लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ०७५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ७४ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)
अध्यायः ७५
[[लेखकः :|]]
अध्यायः ७६ →

श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये लक्ष्मि मागधस्य कथां शुभाम् ।
अमृताख्यनगरे वै तदाऽऽसीन्मागधो जनः ।। १ ।।
नाम्ना तु हर्षनयनो वंशोपवंशबोधवान् ।
वंशोपवंशपूर्वेषां चरित्राख्यानकारकः ।। २ ।।
राज्ञां पञ्चनदीयानां सिन्धुजानां विशेषतः ।
स शुश्राव जनेभ्यो वै चमत्कारं कथोद्भवम् ।। ३ ।।
राज्ञां प्रजानां बह्वीनां मोक्षणं पापनाशनम् ।
ततो विचार्य सहसा कथाऽऽकर्णनहेतवे ।। ४ ।।
आययौ शर्करापुर्यां कथामण्डपमागतः ।
नेमे सर्वान् संहितां च व्यासं श्रीलोमशं हरिम् ।। ५ ।।
साधुजनान् सतीः साध्वीर्वैष्णवान् नृपतींस्तथा ।
श्रोतॄन् राज्ञीजनाँश्चापि नेमे शुश्राव सत्कथाम् ।। ६ ।।
कथान्ते स तु वंशान् वै नारायणसमुद्भवान् ।
जगाद भक्तियुक्तश्च रञ्जयामास मानवान् ।। ७ ।।
 'अनादिश्रीकृष्णनारायणः श्रीपरमेश्वरः ।
एको दिव्येश्वरकोट्यवतारकोटिकारणम् ।। ८ ।।
अक्षरे परमे धाम्नि राजते पुरुषोत्तमः ।
तद्वंशे प्रथमं कृष्णो व्यासुदेवो व्यजायत ।। ९ ।।
ततो नारायणो जातो महाविष्णुस्ततः परम् ।
ततो विराड् विराजाच्च ब्रह्मविष्णुमहेश्वराः ।। 4.75.१ ०।।
ब्रह्मतः सनकाद्याश्च ऋषयो मानवादयः ।
कुंकुमवापिकाक्षेत्रे त्वश्वपट्टसरोवरे ।। १ १।।
अनादिश्रीकृष्णनारायणः श्रीभगवान् प्रभुः ।
कंभराश्रीमहालक्ष्मीसुतो गोपालनन्दनः ।। १ २।।
लक्ष्मीराधारमाकृष्णाप्रज्ञापद्मावतीपतिः ।
माणिकीसुखदालक्ष्मीललिताकमलापतिः ।।१ ३।।
व्रह्मप्रियापतिर्मुक्तपतिर्मुक्तानिकापतिः ।
हरिप्रियापतिः सर्वपतिर्ब्रह्मपतिः प्रभुः ।।१४।।
वर्तते विप्ररूपोऽद्य सर्वगोत्राऽग्रशाश्वतः ।
गीयतेऽत्र हरिर्लक्ष्मीनारायणकथादिभिः ।।१५।।
जयत्वत्र महाराजराजाधिराजपुंगवः ।
विधाता श्रेयसां कर्ता मोक्षस्य दुःखनाशनः ।। १६।।
शरणागतरक्षाकृत् जयत्वानन्दशेवधिः ।
परब्रह्म हरिकृष्णो नित्यं विजयतेतमाम् ।।१७।।
साधवो विजयन्ते च वैष्णवा विजयन्त्यति ।
एवं श्रीबद्रिके हर्षनयनः श्रीपतिं हरिम् ।।१८।।
अभिष्टूय सभायां स दण्डवत् प्रचकार ह ।
तुलसीदलपुष्पाणि फलानि शर्करास्तथा ।। १९।।
पूगीफलं च मुद्रां च कानकीं चाम्बरं शुभम् ।
व्यासाय च तथा संहितायै न्यधात् प्रपूज्य च ।।4.75.२०।।
