लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ०६५

विकिस्रोतः तः
← अध्यायः ६४ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)
अध्यायः ६५
[[लेखकः :|]]
अध्यायः ६६ →

श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि कथामन्यां च पावनीम् ।
लेखकश्चाऽभवत् ताडपत्रेषु पट्टकेष्वपि ।। १ ।।
धातुपत्रेषु च काष्ठफालेषु चाम्बरेष्वपि ।
नाम्ना विशालरेखो वै वैश्यः सुकरदे पुरे ।। २ ।।
लेखोत्पन्नेन सततं जीविकां समवर्तयन् ।
कुटुम्बपोषणं तुष्ट्या करोति धर्मवृत्तिमान् ।। ३ ।।
तस्यैकदा समायातः श्वा गृहे च गृहान्तरे ।
सम्प्रविष्टः पात्रगतं पयोऽपिबत्तु धेनुजम् ।। ४ ।।
अशुद्धं तत्पयः सर्वं जातं घटगतं ततः ।
वैश्योऽपश्यत् पिबन्तं तं श्वानं गृहान्तरे गतः ।। ५ ।।
रुषा यष्टिं समगृह्याऽताडयत् श्वा तु मूर्छितः ।
आक्रोशन् पतितो भूमौ पादान् विक्षेपयन् मुहुः ।। ६ ।।
मृत्युं जगाम यावत्तु तावद् वैश्येन कर्षितः ।
चत्वरे क्षिप्त एवापि तावत्पार्श्वालया जनाः ।। ७ ।।
श्रुत्वाऽऽक्रोशं सत्वरं ते कुतूहलसमन्विताः ।
आययुश्चत्वरे तत्र व्यपश्यन् मारितं तदा ।। ८ ।।
श्वानं वैश्येन वै क्षिप्तं मृतं वैश्येन मारितम् ।
तिरश्चक्रुस्तु ते वैश्यं धिक्कारं प्रददुस्तथा ।। ९ ।।
श्वघ्नोऽयं क्रूरकर्मा चाऽग्राह्यजलान्न एव च ।
श्रुत्वैवं तु तदा पापशब्दान् लज्जां गतोऽभवत् ।। 4.65.१ ०।।
धर्मवान् कीर्तिमाँश्चापि वेगेन पापमाचरन् ।
अवाच्यतां गतो वैश्यः शुशोचाऽतिजनान्तिके ।। ११ ।।
उवाच तान् पार्श्वलोकान् न मया मृत्युहेतवे ।
ताडितः श्वा किन्तु शिक्षणार्थं प्रताडितोऽस्त्ययम् ।। १ २।।
गृहं प्रविश्य स यतो दुग्धं पपौ हि धेनुजम् ।
सर्वं भ्रष्टं चकाराऽसौ तेन वै ताडितो मया ।। १ ३।।
पार्श्वमर्मस्थले मारः कृतो नहि विजानता ।
अकस्मात् पतितो मारः पार्श्वे मर्मणि तेन सः ।। १४।।
मृतोऽयं तस्य हत्या मे जाता करोमि निष्कृतिम् ।
विप्राः शिष्टा भवन्तो मे ब्रुवन्तु तस्य निष्कृतिम् ।। १५।।
इत्यर्थिता भूसुरास्तं जगदुर्व्रतमुत्तमम् ।
मासं कथायाः श्रवणं चैकभुक्तव्रतं तथा ।। १ ६।।
सत्संगः साधुसेवा च दानं यथाधनं तथा ।
तीर्थस्नानं मासमात्रं नित्य मन्त्रसहस्रकम् ।। १७।।
हरेर्नाम्नां जपश्चेति प्रायश्चित्तं ददुर्द्विजाः ।
विशालरेखः पापस्य नुत्तये विचचार ह ।। १८।।
शर्करानगरं तीर्थं कथास्थानमनुत्तमम् ।
स्थावरं जंगमं चेत्युभयं तीर्थं हि तत्स्थले ।। १९।।
