लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ०४४
← अध्यायः ४३ | लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः) अध्यायः ४४ [[लेखकः :|]] |
अध्यायः ४५ → |
श्रीबद्रीप्रियादेवी उवाच-
कुंकुमवापिकाक्षेत्रे नरनारायणप्रभो ।
बालकृष्णभगवतो जन्मजयन्तिकोत्सवः ।। १ ।।
कीदृशोऽप्यभवत् तत्र द्वितीयरूपयोगिनः ।
संक्षेपाच्छ्रोतुच्छामि कथां श्रीपरमात्मनः ।। २ ।।
श्रीनरनारायण उवाच--
शृणु बद्रीप्रिये देवि दिव्यरूपो हरिस्तदा ।
कुंकुमवापिकाक्षेत्रे बहुरूपाण्यधारयत् ।। ३ ।।
अनादिश्रीकृष्णनारायणरूपः स्वयंप्रभुः ।
लोमशोऽप्यभवत् सर्वमहर्षिरूपवाँस्तथा ।। ४ ।।
स्वयंप्रकाशस्वरूपश्च दासदासीस्वरूपवान् ।
भक्तभक्तानिकारूपधरः कृष्णस्तदाऽभवत् ।। ५ ।।
ये ये सिन्धुं गतास्तेषां मूर्तिधृग् वेषधृक् प्रभुः ।
सर्वचिह्नोपकरणधृक्प्रभुस्तु तदाऽभवत् ।। ६ ।।
विश्वकर्मा समाहूतो नारायणेन तत्र च ।
ब्रह्मा विष्णुर्महेशश्च महेन्द्रवरुणादयः ।। ७ ।।
सिद्धा महर्षयो मुक्ता मुक्तानिकास्तथेश्वराः ।
देवा देव्यश्च भूदेवाश्चैकविंशतिकोत्सवे ।। ८ ।।
आययुः श्रीहरेः पूजाकरणार्थं प्रगे तदा ।
अष्टम्यां कार्तिकेकृष्णे विप्राश्चापि समाययुः ।। ९ ।।
सुराः सुराण्यो देवाश्च लोकपालाः समाययुः ।
सौराष्ट्रवासिनश्चान्ये क्षितिद्वीपनिवासिनः ।। 4.44.१० ।।
जन्मजयन्तिकामहोत्सवं कर्तुं समाययुः ।
तदा ब्रह्मप्रियाः सर्वा हरिप्रियाश्च देवताः ।। ११ ।।
शृंगारं श्रीपतिकृष्णस्वामिनः संव्यधुर्मुदा ।
अभिषेकोत्तरं वेषं भूषाशोभां प्रचक्रिरे ।। १२।।
तिलकं चन्द्रकं भाले कुंकुमाऽक्षतकर्दमैः ।
केसरैः कस्तूरिकैश्च सुगन्धिसारसद्द्रवैः ।। १३।।
प्रपूज्याऽऽरार्त्रिकं चक्रुः पुष्पदीपप्रदानकैः ।
आशीर्भिर्वर्धयामासुः प्रज्ञेशं माधवीपतिम् ।। १ ४।।
लक्ष्मीनारायणं कृष्णं विकुण्ठापरमेश्वरम् ।
उपदाभिर्विविधाभिस्तोषणं तस्य संव्यधुः ।। १५।।
दिव्यज्ञाना देववर्या आश्चर्यं परमं ययुः ।
सिन्धुतीरे हरिस्त्वास्ते तथाऽऽस्तेऽश्वसरस्तटे ।। १६।।
निजजन्मजयन्त्या उत्सवार्थं कृपया द्विधा ।
ब्रह्मा नीराजनं चक्रे, लोकपालाः प्रचक्रिरे ।। १७।।
विप्रा मन्त्रैर्द्रव्यवर्यैः पूजां चक्रुः परात्मनः ।
एवं प्रातर्महाञ्जात उसिवोऽश्वसरस्तटे ।। १८।।
