लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १६८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १६७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १६८
[[लेखकः :|]]
अध्यायः १६९ →

श्रीनारायण उवाच--
श्रूयतां च महालक्ष्मि निर्भीकं मरणे पुनः ।
द्वयोश्च सैन्ययोर्युद्धं प्रावर्तताऽपुनर्भवम् ।। १ ।।
ब्रह्मा जानाति शंभुश्च देव्यो जानन्ति कालकृत् ।
विनाशो दैत्यकोटीनां समुपस्थित एव यत् ।। २ ।।
शुंभाज्ञयाथ कम्बूनां चतुरशीतिकोटयः ।
युयुधिरेऽस्त्रशस्त्रैश्च पर्वतैर्वनभूरुहैः ।। ३ ।।
शिलावर्षैरग्निवर्षैः शरैर्युयुधिरेऽसुराः ।
देव्यो वाराह्य एवैतान् प्रतियुद्धं तदा व्यधुः ।। ४ ।।
अस्त्रैः शस्त्रैः शिलावर्षैः पर्वतैर्दन्तभूरुहैः ।
अग्निवर्षैः शरैः कालकवलमन्त्रयोजितैः ।। ५ ।।
नारसिंह्स्तथा तासां साहाय्ये युयुधुस्तदा ।
नखैर्दंष्ट्राभिरुग्राभिः पुच्छैर्हस्तैः प्लवैस्तथा ।। ६ ।।
मन्त्रितैर्मुखफेनैश्च शस्त्रैर्युयुधिरे मुहुः ।
शस्त्राऽस्त्रप्रस्तरवुक्षशरफेनादिलक्षिताः ।। ७ ।।
कालमन्त्रहता दैत्या नोत्तिष्ठन्ति मृताः पुनः ।
अथाऽसुराणां पंचाशत्कुलकोट्यो युधि स्थिताः ।। ८ ।।
दिक्पालिन्यस्तथेन्द्राण्यश्चार्बुदार्बुदकोटयः ।
योधयन्ति स्म कालाख्यमन्त्राधिष्ठितहेतिभिः ।। ९ ।।
नष्टा मृता आसुरास्ते नोत्तिष्ठन्ति तदाहवे ।
अथागताश्च धौम्राणां शताब्जकुलकोटयः ।। 1.168.१० ।।
युद्ध्यन्ति स्म महामारीदेवीभिश्चण्डिकादिभिः ।
कालमन्त्राभिसंसृष्टहेतिभिर्ये मृतिं गताः ।। १ १।।
पुनस्ते न श्वसन्त्येव मृतास्ते सर्वथा गताः ।
कालकेयाः कालकाश्च दैत्या कोटिकुलाऽर्बुदाः ।। १२।।
प्रोत्थिताः सबलास्तत्र देवीनाशनहेतवे ।
कुण्डलिन्यस्त्रिशूलिन्यः कोट्यो युयुधिरे च तैः ।। १३ ।।
कालमन्त्राऽभिभूतास्ते जाग्रति प्राणतो न हि ।
मौर्याश्च दौर्ह्रताश्चैव संग्रामं चक्रिरेऽतिगाः ।। १४।।
कुलकोट्यस्तदा तेषां लक्षसिंहैर्विनाशिताः ।
उत्थिताश्चौषधैस्ते वै कुमारीभिः पुनर्हताः ।। १५।।
कालकवलमन्त्राक्तशस्त्रनष्टाः श्वसन्ति न ।
अथान्ये शंबरा दैत्या सामुद्रा पार्वतास्तथा ।। १६।।
पाताला भूस्तराश्चान्ये नागा वार्क्षा जरावृताः ।
देवीरूपाणि वीक्ष्यैव मुमुहुश्चक्रिरे रणम् ।। १७।।
