लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ११५

विकिस्रोतः तः
← अध्यायः ११४ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)
अध्यायः ११५
[[लेखकः :|]]
अध्यायः ११६ →

श्रीनरनारायण उवाच-
रासमण्डलतश्चोर्ध्वं हरेर्विहारमण्डलम् ।
लक्षयोजनविस्तारं व्यलोकयन् विमानगाः ।। १ ।।
यत्र परममुक्तानां निवासा मन्दिराणि च ।
प्रासादा दिव्यकलशाः सन्ति कृष्णालया यथा ।। २ ।।
मुक्ता मुक्तानिका भूत्वा सेवन्ते कान्तमच्युतम् ।
विहारो यत्र सौधेषु भवन्ति ब्रह्मयोषिताम् ।। ३ ।।
कोटिकोट्यर्बुदपत्न्यो मुक्तानिका हरिं पतिम् ।
विहारमण्डले नैजसौधेषु दिव्यविग्रहाः ।। ४ ।।
सेवन्ते परमात्मानं सुखशय्यास्वहर्निशम् ।
शृंगारा यत्र वर्तन्ते नवा दिव्याश्च शाश्वताः ।। ५ ।।
पानभोजनभोगाश्च वर्तन्तेऽमृतसंभृताः ।
यत्र कामदुघा गावो विद्यन्ते मानसेष्टदाः ।। ६ ।।
यत्र शय्याः कोमलाश्च नित्यसुगन्धिसंभृताः ।
मानसेष्टप्रदाः सर्वाः सुखस्पर्शाश्चिदात्मकाः ।। ७ ।।
दिव्यरूपस्पर्शगन्धशब्दरसरतिप्रदाः ।
कल्पताम्बूलवल्ल्यादिपत्रचर्वणगन्धिकाः ।। ८ ।।
सुगन्ध्युत्तरसुरभिकेसरादिविराजिताः ।
कामपूरास्तथा सर्वोपकरणोत्तमाञ्चिताः ।। ९ ।।
स्नानशालास्तापशाला रसशालाश्च यत्र वै ।
भोज्यशाला रहःशालाः स्वापशालाश्च यत्र वै ।। 4.115.१० ।।
द्रवशाला नाट्यशाला दृश्यशालाश्च यत्र वै ।
गीतशाला नृत्यशाला वेषशालाश्च यत्र वै । । ११ ।।
सर्वशृंगारशालाश्च कामशालाश्च यत्र वै ।
भोगशालाश्चांगप्रसाधनशालाश्च यत्र वै ।। १ २।।
रेखाशालास्तथा कान्ताश्लेषशाला भवन्ति च ।
प्रासादा कलशैर्युक्ता दिव्या स्वर्णविनिर्मिताः ।। १३ ।।
शोभन्ते कोटिशो यत्र विहारमण्डलोऽभितः ।
नगराणि विचित्राणि विचित्रमन्दिराणि च ।। १४। ।
वर्तन्ते मुक्तकोटीनां निवासा यत्र चाभितः ।
वसतयः सेवकानां सेविकानां भवन्त्यपि । । १५ ।।
दासानां चापि दासीनां पुंरूपाणां भवन्त्यपि ।
सुहृदां मित्रवर्गाणां मुक्तानां सुगृहाणि च ।। १६ ।।
भवन्ति श्रीहरेः सौधभाऽऽभभावन्ति तत्र ह ।
एवं विहारिमुक्तानां वीक्ष्य विहारमण्डलम् ।। १७।।
विमानगा ययुरग्रे राष्ट्रप्रदेशभूमिषु ।
हरिद्वर्णाऽतिरसभृन्मिष्टकणिशवन्ति वै ।। १८ ।।
यासु सस्यानि सर्वाणि राजन्ते ऋद्धिमन्ति च ।
दिव्यब्रह्ममयान्येवाऽक्षतशालिभिधानि च ।। १ ९।।
गोधूमयवनिवारचणकादीनि सन्ति वै ।
दिव्यब्रह्मस्वरूपाणि कामरूपाणि तानि वै ।।4.115.२०।।
मुक्तरूपाणि सस्यानि धामिनां सुखदानि हि ।
इक्षुक्षेत्राणि परितः शाकक्षेत्राढ्यवाटिकाः ।। २१।
राजन्ते दीर्घिकावापीकूपतडागवन्ति च ।