प्राप्तं तेन तु विधिना तीर्थं कृतं हि सिन्धुजम् ।
कथायाः श्रवणं नित्यमेकभुक्तव्रतान्वितम् ।।4.65.२०।।
मासमात्रं कृतं तेन लब्ध्वा यथोदितं मनुम् ।
साधूनां सेवनं चापि कृतं तेन हितैषिणा ।।२१।।
नष्टपापोऽभवन्नष्टवासनो वैश्य एव ह ।
पूर्वजन्मार्जिताऽघानि नष्टानि सेवनात् सताम् ।।२२।।
प्रारब्धं सञ्चितं कर्म सर्वमन्त समाव्रजत् ।
आयुः पूर्णं तु सञ्जातं मृत्युकाल उपागतः ।।२३।।
मासान्ते चैत्रशुक्लस्य पञ्चम्यां प्रातरेव सः ।
स्नात्वा कथास्थलं प्राप पुपूज व्यासपुंगवम् ।।।२४।।।
संहितां लोमशं चापि नत्वा महर्षिमण्डलम् ।
कथां शुश्राव मालाया आवर्तनपुरःसरम् ।।२५।।
कथान्ते कीर्तनान्तेऽस्य जृंभणान्यभवन् मुहुः ।
तावद् व्योम्नो हरिः कृष्णोनारायणः समाययौ ।।२६।।।
सर्वेषां शृण्वतां प्राह तमायाहि विमानकम् ।
श्रूत्वा विशालरेखः स मुमुदे मोक्षभाग्यवान् ।। २७।।
द्रुतं मूर्छामवापाऽपि दिव्यदेहो बभूव ह ।
विमाने तं समादाय ययौ धामाऽक्षरं हरिः ।।२८।।
कृपैषा बद्रिके श्रीमत्कृष्णस्य मोक्षदायिनी ।
प्रायश्चित्तनिमित्तेन मोक्षं यया जगाम सः ।।।२९।।
तस्य पत्नी शुचिकान्तानाम्नी तस्यौर्ध्वदैहिकम् ।
चकार विधिवद् भक्ता वैष्णवी भाग्यशालिनी ।। 4.65.३०।।
वैराग्यं सा समापन्ना ह्यनपत्या सती शुभा ।
भक्तिं चक्रे मनुं नाम लब्ध्वा श्रीलोमशात् सदा ।। ३१ ।।
नित्यं कथां शृणोत्येव साध्वीव्रजं प्रसेवते ।
सा तु वैराग्यवेगेन ज्ञानेन सेवया तथा ।।३२।।
त्यागदीक्षां जगृहे वै सर्वमन्त्रसमन्विताम् ।
काषायधारिणी भूत्वा साध्वीनां मण्डलेऽवसत् ।। ३३।।
भेजेऽनादिकृष्णनारायणं पार्वीप्रभुम्पतिम् ।
बद्रिके सा स्वतन्त्राऽभूत् साध्वी स्वर्गादिगामिनी ।।३४।।
ब्रह्मसभामपि याति सा समाधिमती तथा ।
शुचिकान्ताऽभवन्नाम्ना कृष्णकान्तेश्वरी ततः ।।३५।।
चतुर्युगं तु सा साध्वी पृथ्व्यां ततः स्थिताऽभवत् ।
भजनं कारयित्वाऽपि नारीजनानसंख्यकान् ।। ३६।।
प्रेषयामास मुक्त्यर्थं कार्ष्णं पदं हि पावनम् ।
कुंकुमवापिकाक्षेत्रे वासं व्यधाच्चतुर्युगम् ।।३७।।
ततो धामाऽक्षरं प्राप साध्व्ययुतं विधाय सा ।
शिष्याणां मण्डलं तस्याः साध्वीनां चाऽयुतात्मकम् ।। ३८।।
व्यचरद् भूमिखण्डेषु नारीणां बोधदायकम् ।
कृष्णनारायणीसत्यः सर्वा भेजुर्नरायणम् ।। ३९।।।
शाखाः प्रशाखाः शिष्याः प्रशिष्याः स्थाप्य धरातले ।
ययुर्धामाऽक्षरं ताश्च कृष्णनारायणालयम् ।।4.65.४०।।
इत्येवं बद्रिके वैश्यो मोक्षं जगाम भक्तराट् ।