शक्तिन्यः शिवदूतिन्यो जघ्नुर्मन्त्रितहेतिभिः ।
मृताः पुनर्न वायान्ति गताश्चात्यन्तजीवनात् ।। १८।।
कोट्यर्बुदान्यसुराणां दैत्यानां खर्वकोटयः ।
पद्मानि दानवानां च शंकवश्च प्रकीर्णकाः ।। १९।।
हता गता मृता नष्टा नामरूपाभिवञ्चिताः ।
रक्तः समुद्रस्तेषां चाऽस्रक्सरिद्भिः समुद्गतः ।।1.168.२० ।।
नाद्यापि शुष्कतां याति विवर्णो न विभाति च ।
व्योम्नि चैतन्महायुद्धं पश्चिमोत्तरदिग्भवम् ।।२१ ।।
ख्यापयिष्यति रक्ताब्धिभूश्च रक्तप्रमेदिनी ।
अथ शुंभासुरः शैले विन्ध्याद्रौ व्योमवर्धिते ।।।२२।।
राहुकेतुस्पृशिशृंगे तिष्ठन् पश्यति मर्दनम् ।
हतसैन्यैर्महापृथ्वी व्याप्ताऽभूत् सर्वतोदिशि ।।२३ ।।
नैतादृशं सार्वभौमं पुनर्युद्धं भविष्यति ।
देवीनां दानवानां च व्योममार्गातियोधिनाम् ।।।२४।।
स च शुंभो विन्ध्यशृंगे लक्षयोजनदृष्टिमान् ।
कैलासं बद्रिकाश्रं च दग्धुमैच्छत् तदस्त्रतः ।।२५।।
विन्ध्यशृंगाद्वैद्युतास्त्रं क्षिप्तं हरहरोपरि ।
यस्माच्च कोटिशो जाताश्चाग्नयः स्तनयित्नवः ।। २६ ।।
मेरुं च मन्दरं चैव दिधक्षन्तो भुवं गताः ।
कैलासं बद्रिकाधाम प्राज्वलन् व्योममार्गतः ।। २७।।
तदा तत्र महेशान्या मुक्तं ताम्रास्त्रमातलम् ।
विद्युतस्तत्समाकृष्याऽतलं लोकं समाविशत् ।। २८।।।
तदा सैन्यानि देवीनां विन्ध्योत्तरेऽन्तरीक्षके ।
क्षणं विरामं गृह्णन्ति तेष्वग्न्यस्त्रं प्रयोजितम् ।। २९।।
प्राज्वालयद् ग्रहान्देवान्वाय्वाधारान्पिशाचकान् ।
द्यावापृथ्व्योः रोदसी द्वे धेक्ष्यत्पपात शांभवे ।। 1.168.३० ।।
कैलासे च बदर्यां चाऽनलान्प्रावर्तयद्बहून् ।
देव्या दृष्ट्वा च वारुण्याऽनलास्त्रध्वंसकृत्तदा ।। ३१ ।।
प्रहितं शीतशैलास्त्रं शीतवृष्टिशिलामयम् ।
हिमवृष्टिः शीतवृष्टिस्तेन पेतुः शिलोच्चयाः ।। ३ २।।
शान्तं चाऽग्न्यस्त्रमेवापि हिमप्रस्तरवृष्टिभिः ।
सुवर्णाद्रिस्तदारभ्य हिमाद्रिः समभून्महान् ।। ३३ ।।
अथैतासां विनाशाय निरोधास्त्रं मुमोच सः ।
वायव्या च तदा देव्या श्वासरोधविनाशकृत् ।। ३४।।
वाय्वस्त्रं प्रहितं द्राक्च निरोधास्त्रं ननाश ह ।
अथ राक्षसमन्त्रैश्च होमं चकार दैत्यराट् ।। ३५।।
राक्षसाः पर्वतप्रायाः समुत्पन्नास्तु कोटिशः ।
देवी सैन्योपरि व्योम्नः पेतुः शस्त्रास्त्रपाणयः ।। ३६।।
वर्षर्तावभ्रसंघातैरिवैभिर्व्याम संस्तृतम् ।
