च ज्ञातवान् दक्षरा ट् पराम् ।। ११९ ।।
ततोऽम्बिका शिवं स्मृत्वा पितरं प्राह सस्मितम् ।
भक्त्या त्वनन्यया तात मद्भावं गन्तुमर्हसि ।। 1.169.१२० ।।
सर्वयज्ञतपोदानैस्तद्रूपमाप्यते नहि ।
यन्मे साक्षात्परं रूपमैश्वरं दृष्टमद्भुतम् ।। १२१ ।।
तन्निष्ठस्तत्परो भूत्वा तदेव शरणं व्रज ।
तदेव मनसा पश्य तद्ध्यायस्व यजस्व तत् ।। १ २२।।
अहं त्वां परया भक्त्या चैश्वरं योगमास्थितम् ।
संसारसागरादस्मादुद्धराम्यचिरेण तु ।। १२२ ।।
ध्यानेन कर्मयोगेन भक्त्या ज्ञानेन चैव हि ।
प्राप्याऽहं ते प्रजापते! नान्यथा कर्मकोटिभिः ।। १२४।।
श्रुतिस्मृत्युदितं सम्यक् कर्म वर्णाश्रमात्मकम् ।
अध्यात्मज्ञानसहितं मुक्तये सततं कुरु ।। १२५ ।।
धर्मात्संजायते भक्तिर्भक्त्या संप्राप्यते परम् ।
श्रुत्युदितो यज्ञधर्मो वेदाद्धर्मो हि निर्बभौ ।। १२६ ।।
ममैवैषा परा संज्ञा वेदरूपा पुरातनी ।
न च वेदादृते किञ्चिच्छास्त्रं धर्माभिधायकम् ।। १ २७।।
वर्णानामनुकम्पार्थं मन्नियोगाद्विराट्स्वयम् ।
स्वायंभुवो मनुर्भूत्वा वेदधर्मान् स उक्तवान् ।। १२८।।
अन्तर्हितेषु धर्मेषु युगान्तेषु महर्षयः ।
ब्रह्मणो वचनात्तानि दर्शयन्ति युगे युगे ।। १२९ ।।
ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे ।
हरेरन्ते कृतात्मानः प्रविशन्ति परं पदम् ।। 1.169.१३० ।।
तस्मात्सर्वप्रयत्नेन धर्मार्थं वेदमाश्रयेत् ।
धर्मज्ञानयुता भक्तिः परंब्रह्म प्रकाशयेत् ।। १३१ ।।
एतादृशं मया रूपं कथं सन्दर्शितं शृणु ।
नारायणः स्वयं ब्रह्म नारायणी तथैव च ।। १३२।।
बाह्यदृष्ट्या तयोर्भेदो न त्वान्तरदृशा मनाक् ।
स एव तु परंब्रह्म क्वचित्कृष्णः प्रजायते ।। १३ २।।
स एव राधा भवति यथेष्टं विहरत्यपि ।
स एव च परंब्रह्म नारायणो भवत्यपि ।। १ ३४।।
नारायणी रमा लक्ष्मीः स एव संप्रजायते ।
यथेष्टं च विहरति नास्ति भेदो मनागपि ।। १ ३५।।
परंब्रह्म स वै ब्रह्मा ब्रह्माणी जायते तथा ।
स एव विष्णुर्भवति वैष्णव्यपि स एव सः ।। १ ३६।।
शिवो रुद्रः स एवास्ति रुद्राणी च शिवैव सः ।
अहं सती शिवा रौद्री तव गेहे प्रकाशिता ।। १ ३७।।
परब्रह्मस्वरूपाऽस्मि शिवार्थं त्यागतास्मि च ।
परब्रह्मस्वरूपश्च शिवोऽपि भगवान् स्वयम् ।। १ ३८।।
कैलासे राजते देवो देव्यहं ते गृहे स्थिता ।
तस्मात्सर्वप्रकारेण मद्भक्तो मत्परायणः ।। १ ३९।।
मामेवाऽर्चय सर्वत्र मनसा शरणं गतः ।
यद्यत्स्वरूपं मे तात मनसो गोचरं तव ।। 1.169.१४० ।।
तन्निष्ठस्तत्परो भूत्वा तदर्चनपरो भव ।
सः शिवश्च त्वया ताताऽभ्यर्थनीयो मदर्थकः ।। १४१ ।।
दातव्या च शिवायैव शाश्वती ते सुता शिवा ।
धर्मसंस्थापनार्थाय नियोगाद् ब्रह्मणस्तथा ।। १४२।।।
असिक्न्याश्च समुत्पन्ना त्वामेव पितरं श्रिता ।
प्रदास्यसे महेन्द्राय प्रसीदति स शंकरः ।। १४३।।।
तेन देवादयः सर्वे त्वां नमस्यन्ति भावतः ।
अर्पितया मया साकं शंकरं शरणं व्रज ।। १४४।।
इत्युपदिश्य दक्षाय सती बाला ह्यजायत ।
दक्षस्तुतोष परमं सुतां ज्ञात्वा परेश्वरीम् ।। १४५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने विभावर्याः सतीजन्म, मंगलमहोत्सवः, दक्षाय दिव्यसतीदर्शनं, स्तुतिः सुताध्यानम्, शिवाशिवयोः परब्रह्मणैक्यं
चेत्यादिनिरूपणनामैकोनसप्तत्यधिकशततमोध्यायः ।। १६९ ।।