लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ०६६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ६५ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)
अध्यायः ६६
[[लेखकः :|]]
अध्यायः ६७ →

श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि कथां गृध्रस्य मोक्षदाम् ।
पारायणस्थले नित्यं सतामुच्छिष्टभोजनम् ।। १ ।।
गृध्रो जग्ध्वा तु मध्याह्ने मुक्तिमवाप शाश्वतीम् ।
न्यग्रोधषण्डे जरठा गृध्रा आसन् शताधिकाः ।। २ ।।
आबालवृद्धाः सर्वे स्म वटषण्डे वसन्ति वै ।
उड्डीयोड्डीय गगने मार्गयन्ति स्म भोजनम् ।। ३ ।।
दूरं दूरं पराक्रम्य भक्षयन्ति स्म मार्गितम् ।
तेषां पारायणकाले महोत्सवः सदाऽभवत् ।। ४ ।।
नित्यं यत्र भोजनानि कुर्वन्त्यसंख्यमानवाः ।
तत्र पारायणक्षेत्रे भोजनानां तु भूमिषु ।। ५ ।।
उच्छिष्टानि पतन्ति स्म विविधान्नानि बद्रिके ।
भर्जितान्नानि शाकानि मिष्टान्नानि पतन्ति च ।। ६ ।।
वैष्णवानां पंक्तयो वै यत्र भवन्त्यहर्निशम् ।
साध्वीनां पंक्तयश्चापि साधूनां पंक्तयस्तथा ।। ७ ।।
भवन्ति भुञ्जते तत्र प्रसादान्नानि साधवः ।
तदुच्छिष्टानि पात्रेभ्यः पतितानि तु यानि वै ।। ८ ।।
पात्रोच्छिष्टानि चान्नानि गृध्रास्ते शतशः सदा ।
पंक्त्यन्ते भुंजते सर्वे तृप्ता भवन्ति चान्वहम् ।। ९ ।।
उच्छिष्टक्षेपणस्थाने महोत्करेऽपि पक्षिणः ।
प्रक्षिप्तोच्छिष्टपर्युषितान्नशाकानि भुंजते ।। 4.66.१० ।।
शृणु बद्रीप्रिये चैत्रशुक्लद्वादशिकादिने ।
स्वतःप्रकाशो भगवान् व्यासो मध्याह्नके शुभे ।।१ १ ।।
भुक्त्वोच्छिष्टं प्रचिक्षेप पार्श्वे क्षेत्रे सपात्रकम् ।
गृध्रस्त्वेको हि जरठो वटादुड्डीय चागमत् ।। १२।।
अभक्षयत् तदुच्छिष्टं कृष्णप्रसादमिश्रितम् ।
तावत्तस्य समस्तानि नष्टानि पातकानि वै ।। १ ३।।
पुण्यात्मा त्वभवत्तूर्णं कर्माशयोऽस्य भस्मितः ।
बहूनां पश्यतां पक्षी पपात भूतले द्रुतम् ।। १४।।
निर्गत्य पक्षिदेहात् स दिव्यदेहश्चतुर्भुजः ।
श्रीहरेः पार्षदो भूत्वाऽदृश्यत तत्र चाऽम्बरे ।। १५।।
विस्मिताः साधवः सर्वे तथाऽन्ये वैष्णवा अपि ।
वीक्ष्य तं पार्षदरूपं पप्रच्छुः साधवस्तु तम् ।। १६।।
को भवान् पक्षिरूपोऽपि पार्षदं रूपमाप्तवान् ।
वद सर्वं यथातथ्यं निवर्तय कुतूहलम् ।। १७।।
इत्येवं पार्षदः श्रुत्वोवाच साधून् समुत्सुकः ।
अभुवं पूर्वदेहोऽहं कौलिको मानवो भुवि ।। १८।।
नाम्ना दण्डारणिश्चासं हिंसाचौर्यपरायणः ।
खादके नगरे चासं महाकुटुम्बवानहम् ।। १९।।
