लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ०४९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ४८ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)
अध्यायः ४९
[[लेखकः :|]]
अध्यायः ५० →

श्रीनरनारायण उवाच
शृणु बद्रीप्रिये देवि चक्रिण्याः शोभनां कथाम् ।
आसीत् कालान्तके राष्ट्रे गण्डवाताभिधा सती ।। १ ।।
भार्या सा यास्कवादस्य चक्रिणो यन्त्रकारिणः ।
पुत्रपुत्रीयुता चापि कुटुम्बिनी सुविश्रुता ।। २ ।।
यस्या गृहे लोहयन्त्राण्युत्पद्यन्ते सहस्रशः ।
इक्षुपेषणयन्त्राणि तिलपेषणकानि च ।। ३ ।।
बीजपेषणयन्त्राणि रसोत्पादनकान्यपि ।
एवंविधानि लौहानि धातुजानि भवन्ति च ।। ४ ।।
कलाभिर्धातुरसजान्यपि प्रढालकानि च ।
यंत्राणां विक्रयं सा तु करोति नित्यमेव ह ।।५।।
क्रयं करोति बीजानां तैलार्थं सर्वतस्तथा ।
निजगृहेऽपि यन्त्राणि चलन्ति विंशतिस्तदा ।। ६ ।।
भ्रमन्ति तैलपेषाणि चेक्षुपेषाणि विंशतिः ।
चक्राणां विक्रयं नित्यं भग्नानां योजनं पुनः ।। ७ ।।
सन्धानं खण्डितानां च कारयत्यपि सा सती ।
यस्या वशे कर्मचाराः सहस्रशो भवन्ति वै ।। ८ ।।
सहस्रशः कर्मचारिण्योऽपि कुर्वन्ति तत्क्रियाः ।
प्रवर्तन्ते तु यन्त्राणि महिषोष्ट्रखरादिभिः ।। ९ ।।
नाणकानि प्रलभ्यन्ते सहस्राणि दशाऽन्वहम् ।
एवंविधा महाराज्ञी यथा तथा तु सा सती ।।4.49.१ ०।।
द्रव्याढ्या मानवाढ्या च सत्ताढ्या पशुपालिनी ।
चक्रिणी सा दीर्घराष्ट्रे प्रसिद्धाऽऽसीत् कलावती ।। १ १।।
बद्रिके सा प्रशुश्राव माहात्म्यं जनवर्णितम् ।
संहितायाः कथाजन्यं प्रतापं मोक्षदं परम् ।। १२।
सा जानाति महाचक्रपेषणैः पापसञ्चयम् ।
बीजादौ जीवजन्तूनां पेषणादिसमुद्भवम् ।। १ ३।।
सूनानां च फलं याम्यपुर्यां कष्टप्रभोगिताम् ।
नारकीं च गतिं निम्नां जानात्येवातिकष्टदाम् ।। १४।।
तत्पापानां प्रशान्त्यर्थं जिज्ञासाप्रेरिता तु सा ।
कथाश्रवणे श्रद्धाढ्या कृतबुद्धिर्व्यजायत ।। १५।।
प्राह स्वस्वामिनं साध्वी पारायणं प्रजायते ।
शर्करानगरे स्वामिन् सर्वपापप्रणाशनम् ।। १६।।
चमत्काराश्च बहवः श्रूयन्ते पापनाशकाः ।
मोक्षदो भगवाँस्तत्र दृश्यते कृपयाऽधुना ।। १७।।
वयं तु पापिनो नित्यं चक्रिणः चक्रपेषणाः ।
पापिनां न गतिः श्रेष्ठा नारकी गतिरीरिता ।।१८।।
राज्यं राष्ट्रं समस्तं वा यद्गृहे वर्तते ह्यपि ।
देहान्ते निरये वासश्चेत् सर्वं तन्निरर्थकम् ।। १९।।