नमश्चक्रे प्रसादं च जगृहे चरणामृतम् ।
मन्त्रं च नामधुन्यं च जगृहे व्यासदेवतः ।।२१ ।।
जजाप मन्त्रं नित्यं स चक्रे धुन्यप्रकीर्तनम् ।
शुश्राव च कथां नित्यमेकतानोऽभवत् सदा ।।२२।।
पावनः पूर्णभाग्यश्च समजायत मागधः ।
ज्येष्ठकृष्णैकादश्यां तु सायं भक्त्या वशीकृतः ।।२३।।
अनादिश्रीकृष्णनारायणो विमानमास्थितः ।
आययौ तं समानेतुं दिव्यः श्रीसेवितो हरिः ।।२४।।
मागधं हर्षनयनं संकृत्वा दिव्यविग्रहम् ।
अवस्थाप्य विमाने तं निन्ये धामाऽक्षरं निजम् ।।२५।।
शृणु बद्रीप्रिये देवि कथां चान्यां प्रपावनीम् ।
दासस्तत्राऽभवद् वृद्धः संहितामण्डपस्थले ।।२६।।
रात्रौ रक्षाकरो नित्यं जागर्ति यश्च रक्षति ।
नित्यं स भजते कृष्णं कथां शृणोति भावतः ।।२७।।
प्रदक्षिणं निशान्ते च करोति संहितासनम् ।
पत्रं पुष्पं फलं नित्यमर्पयत्यपि भावतः ।।२८।।
करोति कीर्तनं नित्यं भुंक्ते प्रसादमुत्तमम् ।
पिबत्यपः प्रसादोत्थाः सतां प्रसादमश्नुते ।।२९।।
सेवां व्यासस्य देहादिसंवाहनं करोत्यपि ।
मार्जनं सदसश्चापि वस्त्रक्षालनमित्यपि ।।4.75.३०।।
वैष्णवेभ्य इष्टवस्तुप्रदानं प्रकरोत्यपि ।
एवंविधस्य भक्तस्य योगिदासाभिधस्य तु ।।३ १।।
प्रसन्नः श्रीहरिर्जातो बद्रिके चाययौ हरिः ।
दिव्यं हंसं समारुह्य सर्वाभरणभूषितः ।।३२।।
उवाच योगिदासं त्वं सज्जो भव विमुक्तये ।
नेतुं समागतोऽस्म्यत्र हंसेन मोक्षणं प्रति ।।३३।।
योगिदासोऽतिमुमुदे श्रुत्वा वाक्यं परात्मनः ।
चचाल श्रीहरिं हंसं प्रति यावद् विमुक्तये ।।३४।।
तावन्मूर्छामवापाऽसौ देहः पपात भूतले ।
दिव्यरूपो योगिदासोऽभवन्मुक्तस्वरूपवान् ।।३५।।
हंसे निषाद्य भक्तं तं ययौ कृष्णनरायणः ।
शाश्वतं परमं धाम पश्यतां सर्वदेहिनाम् ।।३६।।
इत्येवं बद्रिके मुक्तोऽभवत् कथादिसेवया ।
योगिदासो ज्येष्ठकृष्णैकादश्यां कृष्णमानसः ।।३७।।
अथाऽन्यां ते कथां बद्रि वदामि भक्तमोक्षदाम् ।
नाम्ना सौरभसावित्रोऽभवत्ताम्बूलकारकः ।।३८।।
शर्करानगरे बद्रि सतां हरेश्च सेवकः ।
प्रत्यहं सोऽपि सेवायां वैष्णवानां स्थिरोऽभवत् ।।३९।।
ददाति ताम्बूलकानि नित्यं सहस्रशो मुदा ।
सुगन्धिरसचूर्णादिमिश्रितानि शुभानि च । 4.75.४०।।
नित्यं प्रातः समुत्थाय स्नात्वा चायाति मण्डपम् ।
यथास्थानं समागत्य पत्रपुष्पाक्षतादिभिः ।।४१।।
करोति पूजनं कथासंहितायास्तथा सताम् ।
व्यासदेवस्याऽर्हणां च लोमशस्याऽर्हणां तथा ।।४२।।
