लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ११६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ११५ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)
अध्यायः ११६
[[लेखकः :|]]
अध्यायः ११७ →

श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि हृदयं द्रवते मम ।
वर्णयतो हरेर्धाम प्रत्यक्षं पश्यतो यथा ।। १ ।।
अवर्ण्यानन्दसन्दोहान् प्रभुञ्जामि प्रवर्णनात् ।
अनन्यमानसी भूत्वा हृद्यं गद्यं निबोध मे ।। २ ।।
सहस्रशो गम्यमाना विमानगाश्चिदम्बरे ।
दिव्यदृष्ट्या महातेजःपुञ्जाद्रिं पद्मयोजनम् ।। ३ ।।
ब्रह्मतेजोऽधिकखर्वगुणितेजोभिवर्धितम् ।
व्यलोकयन् दूरतस्ते शताऽब्जयोजनोच्छ्रयम् ।। ४ ।।
अक्षरब्रह्मणस्तेजोराशिर्यस्याऽणुमात्रके ।
प्रदेशे लीनतां याति तादृक् तेजो व्यलोकयन् ।। ५ ।।
अक्षरब्रह्मधाम्नस्तद्धाम श्रेष्ठं परं पदम् ।
अक्षरात् खर्णगुणितप्रभावदैकरोमकम् ।। ६ ।।
परब्रह्माऽनादिकृष्णनारायणस्य धाम तत् ।
श्रीकृष्णनारायणस्वाम्यक्षरेशस्य परात्मनः ।। ७ ।।
मूर्तिजन्यं हि तत्तेजः शाश्वतं चैकतानकम् ।
समैकरसघनकं सच्चिदानन्दनामकम् ।। ८ ।।
परब्रह्मलोकरूपं सर्वतोऽनन्तभाप्रदम् ।
यत्प्रकाशैककिरणेनाऽक्षरं पूर्णतेजसा ।। ९ ।।
पूर्यते शिष्यते नैव रिक्तं तत् तादृशं धनम् ।
यत्तेजोदर्शनं दूराच्छीतमिष्ट सुधाऽदनम् ।। 4.116.१० ।।
समर्पयति द्रष्टॄणां सर्वाकर्षणतर्पणम् ।
सर्वानन्दप्रदं सर्वामृतवर्षि प्रमोददम् ।। ११ ।।
अनन्ततृप्तिदं तेजो दूराद् व्यलोकयन् प्रियाः ।
यथा यथा विमानानि चाभियान्ति तथा तथा ।। १ २।।
मुग्धास्तेजोऽभिभूतान्तर्नेत्राऽनुद्धाटनक्रियाः ।
विमानगा अभवँश्च तदा पिहितपक्ष्मकाः ।। १३ ।।
अथ श्रीभगवान् यावत् प्रियास्वाविश्य नेत्रदः ।
नेत्रतेजोमहाशक्तिप्रदोऽभवद् विमानिषु ।। १४।।
दासा दास्यः प्रिया मुक्तानिका मुक्ताश्च ते ततः ।
कृष्णनेत्रैः कृष्णतेजोऽभवन् शक्ता विलोकितुम् ।। १५।।
एवं रूपं रसं स्पर्शं शब्दं तद्धामगं परम् ।
आदत्तुं त्वसमर्थानां कृष्णः शक्तीर्निजां ददौ ।। १ ६।।
कम्पितानां महाधैर्यं ददावाविश्य वर्ष्मसु ।
विशीर्णानां बलं वीर्यं ददौ नैजं प्रविश्य च ।। १७।।
चिदम्बरमहावेषान् ददौ दार्ढ्यबलान्वितान् ।
तदा विमानिनः स्वास्थ्यमापन्ना वीक्षितुं प्रभाम् ।। १८ ।।
अथ श्रीभगवान् तेभ्यः परब्रह्ममहानदे ।
स्नापयामास सहसा चिदाकाशगते परे ।। १९ ।।
तेनाऽऽप्तसर्वसामर्थ्याः परब्रह्मस्वरूपिणः ।
परब्रह्मसमदेहाः परब्रह्मात्मशक्तिकाः ।। 4.116.२० ।।