वनं वृष्टिभिरेवैतद् देवीनां सैन्यमर्दितम् ।। ३७।।
दृष्ट्वा देव्यो नैऋतान्यः ससृजुर्निर्ऋतास्त्रकम् ।
नैर्ऋतास्तत उत्पन्ना भक्षयन्ति स्म राक्षसान् ।। ३८ ।।
यथा तिमीन् तिमींगिला भक्षयन्ति स्म ताँस्तथा ।
अथ शुंभः ससर्जाऽन्यत् प्रेतास्त्रं क्षुधितं बहु ।। ३९ ।।
कोटिशः प्रेतसैन्यानि समुत्पन्नानि तत्क्षणे ।
याम्या देव्यः ससृजुश्च यमास्त्रं यमदूतकृत् ।।1.168.४० ।।
विकराला यमदूताः प्रेतानभक्षयँस्तदा ।
अवीच्याख्यं स्थलं याम्यदूतानां कल्पितं ततः ।।४ १ ।।
नारकाँश्च ज्वरान् शुंभो जनयामास कोटिशः ।
वैष्णव्या च तदा देव्या ज्वराश्च वैष्णवाः कृताः ।।४२।।
वैष्णवैनरिकास्तापा ह्यवीचिं द्राविता ययुः ।
ब्रह्मास्त्रं प्रहितं देवीसैन्येषु दानवेन यत् ।।४३ ।।
महातेजांसि घोषाश्च शरा वज्राणि निर्ययुः ।
महाकालाग्नयस्तस्मादुत्पेतुः सृष्टिभस्मकाः ।। ४४।।
त्रिलोकास्त्रासितास्तेभ्यो देव्यो दग्धा विदुद्रुवुः ।
हाहाकारो महानासीत् तदा देव्यो विमूर्छिताः ।।४५।।
ब्रह्माण्या सत्वरं तत्र ब्राह्मास्त्रं प्रतियोजितम् ।
द्वयोर्युद्धं महाव्योम्नि सूर्यमार्गे ह्यजायत ।।४६।।
चान्द्र्या देव्या चन्द्रकान्तमहामन्त्रेण कौमुदी ।
मूर्छादूरकरी तासु तदा संयोजिताऽमृता ।।४७।।
अत्युष्णताकृता मूर्छा विनष्टाऽमृतवृष्टिभिः ।
तावद्व्योम्नः समाकृष्टे ब्रह्मास्त्रे द्वे तु वेधसा ।।४८ ।।
शुंभो रिक्तस्तदा जातः शस्त्रास्त्रैर्हीन एव सः ।
तदा काल्या महाकाल्या यमदण्डाभिमन्त्रितः ।।४९।।
प्रेषितस्तद्विनाशाय शुंभो मायां चकार वै ।
नैककोटिगणाः शुंभाः प्रादुर्भूवास्तमोऽन्तरे ।।1.168.५० ।।
गाढान्धकारे मायायाः शुंभो जग्राह चण्डिकाम् ।
करवालस्तदा शुंभे चण्ड्या यावन्निपातितः ।।५१।।
तावच्छुंभो न चैवास्ति मिथ्याशुंभस्तु सोऽभवत् ।
शस्त्राघातो वृथा जातः शुंभो जग्राह कालिकाम् ।।५२।।
काल्या तदा महाखड्गो दैत्यमूर्ध्नि निपातितः ।
तदा दैत्यो नचैवास्ति खड्गघातो वृथागतः ।।५३।।
यावत्स कौशिकी धृत्वा सुरूपां च पलायितः ।
तावच्चामुण्डया मूर्ध्नि खट्वांगेन निपातितः ।।५४।।
कौशिकी दृश्यते तत्र शुंभः पतन्न दृश्यते ।
मिथ्यारूपैः स देवीनां धर्षणं प्रकरोति वै ।।।५५।
कात्यायनीं च कामेन धर्षणाय स्तनेऽस्पृशत् ।
