लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः २१८
← अध्यायः २१७ | लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः) अध्यायः २१८ [[लेखकः :|]] |
अध्यायः २१९ → |
श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं कथामंगारहारिणः ।
झरणाभूमिवासस्य भक्तस्य मौक्तिकेशिनः ।। १ ।।
मौक्तिकेशी ममभक्तो पार्थकुलसखातराट् ।
कुलसानां खनीनां वै खातोद्योतकरः सदा ।। २ ।।
सहस्रशो जनास्तत्रांऽगारकर्मकराः खनौ ।
खनयन्ति कुलसान् वै पार्थान् कृष्णान् दिवानिशम् ।। ३ ।।
प्रातर्भक्तो भजित्वा मां ततो याति खनिं प्रति ।
क्षणं मे भजनं तत्र विधापयति भृत्यकैः ।। ४ ।।
हरे कृष्ण हरे कृष्ण बालकृष्ण हरे हरे ।
अनादिश्रीकृष्णनारायण श्रीश हरे हरे ।। ५ ।।
एवं कृत्वा कारयित्वा भजनं खनिगह्वरे ।
प्रवेशं च कर्मचारैः समं करोति सत्वरम् ।। ६ ।।
कृष्णशिलांऽगारभेदान् निखनन्ति च गह्वरे ।
भजन्ते भगवन्तं मां श्रीपतिं श्रान्तिसत्क्षणे ।। ७ ।।
मध्याह्ने भोजनं कृत्वा विश्राम्यन्ति तु कर्मिणः ।
तदा दिव्यं बोधयति मौक्तिकेशी जनान् यथा ।। ८ ।।
विना कृष्णस्य भजनं संसारो गह्वरो महान् ।
तीर्यते नैव केनापि ह्यगाधो वासनामयः ।। ९ ।।
जन्ममृत्युजराव्याधिस्तरा असंख्यकोटयः ।
कर्मस्तरास्तथा तत्र भिन्नव्यापारनोदकाः ।।3.218.१०।।
विना भक्तिं हरेनैव तदन्तं लभते जनः ।
असंगी साधुसंगी च वैराग्याल्लभतेऽन्तकम् ।।१ १।।
वर्तेते हृदये द्वौ तौ विरुद्धो भिन्नगोचरौ ।
एको नयति मायायां द्वितीयः परमात्मनि ।। १२।।
एको वदति भुञ्जीय विषयान् मायिकानिति ।
द्वितीयो वदति नैव भुञ्जीय मायिकानिति ।। १३।।
तत्रैकं मन एवाऽस्ति मायिकं मायिकार्थगम् ।
द्वितीयो जीवनामाऽऽत्मा निषेधं कुरुते सदा ।। १४।।
विविच्यैवं विजानीयादात्मना परमेश्वरम् ।
सन्त्यजेद् विषयानन्यान् मोक्षरोधकरानिह ।।।१५।।।
वासना मनसा युक्ता प्रेरिका विषयेष्वपि ।
लोकविषयशब्दोत्था भुंक्ष्वेति सा वदत्यपि ।। १६।।
सतां कथाप्रसंगोत्था भावनात्मनिवासिनी ।
मा भुंक्ष्वेति निषेधं वै करोति मायिकेषु सा ।। १७।।
निष्कासनीया लोकोक्तिर्धार्या साधुकथासुधा ।
पिता माता सुहृद्बन्धुः स्वसा भ्राता च मातुलः ।। १८।।
पुत्रः पत्नी महिषी गौरश्वो वस्त्रं गृहं धनम् ।
ममेदं च तवेदं चेत्येवं लौकिकवासनाः ।। १९।।
अहन्ताममताहेतुभूताः क्षिपन्ति गह्वरे ।
भ्रमन्ति कर्मकाण्डैश्च जायन्ते च पुनः पुनः ।।3.218.२०।।
सतां कल्याणदातॄणां धृत्वा वाक्यानि वै हृदि ।
नेमे पिता सुहृद् बन्धुर्मा भ्राता मातुलः स्वसा ।।२१।।
पुत्रः पत्नी महिषी गौरश्वो वस्त्रं गृहं धनम् ।
नेदं मम तवेदं न किन्तु तत्परमात्मनः ।।२२।।
पिता माता सुहृद् बन्धुः पतिः कृष्णनरायणः ।
अहं तु श्रीहरेर्दासः शाश्वतिकोऽस्मि चेतनः ।।२३।।
मोक्षदो वै पिता माता तद्दासोऽहं सुभक्तिमान् ।
न मे बन्धो न मे माया न मेऽहन्ता न मामकम् ।।२४।।
नित्यशुद्धो हरेर्भक्तो मुक्तोऽस्मि सत्समागमात् ।