लालासनस्यापि पूजां पूजां वृकायनस्य च ।
नीलकर्णस्य पूजां च यवक्रीतादिपूजनम् ।।४३।।
तुषितानां हारितानां दिविमानायनस्य च ।
देवायतनमेषायतमंकणादियोगिनाम् ।।४४।।
हेमशालायनादीनां साधूनां पूजनं प्रगे ।
करोति नित्यमेवाऽयं देवानां पूजनं तथा ।।४५।।
व्यासाय संहितायैचार्पयत्येव फलान्यपि ।
ताम्चूलकानि तुलसीपत्रहाराँश्च कौसुमान् ।।४६।।
मुद्राश्चाऽक्षतगोधूमान् वस्त्रकम्बलकाँस्तथा ।
यथाशक्ति ददात्येव पूजायां सौरभान् रसान् ।।४७।।
एवं सौरभसावित्रो भक्त्या निष्कल्मषोऽभवत् ।
सतां देहादिसंवाहपादसंमर्दनादिकम् ।।४८।।
कृत्वा भुक्त्वा प्रसादं च पीत्वा तच्चरणामृतम् ।
श्रुत्वा कथाः संहितायाः सन्दग्धवासनोऽभवत् ।।४९।।
तं नेतुं चाक्षरे स्थाने कृष्णनारायणः प्रभुः ।
आययौ श्वेतगरुडे स्थित्वा कथास्थलं हरिः ।।4.75.५०।।
अवाततार सहसा प्रसन्नाननपङ्कजः ।
प्राह सौरभसावित्रं प्रसन्नस्तव सेवया ।।।५१।।
आयाहि परमं स्थानं दिव्यं व्योम ममाऽक्षरम् ।
श्रुत्वा सौरभसावित्रः कूर्दयित्वा ननर्त ह ।।५२।।
धन्यं मोक्षपदं मत्वाऽऽगतं कृष्णनरायणम् ।
नत्वा त्यक्त्वा निजं देहं मनुं जपं पुराऽर्जितम् ।।५३।।
नामधुन्यं श्रावयँश्चाऽऽरुरोह गरुडोपरि ।
दिव्यमुक्तशरीरोऽसौ ययावम्बरवर्त्मना ।।५४।।
ज्येष्ठकृष्णस्य द्वादश्यां कथोत्तरं ययौ परम् ।
आश्चर्यं परमं दृष्ट्वा मुमुदिरेऽतिमानवाः ।।५५।।
शृणु बद्रीप्रिये देवि भक्तगाथां तथाऽपराम् ।
रंगकारकथां तत्रभूतां परमपावनीम् ।।५६।।
रंगकारोऽभवन्नाम्ना रंगिलो रंगकृत् सदा ।
रंगकलासु सर्वासु कुशलश्चित्रकोटिषु ।।५७।।
शर्करानगरे नित्यं रंगकार्यप्रजीवनः ।
देवसेवापरश्चापि साधुभक्तोऽभवत् सदा ।।५८।।
बद्रिके स कथाया वै मण्डपं समरंगयत् ।
देवचित्राणि सर्वाणि भक्तचित्राणि सर्वशः ।।५९।।
भित्तीनां रंगकार्याणि पटरंगान् सुशोभनान् ।
अकरोत् सेवया भक्त्या सतां प्रसन्नताप्तये ।।4.75.६०।।
हरेः प्रसन्नतायै च रंगसेवां तथाऽकरोत् ।
अभजत्परमात्मानं मन्त्रं जजाप नित्यशः ।।६१।।
नामसंकीर्तनधुन्यादीन्याचरत् कृतादरः ।
वैष्णवानां सेवनं च कथायाः श्रवणं व्यधात् ।।६२।।
प्रसादभक्षणं पादामृतवारिप्रपानकम् ।
पादधूलिवहनं च शरीरे भावतोऽकरोत् ।।६३।।।
एवं क्षपितपापः स संप्रक्षालितवासनः ।
इयेष श्रीहरेर्धाम गन्तुं शाश्वतमक्षरम् ।।६४।।
बद्रिके व्यापकः कृष्णोऽन्तर्यामी श्रीनरायणः ।
श्वेताऽश्वाऽऽरूढ ईशेशेशेश्वरः समुपाययौ ।।६५।।