रौद्र्या तीक्ष्णं त्रिशूलं तन्मूर्ध्नि कण्ठे प्रपातितम् ।।।५६।।
तावत्तत्रापि शुंभोऽयं तिरोभूद् दूरतः स्थितः ।
रुद्राणी प्राह शर्वाणीं शिवदूतीं विहस्य च ।।५७।।
मृषारूपो ह्यजित्वा मां कात्यायनीं स्तनेऽस्पृशत् ।
तस्मादधर्मनष्टोऽयं नाशमेत्वचिराद् ध्रुवम् ।।५६८।।
एवं शापे प्रदत्ते तत्सामर्थ्यं लीनतांगतम् ।
नपुंसक इव तत्र पतितो धरणितले ।।१९।।
तावत्कोटिस्वरूपा ये मृषा युद्धे प्रवर्तिताः ।
मृषा शुंभा निपेतुस्ते पृथ्व्यां नपुंसका इव ।।1.168.६ ० ।।
विचित्तं मूर्छितं श्रान्तं तवाऽस्मीति च वादिनम् ।
पिबन्तं मेहयन्तं चाऽशस्त्रं युद्धे न घातयेत् ।।६ १।।
अतो न घातितः शुंभो देव्या प्राप्ते क्षणेऽपि च ।
मिथ्याशुंभास्ततो लीना लीनं मायातमोऽपि तत् ।।६२।।
मूर्छितश्च तदा शुंभो दृश्यते पतितो भुवि ।
कात्यायन्या तदा सर्वाः स्वसृष्टा देव्य एव ताः ।।६३।।
स्वस्तने लीनतां नीता देवपत्नीर्विनाऽमरीः ।
तावत्संज्ञामवाप्याऽयं शुंभो जगर्ज तां प्रति ।। ६४।।
पुनर्मायामयीं वातवृष्टिरात्रिं चकार सः ।
कात्यायनीं महादेवीं प्रधर्षयितुमाययौ । । ६५ ।।
सः स्पर्शं कृतवान् दैत्यो हृदये स्तनमण्डले ।
तावत्तं चापि सा देवी तलेनोरस्यताडयत् ।।६६ ।।
क्रुद्धश्चोत्पत्य संगृह्य देवीं गगनमाश्रितः ।
हस्तिनं स्वकमारुह्य पलायनपरोऽभवत् ।। ६७ ।।
तावच्चोत्प्लुत्य गगने देव्या केशेषु संधृतः ।
उन्नीय भ्रामयामास चिक्षेपैनं तु सा क्षितौ ।। ६८ ।।
पपातोपरि सा देवी शूलमादाय तत्क्षणम् ।
तद्वक्षो दारयामास भेदयामास तद्गलम् ।। ६९ ।।
मुहुश्चिक्षेप दैत्येन्द्रः करपादौ तदा भुवि ।
पवर्तप्रायरूपोऽभूत् कम्पयन् सकलां महीम् ।।1.168.७ ० ।।
उत्तानः पतितश्चोर्व्यां करपादौ प्रसार्य च ।
विक्षिप्य बहुधा धूल्यां विरराम ममार च ।।७ १ ।।
गगनं निर्मलं जातं वातवृष्टिः शमं ययौ ।
देवा देव्यस्तदा कात्यायनीं हर्षितमानसाः ।।।७२।।
जयाशीर्भिमुदा संवर्धयामासुरथाऽर्हणाम् ।
चक्रुर्नैकोपदाभिश्च गन्धर्वा ललितं जगुः ।।७ ३ ।।
ननृतुश्चाप्सरोगणा वादित्राणि ह्यवादयन् ।
वाता ववुश्च सुखदाः सूर्यस्तेपे प्रभान्वितः ।।७४।।
अग्नयो जज्वलुः शान्तास्त्रैलोक्यं सुखभागभूत् ।
राज्यभागास्तदाऽजेन यथायोग्यं समर्पिताः ।।७५।।
यावद्भ्यस्तत्र देवेभ्यश्चोपदा अर्पितास्तदा ।