विमानगाः समस्तास्तद्धाम्नो योग्यास्तदाऽभवन् ।
विवृद्धशक्तिका दिव्याक्षरोर्ध्वदिव्यविग्रहाः ।।२ १ ।।
अथ स्वामिप्रतापेन विमानानि तदन्तिके ।
नदे सम्लावितान्येव बलवन्ति ततोऽभवन् ।। २२।।
आययुर्दिव्यतत्त्वानि परधामगमानि वै ।
परब्रह्ममहाधामाऽन्तिकं निरतिशायिनि ।। २३।।
महाचिद्घनतेजोभासीमान्तस्तटकाम्बरे ।
यावत्तावत्परधामानन्दं प्राप्य विमानिनः ।।२४।।
विसस्मरुः सुखं सर्वमक्षरस्य यदर्जितम् ।
परधाम्नोऽण्डभागे तत्सुखं सर्वं व्यलीयत ।।२५।।
बद्रिके श्रीहरेर्धाम्नः सुखाग्रे गणना तु का ।
असंख्याक्षरधाम्नः वै मुक्तानां गणना कुतः ।।२६।।
चिद्घने परमे धाम्नि लीना इवाऽभवन् हि ते ।
बहिष्टो नहि दृश्यन्ते मेघछन्ना यथा ग्रहाः ।।२७।।
महातेजोऽन्तःप्रविष्टा मिथो पश्यन्ति गर्भगाः ।
अन्तःस्थाश्च बहिर्नैव पश्यन्ति तेजसाऽधिकाः ।। २८।।
परधामगतानामक्षरं तम इवाऽभवत् ।
शून्यमिवाऽभवत् सर्वं शून्यं स्याद् गोचरं कथम् ।। २९।।
छायेव चाऽभवत् सर्वमक्षरं परमात्मनः ।
एतादृशं परं तेजः परं धाम व्यलोकयन् ।। 4.116.३० ।।
तेजोमयं महादुर्गं सौवर्णं चाप्यलोकयन् ।
उच्छ्रितं च विशालं चोभयथा लक्षयोजनम् ।। ३१ ।।
दैर्घ्येऽस्य गणना नास्ति सा संख्या विद्यते नहि ।
अनन्ताऽपारदैर्घ्यं वै तस्य दुर्गस्य विद्यते ।। ३२।।
गोपुरा लक्षशस्तत्र कोटिशश्च प्रकोष्ठिकाः ।
प्रस्तरा लक्षशस्तत्र कक्षाश्च लक्षशस्तथा ।।३३।।
लक्षशश्चापि तन्मध्ये प्रासादाः सेतुमाश्रिताः ।
कोटिशोऽनादिमुक्तानां निवासाः सन्ति गर्भगाः ।।३४।।
असंख्यमण्डपास्तत्राऽसंख्यमुक्तानिकाऽऽलयाः ।
असंख्यसौधप्रासादा यत्र विधन्त ऊर्ध्वगाः ।। ३५।।
असंख्यानि विमानानि यत्स्तरेषु श्रमन्ति च ।
असंख्यभूमिकावासाऽनादिमुक्ता वसन्ति च ।। ३६।।
एतद्दुर्गसमं दिव्यमसंख्ययोजनायतम् ।
नगरं नाऽपरं दृष्टं पूर्वं विमानगैस्तदा ।। ३७।।
परधाम्नोऽभितो दुर्गश्चायं सर्वोत्तमोत्तमः ।
असंख्यनगरात्मा चासंख्योद्यानप्रशोभनः ।।।३८।।
असंख्यमुक्तवसतिशोभाढ्यो धामरक्षकः ।
अत्राऽनादिकृष्णमूर्तेः किरणानि समन्ततः ।।।३९।।
पतन्ति तैः सदा दुर्गे स्मृद्धयः शाश्वतात्मिकाः ।
किरणेभ्यः सुधावर्षा भवन्ति च यथेष्टकाः ।। 4.116.४०।।
परब्रह्मसुधानद्यो दुर्गे वहन्ति मध्यगाः ।
महानदास्तटाकाश्च दीर्घिका वाटिकास्तथा ।।४१ ।।
नित्यपूर्णा महानन्दप्रदा भवन्ति दुर्गिणाम् ।
रसकुल्या घृतकुल्या दधिकुल्या भवन्ति च ।। ४२।।
पानकुल्या वारिकुल्या मधुकुल्या भवन्ति च ।