उवाच रंगिल एहि मम धामाऽक्षरं परम् ।
रंगिलः सहसा देहं त्यक्त्वा भौतिकमुत्सुकः ।।६६।।
दिव्यदेहोऽभवत् कृष्णदृष्ट्याऽश्वमारुरोह च ।
सर्वेषां पश्यतां नारायणो निन्ये तमक्षरम् ।।६७।।
रंगिलं रंगकर्तारं यान्तं वीक्ष्य सभाजनाः ।
जयवादान् प्रचक्रुश्च नेमुस्तां दिशमच्युतम् ।।६८।।
ज्येष्ठकृष्णत्रयोदश्यां रंगिलो ह्यक्षरं ययौ ।
बद्रिके च ततश्चान्यां कथां भक्तस्य संशृणु ।।६९।।
वाद्यकारोऽभवत्तत्र शर्करानगरे शुभः ।
डमरूकाभिधः सोऽपि भक्तो वाद्यादिनिर्मितिम् ।।4.75.७०।।
कृत्वा वृत्तिं निर्वहति सतां सेवां करोति च ।
कथायां वाद्यदानानि कृतवान् भावतः स वै ।।७१ ।।
कांस्यान् शंखान् पटहाँश्च भेरीदिण्डिमगोमुखान् ।
मृदंगान् पणवाँश्चापि मुरजाऽम्बरकाँस्तथा ।।७२।।
मर्दलान् वेणुवीणाश्च दर्दुरान् कच्छपान् ददौ ।
तलघातानानकाँश्च दुन्दुभीन् तालकान् ददौ ।।७३।।
तेन पुण्येन भगवान् प्रसन्नोऽस्याऽभवत्तदा ।
सोऽपि वाद्यकलाविज्ञो वाद्यवादनमाचरत् ।।७४।।
तेन सन्तः प्रसन्नाश्च बद्रिके तस्य चाभवन् ।
सेवां चक्रे सतां नित्यं कथां शुश्राव नित्यदा ।।७५।।
प्रसादं जगृहे नित्यं पादामृतं पपौ सदा ।
मन्त्रं जजाप सततं नामसंकीर्तनं व्यधात् ।।७६।।
एवं वैष्णवसेवायां श्रीकृष्णसेवने रतः ।
डमरूकोऽभवत् सर्वनष्टपापः सुपावनः ।।७७।।
अनादिश्रीकृष्णनारायणश्रीकान्तवल्लभः ।
आययौ त्वक्षरं धाम नेतुं तं डमरूकणम् ।।७८।।
सोऽपि मोक्षक्षणं ज्ञात्वा चागतं हरिना हरिम् ।
नेमे दध्यौ हृदये च नत्वा सभाजनान् मुहुः ।।७९।।
भौतिकं वर्ष्म सन्त्यक्त्वा दिव्यदेहमवाप्य च ।
कृष्णनारायणाऽऽहूतो गजं समारुरोह सः ।।4.75.८०।।
ययौ धामाऽक्षरं श्रीमन्नारायणस्य शाश्वतम् ।
कृपया श्रीहरेर्बद्रि ययावपुनरागमम् ।।८ १ ।।
ज्येष्ठकृष्णचतुर्दश्यां ययौ डमरूकोऽक्षरम् ।
शृणु बद्रीप्रिये देवि तथा कथां सुपावनीम् ।।८२।।
भावसारोऽभवत्तत्र वस्त्रव्यापारकारकः ।
शर्करानगरे नाम्ना चिह्नरायेति विश्रुतः ।।८३ ।।
चिह्नरायो ददौ वस्त्रसहस्रं मण्डपार्थकम् ।
भक्त्या कथास्थलार्थं स वैष्णवो धनवान् सुखी ।।८४।।
ऊर्णिकाप्रस्तरणानि वितानान्युत्तमानि च ।
आसनानि सुरम्याणि ददौ कथोत्सवे यतः ।।८५।।
साधून् स सेवयामास शुश्राव चाऽऽच्युतीं कथाम् ।
मन्त्रं जग्राह धुन्यं च कीर्तनं व्यासदेवतः ।।८६।।
सिषेवे नित्यमेवाऽपि वस्त्रनाणकदाणकैः ।
तत्सेवया प्रसन्नोऽभूच्छ्रीहरिः पुरुषोत्तमः । ।८७।।