देवीभ्यो युद्धकर्त्रीभ्यो ब्रह्मणा विष्णुना तथा ।।७६ ।।
शंभुना चार्पिता हारा ललन्तिकाश्च मुद्रिताः ।
विजयाख्यविभूषाश्च तन्तिकाश्च सुमुद्रिकाः ।। ७७।।
मुकुटकटकझंझ्रीवंगदारशनास्तथा ।
कल्ग्यः शेखरश्चैरिण्यः कर्णपूराश्च कंचुकीः ।।७८ ।।
घर्घरीशाटिकास्वर्णमयी रत्नमयीबृसीः ।
रत्नहीरकसौवर्णविजयाख्यप्रपत्रिकाः ।।७९ ।।
भोजनानि च पानानि यानानि वाहनानि च ।
दैत्यगृहस्थितान्यन्यरत्नानि विविधानि च ।।1.168.८ ० ।।
उपदायां पारितोषिकाख्यं हार्दं धनं बहु ।
यथायोग्यं यथाकार्यं प्रदत्तं तत्र पर्षति ।।८ १ ।।
देव्यो मौक्तिकहाराढ्याः सकल्गिमुकुटावहाः ।
प्रसन्नाश्च तदा प्राहुर्देवान् यद्धृदयंगमम् ।।८२।।
देवा वा मानुषा वाथ तिर्यञ्चोऽथ सुराऽसुराः ।
गृहदेवीर्गृहपत्नीः स्वसॄः पुत्रीः स्नुषास्तथा ।।८३।।
मातॄश्च प्रमदा दासींनयिष्यन्ति भावतः ।
तदिष्टैः सुखयिष्यन्ति पूयिष्यन्ति वस्तुभिः ।।८४।।
खानपानाम्बरभूषाशृंगारद्रव्यसानैः ।
हार्दिकस्नेहवृत्त्या प्रसन्नयिष्यन्ति सर्वदा ।।८५।।
तेषां गृहे वयं देव्यो निवत्स्यामऽबलासु वै ।
सुखयिष्याम ऐश्वर्यैर्धनपुत्रमृद्धिभिः ।।८६।।
रक्षिष्यामश्च तान्सर्वान् देवानिव जनान्स्वकान् ।
भोग्यभोगाविहारादीन् दापयिष्याम एव तान् ।।८७।।
सुखिनः सन्तु ते सर्वे यत्र नारीजनः सुखी ।
असुखाः सन्तु ते सर्वे यत्र नारीजनोऽसुखः ।।८८।।
एवं सर्वाग्र्यदेवीभिर्देवैश्चाशीः प्रयुंजितः ।
कात्यानी महादेवी पूजिता बहुधा तत ।।८९।।
अथ देवाः स्तुतिं चक्रे समाजे विजये तत् ।
कात्यायनि! नमस्तुभ्यं कौशिकि! ते नमोनमः।।1.168.९०।।
कालिके कालि तेऽजस्रं चामुण्डे ते नमोनमः।
महामारि नमस्तुभ्यं ते ब्रह्माणि नमोनमः ।।९ १।।
चान्द्रि च वारुणि कुण्डलिनि तुभ्यं नमोनमः ।
त्रिशूलिनि नमस्तुभ्यं कौमारि शक्तिनि! नमः ।।।९२।
नारसिंहि शिवदूति! वैष्णवि! ते नमोनमः ।
वाराहि चण्डिके चण्डे चर्ममुण्डे च ते नमः ।।९३।।
रौद्रि सिंहि यमदासि याम्ये देवि च ते नमः ।
ईशानि दिक्प्रपाले ते नैर्ऋतानि च ते नमः ।।९४।।
ऐन्द्रि च वायवि भद्रे भगवत्यस्तु ते नमः ।
नमोऽस्त्वनन्तरूपे ते नमस्ते राज्यदायिनि! ।।९५।।
नमस्ते दैत्यदर्पघ्नि नमोऽष्टादशबाहवि ।
नमो नारायणि ब्राह्मि चक्रधारिणि ते नमः ।।९६।।
नमो वज्रधरे हस्तिध्वजे तेऽस्तु नमोनमः ।