धनं चाक्षयकोशात्म दासा दास्योऽयुतान्यपि ।
देहान्ते नरके वासश्चेत्तत्सर्वं निरर्थकम् ।।4.49.२०।।
वाटीक्षेत्राणि चारामा उद्यानानि गृहाण्यपि ।
देहान्ते नरके वासश्चेत्तत्सर्वं निरर्थकम् ।।२१ ।।
प्रासादाः स्वर्णकलशा ध्वजारोपसुशोभनाः ।
सम्पदः क्षयहीनाश्चाऽसंख्याता अपि सर्वथा ।।२२।।
देहान्ते नरके वासश्चेत्तत्सर्वं निरर्थकम् ।
महिषीगोगजवाजिक्रमेलककरेणुकाः ।।२३।।
हंसगरुडमेनाद्याः शुकसारसचातकाः ।
देहान्ते नरके वासश्चेत्तत्सर्वं निरर्थकम् ।।२४।।
पत्न्यो बह्व्यस्तथा पुत्राः पुत्र्यो वंशे च पौत्रकाः ।
स्वसारो भ्रातरो वृद्धा बान्धवा मातरः स्त्रियः ।।२५।।।
पतयो दासवर्गाश्च दास्यश्चापि सहस्रशः ।
अप्यन्ते नरके वासस्तदा सर्वं निरर्थकम् ।।२६।।
व्यापारा बहवँश्चापि शकटीनां सहस्रकम् ।
यन्त्राणामयुतं चापि वाहनानां सहस्रकम् ।।२७।।
आनन्त्यं चापि भोगानां कीर्तीनामुत्सवास्तथा ।
विद्यन्तेऽपि च देहान्ते नारकी चेन्निरर्थकाः ।।२८।।
तस्मात् स्वामिन्नात्मकल्याणार्थं विचिन्तयाम्यहम् ।
पापानां नाशनं दानैः सतां सेवादिभिस्तथा ।। २९।।
कथानां श्रवणैः स्याच्च पुण्योदयो भवेदपि ।
नैषा स्मृद्धिः पुण्यदाऽस्ति हिंसात्मिका तु चक्रिणी ।।4.49.३० ।।
सा स्मृद्धिः पुण्यकार्यार्थं योजनीयेति मे मतिः ।
लक्षाधिकं नाणकं वै लब्ध्वा यामः कथास्थलीम् ।।३ १ ।।
श्रोष्यामः सत्कथां नित्यं दास्यामो नाणकादिकम् ।
करिष्यामश्चात्मशुद्धिं लप्स्यामश्चात्मनो हितम् ।।।३२।।।
द्रक्ष्यामः श्रीपतिं कृष्णं प्राप्स्यामः परमं पदम् ।
प्रधानस्याऽग्र्यभृत्यस्य कृत्वाऽऽत्मसात् समस्तकम् ।।३३।।
असंख्यं वा धनं नीत्वा गच्छामो वै कथास्थलीम् ।
जीवने निश्चयो नास्ति नेदं सहाऽऽगमिष्यति ।।३४।।
धर्मकर्म महादानं सतां प्रसन्नता व्रतम् ।
कृष्णभक्तिः कथापुण्यं परलोके सहायदाः ।।३५।।
तत्कृत्वाऽक्षयपुण्यात्मधनं समर्ज्य सर्वथा ।
मोक्षमार्गे गमिष्यामो मा वृथाक्लेशमावह ।।३६।।
इत्युक्तः स्वपतिर्नार्या मुमुक्षुश्चात्मवानपि ।
सम्मतिं प्रददौ तस्यै यात्रार्थं मुक्तिहेतवे ।।३७।।
प्रसन्ना गण्डवाता सा सज्जाऽभवत्ततो द्रुतम् ।
शतपुत्रसुतायुक्ता शतदासीसमन्विता ।।३८।।
शतदासैर्युता पौत्रैद्विशताम्यां समन्विता ।
स्नुषाभिः सहिता बालैर्बालिकाभिर्युता तथा ।।३९।।
वृद्धाभिः सहिता रक्षाकृद्भिश्च सद्भटैर्युता ।
द्वेशते शकटानां च वाजिनां द्वेशते तथा ।।4.49.४०।।
उष्ट्राणां विंशतिं चापि वृषभाणां शतं तथा ।