वासना खलु बन्धोऽस्ति मोक्षोऽस्ति वासनालयः ।।२५।।
संसारे दुःखबहुले सुखं कृष्णपदेऽस्ति वै ।
लोकशब्दाः सतां शब्दा युद्ध्यन्ति बोधकारिणः ।। २६।।
तज्जे ज्ञाने विवेकाख्ये युद्ध्यतो हृदयेऽनिशम् ।
येषां बलं महत् स्याद्वै तस्यैव विजयो भवेत् ।।२७।।
यत्र नारायणश्चास्ते यत्र सन्तश्च मोक्षदाः ।
तत्रैव विजयश्चास्ते मायाबलं तु निष्फलम् ।।२८।।।
साधूनां हृदये कृष्णः साधूनां विजयः सदा ।
उपदेशस्वरूपा वै सन्तो येषां हृदि स्थिताः ।।२९।।
कथाद्वारा तथा कृष्णो येषां हृत्सु सदा स्थितः ।
तेषां बलं च विजयो जायते मोक्षलाभदः ।।3.218.३० ।।
बाह्यानां तु सतां संगात् पुष्यन्ति सन्त आन्तराः ।
बाह्यानामसतां संगात् पुष्यन्त्यसन्त आन्तराः ।। ३१ ।।
पुष्टानां वर्धते शक्तिरपुष्टानां क्षयो भवेत् ।
अतः सन्तः पोषणीया न त्वसन्तः कदाचन ।।।३२।।
यथा यथा प्रसन्नाः स्युः सन्तो वृत्त्यं तथा तथा ।
सतां प्रसन्नता पुष्टिस्तथा कृष्णप्रसन्नता ।।३३।।
एवं जाते विजयो वै जीवात्मनः प्रजायते ।
मोक्षराज्यं लभतेऽपि कृष्णदास्यं महत्सुखम् ।।३४।।
कृष्णार्थं यतमानस्य साधुसेवार्थमित्यपि ।
युद्ध्यमानस्य भक्तस्य द्रष्टाऽस्ति भगवान् स्वराट् ।।३५।।
युद्धे एव तु मरणे द्रष्टा प्रसीदति ध्रुवम् ।
युद्धे मृत्युर्विजयोऽस्ति स्वामी तस्मै प्रसीदति ।।३६।।
स्वामिप्रियेहया मृत्युं गतोऽयं चेति वेत्ति सः ।
पराङ्मुखो न वै जातस्ततो जयं समर्हति ।।३७।।
स्वामी तस्मै ददात्येव फलं जयाधिकं ह्यपि ।
तस्माद् बलिभिर्योद्धव्यं जये सन्मुखवक्षसा ।।३८।।
मर्तव्यं स्वामिप्रीत्यर्थं युद्धे सन्मुखवक्षसा ।
भक्त्या धर्मेण मर्तव्यं हृदि सन्मुखशार्ङ्गिणा ।।३९।।
सतां सेवया मर्तव्यं देहे चान्वितचक्रिणा ।
नराकृतेर्हरेर्भक्त्या गन्तव्यं गह्वरान्तके ।।3.218.४०।।
कुसंगः सर्वथा त्याज्यः सत्संगः कार्य एव ह ।
सतां कथा श्रवणीया धार्यः कृष्णः सदा हृदि ।।४१।।
सद्यो निःश्रेयसायैव गन्तव्यं शरणे हरेः ।
न वै शारीरसौख्यार्थं धनपुत्राप्तयेऽपि न ।।४२।।
न वा राज्यादिलोभेन गन्तव्यं शरणे हरेः ।
निष्कामभावयुक्तेन गन्तव्यं शरणे हरेः ।।४३।।
सकामभावना मोक्षरोधिनी जायते यतः ।
इच्छाघाते शरणं च त्यक्तव्यं स्यादतो न तत् ।।४४।।
सकामशरणं ग्राह्यं ग्राह्यं त्वकामपूर्वकम् ।
जायते तु ध्रुवा मुक्तिर्येन ग्राह्यं हि तत्तथा ।।४५।।
सकामाः कामसिद्धौ तु भजन्ते भावतो हरिम् ।
कामाऽसिद्धौ त्यजन्त्येव भावनामपि सर्वथा ।।४६।।
सतां बोधं त्यजन्त्येव भगवत्त्वस्य का कथा ।
नास्तिकत्वं निन्दनं च कुर्वन्ति प्रत्युतापि ते ।।४७।।
पतन्त्येव निरयेषु स्वार्थाऽनर्थप्रयोजिताः ।
ततो निष्कामभावेन प्रसेवेत प्रभुं हरिम् ।।४८।।
सकामानां हि संकल्पान् कृपया पूरयत्यपि ।
भक्तानां शरणस्थानां भक्तिशरणजं फलम् ।।४९।।
ददात्येवाऽनन्तगुणं कृतसापेक्षकः प्रभुः ।
महद् दुःखं तु भक्तस्य स्वल्पं करोति तद्वशः ।।3.218.५०।।