मयूरवाहिनि तेऽस्तु नमस्ते हंसवाहिनि ।।९७।।
मुण्डमाले नमस्तेऽस्तु सुकेशिनि नमोऽस्तु ते ।
त्रिनेत्रे वरदे देवि नमस्तेऽस्तु प्रसीद च ।।९८।।
प्रपन्नाऽऽर्तिहरे देवि मातः प्रसीद पाहि च ।
महीरूपे सदाधारे जलरूपे च तृप्तिदे ।।९९।।
बीजरूपे मोहरूपे मुक्तिरूपे नमोऽस्तु ते ।
विद्यारूपे समस्तस्त्रीस्वरूपे ते नमोनमः ।। 1.168.१०० ।।
स्वर्गमोक्षप्रदे देवि नारायणि नमोऽस्तु ते ।
कालरूपे तत्त्वरूपे कार्यकारणरूपिणि ।। १० १।।
त्रिगुणे निर्गुणे देवि महामाये हृदिस्थिते ।
सर्वाऽन्तर्यामिणि देवि नारायणि नमोऽस्तु ते ।। १ ०२।।
ब्रह्माणि हंसयानस्थे शिवानि वृषभस्थिते ।
वैष्णवि गरुडस्थे ते नारायणि नमोऽस्तु ते ।। १ ०३।।
मातृरूपे स्तन्ययुक्ते पत्नीरूपे सगर्भिके ।
रतिरूपे जीवशान्ते नारायणि नमोऽस्तु ते ।। १ ०४।।
युगे युगे महासुरोपद्रवनाशनं कुरु ।
देवानां रक्षणं चैव नारायणि नमोऽस्तु ते ।। १०५।।
शरण्यानां सदा बाधाघातनं कुरु सर्वथा ।
त्रिशूलं सर्वदा भीतेः पातु देवि नमोऽस्तु ते ।। १ ०६।।
घण्टा पातु च पापेभ्य खड्गः सुखं करोतु च ।
पाशाद्यास्ते सदा पान्तु नश्च देवि नमोऽस्तु ते ।। १ ०७।।
सृष्टौ सदा त्वया कार्यमेवमेव तु रक्षणम् ।
रक्षणाय सदा देवि प्रसन्नाऽस्तु नमोऽस्तु ते ।। १ ०८।।
इति स्तुत्वा ततो देवैः कुसुमांजलिरर्पितः ।
नमस्कृता प्रसन्ना च प्राह देवान् विहस्य सा ।। १०९।।
भवतां वै प्रसादात्तु प्राप्तोऽयं विजयो मया ।
पुनर्भवत्प्रसादाच्च हनिष्याम्येव दानवान् ।। 1.168.११ ०।।
गृध्रासुरं तथा गर्जासुरं हर्जासुरं तथा ।
जठ्रासुरं तथा मग्नासुरं च सुरवैरिणः ।। १११ ।।
वैप्रचितान् हनिष्यामि रक्तदन्तिकरूपया ।
शताक्षी च भविष्यामि पुनः शाकंभरी ततः ।। १ १२।।
श्तवार्षिकदुर्भिक्षे दास्ये शाकं जनाँस्तदा ।
शतैर्नेत्रैर्निरीक्ष्येऽहं शताक्षी कीर्त्यते तदा ।।१ १३।।
भीमरूपेण भीमाऽहं रक्षोभ्यो मुनिपुंगवान् ।
हिमाद्रौ रक्षयिष्ये च भीमा देवी भवाम्यहम् ।। १ १४।।
अरुणाक्षविनाशाय भ्रामरं रूपमास्थिता ।
भ्रामरीति भविष्यामि रक्षयिष्ये जनाँस्तदा ।। १ १५।।
यदा यदा च मद्योग्यं कार्यं चोपस्थितं तदा ।
भविष्यामि तथारूपा नान्तो मे नामरूपयोः ।। १ १६।।
कालस्य च तथा सृष्टेर्नान्तोऽस्ति मम कर्मणाम्!