भोजनान्यभवँश्चापि सायं सभाऽभवच्छुभा ।
लोमशो दिव्यरूपेण सभाकार्यं तदा व्यधात् ।। १ ९।।
उपादिदेश बहुधा सौराष्ट्रीयप्रजाजनान् ।
उत्सवे चागताँल्लोकान् सर्वभूमिनिवासिनः ।।4.44.२० ।।
लोककल्याणकर्ताऽयं भगवान् पुरुषोत्तमः ।
एकधा बहुधा चास्ते सर्वश्रेयःकृपावशः ।।२ १।।
सिन्धुदेशे वर्ततेऽद्य सौराष्ट्रे चात्र वर्तते ।
अक्षरे परमे धाम्नि वर्तते हृदयेषु नः ।।२२।।
क्षीराख्ये सागरे चास्ते श्वेतद्वीपेऽपि वर्तते ।
श्रीबदर्याश्रमे चास्ते क्षेत्रे च पौरुषोत्तमे ।।।२२।।।
मूलद्वारवतीपूर्यां तथा मेरौ विराजते ।
भृगोर्गृहे स एवास्ते धर्मदेवगृहेऽपि च ।।२४।।
वह्नौ सूर्ये तया चन्द्रे सत्यलोके विराजते ।
वैकुण्ठे श्रीपुरे चास्तेऽव्याकृते चामृते पदे ।। २५।।
गोलोके स हरिश्चास्ते तथाऽक्षरे परे पदे ।
सर्वधामसु सर्वेशः स एवास्ते हरिः स्वयम् ।।२६।।
हरेर्जन्मोत्सवश्चाद्यैकविंशतिगुणात्मकः ।
सर्वलोकेषु सर्वत्र महीयते स्थले स्थले ।।२७।।
तत्र तत्रान्यरूपेण वर्तते भगवानयम् ।
भक्तिवशो हि भगवान् भजतामेति भक्तताम् ।।२८।।
विगुणो निर्गुणो वापि भक्तः प्रियः परात्मनः ।
दुराचारो ह्यनाचारो भक्तः प्रियः परात्मनः ।।२९।।
अज्ञः सुज्ञश्च विज्ञो वा भक्तः प्रियः परात्मनः ।
निर्मलो वा विमलो वा भक्तः प्रियः परात्मनः ।।4.44.३०।।
नारी षण्ढो नरो वापि भक्तः प्रियः परात्मनः ।
देवो दैत्यो राक्षसो वा नागो वा चञ्चुमानपि ।।३ १।।
सखुरो वा सपुच्छो वा भक्तः प्रियः परात्मनः ।
अपि मायामयो देही मायायोगपरायणः ।।३२।।
चेत् स भक्तोऽनन्यभक्तः स प्रियः परमात्मनः ।
कृष्णस्य साधनात् साधुः प्रियः श्रीपरमात्मनः ।।३३।।
वृद्धश्चाऽलोलुपश्चापि तथाऽऽत्मवान्नदाम्भिकः ।
सम्यग्विनीतः सरलः प्रिय आचार्य ईशितुः ।।३४।।
दयावतां भजनेषु स्थितानां सुतपस्विनाम् ।
मयि न्यासवतां स्नेहवतां च वशगात्मनाम् ।।३५।।
विरक्तानां ज्ञानिजां च दान्तानां दानिनां तथा ।
सत्यस्थानामलुब्धानां ब्रह्मात्मभावदर्शिनाम् ।।३६।।
कृष्णभक्त्यविरुद्धानां प्रसीदति परेश्वरः ।
यस्यालस्यं न वै भक्तौ प्रमादो नास्ति सर्वथा ।।३७।।
श्रद्धा च वर्तते कृष्णे तस्मिन् कृष्णः प्रसीदति ।
दौर्मनस्यं च नास्तिक्यं यस्मिन्नैवाऽस्ति सर्वथा ।। ३८।।
स्वार्थबुद्धिर्न यस्याऽस्ति भक्तौ मानं न विद्यते ।