कृष्णस्य कृपया भक्त्या सेवया श्रवणेन च ।।४१ ।।
अथाऽन्यं ते कथयामि चमत्कारं महत्तमम् ।
कायस्था बहवः श्रुत्वा चमत्कारं प्रमोक्षदम् ।।।४२।।
आययुः परितो राष्ट्रात् संहितायाः कथास्थलम् ।
उपदा विविधा नीत्वा पूजासामग्रिकाऽन्विताः ।।४३ ।।
कीर्तयन्तो हरेर्नाम गायन्तो गीतिका हरेः ।
नरा नार्यो बालवृद्धा युवमण्डलकान्यपि ।।४४।।
आययुः शर्कराभ्याशं महोद्यानं समुत्सुकाः ।
महोद्याने कृतावासा कृतस्नानाश्च तीर्थके ।।४५।।
उपदाकरपात्राश्चाऽऽययुः कथासभास्थलम् ।
जयनादान् प्रचक्रुश्च दण्डवन्नमनाञ्जलिम् ।।४६।।
पूजां चक्रुः संहितायाः मूर्तेश्च वाचकस्य च ।
सतां महर्षिवर्याणां सतीनामर्हणानि च ।।४७।।
विप्राणां योगिनां पूजां चक्रुश्चारार्त्रिकं व्यधुः ।
उपाविविशुः सदसि शुश्रुवुश्च कथामृतम् ।।४८।।
मन्त्रं स्वतःप्रकाशाच्च जगृहुर्नामधुन्यकम् ।
ययुश्चाऽवसथान्नैजान् मासं तस्थुः कथार्थिनः ।।४९।।
सतां सेवां च बहुधा चक्रिरे कीर्तनान्यपि ।
तीर्थाप्लवनं दानानि चक्रिरे भजनं मिथः ।।4.65.५०।।
हृतपापा अभवँस्ते गतमायिकवासनाः ।
शुद्धात्मानोऽभवँश्चापि नरा नार्यः सहस्रशः ।।।५ १ ।।
चैत्रशुक्लैकादश्यां च बद्रिके त्वाययौ हरिः ।
अनादिश्रीकृष्णनारायणः स्वर्णविमानयुक् ।।५२।।
हसन् प्राह हरिः सर्वान् कायस्थान् कृपया मुदा ।
शृण्वतां मत्कथां सेवां कुर्वतां च सतां मुदा ।।५ ३।।
भजतां मां च वः कल्याणार्थं चाहमुपागतः ।
आयान्तु ते य इच्छन्ति त्वागन्तुं धाम मेऽक्षरम् ।।५४।।
सज्जा भवन्तु तूर्णं चारोहन्तु मे विमानकम् ।
नयामि चाऽक्षरं धाम शाश्वतानन्दमन्दिरम् । ।५५।।
एवमुक्ताः करणाद्याः कायस्था नरयोषितः ।
पञ्चशतानि सहसा सज्जास्तु मुक्तयेऽभवन् ।।५६।।
तेषां हलहलाशब्दः सहस्रोत्क्षेपणाऽऽह्वनाः ।
परितश्चाऽभवन् बद्रि महाश्चर्यविधायिनः ।।५७।।
पञ्चशतानि कायस्था नरा नार्यस्तदा द्रुतम् ।
त्यक्त्वा भौतिकवर्ष्माणि चाबालवृद्धदेहिनः ।।५८।।
अभवन् दिव्यदेहास्ते कृष्णप्रोक्षितवारिभिः ।
सर्वे षोडशवर्षास्ते मुक्ता मुक्तानिकाः शुभाः ।।५९।।
आरुरुहुर्विमानं चोपाविविशुर्हरेः पुरः ।
पुपूजुः परया भक्त्याऽऽश्लेषस्पर्शाऽञ्जलिस्तवैः ।।4.65.६ ०।।
कृष्णनारायणनीता ययुस्ते परमं पदम् ।
बद्रिके शृण्वतां तेषां धुन्यं च पश्यतामपि ।।६१ ।।
सर्वेषामन्यलोकानां विमानं दिवमाविशत् ।
चमत्कारो महान् जातः कृपयाऽयं हरेः प्रभोः ।।६२।।
पश्चस्थैश्च कृतान्यूर्ध्वदैहिकानि ततः परम् ।