आसुराणां च नान्तोऽस्ति ममाप्यन्तो न विद्यते ।। १ १७।।
मत्स्तोत्रैर्मां प्रत्यहं यः स्तोष्यति श्रद्धयाऽन्वितः ।
तस्य पीडां नाशयिष्ये त्रिविधां नात्र संशयः ।। १ १८।।
मधुकैटभमहिषशुंभनिशुंभनाशनम् ।
श्रोष्यन्ति चरितं मे ये गास्यन्ति च समाहिताः ।। ११९ ।।
अष्टम्यां च चतुर्दश्यां नवम्यां चैक चेतसः ।
दारिद्र्यापत्तिदुष्कर्माऽनिष्टशस्त्रभयादिकम् ।। 1.168.१२०।।
शत्रुदस्युनृपदंष्ट्रितोयाऽनलभयादिकम् ।
नाशयिष्ये करिष्ये च तेषां स्वस्त्ययनं ध्रुवम् ।। १२१।।
उपसर्गमहामारीरोगोत्पातार्तिबन्धनम् ।
नाशयिष्ये करिष्ये च सौभाग्यपुष्टिवर्धनम् ।। १ २२।।
मद्गृहे बलिनैवेद्ये पूजायां हवनोत्सवे ।
नवरात्रे चरित्रं मे पाठ्यं श्राव्यं च भावतः ।। १२३।।
दास्ये पराक्रमं तस्मै कल्याणं भीतिशून्यताम् ।
धनधान्यसुवर्णादिस्त्रीपुत्रपौत्रसम्पदः ।। १२४।।
शान्तिकर्मणि दुःस्वप्ने ग्रहदुःखेऽर्भकग्रहे ।
गृहक्लेशे मित्रकलौ दुर्वृत्ते भूतपीडने ।। १२५।।
रोगे दैत्यादिजे दुःखे युद्धे वैरिणि प्रान्तरे ।
दावानले तथाऽरण्ये देशभंगेऽरिनिग्रहे ।। १ २६।।
स्तेनाऽऽवृतं गजव्याघ्रसिंहावृते वनभ्रमे ।
बन्धने वातवेगे च पोते महाजले रणे ।। १२७।।
निगडे शस्त्रसम्पाते वेदनायां हृदन्तरे ।
दस्युवैरिसमाक्रान्ते पठेद्वा शृणुयात्तथा ।। १२८।।
श्रावयेच्चापि मे भक्त्या चरितं विविधं मम ।
महापूजा कारयेच्च भोजयेद्भूसुरान्बहून् ।। १ २९।।।
तत्र तत्र स्थले काले बाधायां कर्मणि स्थितौ ।
रक्षयिष्ये जनं भक्तं सर्वविधप्रसंकटात् ।। 1.168.१३ ०।।
इत्याशीर्भिर्वर्धयित्वा सभाजयित्वा तान्सुरान् ।
तेषां च पश्यतां कात्यायनी त्वन्तरधीयत ।। १३ १।।
देवाः स्वर्ग ययू राज्ये निरातंका व्यवस्थिताः ।
असुराः शेषभावाश्च जग्मुः पातालमेव ते ।। १ ३२।।
शृणु लक्ष्मि! सैव तुष्टा लक्ष्मीवृद्धिकरो गृहे ।
रुष्टा यदा तदा सैवाऽलक्ष्मीर्विनाशकारिणी ।। १ ३३।।।
सैव स्तुताऽर्चिता दद्याद्धनधान्यसुतादिकम् ।
श्रुता च कीर्तिता दद्यात्सुखसम्पद्गृहादिकम् ।। १ ३४।।
ध्याता च संश्रिता दद्यादैश्वर्याऽऽत्मबलादिकम् ।
आराधिता च सा दद्यात् ज्ञानमुक्तिपदादिकम् ।। १३५।।
प्रसादिता च सा दद्यात् स्वां च नारायणादिकम् ।
तस्यै चिदचिद्व्याप्तायै नारायण्यै नमोनमः ।। १ ३६।।
इति ते कथितं देवीसामर्थ्यं दैत्यनाशकम् ।
कथयिष्ये प्रसंगेऽन्यत् किं भूयः श्रोतुमिच्छसि! ।। १ ३७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्तानेऽनेकविधदेवीनामनेकविधासुराणां च सैन्ययोः कालकवलमन्त्रितशस्त्रास्त्रादिभिर्भूव्योमयुद्धं, ब्रह्मास्त्रप्रयोगः शुंभस्य मृषमाया, शुंभनाशः, देवीस्तुत्युपदास्तोत्रफलादिनिरूपणनामाऽष्टषष्ट्यधिकशततमोऽध्यायः ।। १६८।।