शीतकुल्या ऊष्णकुल्याः स्वादकुल्या भवन्ति च ।।४३ ।।
लेह्यकुल्याश्चोष्यकुल्या भोज्यद्रवा भवन्ति च ।
भक्ष्याद्रयो भोज्यशैलाः फलपुष्परसोत्तमाः ।।४४।।
मिष्टादनोदजान्नानि शर्कराः संभवन्ति च ।
पिण्याकानि समस्तानि पीयूषाण्युत्तमानि च ।।।४५।।।
मूर्तिरस्यानि सर्वाणि तृप्तिदाज्यानि यान्यपि ।
नवनीतानि तक्राणि दुग्धसाराणि यान्यपि ।।४६।।
क्षीराणि पायसानिष्टप्रियाणि संभवन्ति च ।
सर्वरसोत्तमा दिव्याः कल्पद्रुमकरन्दकाः ।।४७।।
कल्पवल्लीफललेह्यपेयरसा भवन्ति च ।
शाखिदुग्धाऽमृतसाराः सिद्धान्नानि भवन्ति च ।।४८।।
सर्वशाकरसाः सर्वमिश्ररसा भवन्ति च ।
सर्वशृंगारभोगार्हद्रवोद्भवा भवन्ति च ।।४९।।
सर्वशय्यागन्धवासाः किरणेभ्यो भवन्ति च ।
सर्वशालासुखपुञ्जा दिव्याऽक्षय्या भवन्ति च ।।4.116.५० ।।
सर्वभूषाम्बरवेषा वाटिकोद्यानसंभवाः ।
सर्वेष्टपात्रपुञ्जाश्चोपस्काराश्च भवन्त्यपि ।।५१ ।।
सर्वसौन्दर्यसद्द्रव्याण्युत्तमानि भवन्ति च ।
सर्वरागा रञ्जनानि चिक्कणानि भवन्त्यपि ।।५२।।
सर्वतेजांसि वर्चांसि बलानि पुष्टयस्तथा ।
धातवः सुखदाः कृष्णकिरणैः सम्भवन्ति च ।।५३।।
किरणैः सम्प्रजायन्ते रत्नमौक्तिकहीरकाः ।
मणयो हेतवः सर्वसाधनानि शुभानि च ।।५४।।
बद्रिके कोमलं रूक्षं मृदु तीव्रं च मध्यमम् ।
यद्वस्तु यादृशं यैश्चापेक्ष्यते तत्प्रजायते ।।।५५।।।
कायाकल्पाः प्रजायन्ते कायाविवर्तकान्यपि ।
यथेष्टरूपधारित्वं कल्पशृंगैर्भवन्ति हि ।।५६।।
असंख्यानन्तभोगानामालयो दुर्ग एव सः ।
यत्समस्तवर्णनं तु शक्यते नाऽक्षराऽऽयुषा ।।५७।।
वीक्ष्य दुर्गं विमानस्था ध्यजतोरणराजितम् ।
चक्रुर्मनांसि तत्रैवोषितुं चानन्ददायिनम् ।।५८।।
अथापि चोह्यमानास्ते तथाऽग्रे वीक्षणेच्छया ।
ययुर्विमानगाश्चाऽग्रे सप्त दुर्गान् प्रवीक्षितुम् ।।५९।।
परार्धयोजनभूम्यान्तरभागोत्तरस्थितान् ।
अनाद्यनन्तमुक्तानां राष्ट्राणां रक्षकान् शुभान् ।।4.116.६० ।।
घनतेजोमयीं भूमिमसंख्यनगराश्रयाम् ।
असंख्यानादिमुक्तानां वसत्यादिसमाश्रिताम् ।।६ १ ।।
सर्वर्द्धिसहितां सर्वरसपूर्णां मनोहराम् ।
सर्वसस्यद्रुमवृक्षलतावल्लीतृणान्विताम् ।।६२।।
परब्रह्मात्मकमिष्टफलकन्ददलप्रदाम् ।
सर्वभोग्यप्रदां कामरूपध्रां सरिदन्विताम् ।।६३।।
परब्रह्मरसवारियुक्ततडागशोभनाम् ।
महानदनदीव्याप्तां महासागरशोभनाम् ।।६४।।
दिव्यामृतसरोभिश्च सर्वकमलयोगिभिः ।
असंख्यमुक्तवल्लीभिः शोभनां हृदयंगमाम् ।।६५।।
व्यलोकयन् विमानस्था सच्चिदानन्दतन्मयीम् ।