मम वृद्धस्य वृद्धो यस्तस्य पुत्रा दशाऽभवन् ।
दशानां शतशश्चासन् शतानां तु सहस्रकम् ।।4.66.२०।।
कन्यकाश्च तथा ह्यासँस्तासां वंशाः सहस्रकम् ।
खादकं नगरं सर्वं प्रायः कौलिकवेशितम् ।।२ १।।
ते सर्वेऽपि वयं नित्यं गृहस्थाः सुकुटुम्बिनः ।
अकरवाम वृत्त्यर्थं कृषिकर्माणि नित्यदा ।।२२।।
दुष्काले चोष्णकाले वा कुर्मश्चौर्यं प्रसह्य वा ।
लुण्टनं चापहरणं धनाऽन्नाऽम्बरसम्पदाम् ।।२३।।
विप्राणां वापि साधूनां क्षत्राणां चान्यदेहिनाम् ।
भक्षयामस्तदन्नादि धारयामोऽम्बरादिकम् ।।२४।।
तेन पापेन पापिष्ठा मृता वयं तु ये च ये ।
वृद्धा बाला युवानो वा नरा नार्यश्च ते खलु ।।२५।।
सर्वे वयं वटे गृध्रा इमे जाताः स्म वंशजाः ।
याम्यदुःखान्यनुभूय गृध्रा जाता वटे त्विह ।।२६।।
तेषु सर्वेषु वृद्धोऽहं चौरोऽभवं विशेषतः ।
चोरयित्वा मुहुस्तेषां पोषणं संव्यधां तदा ।।२७।।
तेन याम्यमहाकष्टं मुक्त्वाऽत्र गृध्रतां गतः ।
वृद्धः प्राचीनतमश्च भवामि बहुवत्सरः ।।२८।।
व्यासस्योच्छिष्टमासाद्य हरेः प्रसादमुत्तमम् ।
दग्धपामाऽभवं नष्टवासनश्च द्रुतं त्विह ।।२९।।
मुक्तदशां गतश्चास्मि मुक्तः पक्षिशरीरतः ।
प्रयामि त्वद्य बदरिकाश्रमं पावनं ततः ।।4.66.३०।।
श्वेतद्वीपं प्रयास्यामि वैकुण्ठं च ततः परम् ।
एवं मे मोक्षणं जातं प्रसादस्यैव भक्षणात् ।।३ १।।
प्रसादस्य तु माहात्म्यं मया वक्तुं न शक्यते ।
महापापाः प्रसादेन मुच्यन्ते चाधमा अपि ।।३२।।
प्रसादस्य तु माहात्म्यमति जानन्त्यजादयः ।
मत्स्यो भूत्वा स्वयं ब्रह्मा चखाद सुप्रसादकम् ।।३३।।
सुराः प्रसादमिच्छन्ति पितरः सुतरां सदा ।
पापघ्नं पुण्यदं सत्त्ववर्धनं मोक्षदं तथा ।।३४।।
प्राणा येषां न निर्यान्ति मृत्युदुःखजुषां यदि ।
तेषां प्रसादलाभेन प्राणा निर्यान्ति वै द्रुतम् ।।३५।।
भूतप्रेतपिशाचानां छाया तस्य न लुम्पति ।
न बाधन्ते डाकिनीशाकिनीपिशाचिकाश्च तम् ।।३६।।
प्रसादभक्षभक्तानां निर्मलान्यान्तराण्यपि ।
धार्मिकानि प्रवर्तन्ते तमःपापक्षयाणि च ।।३७।।
अप्रसादभोजिनोऽत्र देहं सदा पिशाचकः ।
प्रसादभक्षभक्तस्य तनुः सदा तु देवता ।।३८।।
प्रसादभोजने देहे देवा वसन्ति नित्यशः ।
प्रसादभोजिनां दिव्यं शरीरं पावनं सदा ।।३९।।
अप्रसादप्रभोक्तारः पापभोक्तार एव ते ।
भूतप्रेतपिशाचान्नं प्रसादवर्जितं हि यत् ।।4.66.४०।।
प्रसादभोजिनां नित्यं कृपा कृष्णस्य जायते ।
कृपया सम्पदः सर्वा देहान्ते मोक्षसम्पदः ।।४१ ।।
प्रसादभोजनं नित्यं निर्गुणं दोषवर्जितम् ।