भारवाहार्थमेवैषा पयोदानां गवां शतम् ।।४१ ।।
भोजनानामपारं च वस्त्राणां चाप्यनन्तकम् ।
पात्राणामप्यसंख्यत्वं नीत्वा सज्जाऽभवत्तदा ।।४२।।
यास्कवादोऽपि मुदितो यात्रार्थं मोक्षहेतवे ।
सज्जो बभूव नृपवत् कोटिस्वर्णसमन्वितः ।।४३।।
सर्वोपस्करणैर्युक्तः श्रेष्ठविमानमास्थितः ।
पत्न्या साकं विमानेन नत्वा गणेशमीश्वरम् ।।४४।।
व्योम्ना तु शर्कराभूमिं ययौ कुटुम्बिभिः सह ।
सार्थवाहाश्च भृत्याश्च गोधनं सम्पदोऽपि च ।।४५।।
भूमार्गेण समायातं सायं तु शर्करापुरम् ।
तत्रोद्याने सिन्धुतटे नैजे व्यापारयोगिनि ।।४६।।
उवास सर्वसम्पन्नो यास्कवादः कुटुम्बिभिः ।
व्यवस्थाप्य समस्तं स्वं सैन्यं स्नात्वा ततश्च सः ।।४७।।
पत्न्या युतो ययौ श्रीमल्लोमशं द्रष्टुमुत्सुकः ।
गत्वा नेमे पुपूजापि हार्दं न्यवेदयत्तथा ।।४८।।
लोमशोऽपि शुभाशीर्भिः प्रोत्साहं प्रददौ तदा ।
ददौ कृष्णामृतवारि प्रसादं प्रददौ तथा ।।४९।।
संहितायाः स्थलं नीत्वा कारयामास दर्शनम् ।
चक्री व्यासासनं व्यासं पूजयामास सद्धनैः ।।4.49.५०।।
बहुभिश्चोपचारैश्च व्रतं जग्राह तत्र च ।
सभार्यो नित्यमेवाऽन्नं ग्रहीष्याम्येकभक्तकम् ।।५१ ।।
साधुसेवां करिष्यामि कथाश्रवणमन्वहम् ।
नित्यं सतां भोजनानि दास्ये यथेष्टकान्यपि ।।५२।।
नित्यं सुवर्णदानानि वस्त्रदानानि नित्यशः ।
नित्यं प्रसादवार्यादिपानं च नेतरद्ग्रहम् ।।५३।।
स्वतःप्रकाशव्यासस्य पयःपानादि सर्वथा ।
मत्सकाशाद्भवेच्चेति जग्राह नियमान् स तु ।।।५४।।
नित्यं मालाशतावर्त्तप्रदक्षिणशतादिकम् ।
दण्डवन्मन्त्रजपनं सहस्रवारमुत्तमम् ।।५५।।
एवंविधाँस्तु नियमान् तेभ्यो ददौ हि लोमशः ।
ददौ मन्त्रं च मालाश्च नाम जपार्थमार्पयत् ।।५६।।
'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।
'कृष्णनारायणस्वामिप्रभोनारायणेश्वर ।।५७।।
अनादिश्रीकृष्णनारायणश्रीमाधवीश्वर ।
एवं दत्वा नियमाँश्च लोमशः स्वाश्रमं ययौ ।।५८।।
यास्कवादादयः सर्वे निवासं स्वं ययुस्ततः ।
यथानियममेवैते वर्तन्ते स्म सुखस्थिताः ।।५९।।
कथायाः श्रवणं नित्यं प्रकुर्वन्ति समुत्सुकाः ।
साधूनां सेवनं सर्वे प्रकुर्वन्ति कृतादराः ।।4.49.६० ।
निःसंशया देहसेवां साक्षात् कुर्वन्ति वै सताम् ।
एवंविधानां सहसा ध्वस्तान्यघानि चक्रिणाम् ।।६१ ।
नरा नार्यः समस्तास्ते निष्पापा ह्यभवन् द्रुतम् ।
अन्तःकपाटं निर्भिन्नं ज्ञानवन्तोऽभवन् द्रुतम् ।।।६२।