वीक्ष्य तां दीर्घपट्टां चाप्यनन्तां दिव्यगोचराम् ।।।६६।।
आगतं कानकं दुर्गं घनतेजोऽभिरामकम् ।
व्यलोकयन्महाश्चर्ययुतं पूर्ववदायतम् ।।।६७।।।
पूर्ववदुच्छ्रितं पूर्ववत् सुवसतिसंश्रयम् ।
अनादिदिव्यमुक्तानां प्रासादैर्गोपुरैर्युतम् ।।६८।।।
संकल्पोत्थसमस्तैश्च भोग्यभोगोपसाधनैः ।
भोगोपकरणैर्दिव्यैः संभृतालयशोभनम् ।।६९।।
आश्चर्यं परमं प्राप्ता वीक्ष्य विमानगामिनः ।
बद्रिके ते कल्पयन्ति प्रतीक्षन्ते हरेर्गृहम् ।।4.116.७०।।
महाश्चर्यमयं चेदं प्राप्य नेति विदन्त्यपि ।
अथाऽग्रे प्रययुश्चापि भूमिकां दीर्घपट्टिकाम् ।।७१।।
असंख्याऽनादिमुक्तानां नगरैरधिवासिताम् ।
पूर्ववच्छोभनां सर्वभोग्यभोगोपसाधनैः ।।७२।।
सर्वभोगोपकणैरलंकृतां प्रभासुराम् ।
वीक्ष्याश्चर्यमयीं भूमिं चासंख्यनगराश्रिताम् ।।।७३।।।
ययुरग्रे परं दुर्गं सौवर्णतैजसोद्भवम् ।
पूर्ववदायतं पूर्ववदुच्छ्रितं मनोहरम् ।।७४।।
असंख्याऽनातिमुक्तानामावासैरतिशोभनम् ।
सर्वकामर्द्धिसहितं सर्वरसादिसंभृतम् ।।७५।।।
सर्वचिन्तोद्भवतत्त्वप्रदं दिव्यसुखप्रदम् ।
आवीक्ष्य तं महादुर्गं तदन्तर्भूमिमागताः ।।७६।।
विमानिनः समस्तास्ते व्यलोकयन् हि राजतीम् ।
श्वेतां चन्द्रसमां भूमिं सर्वर्द्धिवसतिश्रिताम् ।।७७।।
असंख्यानादिमुक्तानां पत्तनाद्यधिशोभिताम् ।
असंख्ययोजनायामां ययुर्दुर्गं चतुर्थकम् ।।७८।।
दिव्यराजततत्त्वात्मतेजोराशिसमुद्भवम् ।
पूर्ववदायतं सर्वस्मृद्धिभोग्यसमन्वितम् ।।७९।।
असंख्यानादिमुक्तानां शुक्लानां मन्दिरैर्युतम् ।
वीक्ष्येदं वै भवेत् कृष्णनारायणस्य मन्दिरम् ।।4.116.८०।।
एवं प्रतर्कयन्तस्ते न प्राप्याऽग्रे ययुर्द्रुतम् ।
भूमिं वै दिव्यवैदूर्यतेजोमयीं तथाऽऽयताम् ।।८ १ ।।
दिव्याऽनादिमुक्तवासामसंख्यर्द्धिरसान्विताम् ।
सर्वकामप्रपूरां चालोकयन् बहुशोभनाम् ।।।८२।।
पूर्वतेजोऽधिकतेजोरसमयीमनुत्तमाम् ।
वीक्ष्य तूर्णं पुरो याता दुर्गं तु पञ्चमं प्रति ।।।८३।।
स्फाटिकाख्यमणिगर्भमहातेजोऽभिनिर्मितम् ।
असंख्यानादिमुक्तानां दिव्यालयादिशोभनम् ।।८४।।
श्रीहरैः किरणैः सर्वभोग्यतत्साधनान्वितम् ।
महानन्दप्रदं बद्रि वीक्ष्याऽग्रे प्रययुश्च ते ।।८५।।
षष्ठं दुर्गं तथादीर्घायतोच्छ्रयं मनोहरम् ।
सर्वाऽसंख्यमहादिव्यकौस्तुभमणिविग्रहम् ।।८६।।
असंख्यानादिमुक्तानां दिव्यमन्दिरशोभनम् ।
सर्वदिव्यर्द्धिसहितं सर्वकामप्रपूरकम् ।।८७।।
विमानगास्त्विदं कृष्णनारायणाश्रयस्थलम् ।
मत्वा वीक्ष्य तमप्राप्य ययुरग्रे समुत्सुकाः ।।८८।।
लीलाभूमिं विशालां च दिव्यतेजोभिशोभनाम् ।