अपि स्वादभरं सर्वं निःस्वादं तत् सदा मतम् ।।४२।।
कृष्णार्पिता रसाः सर्वे भुक्ता बध्नन्ति ते नहि ।
रूपाणि यानि रम्याणि सुरूपाकृतयश्च याः ।।४३।।
चाकचक्ययुताश्चापि तेजःप्रभासमन्विताः ।
कृष्णार्पितास्तु ता भुक्ता नैव बध्नन्ति निर्गुणाः ।।४४।।
गन्धा उच्चावचा ये ये तैलसारादयोऽपि च ।
कस्तूरीकेसराद्याश्च कर्पूरं गन्धसारकाः ।।४५।।
कृष्णार्पिता निर्गुणास्ते भुक्ता बध्नन्ति नैव ह ।
शब्दा रम्याः स्वर्थभरा मनोहराश्च नर्मदाः ।।४६।।
सुस्वरा उत्सवपूर्णा आकर्षकाश्च तानिनः ।
कृष्णार्पिता निर्गुणास्ते भुक्ता बध्नन्ति नैव ह ।।४७।।
वादित्राणि समस्तानि सङ्गीतानि च गीतयः ।
आलापाश्चाऽर्पिताः कृष्णे निर्गुणा बन्धवर्जिताः ।।४८।।
स्पर्शाश्च कोमलाः स्निग्धा मृदवः शीतला अपि ।
उष्णा गम्या इष्टवर्या महानन्दप्रदाः सुखाः ।।४९।।
चेतनस्था जडस्था वा कृष्णार्पिता न बन्धदाः ।
संयोगा विविधाश्चापि कठिना शिथिलाश्च ये ।।4.66.५०।।
द्रवाश्चापि समस्ता ये स्नेहा ये च मिथः शुभाः ।
विज्ञानानि च काव्यानि तर्काश्च बुद्धयस्तथा ।।५१ ।।
सुखदुःखे सर्वविधे सर्वा इच्छाश्च वासनाः ।
द्वेषा यत्नाः क्रियाः सर्वा धर्माऽधर्मादयोऽपि ये ।।५२।।
भावनाश्च समस्ता वै सर्वकर्माणि यानि वै ।
भावा अभावाः श्रीकृष्णेऽर्पितास्ते निर्गुणाः सदा ।।५३।।।
तद्भोक्तारं न बध्नन्ति यतो मायाविवर्जिताः ।
मायासत्त्वं रजश्चापि तमोऽहंममतादयः ।।५४।।
स्वत्वं निद्रा च तन्द्रा च कृष्णेऽर्पिता तु निर्गुणाः ।
नरो नारी बालिका च बालः कन्या युवा तथा ।।५५।।
वृद्धो वृद्धाऽर्पिताः कृष्णे निर्गुणा मोक्षभागिनः ।
गावो वृषा गजा उष्ट्रा अश्वा अजाः प्रजास्तथा ।।५६।।
गृहं सर्वोपकरणं भोग्यजातं समस्तकम् ।
वेषा भूषाः सम्पदश्च यानानि वाहनान्यपि ।।५७।।
रक्तानि मणयश्चापि कणाः पत्राणि सर्वथा ।
फलपुष्पाण्यर्पितानि कृष्णे निर्बन्धनानि वै ।।।९८।।
स्नानं ध्यानं धारणा च पूजा सेवा प्रदानकम् ।
व्रतं तीर्थं पुण्यमिष्टं वापीकूपतडागकम् ।।५९।।
सर्वं कृष्णार्पितं दिव्यं निर्गुणं बन्धवर्जितम् ।
प्रवासो भारवाहित्वं भृत्यता दासता कृतिः ।।4.66.६०।।
शिल्पिता कारुता कृष्णसमर्पितं तु निर्गुणम् ।
कलाकौशल्यमत्यर्थं नवाऽऽविष्करणान्यपि ।।६१ ।।
साधनान्युत्सवानां च प्रतिमाश्च पृथग्विधाः ।
शृंगाराणि निर्गुणानि कृष्णेऽर्पितानि सर्वथा ।।६२।।
पाचनं कर्षणं यानं कर्तनं लवनं तथा ।
सीवनं चापि सन्धानं कृष्णार्पितं तु निर्गुणम् ।।६३।।