प्रसादेन पवित्राय चिह्नरायाय दर्शनम् ।
प्रत्यक्षं प्रददौ कृष्णो वल्लभार्यः श्रियः पतिः ।।८८।।
उवाच तं प्रसन्नोऽस्मि धाम चायाहि मेऽक्षरम् ।
एतद्विमानवर्येण नयामि परमं पदम् ।।८९।।
ज्येष्ठाऽमायां तु मध्याह्ने कृष्णं दृष्ट्वा समागतम् ।
सज्जोऽभवत् प्रगन्तुं वै तत्याज भौतिकीं तनुम् । ।4.75.९०।।
दिव्यदेहोऽभवत्तूर्णं विमानमारुरोह च ।
नामसंकीर्तनं कुर्वन् कृष्णनारायणेति सः ।।९१।।
सार्धं श्रीहरिणा तूर्णं विमानेनाऽऽक्षरं ययौ ।
जयनादास्तदा तत्र भक्तानामभवन् मुहुः ।।९२।।
बद्रिके च तदा तत्र सायंकाले कथोत्तरम् ।
आश्चर्यं परमं जातं शृणु तद्ग्रामयाजिनः ।।९३।।
ग्रामयाजी विप्रदेवोऽभवन्नाम्ना रमेश्वरः ।
नित्यं कथां शृणोत्येव व्यासाऽर्हणां करोति च ।।९४।।
भजते श्रीहरिं नित्यं मन्त्रं जपति नित्यशः ।
नामधुन्यं कीर्तनं च करोति सततं मुदा ।।९५।।
प्रसादं श्रीहरेर्नित्यं गृह्णाति च पदामृतम् ।
एवं पावनहृदयो विप्रो व्यवर्तताऽन्वहम् ।।९६।।
वैष्णवः परमो नित्यं सेवते साधुपुंगवान् ।
निश्चयं सोऽकरोद् गन्तुं धामाऽक्षरं परं हरेः ।।९७।।
बद्रिकेऽनशनं चक्रे निर्जलं मोक्षलब्धये ।
दिनत्रये हरिस्तस्य मोक्षार्थं समुपाययौ ।।९८।।
अमायां तु निशारंभे विमानेन समाययौ ।
आह तं भक्त चायाहि विमानं त्वत्कृते त्विदम् ।।९९।।
सोऽपि तूर्णं दिव्यदेवो भूत्वा समारुरोह तत् ।
ययौ कृष्णेन सहितो धामाऽक्षरं परं पदम् ।। 4.75.१ ००।।
बद्रिके ते चमत्काराः प्रासरन् भुवि सर्वतः ।
असंख्या मानवा यान्ति कथाश्रवणहेतवे ।। १० १।।
तीव्रवेगास्तूर्णशुद्धाः प्रयान्ति तूर्णमक्षरम् ।
मध्यवेगाः शनैर्यान्ति मन्दाश्चिरेण यान्ति च ।। १ ०२।।
अस्नेहास्तु न वै यान्ति स्नेहस्तत्र हि कारणम् ।
प्रसन्नता कृपा सेवा श्रद्धा च दिव्यभावना ।। १ ०३।।
वासनाविलयश्चापि जिगमिषाऽतिवेगिनी ।
वैराग्यं शरणं भक्तिः कारणानि तु मोक्षणे ।। १ ०४।।
येषां तीव्रास्ते तु शीघ्रं प्रयान्ति परमं पदम् ।
पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिर्भवेदिह ।। १ ०५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने कथाश्रवणसेवादानादिना प्रसन्नः श्रीहरिः, हर्षनयनाख्यं मागधं, योगिदासाख्यं दासं, सौरभसावित्राख्यं ताम्बूलकारं, रंगिलाख्यं रंगकारं, डमरूकाख्यं वाद्यकारं, चिह्नरायाख्यं भावसारं, रमेश्वरं ग्रामयाजिनं च, मोक्षपदं नीतवानित्यादिनिरूपणनामा पञ्चसप्ततितमोऽध्यायः ।। ७५ ।।