पूर्वपूर्वत उत्कृष्टतेजोरसर्द्धिवर्धिताम् ।।८९।।
असंख्याऽनादिमुक्तानां वसत्या वासितां शुभाम् ।
महासाम्राज्यशोभाढ्यां सर्वानन्दपरिप्लुताम् ।।4.116.९०।।
सर्वेन्द्रियसुखानन्दप्रदां दिव्यात्मगोचराम् ।
वीक्ष्याऽग्रे प्रययुः सर्वे दुर्गं तु सप्तमं प्रति ।।९ १।।
चिन्तामणिमहातेजःक्लृप्तं पूर्ववदायतम् ।
असंख्यानादिमुक्तानां महामन्दिरशोभनम् ।।९२।।
सर्वर्द्धिसहितं सर्वभोग्यभोगाभिपूरितम् ।
अयं नाथस्य वासश्चेत्येवं मत्वाऽनवाप्य तम् ।।९३।।
ययुरग्रे दिव्यचिन्तामणिभूमिं तदुत्तमाम् ।
सर्वर्द्धिसहितां सर्ववनोद्याननदादिभिः ।।९४।।
शोभनां सर्वथा दिव्यामसंख्ययोजनायताम् ।
असंख्यानादिमुक्तानां प्रासादपत्तनान्विताम् ।।९५।।
वीक्ष्य तूर्णं ययुर्दुर्गमष्टमं कल्पतत्त्वजम् ।
कल्पतेजोमयं सर्वकल्पकिरणभोगदम् ।।९६।।
असंख्यानन्तमुक्तानामनादीनां च मन्दिरैः ।
सर्वथा सर्वतो व्याप्तं सर्वदुर्गोत्तमोत्तमम् ।।९७।।
पूर्वेभ्यश्चापि सर्वेभ्यो विशालायतमुच्छ्रितम् ।
असंख्यभूमिकाव्यक्षास्तरमालाविराजितम् ।।९८।।
अनादिश्रीकृष्णनारायणोत्थकिरणान्वितम् ।
सर्वविधाभिर्भाभिश्च परब्रह्मरसप्रदम् ।।९९।।
असंख्यगोपुरैर्युक्तमुपर्युपरि संस्थितैः ।
असंख्यभूमिकाकक्षाऽनादिमुक्ताऽभिवासितम् ।। 4.116.१० ०।।
असंख्यघनतेजोजस्वर्णमण्डपकोष्ठकम् ।
असंख्यगह्वरगर्भमसंख्यतोरणोज्ज्वलम् ।। १० १।।
असंख्ययानसंयानविमानाद्यभिसंश्रितम् ।
असंख्यचन्द्रशालास्थोद्यानवाटीसुशोभनम् ।। १ ०२।।
असंख्यदीर्घशिखरैर्युक्तप्रासादविग्रहम् ।
असंख्यनगरावासं चाऽसंख्यपत्तनान्वितम् ।। १ ०३।।
असंख्यानन्तसम्पद्भिर्भोग्याभिश्च प्रपूरितम् ।
भोगोपकरणैर्दिव्यैर्भोगैः प्रसाधनैर्युतम् ।। १ ०४।।
असंख्याऽनन्तदिव्येष्टकल्पग्रावमणिकृतम् ।
असंख्यदिव्यशालाभिर्विहारै रासमण्डलैः ।। १०५ ।।
युक्तं रंगविचित्रांऽगमण्डपैर्गर्भवर्तिभिः ।
असंख्याऽव्ययसर्वोर्ध्वदिव्यानन्दसरिन्नदैः ।। १०६ ।।
महानन्दसरोभिश्च शोभितं कनकोज्ज्वलम् ।
अनादिश्रीकृष्णनारायणरूपाऽनुरूपिभिः ।। १ ०७।।
शक्तिसामर्थ्यमुक्तैश्चाऽध्युषितं सर्वतोमुखैः ।
अनादिमुक्तमुक्तानीसाम्राज्यदिव्यमन्दिरम् ।। १ ०८।।
उपर्यनन्तं च तलेऽप्यनन्तं
पार्श्वेऽप्यनन्तं परितोऽप्यनन्तम् ।
मध्येऽप्यनन्तं क्रमणेऽप्यनन्तं
ह्यपारपारं तमलोकयँस्ते ।। १ ०९।।
समस्तभोगं च समस्तमोदं
समस्तपीयूषमखण्डशंदम् ।
समस्तसौख्यं च समष्टिबीजं
दुर्गं महान्तं तमलोकयँस्ते ।। 4.116.११ ०।।
