लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ०४८

विकिस्रोतः तः
← अध्यायः ४७ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)
अध्यायः ४८
[[लेखकः :|]]
अध्यायः ४९ →

श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि मद्यपाया कथां तथा ।
बिल्वपत्तनवासाया लियारीनामयोषितः ।। १ ।।
बिल्वाख्ये पत्तने मर्कटानदेशे तदाऽभवत् ।
मदिराव्यवसायाढ्यं कुटुम्बं मद्यकर्तृ तत् ।। २ ।।
ध्वजी तत्राऽभवन्मुख्यो नाम्ना मिष्टासवध्वजी ।
तस्य पत्नी लीयार्याख्या पुत्रपुत्रीसमन्विता ।। २ ।।
शुश्राव लोकमुखतः कथायाः परमं बलम् ।
शर्करानगरे कृष्णसंहितायाः कथां ततः ।। ४ ।।
श्रोतुमैच्छत् प्रमदा सा स्वामिने प्रार्थयत्ततः ।
पतिर्मिष्टासवः पत्नीं प्राह दूरे कथास्थलम् ।। ५ ।।
वर्तते दीर्घमार्गश्च गन्तव्यं सभयं पथि ।
वयं धनविहीनाश्च दारिद्र्यदुःखपीडिताः ।। ६ ।।
यास्यामो वै कथं मार्गे वर्तन्ते लुण्टका जनाः ।
पत्नी प्राह पतिं श्रुत्वा नाशो देहस्य विद्यते ।। ७ ।।
यद्वाकदाचिल्लोकेऽत्र मर्तव्यं सर्वथा जनैः ।
अद्य वा बहुवर्षान्ते ध्रुवं तु निधनं मतम् ।। ८ ।।
येन केन निमित्तेन मरणं संभविष्यति ।
वयं पापाः पापकर्माणश्च पापपरायणाः ।। ९ ।।
पापिनां मरणं पापे जायते तत्तु शोकदम् ।
अपापे पुण्यकार्ये वा जायते मरणं यदि ।। 4.48.१ ०।।
कष्टं वा जायते तादृक् प्रशस्तं लाभदं तु तत् ।
पुण्यसंकल्पकर्तारस्तीर्थयात्रेच्छवोऽपि च ।। ११ ।।
अकृतकार्या अपि ते मृताः स्वर्गं प्रयान्ति हि ।
वयं मद्यपिबाः सर्वे सदा महातिपापिनः ।। १२।।
तीर्थयात्रानिमित्तेन मृताश्चेत् स्वर्गभागिनः ।
लुण्टकैर्लुण्टिता मार्गे यदि चेद् भिक्षया ततः ।। १ ३।।
उत्पाद्य भोजनं चापि गमिष्यामः कथास्थलम् ।
पापानां नाशनं तेन भाग्यानामुदयो भवेत् ।। १४।।
यद्वा प्रमोक्षणं लोकादस्मात् स्यान्नात्र संशयः ।
सर्वथा लाभ एवाऽस्ति हानिस्तत्र न विद्यते ।। १५।।
तस्मात्तीर्थं प्रकर्तव्यं गन्तव्यं च कथास्थले ।
इत्युक्तस्तु तया पत्न्या कुटुम्बसहितो ध्वजी ।। १ ६।।
सूनी शून्यं गृहं कृत्वा प्रतस्थे शर्करायुतम् ।
यथा तु चिन्तितं पूर्वं तथैवाऽस्याऽभवत् पथि ।। १७।।
लुण्टका मिलिता मार्गे हृतं तैर्भाजनादिकम् ।
पाथेयं गर्दभं भारवाहं च वृषभं खरम् ।। १८।।
वस्त्राणि चापि पात्राणि लुण्टकाः समपाहरन् ।
ते तु मत्वा महत्कष्टं किन्तु तीर्थनिमित्तकम् ।। १९।।
पूर्वं विचारितं चापि नातिकष्टं तु मेनिरे ।
हृतसर्वस्वकाः सर्वे पुत्राश्चैकादशापि च ।।4.48.२०।।
पुत्र्यः सप्तदश कन्याः पिता माता च ते ततः ।
शनैः शनैः कृष्णपरायणाः सायं सरस्तटे ।।२१।।