सरितो दिव्यजलदा वहन्ति चित्स्वरूपिकाः ।।।२२।।
सीमभूमिप्रदेशाश्च विद्यन्ते फलिपादपाः ।
अनेकपुष्पिवृक्षाणां वृतिभिर्वर्तुलीकृताः ।।२३।।
रक्षिताः सर्वतो दिग्भ्यो महासस्यसमृद्धयः ।
मुद्गमाषै राजमाषैः कङ्गूभिः शोभिताः शुभाः ।।२४।।।।
राजिकाकेसरैर्युक्ता दुग्धिकाबृहतीयुताः ।
अनेकान्नेरसंख्यैश्च भाजीशाकैः समन्विताः ।।।२५।।
कन्दपुष्पदलाद्यैश्च समृद्धाः शोभना ह्यति ।
कर्षुकाख्यप्रमुक्तानां नगराणि च तत्र वै ।।२६।।
सन्ति ग्रामाश्च खेटाश्च खर्वटा गोपकर्मणाम् ।
पुराणि दिव्ययोगानि दिव्यव्यापारवन्त्यपि ।।२७।।
भवन्ति दिव्यसौवर्णवर्णानि प्रोज्ज्वलानि च ।
यत्र मुक्ता महामुक्ता वसन्ति ब्रह्मरूपिणः ।।२८।।।
तथा परममुक्ताश्च वसन्ति ब्रह्मयोगिनः ।
अनादिश्रीकृष्णनारायणख्यपरायणाः ।।।२९।।
येषां कर्मकलापा वै दिव्याः कृष्णपरायणाः ।
भवन्ति सर्वथा बद्रि ताँस्ते व्यलोकयन् मुदा ।।4.115.३ ०।।
आलयानाश्रमानावसथान् सौधान् कुटीस्तथा ।
गृहाणि कोटरान् मन्दिराणि कुंजान् निकुंजकान् ।।३१ ।।
सौधान् शाला निवासाँश्च भवनानि च गर्भकान् ।
विद्यालयान् कलाशाला गोशाला गोपुरान् शुभान् ।। ३२।।
दुर्गान् भित्तिस्तम्भशृंगाण्यपि वृत्तसुमण्डपान् ।
उपगृहाणि चारामान् छत्राणि तूपकाँस्तथा ।। ३३।।
सभागृहाणि च न्यायनृत्यगान्धर्वभूमिकाः ।
मल्लनाट्येन्द्ररमणान् महानसानि यान्यपि ।।३४।।
मखालयान् राजसौधानापणान् व्योमकोष्ठकान् ।
त्रिवरान् द्वारदेशाँश्च वीक्ष्य सौवर्णशोभनान् ।।३५।।
समाकाररचनाँश्च स्वर्णकलशराजितान् ।
नैसर्गिकप्रकाशाँश्च सर्वर्द्धिप्रदभित्तिकान् ।। ३६।।
कल्पकुंभीकल्पचुल्लीकल्पपात्रविराजितान् ।
अक्षय्येष्टप्रदान् वीक्ष्य भोज्यपानर्द्धिसंभृतान् ।।३७।।
सर्वोपकरणैर्युक्तान् दिव्यशाश्वतविग्रहान् ।
सच्चिदानन्दरूपाँश्च सर्वरंगर्द्धिशोभनान् ।। ३८।।
ध्वजैः पताकिकाभिश्च वावातादिभिरन्वितान् ।
दिव्यमुक्तगणैर्युक्तान् वीक्ष्य प्राप्य समर्हणाम् ।।३९।।
अग्रे विमानगा देशानुल्लंघ्याऽर्बुदयोजनान् ।
मुक्तवसतीन् संवीक्ष्य ययुः सुराष्ट्रमुत्तमम् ।।4.115.४०।।
यत्र मार्गा दीर्घतमा ब्रह्मसमुद्रयोगिनः ।
वनपर्वतवसतीनभिव्याप्य च मण्डपान् ।।४१।।
मण्डलानि पुरग्रामान् समायान्ति सुराष्ट्रकम् ।
छायावृक्षैः फलिवृक्षैर्युताः पन्थान उत्तमाः ।।।४२।।
सर्वयात्रिकसुखदाः सुभगा रमणीयकाः ।
प्रवासिनां सर्वभोग्यप्रदाः सच्चिद्रसप्रदाः ।।४३।।
विद्यन्ते ते मृदुस्पर्शा गतिश्रमविवर्जिताः ।
शीतोष्णानुकूलसर्वतत्त्वाऽऽनन्दप्रदाः शुभाः ।।४४।।
पार्श्वनदीनदवारिसुधावलीद्रुशोभिताः ।