सदैकतत्त्वं बहुभावरूपं समस्तसत्कामसुपूरकं च ।
समस्तसच्चेतनकल्पकान्तप्रख्यैर्मणीन्द्रैरभिरामकं तम् ।। १११ ।।
व्यलोकयन् वल्लभिकासमृद्धि-
प्रकाशनातिप्रभुमिष्टदं च ।
कल्पद्रुचिन्तामणिकल्पवल्ली-
कल्पोर्मिकाचक्रमणीन्द्रगर्भम् ।। ११ २।।
समस्तसत्सौरभरम्यरूप-
समस्तकाऽऽस्वादनसद्रसाढ्यम् ।
असंख्यकाऽऽकर्षणभृत्स्वराढ्य-
मसंख्यसत्स्पर्शसुखप्रदं च ।। ११३।।
यत्र कामदुघा गावो यत्र कल्पप्रिया, रमाः ।
यत्राऽऽनन्दप्रदा मुक्ता निवसन्त्यभितः सुखाः ।। ११ ४।।
येषां प्रत्येकनिलये द्वारदेशेऽग्रभागके ।
सृष्टिदृश्यो मणिश्चास्ते सर्वसाक्षात्प्रदर्शनः ।। ११५ ।।
येषामन्तर्गृहे भित्तौ सृष्टिश्राव्यो मणिः स्थितः ।
सर्वसृष्टिस्वरशब्दश्रावको बोधदायकः ।। ११६
येषां देहलिकामध्ये चास्ते वै मानसो मणिः ।
सृष्टिमानससाक्षात्कारप्रदो दिव्यबोधनः ।। ११ ७।।
येषां गृहविताने च लम्बते तु सुधामणिः ।
सर्वतृप्तिप्रदः सर्वानन्दप्रमोदसौख्यदः ।। ११८ ।।
येषां तु चत्वरे चास्ते कल्पद्रुर्मणिसत्फलः ।
सर्वास्वादरसदाता शाश्वतीं तृप्तिमावहन् ।। ११ ९।।
येषामन्तर्गृहे चास्ते स्पर्शानन्दप्रदो मणिः ।
कृष्णस्पर्शप्रदः सर्वस्पर्शदः शाश्वतः सुखः ।। 4.116.१२० ।।
विशिष्टं बद्रिके! तत्र शृणु त्वं वै रहस्यकम् ।
गृहे गृहे कामफलं मुक्तेच्छापूरकं परम् ।। १२१ ।।
वर्ततेऽनादिकृष्णेन दत्तं तु प्रतिमुक्तकम् ।
फलं स्पृष्ट्वाऽनादिमुक्तो भूत्वा मुक्तानिका प्रिया ।। १ २२।।
कान्तं कृष्णं पतिं कृत्वा सेवितुं यदि वाञ्छति ।
तदा कृष्णा प्रिया भूत्वा कण्ठे धूत्वा फलं तु तत् ।। १२३ ।।
सेवते स्वपतिं कृष्णनारायणं रतिप्रिया ।
पूर्णानन्दं परं भुक्त्वा प्रसाद्य वल्लभम्प्रभुम् ।। १ २४।।
मणिमुत्तार्य कण्ठात्तं फलाख्यं जायते पुमान् ।
एतद्वै परमैश्वर्यं स्वयं जानाति नेतरः ।। १ २५।।
यस्मै दत्तं फलं यत्तु तद्वै तस्य प्रवर्तते ।
नाऽन्यहस्तगतं तद्वै प्रवर्ततेऽन्यरूपणे ।। १ २६।।
एतदेव महाश्चर्यं सर्वानन्दप्रदप्रभोः ।
मुक्तानां सर्वकामानां पूरकस्य परात्मनः ।। १ २७।।
सन् स्वयं भगवाँस्तत्र चित् सा मुक्तानिका तदा ।
तयोरानन्द उत्कृष्टः सच्चिदानन्द इत्ययम् ।। १ २८।।
य एतां परमां दिव्याम मुक्तिरहस्यबोधिकाम् ।
उपनिषदं जानाति सोऽपि यायात्परां गतिम् ।। १ २९।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने हृद्यबोधने परे धाम्नि दिव्याऽष्टदुर्गराष्ट्राऽनादिमुक्तवसतितदालयैश्वर्यतद्रहस्योपनिषदादिवर्णननामा षोडशाधिकशततमोऽध्यायः ।। ११६ ।।