श्वसनं दर्पणं स्पर्शः स्वादश्च घ्राणनं तथा ।
भोगः फलं समस्तं च कृष्णार्पितं तु निर्गुणम् ।।६४।।
वपनं सेचनं चाभ्यवर्धनं रक्षणं तथा ।
पोषणं ग्रहणं सर्वं कृष्णार्पितं तु निर्गुणम् ।।६५।।
मञ्जनं क्षुवनं चापि म्रोडनं त्रोटनं तथा ।
हसनं रमणं चापि कृष्णार्पितं तु निर्गुणम् ।।६६।।
विहारश्च समाप्तिश्चारम्भो विस्तारणं तथा ।
संकोचश्च विकासश्च कृष्णाऽर्पितांस्तु निर्गुणाः ।।६७।।
जृंभणं पक्षणं चापि निमेषोन्मेषणे तथा ।
स्वपनं कूर्दनं पातः कृष्णाऽर्पितास्तु निर्गुणाः ।।६८।।
धावनं क्रमणं न्यासः स्थैर्यमुडुयनं लयः ।
प्रकाशनं यशः कीर्तिः कृष्णाऽर्पितास्तु निर्गुणाः ।।६९।।
कण्डनी पेषणी चुल्ली जलकुंभी च मार्जनी ।
वर्धनी शयनी कोष्ठी कृष्णाऽर्पितास्तु निर्गुणाः ।।4.66.७० ।।
मस्तकं नेत्रकर्णोरःकण्ठहस्तोदरादयः ।
जघनोरुसक्थिजानुजंघापादादयस्तथा ।।७१ ।।
कृष्णार्पिताङ्गसर्वस्वं निर्गुणं मोक्षदं भवेत् ।
रुग्णता स्वास्थ्यमुदयो वृद्धिर्हानिः प्रशासनम् ।।७२।।
अर्जनं व्यवहारश्च कृष्णाऽर्पितास्तु निर्गुणाः ।
व्यापारो विक्रयो विनिमयः क्रयोऽपहारिता ।।७३।।
भिक्षा चोपार्जनं वृत्तिर्जीविकाऽऽयव्ययौ तथा ।
सदसद् यत् समस्तं तत् कृष्णार्पितं तु निर्गुणम् ।।७४।।
स्त्रीपुंनपुंसकभावा धातवश्च प्रवर्तना ।
निवर्तनाद्याः श्रीकृष्णार्पिता निर्गुणमुक्तिदाः ।।७५।।
बन्धशून्या हरावर्पणमाप्ताः सर्वसम्पदः ।
मोक्षायैव प्रजायन्ते कृष्णप्रसन्नताप्रदाः ।।७६।।
यस्य द्रव्यं कृष्णशून्यं नैव नैव गुणास्तथा ।
यस्य कर्म कृष्णशून्यं नैव नैव तथाऽस्तिता ।।७७।।
न जीवनं कृष्णशून्यं न प्राणाः कृष्णवर्जिताः ।
न चैतन्यं कृष्णशून्यं न वर्णः कृष्णवर्जितः ।।७८।।
नाश्रमः श्रीकृष्णशून्यो न त्यागः कृष्णवर्जितः ।
न दीक्षा श्रीकृष्णशून्या न मृत्युः कृष्णवर्जितः ।।७९।।
नेषणाः श्रीकृष्णशून्यास्तस्य सर्वं हि निर्गुणम् ।
दिव्यं कृष्णार्थकं सर्वं सर्वं मोक्षप्रदं हि तत् ।।4.66.८० ।।
कृष्णप्रसन्नतादं तत् तस्य सर्वं विराजते ।
सोऽपि प्रसादपात्रं श्रीकृष्णार्पितस्तदीयकः ।।८ १ ।।
कृष्णतादात्म्यमाप्तो वै महाभागवतो हि सः ।
कोटिकल्याणभूमिः सः सर्वकल्याणदोऽपि सः ।।८२।।।
अधर्मोद्धारकः स स्यादंशावतार एव सः ।
साधुः स एव श्रीकृष्णसम्पद्वान् मुक्त उत्तमः ।।८३।।
ब्रह्मैव स तु विज्ञेयो यः श्रीकृष्णार्थकः सदा ।
मूर्तिः सा श्रीकृष्णनारायणवासार्थमन्दिरम् ।।८४।।
तद्देहः श्रीकृष्णदेहस्तन्मनः कृष्णमानसम् ।