संशयो यस्य नैवाऽस्ति तस्मिन् कृष्णः प्रसीदति ।।३९।।
उत्साहसहिते नित्यं संस्मर्तरि परात्मनः ।
सेवापरायणे भक्ते दासे कृष्णः प्रसीदति ।।4.44.४०।।
सर्वश्रवे सर्वदर्शिन्यर्थबोधयुतेऽनिशम् ।
सर्वस्पर्शविदि भक्तियुते कृष्णः प्रसीदति ।।४१ ।।
सर्वास्वादवति दिव्यगन्धमात्रादिसंविदि ।
सेश्वर्येऽनावरणाढ्ये भक्ते कृष्णः प्रसीदति ।।४२।।
जलवासेऽनलवासे भूवासे गह्वरस्थिते ।
अप्याकाशनिवासेऽपि भक्ते कृष्णः प्रसीदति ।।४३।।
मेघधारेऽद्रिधारे च स्वर्गधारे धराधरे ।
अपि भक्तिधरे कृष्णः प्रसीदत्येव नान्यथा ।।४४।।
देहादग्निविनिर्माणशक्ते तापभयोज्झिते ।
दाहवारणशक्तेऽपि भक्ते कृष्णः प्रसीदति ।।४५।।
जलमध्येऽनलरक्षाकरेऽनले जलग्रहे ।
भस्मीभूतेऽपि निर्माणे शक्ते भक्ते प्रसीदति ।।४६।।
परकायप्रवेशादौ शक्ते पर्वतधारणे ।
पाणिभ्यां वायुरोधे च शक्ते भक्ते प्रसीदति ।।४७।।।
अंगुल्यग्रनिघातेन भूकम्पे शक्तिशालिनि ।
सहस्ररूपधारेऽपि भक्ते कृष्णः प्रसीदति ।।४८।।
आकाशगमने शक्ते सर्वशब्दावगाहने ।
यथाकामोपलम्भे च शक्ते भक्ते प्रसीदति ।।४९।।
छेदने ताडने बन्धे संसारपरिवर्तने ।
मृत्योर्जये प्रलयेऽपि शक्ते भक्ते प्रसीदति ।।4.44.५० ।।
वैतृष्ण्ये वर्तमानोऽपि कृष्णलीलापरो न चेत् ।
कृष्णभक्तिविहीनश्चेत् कृष्णो नात्र प्रसीदति ।।५१।।
आकाशे क्रीडते यश्च सूक्ष्मानर्थान् समृच्छति ।
सर्वरुतज्ञतां याति भक्तिं चेन्न करोति सः ।।५२। ।
तस्मिन् शुष्के जने कृष्णः कदापि न प्रसीदति ।
तेजोरूपाणि सर्वाणि यस्तु यद्यपि पश्यति ।।५३।।
देवबिम्बान्यनेकानि विमानान्यपि पश्यति ।
पश्यति ब्रह्मविष्ण्विन्द्रयमाग्निवरुणेश्वरान् ।।५४।।
ग्रहनक्षत्रताराश्च पातालभुवनान्यपि ।
यद्यात्मानं परात्मानं स्नेहभक्त्या न पश्यति ।।५५।।
आत्मविद्याविहीनश्चेत् कृष्णसेवोज्झितस्तथा ।
सत्त्वप्रसादहीनश्च कृष्णकृपामृतोज्झितः ।।५६।।
साधुसेवाविहीनश्चेत् तस्य सर्वं निरर्थकम् ।
अशाश्वतं कालभोज्यं तस्याऽन्ते वै निरर्थकम् ।।५७।।।
अनैश्वर्यं तथाऽज्ञानं ह्यधर्मो राग इत्यमी ।
यत्र स्युः सोऽपि भक्तश्चेत् तस्मिन् कृष्णः प्रसीदति ।।५८।।
भक्त्या तुष्यति सर्वेशो भक्तिहीने न तुष्यति ।
साधुसेवापरे कृष्णो विशेषेण प्रतुष्यति ।।५९।।
साध्वीसेवापरायां तु नार्यां नारायणः सदा!