द्रुमाढ्ये भूतले रात्रिनिर्गमाय कृतादराः ।
कृतावासा जलं पीत्वा सस्मरुः परमेश्वरम् ।।२२।।
कष्टं प्राप्तं परं मार्गे सर्वं हृतं तु लुष्टकैः ।
अद्य रात्रिर्गता स्यात्तु श्वः कष्टं क्षुधया भवेत् ।।२३।।
मर्तव्यं वा भिक्षितव्यं चाऽत्तव्यं दलपत्रकम् ।
तथापि तत्कथास्थानं गन्तव्यं नात्र संशयः ।।२४।।
निश्चित्यैवं समिधश्चाहृत्य वह्निमचेतयन् ।
तदाधारा स्थिताः सर्वे कीर्तनं संप्रचक्रिरे ।।२५।।
 'प्रियाकृष्णहरेकृष्णपावन्नारायणप्रभो ।
श्रीपतिललिताकृष्णबालकृष्णप्रभो विभो' ।।२६।।
एवं प्रचक्रिरे धुन्यं तालीवादनपूर्वकम् ।
रात्र्यर्धं विगतं यावत्तावत् क्रमेलकस्थितः ।।२७।।
दशोष्ट्रसहितः कश्चिच्छ्रेष्ठी भोजनवस्त्रवान् ।
आययौ तेन मार्गेण जलं पातुं सरस्तटे ।।२८।।।
सोऽपि वह्निं शुभं वीक्ष्य मानवाँस्तत्र संस्थितान् ।
जलं पीत्वा पाययित्वा विश्रामार्थं समाययौ ।।।२९।।
जय नारायणकृष्णेत्युक्त्वा ह्यवातरत् स्थले ।
उष्ट्रान् वृक्षस्तम्बमूले बद्ध्वा वह्निस्थलं शुभम् ।।4.48.३०।।
गत्वा पप्रच्छ तान् सर्वान् वृत्तान्तं क्वागमादिकम् ।
मिष्टासवो विनीतो वै भूत्वा यात्रां जगाद तम् ।।।३ १।।
लुण्टकैर्लुण्टितं सर्वं तदाप्येनं जगाद ह ।
अथ श्रेष्ठी परं श्रुत्वा कष्टं दयापरोऽभवत् ।।३२।।
ददौ वै भोजनं तेभ्यः खर्जुरादिकमुत्तमम् ।
वस्त्राण्यपि ददौ तेभ्योऽभयदानं ददौ ततः ।। ३३।।
उवाच तेभ्यो मुदभृद् याम्यहं चापि तत्स्थलम् ।
कथां श्रोतुं ततो यूयमारोहध्वं ममोष्ट्रकान् । ।३४।।
प्रयास्यामोऽनेन पथा प्राप्स्यामः श्वः प्रगे स्थलीम् ।
उष्ट्रा मार्गविदः सन्ति पन्थानं वेद्मि चाप्यहम् । ।३५।।
जयं मे विद्यते नैवाऽऽरोहयध्वं ममोष्ट्रकान् ।
इत्युक्ता बद्रिके सर्वे त्वारुरुहुः क्रमेलकान् ।। ३६।।
वेगवन्तो दीर्घकण्ठा उष्ट्रा दीर्घपदक्रमाः ।
वेगवद्धावनमग्ना अक्रामन्नोदिताः पथः ।।३७।।
यथा वा गरुडा हंसा विमानं वा गजा इव ।
मार्गमुल्लंघयामासुर्यथाऽम्बरविहारिणः ।।३८।।
दिनद्वयस्य मार्गं ते रात्र्यर्धे निर्ययुर्जवात् ।
प्रातर्जातं मुखदृश्यं तावत्तु शर्करापुरम् ।।३९।।
ते त्वपश्यन् पुरः श्वेतसौधालिकाप्रशोभितम् ।
कथामण्डपसंशोभद्व्योमकलशराजितम् ।।4.48.४०।।
बहुभिर्मुनिभिः सद्भिर्वैष्णवैः प्रमदानरैः ।
विहरद्भिः स्नानपूजाद्यर्थं सञ्चारिभिः प्रगे ।।४१ ।।
होमधूम्रैः सूचयद्वै कथास्थानं च घोषणैः ।
ब्राह्मणानां मुखमन्त्रोच्चारणानां समुच्छ्रितैः ।।४२।।
 'नारायणप्रभोकृष्णनारायण जगत्प्रभो ।
बालकृष्णहरिकृष्णमाधवीरमणप्रभो' ।।४३।।।
एवं संकीर्तनैर्व्याप्तैर्ध्वनिव्याप्तं तु पावनम् ।
शर्करानगरं वीक्ष्याश्चर्यं परमं लेभिरे ।।४४।।