तेऽपि विरागमापन्नाः कथां श्रुत्वा ययुस्ततः ।।६३।।
निजान्निजानालयाँश्च कृष्णभक्तिं प्रचक्रिरे ।
कालेन ते ययुर्धामाऽक्षरं श्रीपरमात्मनः ।।६४।।
बद्रिके परमाश्चर्यं कथयामि निबोध मे ।
त्रिवादनगरे त्वासीत् शास्ता शाहविलापनः ।।६५।।
तस्य सम्पत्तयश्चासन् वाटीक्षेत्रगृहादिकाः ।
अश्वा वृषभा गवया उष्ट्राश्च पशवोऽभवन् ।।६६।।
गोऽजामहिष्य आसँश्च भृत्याश्चापि शताधिका ।
ग्रामाधिपः खण्डराजः शाहविलापनस्तदा ।।६७।।
अश्वपालाँश्च गोपालान् वेतनैः संररक्ष वै ।
क्षत्रियः स हि शुश्राव कथोत्सवं महत्तमम् ।।६८।।
मनश्चक्रे तत्र गन्तुं साश्वगोपालकैः सह ।
सज्जोऽभवत् स तूर्णं वै श्रीस्वामिन्या स्त्रिया सह ।।६९।।
श्रीस्वामिनी सती पत्नी गवां शतं निनाय ह ।
दानधर्मार्थमेवापि दुग्धपानार्थमित्यपि ।।4.65.७०।।
प्रतस्थिरे ते गृहतः शर्करानगरं ययुः ।
गोपालाश्चाऽश्वपालाश्च तथा शाहविलापनः ।।७१ ।।
श्रीस्वामिनी तथा तस्याः सख्यो दास्यः शतं तदा ।
सभूषाः सोपकरणाः सोपदाः ससमृद्धयः ।।७२।।
महोद्याने प्रचक्रुस्ते स्वावसथान् यथायथम् ।
स्नात्वा ते दर्शनार्थं वै सोपदाः प्रययुः सभाम् ।।७३।।
कथां श्रुत्वा ततः पूजामारार्त्रिकं प्रचक्रिरे ।
राजा राज्ञी धनवन्तस्तथा भृत्यादयोऽपि च ।।७४।।
न्यधुर्व्यासपुरःस्थाने भूषामुद्राऽम्बराणि च ।
फलपुष्पान्नमिष्टान्नदुग्धदौग्धेयकानि च ।।७५।।
स्वप्रकाशायनकोऽपि लोमशश्च महर्षयः ।
आशीर्वादान् ददुस्तेभ्यो ययुश्चावसथाँस्ततः ।।७६।।
एवं नित्यं नियमिताः शृण्वन्ति संहिताकथाम् ।
राजैकदा निशि स्वप्ने ददर्श स्वं शवं प्रगे ।।७७।।
उत्थाय सभयो भूत्वा कथास्थानं समागमत् ।
न्यवेदयल्लोमशाय स्वाप्नवृत्तान्तमुल्बणम् ।।७८।।
लोमशः प्राह राजानं समाप्तायुष्यकं तदा ।
राजन् कर्मसमाप्तिस्ते जाता कथानिषेवणात् ।।७९।।
मन्त्रं गृहाण नामापि गृह्ण श्रीपरमात्मनः ।
सज्जो भव च मोक्षार्थं त्यज रागं तु भौतिकम् ।।4.65.८०।।
इत्युक्तः स तु शीघ्रं वै मन्त्रं जग्राह नाम च ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।।८ १ ।।
राज्ञीदास्यस्तथा दासा जगृहुर्मन्त्रमुत्तमम् ।
ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।।८२।।
 'कृष्णनारायण कृष्णनारायण नरायण ।
बालकृष्णाऽनादिकृष्णनारायण रमायण' ।।८३।।
प्रभोनारायणश्रीमाधवीनारायण प्रभो ।
जयाकृष्णललितान्रायणराधापते विभो ।।८४।।
लब्ध्वा मन्त्रं भजनं ते चक्रुर्मिथो निजालये ।