यास्कवादो भोजनानि साधुभ्यश्चान्वहं ददौ ।
वस्त्रदानानि बहूनि फलदानानि सन्ददौ ।।६३।।
इष्टदानानि सर्वाणि गोदानानि ददौ तथा ।
दुग्धदधिघृतदानं हव्यदानानि सन्ददौ ।।६४।।
कम्बलानां प्रदानानि पत्रदानानि वै ददौ ।
शृंगारवस्तुदानानि पूजायां मूर्तये ददौ ।।६५।।
यानवाहनदानि छत्रचामरदानकम् ।
उपानदुष्णीषवर्मदानं भूषार्पणं व्यधात् ।।६६।।
शय्यादानं चान्नदानं धान्यदानं ददौ तथा ।
स्वर्णरूप्यकमुद्रादिदानं रत्नार्पणं व्यधात् ।।६७।।
वाचकाय ददौ वेषाम्बराणि कानकं घटम् ।
विभूषणानि सर्वाणि स्वर्णाम्बराणि वै तथा ।।६८।।
अथ भार्या गण्डवाता प्रसन्नमानसा तदा ।
विप्राणीभ्यो ददौ स्वर्णं रूप्यकं भूषणानि च ।।६९।।
मौक्तिकानि सुरत्नानि हीरकान् शाटिका ददौ ।
कुर्चध्रीं च कुचध्रीं च कचलों चोलिकां ददौ ।।4.49.७०।।
सुरवालीं घर्घरीं च कुचलीं कम्बलीं ददौ ।
रशनां वालपाशीं च ललाटिकां च कर्णिकाम् ।।७१।।
ऊर्मिकांऽगुलीयकानि कंकणवलयान् ददौ ।
कण्ठिकां चांगदे स्वर्णमालाश्च मुद्गमालिकाः ।।७२।।
नरो बिन्द्वीं कुण्डले च सौवर्णीः शृंखला ददौ ।
वातगण्डा ददौवेव मिष्टान्नापि जलान्यपि ।।७३।।
कुंकुमाऽक्षतपुष्पाणि शृंगाराणि ददौ तथा ।
तस्याः पुत्राश्च पुत्र्यश्च गोदानानि प्रचक्रिरे ।।७४।।
वाजिदानोष्ट्रदानानि वृषदानानि वै तदा ।
चक्रुस्तत्र सुपात्रेषु महादानानि वै तदा ।।७५।।
अनसामपि दानानि सौधदानानि भावतः ।
तुलसीवृक्षदानानि हव्यदानानि सन्दधुः ।।७६।।
संहितापुस्तकदानं सर्वदानानि सन्दधुः ।
सर्वास्तत्र सह नीताः सम्पदो जडचेतनाः ।।७७।।
ददुर्दाने हरेर्भक्त्या विदित्वाऽवसरं शुभम् ।
यानवाहनदानानि दासीदासप्रदानकम् ।।७८।।
प्रचक्रिरे यथायोग्यं मोक्षार्थं कृष्णमानसाः ।
गते पक्षे समये तु कथाज्ञानपरिप्लुताः ।।७९।।
दिव्यभावा व्यजायन्त सर्वे ते चक्रिणस्तदा ।
दासा दास्यो भृत्यवर्गा बान्धवाश्च कुटुम्बिनः ।।4.49.८०।।
आबालवृद्धाः श्रीकृष्णनारायणस्य दर्शनम् ।
आतुराः कर्तुमेवाऽऽसन् मोक्षमार्गपरायणाः ।।८१ ।।
माघैकादशिकासायं कृष्णपक्षेऽर्हणोत्तरम् ।
आरार्त्रिकं विनिष्पाद्य यावत् कीर्तनकोविदाः ।।८२।।
कुर्वन्ति कीर्तनं तावत् कृष्णनारायणप्रभुः ।
भासयँस्तेजसा व्योम दिशाश्चावातरद् भुवि ।।८३।।
कानकेन विमानेन प्रियालक्ष्मीयुतो हरिः ।
विमानाद् बहिरागत्य दर्शनं स्वं ददौ तदा ।।८४।।
आश्चर्यं परमं प्राप्ताः श्रोतारो लक्षशो जनाः ।