तरुसूच्चफलवालुमृदुपार्श्वसुशोभिताः ।।४५।।
पुष्पीवृक्षकृतराजिकदम्बराजिराजिताः ।
लताप्रतानितछत्रच्छायाद्रुमसुपार्श्वकाः ।।४६।।
शर्कराफलवल्लीनां कृत्रिमनदपार्श्वकाः ।
चञ्चद्दिव्यमहामूल्यमणिगर्भातिशोभनाः ।।४७।।
कूष्माण्डवल्लिकाव्याप्तकुटीयुक्क्षेत्रमध्यगाः ।
त्र्यमृतस्तम्बक्षेत्रान्तःप्रविष्टदीर्घयायिनः ।।४८।।
मधुस्राविमहावृक्षशाखारसाभिषेकिनः ।
ब्रह्मचन्दनवृक्षाणां रसवृष्ट्या सुगन्धिताः ।।४९।।
देवपुष्पविकीरैश्चाञ्चिताः शय्याभसौख्यदाः ।
मुक्तमुक्तानिकावृन्दपादपद्मातिपावनाः ।।4.115.५ ०।।
नैकधातुप्रचूर्णोत्थलहरीवलिशोभिताः ।
पार्श्वविश्रान्तिवेदीभिर्मनोहराऽऽश्रयप्रदाः ।।५१।।
नदीनदमहासेतुसंकलनाऽद्वितीयकाः ।
मुक्तिसौख्यप्रदा मार्गास्तृप्तिदा नित्यसौख्यदाः ।।५२।।
मध्यक्षेत्रीयसृतिभिः संगताश्चत्वरान्विताः ।
तानप्रतानमार्गैश्च मिलिता देशदर्शकाः ।।५३।।
सुधापर्वात्मकशालाऽमृतदानप्रमोददाः ।
ब्रह्मराष्ट्राऽऽविद्धमध्या परब्रह्मगृहान्तगाः ।।५४।।
अनादिमुक्तविहराः शाश्वतानन्दसंभृताः ।
अपुनरावर्तनाश्च गतानां मुक्तिसंगिनाम् ।।५५।।
मांगलिकरसद्रव्यैः सिक्ताः श्रेयोरसादिभिः ।
कल्याणपदवीयुक्ता विशाला बहुविस्तराः ।।५६।।
एतादृशान्मोक्षमार्गान् वीक्ष्याऽऽश्चर्यगतास्तु ते ।
अग्रे विमानगा देशानसंख्ययोजनायतान् ।।५७।।
वीक्ष्य तुल्यर्द्धिसम्पद्भिः शोभनान् ययुरुत्सुकाः ।
अपश्यन् दूरतस्ते चाऽक्षरधामपुरं महत् ।।।५८।।।
परार्धयोजनदीर्घदिव्यचिद्भूविराजितम् ।
असंख्याऽक्षरमुक्तानामावासमन्दिरात्मकम् ।।५९।।
सर्वसृष्टिमहातेजोऽधिकतेजोऽम्बरान्वितम् ।
सर्वसृष्टमहानन्दाधिकानन्दाऽम्बरान्वितम् ।।4.115.६०।।
सर्वसौरभवासं च सर्वरूपाभिरूपवत् ।
सर्वरसाऽधिमिष्टं च सर्वमिष्टस्वरान्वितम् ।।६१ ।।
सर्वलावण्ययुक्तं च सर्वमाधुर्यसंभृतम् ।
असंख्यानादिमुक्तानां महामन्दिरशोभनम् ।।६२।।
कोटिकोट्यब्जसूर्याणां तेजोवत्कलशान्विताः ।
दिव्यशृंगयुता यत्र शोभन्ते मुक्तसंश्रयाः ।।६३।।
कामरूपधराऽनादिमुक्तवृन्दा वसन्ति च ।
दिव्यरत्नहीरकाणां मणीनां मन्दिरेषु ह ।।६४।।
असंख्यपारं तद्धाम सर्वधामोत्तमोत्तमम् ।
असंख्यदिव्यसंयानविमानैरुपशोभितम् ।।६५।।
असंख्यनगरैर्ग्रामैः पत्तनैः खेटखर्वटैः ।
उद्यानारामवाटीभिः क्षेत्रभूविस्तरैर्युतम् ।।६६।।
सच्चिदानन्दतत्त्वैस्तैर्ब्रह्मपुरैरलंकृतम् ।
सर्वगोपुरदुर्गाद्यैर्वनपर्वतराजिभिः ।।६७।।।
आक्षरैश्च नदीसरोवरैर्नदैः सुशोभितम् ।
कौस्तुभानां दीर्घशृंगैः पर्वतैरतिशोभनम् ।।६८।।
असंख्यदिव्यदुग्धानां कुल्याभिरभितो युतम् ।
सुधापीयूषभोज्यानां कुल्याभिरभिरामकम् ।।६९।।