सन्तुष्टो भवति प्रभाकृष्णो दयालुरच्युतः ।।4.44.६०।।
पैशाचं बन्धनं कामो राक्षसं बन्धनं स्त्रियः ।
याक्षं तु बन्धनं द्रव्यं तत्त्यागे तुष्यति प्रभुः ।।६ १ ।।
गान्धर्वं बन्धन नाट्यं माहेन्द्रं मन्दिराणि वै ।
सौम्यं तु बन्धनं कीर्तिस्तत्त्यागे तुष्यति प्रभुः ।।६२।।
सौरं तु बन्धनं सत्ता प्राजापत्यं तु वंशजाः ।
वैधसं बन्धनं धिष्ण्यं तत्त्यागे तुष्यति प्रभुः ।।६३।।
पतिस्तु बन्धनं रौद्रं सम्पदो वैष्णवं तु तत् ।
वासना बन्धनं याम्यं तत्त्यागे तुष्यति प्रभुः ।।६४।।
दानवं बन्धनं लोभो तृष्णा दैतेयबन्धनम् ।
विषया बन्धनं सार्पं तत्त्यागे तुष्यति प्रभुः ।।६५।।
आग्नेयं बन्धनं वैरं द्वेषो नैर्ऋतमुच्यते ।
बन्धनं नारकं शैश्नं यौनं गर्भं तु बन्धनम् ।।६६।।
प्रतिष्ठा बन्धनं दौर्गं गौरवं तत्तु रौरवम् ।
गार्वं तु बन्धनं भौतं तत्त्यागे तुष्यति प्रभुः ।।६७।।
विच्छिद्य शिथिलीकृत्य जीर्णीकृत्य विनाश्य च ।
बन्धनानि विनिर्बन्धो यस्तस्मिँस्तुष्यति प्रभुः ।।६८।।
पुण्यं तु बन्धनं वार्षं सामर्थ्यं तत्तु दैवतम् ।
ब्राह्मं सत्त्वोत्कर्षरूपं तत्त्यागे तुष्यति प्रभुः ।।६९।।
निर्गुणं बन्धनं कार्ष्णं भक्तिर्निर्वाणबन्धनम् ।
बन्धनं सत् साधुसेवा तद्ग्रहे तुष्यति प्रभुः ।।4.44.७०।।
वर्ष्मणा मनसा द्रव्यैः सेवनीया हि साधवः ।
साध्व्यः सर्वार्पणैः सेव्या मोक्षदा हि प्रसादिताः ।।७ १ ।।
हरिः सत्सु च साध्वीषु वर्तते मूर्तिमानपि ।
सर्वकामप्रपूरो नः सेवनीयः स तद्गतः ।।७२।।
'ओंनमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।
जपनीयः सदा चैवं मन्त्रात्मा परमेश्वरः ।।७३।।
हृदये रक्षणीयोऽयं सर्वकामफलप्रदः ।
मोक्षाऽमृतमहानन्दप्रदाता कृष्णयोगकृत् ।।७४।।
कृष्णः स्वामी ममादस्तीति स्मर्तव्यः सर्वदा हरिः ।
सर्ववाञ्छितदाताऽयं साक्षाद् भवति सर्वथा ।।७५।।।
दानं देयं हरये वै व्रतं कार्यं हरेः कृते ।
तपस्तप्यं तु कृष्णार्थं योगः साध्यो हरेः कृते ।।७६।।
मखः कार्यस्तु कृष्णार्थं तीर्थं कार्यं हरेः कृते ।
जपः कार्यस्तु कृष्णार्थं स्नेहः कार्यो हरेः कृते ।।७७।।
सत्कर्माणि समस्तानि कर्तव्यानि हरेः कृते ।
आत्मसंशोधनं कार्यं श्रीकृष्णार्थं सदा शुभम् ।।७८।।
दिव्यभावो ग्रहीतव्यो मोक्षार्थं हरिमन्दिरे ।
सेवा सतां स्वात्मवत्तु कर्तव्या कृष्णतुष्टये ।।७९।।
आक्षरं परमं क्षेत्रं सेवनीयं विमुक्तये ।
कुंकुमवापिका सेव्याऽनादिकृष्णस्य लब्धये ।।4.44.८० ।।
रक्तं तु कुंकुमक्षेत्रं श्वेतं चाश्वसरोवरम् ।
कृष्णक्षेत्रमनादिश्रीकृष्णनारायणो हरिः ।।८१ ।।
त्रयं सेव्यं सदा भक्त्या प्रीत्या सत्त्वेन श्रद्धया ।
प्रीतिश्च कौकुमं क्षेत्रं सत्त्वं त्वश्वसरोवरम् ।।।८२।।
श्रद्धा कृष्णमयी बोध्या त्र्यात्मकं मोक्षसाधनम् ।