नरा नार्यः क्षणं स्तब्धास्तेभ्योऽभिभवदृष्टयः ।।८५।।
अभवँश्च ततः कृष्णं संहृतातिप्रभं शुभम् ।
अपश्यँस्ते मुहुः रम्यं सुन्दरं गोपिकापतिम् ।।८६।।
गण्डवाताऽभवन्मुग्धा श्रीकृष्णे माधवीपतौ ।
तत्पुत्र्यश्चाभवन् मुग्धाश्चातीव परमात्मनि ।।८७।।
त्यक्तभाना अभवँस्ताः कृष्णाकृष्टात्मवृत्तयः ।
श्रीकृष्णाय निजदानं तदैव समचिन्तयन् ।।८८।।
दास्यश्च कन्यकाश्चापि या युवत्योऽभवँस्तदा ।
सर्वा मुग्धा निजदानं तदा नारायणे व्यधुः ।।८९ ।।
एवं नराश्च ये भृत्याः पुत्रा दासाश्च कर्मिणः ।
कृष्णाऽऽकृष्टात्मदेहास्ते मोक्षणं वव्रिरे हरेः ।।4.49.९०।।
ज्ञात्वा तेषामभिप्रायं श्रीकृष्णपरमेश्वरः ।
तूर्णं विधाय दिव्याँस्तान् समस्तान् दिव्यविग्रहान् ।।९ १ ।।
धृत्वा नैजे विमाने तु कृत्वा मुक्तान् सुरूपिणः ।
विवृत्तदेहान् पुरुषान् नारीर्मुक्तानिकास्तथा ।।९२।।
कृत्वा शेषानवस्थाप्य बालवर्गान् कुटुम्बिनः ।
पोषकान् रक्षकाँश्चापि युगलान् वरयोषितः ।।९३।।
अवस्थाप्य क्षितौ तत्र तेभ्यो दत्वा शुभाशिषः ।
नेतुं योग्यान्नरान्नारीर्निन्ये धामाऽक्षरं निजम् ।।९४।।
सहस्रशो नरानार्यस्तदा तद्देहधारिणः ।
दिव्यदेहाः प्रभूत्वैव ययुर्धामाऽक्षरं हरेः ।।९५।।
अहो वै चक्रिणां भाग्यं बद्रिके नरयोषिताम् ।
सर्वस्वार्पणकर्तॄणां येषां नेता नरायणः ।।९६।।
अहो कालस्य कवला अपि देहा हि भौतिकाः ।
कृष्णेच्छया विना पातं दिव्या भूत्वा ययुः सह ।।९७।।
अन्यथाकर्तृसामर्थ्यं त्वेतद्वै परमात्मनः ।
जडं तु चेतनं कृत्वा क्रीडत्येव च तैः सह ।।१८।।।
शेषाः सहस्रशश्चापि नरा नार्यस्तदा तु ये ।
कथां श्रुत्वा विनिष्पाद्या दर्शनादभवँस्तथा ।।९९।।
गण्डवाताकुटुम्बं तद् यास्कवादस्य वंशिन ।
वैष्णवास्ते तु मासान्ते ययुर्नैजं गृहं ततः ।। 4.49.१ ००।।
स्वदेशे तन्महाश्चर्यं जगदुः सर्वतः शुभम् ।
मुक्तिं प्राप्ताश्चक्रधारा वृद्धा मध्याश्च भावुकाः ।। १० १।।
अन्ये तथैव भजनं बद्रिके स्वालये व्यधुः ।
एवं महाँश्चमत्कारस्तदा ख्यातोऽभवद् भुवि ।। १ ०२।।
पठनाच्छ्रवणादस्य स्मरणात्पापनाशनम् ।
भुक्तिर्मुक्तिर्भवेच्चापि सर्वेच्छापूरणं भवेत् ।। १० ३।।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने कथाश्रवणेन चक्रिणो यास्कवादस्य तत्पत्न्या गण्डवा- तायाश्च कथाश्रवणेन सहस्राधिनरनारीभिः
सहितायाः श्रीकृष्णनारायणेन मोक्षणं कृतमित्यादिनिरूपणनामा नवाधिक चत्वारिंशोऽध्यायः ।। ४९ ।।