तदिन्द्रियाणि श्रीकृष्णेन्द्रियाण्येव न वै पृथक् ।।८५।।
तत्क्रियाः श्रीकृष्णनारायणक्रिया न चेतराः ।
तत्सर्वस्वं कृष्ण एव तत्पूजा कृष्णपूजनम् ।।८६।।
तत्सेवा श्रीकृष्णसेवा स एव कृष्णमूर्तिकः ।
तस्य प्रसन्नता कृष्णप्रसन्नता न संशयः ।।८७।।
तद्वाक्यं कृष्णवचनं तदाशीः कृष्णकीर्तिता ।
तस्य प्राप्तिः कृष्णप्राप्तिर्नास्ति भेदो मनागपि ।।८८।।
अवतारास्त एवोक्ता लोकोद्धारकरा भुवि ।
तं भजन्तु महाराजं कृष्णनारायणं प्रभुम् ।।८९।।
प्रयाम्यहं विशालां च प्रसादमात्रभोजनः ।
स्वस्ति वोऽस्तु कृष्णनारायणश्रीनाथवल्लभः ।।4.66.९०।।
हत्युक्त्वा बद्रिके गृध्रो दिव्यो बद्रीश्वरं ययौ ।
नरनारायणं मां तु प्राप्तस्तपश्चकार ह ।।९ १ ।।
ततः श्वेतद्वीपधाम ययौ नारायणाश्रितम् ।
ततो ययौ स वैकुण्ठं प्राप्तपूर्णमनोरथः ।।९२।।
अथ तस्माद् ब्रह्मधाम प्रयास्यत्यक्षरं पदम् ।
प्रभोनारायणकृष्णनारायणेति वै जपन् ।।९३।।
इत्येवं बद्रिके जातो मोक्षस्तस्य प्रसादतः ।
तस्मात् सर्वं करणीयं कारणीयं प्रसादजम् ।।९४।।
अथाऽन्ये शतशो गृध्रा वटे प्रसादभोजिनः ।
कौलिकस्य पुरा सम्बन्धिनो गृध्रगतिं गताः ।।९५।।
तेऽपि नित्यं भुंजते स्म प्रसादं साधुयोगिनाम् ।
तेन क्षपितकर्माणोऽभवन् पुण्याभिभागिनः ।।९६।।
देहांस्तिर्यग्जातिजातान् त्यक्त्वा दिव्यशरीरिणः ।
भूत्वा श्रीबदरीनाथं ययुर्दिव्याश्रमं तु नौ ।।९७।।
तत्र तप्त्वा तपस्ते च ययुः श्वेतालयं हरेः ।
तत्र नारायणसेवां कृत्वा वैकुण्ठकं ययुः ।।९८।।
तेऽपि यास्यन्ति परमं धामाऽक्षरं ततः परम् ।
प्रज्ञानारायणपद्माश्रीनारायणजापिनः ।।९९।।
बद्रि प्रसादवत् कृष्णसत्तां धुलिं च पावनीम् ।
सतां पादजलं पूतं पीत्वा यान्ति परं दिवम् ।। 4.66.१० ०।।
सतां प्रसेवया पूता न कल्पन्ते भवाय ते ।
सतां मूर्तिः कृष्णमूर्तिः कथा कृष्णवचः शुभम् ।। १०१ ।।
कृष्णार्पितं वैष्णवं वै तत् सेव्यं नेतरत् क्वचित् ।
भुक्तिर्मुक्तिर्भवेत्तेन श्रीकृष्णाप्तिर्भवेत्सदा ।। १ ०२।।
पठनाच्छ्रवणादस्य तिर्यग्योनिप्रदं त्वघम् ।
नश्यत्येव परं पुण्यं जायते नात्र संशयः ।। १ ०३।।
कृष्णे भक्तिर्जायतेऽपि सत्सु प्रीतिः प्रजायते ।
सर्वार्पणादिभावः स्यात् तन्मयत्वं ततो भवेत् ।। १ ०४।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने पूर्वजन्मनि दण्डारणिनामकौलिकस्य गृध्रजन्मनि कथास्थले भगवत्साधुप्रसादोच्छिष्टभोजिनो मोक्षणं, तत्सम्बन्धिगृध्राणामपि प्रसादभोजनेन मोक्षणमित्यादिनिरूपणनामा षट्षष्टितमोऽध्यायः ।। ६६ ।।