यानवाहनशय्यानामुपस्कारैः समृद्धिमत् ।
कामरूपधरमुक्तमुक्तानिकाकृताश्रयम् ।।4.115.७०।।
सर्वसमानरूपैश्च कृष्णनारायणाश्रितैः ।
कृतावासमनन्तं चाऽपारमसीमकं महत् ।।७१ ।।
सर्वसस्यर्द्धिसंयुक्तं फलान्नकणसिद्धिमत् ।
सर्वदिव्यसुसौवर्णभूमिगृहादिपत्तनम् ।।९२।।
असंख्यस्तम्भसंशोभन्महासौधालिसत्प्रभम् ।
निसर्गधामतत्त्वोत्थसर्वभोग्यसुहेतुकम् ।।७३।।
यस्य पारो न वै चास्ति गन्तॄणां व्योमचारिणाम् ।
दिव्यचक्षुष्मतां कृष्णदृष्ट्या मनाक् सुगोचरम् ।।७४।।
यत्र मुक्ता असंख्याता राजाधिराजरूपिणः ।
कृष्णनारायणतुल्या वृन्दात्मानो भजन्ति तम् ।।७५।।
बद्रिके केचन मुक्ताः सभाऽऽत्मानश्च कोटिशः ।
ध्यायन्ति परमात्मानं श्रीकृष्णं पुरुषोत्तमम् ।।७६।।
अन्येऽब्जसंख्यका मुक्ताः कथां शृण्वन्ति शार्ङ्गिणः ।
अपरे पद्मसंख्याश्च स्तुवन्ति स्वामिनं हरिम् ।।७७।।
तथाऽन्ये स्वामिनो वाद्यैः कीर्तनं विदधत्यपि ।
अर्चयन्ति शतवस्तुभिश्चेतरे हरिं पतिम् ।।७८।।
तथाऽन्ये दास्यमेवाऽपि कुर्वन्ति परमात्मनः ।
आत्मनिवेदनं मुक्तानिकाः कुर्वन्ति सत्पतौ ।।७९।।
रमन्ते श्रीहरेरग्रे सेवन्ते तन्मनोऽनुगाः ।
यज्ञे तथा हरिं मुक्ता आराधयन्ति तन्मयाः ।।4.115.८०।।
भोजयन्ति स्नापयन्ति संवाहयन्ति तं हरिम् ।
नीराजयन्ति तं नाथं प्रसादयन्ति चाऽर्पणैः ।।८ १ ।।
रञ्जयन्ति गन्धीयन्ति शृङ्गारयन्ति माधवम् ।
आनन्दयन्ति बहुधा पाययन्ति सुधामृतम् ।।८२-।।
धूपयन्ति दीपयन्ति यथा तद्रूपधारिणः ।
एवं विविधरूपाँश्च परार्धाऽधिकमुक्तकान् ।।८३।।
विमानगा विलोक्यैवाऽऽश्चर्यं प्रापुः परं तदा ।
सेवाभक्तिप्रकाराँश्च वीश्य निर्मानतां गताः ।।८४।।
अक्षरः पुरुषः सोऽपि निजालये परेश्वरम् ।
अनन्तमुक्तसहितः सेवते स्वामिनं हरिम् ।।८५।।
सर्वदेहकृताभिश्च क्वचिन्नारी क्वचिन्नरः ।
भूत्वा भूत्वा क्रियाभिश्च सेवते स्वामिनं निजम् ।।८६।।
अक्षरस्य महासौधे कोट्यर्बुदादितोरणे ।
कोट्यर्बुदस्तम्भतोलये कोट्यर्बुदादिशृंगके ।।८७।।
असंख्यभोग्यवस्त्वाढ्येऽसंख्यदासीसमन्विते ।
असंख्यमुक्तमुक्तानीसेविते ब्रह्मरूपिणि ।।८८।।
ब्रह्महोलसंज्ञे स्वे सेवते स्वपतिं हरिम् ।
वीक्ष्येदं सेवनं बद्रि ब्रह्मप्रियास्तु सर्वथा ।।८९।।
स्तब्धा निर्गर्वभावं च प्राप्ताः स्वस्वामिनं प्रति ।
एवंविधं तु तद्धामाऽक्षरं तद्वसतीन् शुभान् ।।4.115.९०।।
भुक्तावसतीन् सेवां च वीक्ष्याऽक्षरगृहं तथा ।
अक्षरं सेवकं वीक्ष्य महानन्दं प्रलेभिरे ।।९ १।।
अक्षरस्य गृहे बद्रि विशालेऽसंख्ययोजने ।
ईश्वराणां समस्तानां मुक्तानां दिव्यवर्म्मणाम् ।।९२।।