राजा राज्ञी ददतुश्च दानानि गजवाजिनाम् ।।८५ ।।
गवां सुवर्णरत्नानां भूषावस्त्रादिसम्पदाम् ।
सज्जो भूत्वा प्रतीक्षां तु राजा राज्ञीसमन्वितः ।।८६।।
करोति श्रीहरेः सम्यग् गन्तुं मोक्षपदं परम् ।
द्वादश्यां चैत्रशुक्लस्य विमानेनागतो हरिः ।।८७।।
सतां प्रसेवया शुद्धं भक्तं राज्ञीसमेतकम् ।
दिव्यदेहं विधायैव स्वामीकृष्णोनरायणः ।।८८।।
तथाऽन्यान् दासदासीश्च भक्तिसर्वस्वसंभृताः ।
दिव्यदेहान् विधायैव निषाद्य स्वविमानके ।।८९ ।।
पश्यतां सर्वलोकानां निन्ये धामाऽक्षरं निजम् ।
बद्रिके तन्महाश्चर्यं वीक्ष्याऽन्ये भृत्यदासिकाः ।।4.65.९ ०।।
सर्वदानानि दत्वैव मोक्षार्थं कृतनिश्चयाः ।
ज्येष्ठाय तु कुमाराय नाम्ना भास्करभूतये ।।९ १।।
राज्यधुरं विनिर्दिश्य सज्जास्ते मुक्तयेऽभवन् ।
भेजुर्नारायणकृष्णं त्यक्तान्नभोजनादयः ।।९२।।
दिनत्रयान्ते भगवान् स्वामीकृष्णोनरायणः ।
कृपया त्वाययौ तूर्णं नेतुं धामाऽक्षरं निजम् ।।९ ३।।
विमानेन समस्ताँस्तान् कृत्वा मूर्छासमन्वितान् ।
त्याजयित्वा तु देहाँश्च दिव्यदेहान् विधाय च ।।९४।।
निन्ये धामाऽक्षरं नैजं पश्यतां सर्वदेहिनाम् ।
कुमारो भास्करभूतिश्चक्रे तदौर्ध्वदैहिकम् ।।९५।।
भक्तो भूत्वा कथां श्रुत्वा भाग्यं मत्वा परं महत् ।
ययौ त्रिवादनगरं शशास न्यायतः सदा ।।९६।।
भक्त्या काले समायाते पावनः सोपि वै मुदा ।
वासनाशून्यहृदयो वंशे न्यस्य धुरं निजाम् ।।९७।।
ययौ धामाऽक्षरं कृष्णनारायणेन वाहितः ।
एवं बद्रीप्रिये लोकैर्दृष्टा चमत्कृतिः परा ।।९८।।
मोक्षदा पापहन्त्री च साक्षात्कृष्णाऽङ्घ्रियोजिका ।
त्रिवादनगरे ये ये शुश्रुवुस्तां चमत्कृतिम् ।।९९।।
तेऽपि पारोक्ष्यभावाढ्या भेजुः कृष्णंनरायणम् ।
क्षीणपापा अभवँश्च सतां सेवापरायणाः ।। 4.65.१ ००।।
सत्संगेन ययुर्धामाऽक्षरं त्वन्ते कृपाश्रयाः ।
पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिभवेदपि ।। १० १।।
अश्वपालाश्च गोपाला ये ये चासन् त्रिवादके ।
तेऽपि कृष्णं भजित्वैव ययुर्धामाक्षरं परम् ।। १ ०२।।
निकृष्टयोनयश्चापि पशवोऽजागवादयः ।
तेऽपि दुग्धार्पणयोगैर्ययुर्धामाऽक्षरं प्रभोः ।। १ ०३।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने कथाश्रवणादिना लेखकस्य विशालरेखस्य सपत्नीकस्य, करणाद्यानां कायस्थानां बहूनां, शाहविलापनक्षत्रियस्य सपत्नीदासीदासस्य च, मोक्षणमित्यादिनिरूपणनामा पञ्चषष्टितमोऽध्यायः ।। ६५ ।।