सिन्धुतीरे द्रुतं गत्वा श्रेष्ठी सस्नौ जले मुहुः ।
अवतार्य समस्ताँस्तान् प्रदर्श्य मार्गमुत्तमम् ।।४५।।
कथास्थलस्य वै ख्यातं स्वयमुष्ट्रान् समस्तकान् ।
मिष्टं जलं पाययित्वा द्रुतं त्वदृश्यतां ययौ ।।४६।।
वीक्ष्यैतत् स ध्वजी सूतो महाश्चर्यपरोऽभवत् ।
अहोऽयं को भवेद् रक्षाकरोऽस्माकं वनान्तरे ।।४७।।
महामार्गे सुखदाता प्रापकः सुकथान्तिके ।
नूनं नारायणो यद्वा भवेत् कश्चित् सुरेश्वरः ।।४८।।
अन्यथा न भवेदेवमदृश्यवर्तनं क्वचित् ।
लियारी सा कृष्णनारायणं सस्मार तत्र ह ।।४९।।
आकाशवाण्या भगवानाह तां भगवानहम् ।
उष्ट्रानादाय भक्तानां रक्षार्थं त्वागतोऽभवम् ।।4.48.५०।।
यात श्रोतुं कथां दिव्यां सेवन्तां लोमशं मुनिम् ।
स्वतःप्रकाशं सेवन्तां गतिः श्रेष्ठा भविष्यति ।।५१ ।।
इत्युक्ता बद्रिके सर्वे तुष्टा आनन्दमोदिताः।
ययुः कथास्थलं नीत्वा कुसुमान्यतिभावतः ।।५२।।
नेमुस्ते दूरतः स्थित्वा सभायां सम्प्रविश्य ते ।
संहितायाः पूजनं वै चक्रुः पुष्पादिभिस्ततः ।।५३।।
निषेदुः श्रवणार्थं ते यावत् कथाप्रवाचनम् ।
कथान्ते लोमशं गत्वा नेमुः पादजलं पपुः ।।५४।।
वृत्तान्तं कथयामासुर्मार्गे कृष्णकृतावनम् ।
यश्चासीदुष्ट्रश्रेष्ठी वै स तु कृष्णनरायणः ।।५५।।
भगवान् श्रीहरिरस्मान् कथास्थानं समानयत् ।
तत्प्रपत्तिं समिच्छामो देहि मन्त्रं सुपावनम् ।।५६।।
इत्यर्थितो लोमशस्तान् श्रावयामास सन्मनुम् ।
'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।।५७।।
तथा तत्रैव धुन्याऽर्थं ददौ नाम हरेस्तदा ।
'कृष्णनारायणकृष्णनारायणपरेश्वर ।।५८।।
बालकृष्णाऽनादिकृष्णनारायण रमेश्वर ।
व्रतं ददौ मद्यहीनं जीवनं तेभ्य इत्यथ ।।५९।।
भोजनादिव्यवस्थां च तेषां श्रीलोमशो मुनिः ।
राजमहानसाच्चक्रे नित्यं कुट्यां निवासनम् ।।4.48.६०।।
एवं ते बद्रिके तत्र समूषुः सर्वदा सुखम् ।
सेवां चक्रुः सतां तत्र पात्रादिमञ्जनं तथा ।।६ १।।
मार्जनं क्षालनं वस्त्वानयनं च कथास्थले ।
महीमानादिदेहानां संवाहनं प्रचक्रिरे ।।६२।।
श्रुत्वा कथां सेवयित्वा साधूनाशीर्वचोऽमृतैः ।
विधूय सर्वपापानि कृष्णप्रसादभोजनैः ।।६३।।
निर्मलास्ते समस्ता वै जाताः कृष्णपरायणाः ।
पुण्यात्मानः परा भक्ता आत्मनिवेदिनो यथा ।। ६४।।
संस्मरन्त्युष्ट्रपालं तं श्रीकृष्णं वल्लभात्मकम् ।
जगत्स्वप्नसुषुप्त्यादावुष्ट्रपालो विलोक्यते ।।६५।।
तच्चित्तास्तद्ध्यानमग्नास्तस्मिन्निन्द्रियवृत्तयः ।
तद्योगस्थास्तत्स्मरास्ते तन्मया दिव्यभावनाः ।।६६।।
अभवन् स्वल्पकालेन महाभागवतोत्तमाः ।
कृष्णनारायणस्तेभ्यो बद्रिके स्वप्नगोचरः ।।६७।।
भूत्वोष्ट्रपालकः साक्षान्नारायणः प्रियःपतिः ।