ब्रह्माण्डानां च सर्वेषामुद्धयः सौक्ष्म्यतः स्थिताः ।
अक्षरे वद्रिके सर्वमेतज्जगच्चराचरम् ।।९३।।
विद्यते संस्थितं बद्रि सर्वसृष्टिस्वरूपकम् ।
यदक्षरगृहे चास्ते तद् ब्रह्माण्डेषु वर्तते ।।९४।।
यदक्षरगृहे नास्ति सृष्टिषु तन्न विद्यते ।
एकैकस्मिन् मणौ दिव्ये वसन्ति भिन्नसृष्टयः ।। ९५।।
एतादृशा हि मणयः सन्त्यक्षरगृहे शुभाः ।
मायाधामानि सर्वाणि विद्यन्ते चैकके मणौ ।।९६ ।।
गोलोकाद्या महाभौमा विद्यन्ते चैकके मणौ ।
वैकुण्ठाद्या आलयाश्च विद्यन्ते चैकके मणौ ।। ९७ ।।
वासुदेवादयो व्यूहाः सर्वर्द्धिसहिता मणौ ।
वर्तन्ते चैकके कर्तुं वर्णनं नैव शक्यते ।। ९८ ।।
एतादृशं ब्रह्मपदं धामाऽक्षरं सुशोभनम् ।
असंख्यर्द्धिभृतं वीक्ष्य लब्ध्वा पूजां च तत्कृताम् ।। ९९ ।।
अवतारालयान् दिव्यान् मन्दिराण्युत्तमानि च ।
असंख्यान् मुक्तरूपाँश्च कृष्णनारायणांशजान् ।। 4.115.१०० ।।
कृष्णनारायणरूपान् कृष्णनारायणात्मकान् ।
असंख्यसृष्टिसंजातान् तदक्षरे सदा स्थितान् ।। १०१ ।।
ब्रह्मशीलपरान् सर्वावतारान् श्रीप्रभुप्रभान् ।
असंख्यैश्वर्यसम्पन्नान् वीक्ष्य धामोत्तरस्थितान् ।। १० २।।
अयं स्वामी ह्ययं स्वामी कृष्णनारायणो ह्ययम् ।
इत्येवं प्रतिपन्नास्ते विमानगाः क्षणं तदा ।। १०३ ।।
असंख्यकृष्णरूपाणि प्रभून् कृष्णानसंख्यकान् ।
मुक्तात्मकान् विलोक्यैव विलोक्य दिव्यचक्षुषा ।। १ ०४।।
सारूप्यभावमापन्नान् मुक्तान् विज्ञाय तादृशान् ।
प्रतिपत्तिं मुक्तरूपां प्राप्याऽऽनन्दं प्रलेभिरे ।। १ ०५।।
आश्चर्यं परमं प्राप्ता अदृष्टदर्शनात् खलु ।
प्रशशंसुर्विमानस्था ब्रह्मप्रियादयो भृशम् ।। १०६ ।।
अहो भाग्यं हरेर्योगाद् यददृश्यादिदर्शनम् ।
लभामहे कृपालेशात् स्वामी नः परमो यतः ।। १ ०७।।
बद्रिके चाऽवताराद्यैः कृतां लब्ध्वा समर्हणाम् ।
प्रभुः कृष्णो हरिश्चाग्रेऽपासरत् माधवीपतिः ।। १०८ ।।
जयनादैस्तोषशब्दैरक्षतादिसुवर्धनैः ।
पुष्पाञ्जलिप्रदानैश्चाशीर्भिः सहाग्र उद्ययुः ।। १० ९।।
विमानानि समस्तानि दिव्याम्बराभियोगिनाम् ।
मुक्तानां श्रीहरेः पत्युर्मन्दिरं परमं प्रति ।। 4.115.११० ।।
तद्गत्या तद्वायुयोगात् परधामप्रभांशकात् ।
महानन्दकृतां मूर्छां सुखाढ्यां प्रापुरेव ते ।। १११ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने विमानगा हरेर्विहारमण्डलं राष्ट्रप्रदेशान् सुराष्ट्रमण्डलम् अक्षरधामपुरम् अनादिमुक्तपुराणि दिव्यभक्तिकलापान् अक्षरब्रह्ममहोलम् असंख्यावतारमहोलानि वीक्ष्य परमं धाम प्रति चापासरन्नित्यादिनिरूपणनामा पञ्चदशाऽधिकशततमोऽध्यायः ।। ११५ ।।