प्रीतिः कृष्णे सदासक्तिः सत्त्वं कृष्णे निजस्थितिः ।।८३।।
श्रद्धा कृष्णेऽर्पणं नैजं त्र्यात्मकं मोक्षसाधनम् ।
रक्तता कुंकुमं कृष्णे श्वेतता च रसो हरौ ।।८४।।
कृष्णता कर्षणं कृष्णे त्र्यात्मकं मोक्षसाधनम् ।
मयि क्षेत्रे हरी रक्तो मयि सारे इतो हरिः ।।८५।।
मयि कृष्यां हरिर्वप्तस्ततोऽहं हरिरेव हि ।
तादात्म्यं हरिणा साकं हर्यात्माऽहं समश्नुवे ।।८६।।
कृष्णनारायणस्वामिसर्वानन्दभृतप्रभुम् ।
एवं नारायणे कृष्णे कर्तव्यो योग उत्तमः ।।८७।।
भवपारेऽतिसंसारतारके परमेश्वरे ।
स्वस्ति वोऽस्तु स्वागतं वो विदायं वो भवत्वपि ।।८८।।
क्षमापनीयो भगवान् सम्माने लौकिके कृते ।
इत्युक्त्वा लोमशः सायं सभान्तं प्राकरोत् तदा ।।८९।।
भुक्त्वा पीत्वा च हर्याज्ञां नीत्वा ययुर्निजालयान् ।
रात्रौ सम्मानिताः सम्यग् भोजिताः पूजिता अपि ।।4.44.९०।।
सेविता निद्रिता महीमानाः प्रातर्ययुस्ततः ।
प्रशंसन्तो हरेर्नाम लोमशस्योपदेशनम् ।।९१ ।।
श्रीमद्गोपालकृष्णं च कम्भराश्रीं च मातरम् ।
कुंकुमवापिकाक्षेत्रं तथा चाश्वसरोवरम् ।।९२।।
प्रशंसन्तो हरिं स्वर्गादिकं ययुः सुरेश्वराः ।
इत्येवं बद्रिके तत्र जन्मजयन्तिकोत्सवः ।।९३।।
द्वितीयेन स्वरूपेण श्रीकृष्णपरमात्मना ।
कृतो मनोहरः श्रेष्ठो लोमशेन महर्षिणा ।।९४।।
ब्रह्माद्या देवतास्तूर्णं सायं विमानतस्ततः ।
सौराष्ट्रं सम्परित्यज्याऽऽययुः सिन्धुप्रदेशकान् ।।९५।।
यत्राऽनादिकृष्णनारायणश्चास्ते तु शार्करे ।
नगरे सिन्धुजे देशे यत्रास्ते लोमशो मुनिः ।।९६।।
स्वप्रकाशोऽपि यत्रास्ते संहितावाचको मुनिः ।
यत्र लक्ष्मीशसंहितापारायणं भवत्यपि ।।९७।।
यत्र यज्ञो वर्तते च ऋषयः सन्ति संहिताः ।
तत्राऽऽगत्य हरिं नेमुः पुपूजुः श्रुतिवल्लभम् ।।९८।।
जयशब्दान् प्रचक्रुश्च जयन्तीमह आचारन् ।
उपदाश्च न्यधुः कृष्णपादयोः पुनरित्यपि ।।९९।।
आरार्त्रिकं व्यधू रात्रौ सेवां चक्रुः सुखप्रदाम् ।
रात्रिं निन्युर्मानितास्ते भोजिताः स्वागतादिभिः ।।4.44.१० ०।।
तोषिताः श्रीकृष्णनारायणेन सर्वदेवताः ।
प्रातर्गन्तुं प्रसन्नाः संगृह्याऽऽज्ञां परमात्मनः ।। १०१।।
आशीर्वादान्नृपादींश्च प्रयुज्य प्रययुर्दिवम् ।
प्रातः श्रीकृष्णभगवान् स्नानविधिं समाचरन् ।। १०२।
उत्सवा गीतयः कीर्तनानि वाद्यनिनादनम् ।
भाटचारणबन्दीनां स्तुतयः परितोऽभवन् ।। १०३।।
इत्येवं बद्रिके सर्वं कृष्णनारायणात्मकम् ।
आक्षरं तु यथा क्षेत्रं सैन्धवं तत्तथाऽभवत् ।।१ ०४।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने कुंकुमवापिकाक्षेत्रेऽपि द्वितीयरूपेणैकविंशतितमजन्मजयन्तीदिनोत्सवे श्रीकृष्णनारायणस्योपस्थितिर्लोमशस्योपदेशो देवादीनां महोत्सवविनिर्वर्तनमित्यादिनिरूपणनामा चतुश्चत्वारिंशोऽध्यायः ।। ४४ ।।