शंखचक्रगदापद्मधारी भवति तत्क्षणे ।।६८।।
एवं ददाति नित्यं वै दर्शनं भक्तिबन्धनः ।
स्नेहपाशधृतः कृष्णस्तान्नेतुं समुपाययौ ।।६९।।
दिव्यविमानमारुह्य दिव्यप्रभायुतः प्रभुः ।
अवातरद् विमानात्स पौषस्यैकादशीदिने ।।4.48.७०।।
शुक्लपक्षे पश्यतां यावतां वै भक्तदेहिनाम् ।
मिष्टासवस्तथा भार्या लियारी पुत्रपुत्रिकाः ।।७१ ।।
विलोक्य त्वागतं कृष्णं वल्लभं परमेश्वरम् ।
सहसोत्थाय चरणौ नत्वा चक्रुर्हि दण्डवत् ।।७२।।
लिलिहुश्चरणौ तस्य जिह्वयाऽऽधारयन् रजः ।
शरीरेषु ततः कृष्णमार्थयन् मोक्षसिद्धये ।।७३।।
कृपालुर्भगवानाह सज्जा भवन्तु वै द्रुतम् ।
नयामि दिव्यदेहान् वै युष्मान् धामाऽक्षरं मम ।।७४।।
इत्युक्तमात्रास्ते सर्वेऽर्पिताः कृष्णस्य पादयोः ।
अभवन् पश्यतां सर्वलोकानां न्यपतन् क्षितौ ।।७५।।
भौतिकानि शरीराणि त्यक्त्वा भूत्वा हरीच्छया ।
दिव्या मुक्तस्वरूपास्ते कृष्णतुल्यशरीरिणः ।।७६।।
कृष्णाज्ञया निषेदुस्ते द्रुतं दिव्यविमानकम् ।
भजन्तः श्रीकृष्णनारायणं नत्वा सभां शुभाम् ।।७७।।
जयशब्दोच्चारयुक्ता विमानेनाऽक्षरं पदम् ।
श्रीकृष्णेन समं बद्रि ययुर्मुक्तस्वरूपिणः ।।७८।।
बभूवुः कन्यकास्तास्तु माता मुक्तानिकास्तथा ।
पुत्राः पिता च मुक्तास्ते ययुर्धामाऽक्षरं हरेः ।।७९।।
इत्येवं बद्रिके कृष्णनारायणो जगद्रुरुः ।
दीनाऽनाथदरिद्राणामुद्धारकोऽस्ति सर्वदा ।।4.48.८०।।
शरणागतरक्षायां तत्परोस्ति सदा प्रभुः ।
अनवेक्ष्य तु पापानि पापिनां दुर्गुणाँस्तथा ।।८१ ।।
शरण्यः शरणायातान् कथाश्रवणपावनान् ।
अनुग्रहेण कृपया तान्नयत्यक्षरं पदम् ।।८२।।
मद्यपानरताँस्ताँश्च नरान्नारीः समस्तकान् ।
पावयित्वा प्रभुर्निन्ये कृपया स्वाऽक्षरं पदम् ।।८३।।
गणयत्येव नैवाऽयं करुणासागरः प्रभुः ।
पापानि पापिनां लोके नयत्यव्ययमक्षरम् ।।८४।।
आश्चर्यं परमं प्राप्ता लोका वीक्ष्य चमत्कृतिम् ।
दीनबन्धुरहो कृष्णः स्वयमुद्धारयत्यपि ।।८५।।
ददाति दर्शनं नैजं ददाति वस्तु वाञ्छितम् ।
कृत्वा शुद्धान् याम्यदुःखं विनाश्य शरणागतान् ।।८६।।
स्वयं नयति दिव्येन विमानेन निजं पदम् ।
अहो भाग्यमहो भाग्यं कथाश्रवणकारिणाम् ।।८७।।
मासमात्रेण मुक्तिं स करोति भवपाशतः ।
संहिता श्रीकृष्णरूपा लक्ष्मीरूपाऽस्ति शाब्दिकी ।।८८।।
प्रतिमा तां सेवयित्वा स्वर्गं मोक्षं च विन्दति ।
पठनाच्छ्रवणादस्य मुक्तो भवेन्न संशयः ।।८९।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने कथाश्रवणेन मद्यपस्य मिष्टासवध्वजिकुटुम्बस्य मार्गे लुण्टकप्राप्तकष्टस्य श्रीहरिणा मार्गे श्रेष्ठिरूपेण रक्षितस्य मोक्षणं कृतमित्यादिनिरूपणनामाऽष्टचत्वारिंशोऽध्यायः ।। ४८ ।।