कर्मणां खलु मर्यादा बद्धास्तेनैव शार्ङ्गिणा ।
अन्तरस्थो हरिः प्रारब्धानुसारं फलं सदा ।।५१।।
समवृत्तिर्ददात्येव कृपया तु विशेषतः ।
स्वतन्त्रः सर्वकर्ताऽस्ति नियामकः परेश्वरः ।।५२।।
अतिदुष्कर्मिणश्चैनं भवेयुर्यदि सत्प्रभुम् ।
कृपया श्रीहरिस्तेषां कर्माणि सुबहून्यपि ।।५३।।
दीर्घकालेन भोग्यानि दुष्टानि दुःखदान्यपि ।
करोति स्वल्पकालेन स्वल्पभोग्यानि तानि वै ।।५४।।
शूलव्यथां कण्टकेन निवारयति सर्वथा ।
अतिदारिद्र्यदुःखं निवारयत्यन्नवस्त्रदः ।।।५५।।
भक्ता हरेः कृपां त्वेनां प्रजानन्ति न चापरे ।
अभक्तास्तु हरौ दोषान् कल्पयन्त्यगुणानपि ।।५६।।
अनीश्वरत्वं चाक्षिप्य जहत्यपि तदाश्रयम् ।
निन्दन्ति निजतुल्येषु वदन्त्यवाच्यजल्पकान् ।।५७।।
मया मत्वा प्रभुं द्रव्यव्ययो वै सर्वथा कृतः ।
अस्य सन्तः पूजिताश्च सर्वस्वार्पणकारिणा ।।५८।।
तथाप्यनेन दुःखं मे न हृतं किञ्चिदित्यपि ।
उपकारो न मे ज्ञातश्चाग्रे मे किं करिष्यति ।।५९।।
तस्मात् त्यक्तो मया चाऽयं नारायणपदार्थवान् ।
एवं त्यक्त्वा प्रयात्येव मायायां निरये ततः ।।3.218.६०।।
तस्मात् कृष्णस्य भक्तिर्वै कर्तव्या तु निरीहया ।
श्रेयसे त्वात्मनो लक्ष्मि न कामलब्धये क्वचित् ।।६१ ।।
सेवा सकामभक्तस्य नाङ्गीकरोति माधवः ।
सेवके कामनावत्त्वं दूषणं लालसात्मकम् ।।६२।।।
तृष्णेच्छा लालसा त्वेका ह्यपराधस्य मूर्तयः ।
न कर्तव्या हरौ क्वापि लालसा भक्तिशालिना ।।६३।।
लालसाया अपूर्णत्वे द्रोहः स्यात्परमात्मनः ।
द्रोहश्चास्त्यपराधो वै महान्नारायणस्य ह ।।६४।।
द्रोहं दुःखं च निन्दां च दोषानुवर्णनं तथा ।
गुणानां खण्डनं मिथ्यारोपणं क्षमते न सः ।।६५।।
हरेर्वा हरिभक्तस्याऽपराधं स्वल्पमित्यपि ।
क्षमते न हरिस्तस्मान्न कार्यः सर्वथा हि सः ।।६६।।
अनादिश्रीकृष्णनारायणस्याऽऽकारखण्डनम् ।
सगुणस्य निरसनं सतां च खण्डनं तथा ।।६७।।
अपराधो महानेव महानरकसम्प्रदः ।
न कर्तव्यः क्वचित् ज्ञात्वाऽऽप्यज्ञात्वा संगरंगतः ।।६८।।
परमे दिव्यलोकेऽयं निजेऽक्षरे पदे प्रभुः ।
दिव्याकृतिः कृष्णनारायणोऽस्ति पुरुषोत्तमः ।।६९।।
दिव्याऽसंख्यब्रह्ममुक्तैः सेवितो माणिकीपतिः ।
कृपया स प्रभुश्चात्र वर्तते मानवात्मकः ।।3.218.७० ।।
दिव्योऽपि दृश्यते चात्र मानवो भौतिको यया ।
न त्वयं भौतिकश्चास्ते किन्तु दिव्यो यथाऽक्षरे ।।७१ ।।
अस्मच्चक्षुर्भौतिकं यत् तद्ग्राह्यो वर्तते स्ववत् ।
कृपयैव हरिश्चैव दर्शयत्येव नस्त्विह ।।७२।।
यथा भक्तस्तथा तेन ग्राह्यः कृपावशोऽस्ति सः ।
स एव भक्तवर्गैस्तु बोद्धव्यो दिव्यविग्रहः ।।७३।।
तस्मात्परं न चैवाऽस्ति प्राप्तव्यं ज्ञेयमित्यपि ।
यदीच्छति स्वभक्तो वै द्रष्टुं धामानि सम्पदः ।।७४।।
तदा कृपालुर्भगवान् दर्शयत्येव सर्वथा ।
यद् दिव्यं चाक्षरं धाम तत्तु सहैव वर्तते ।।७५।।
वैभवा हरिणा साकमैश्वर्याण्यपि सन्ति च ।
अक्षरेण निजधाम्ना परिवारेण संयुतः ।।७६।।
वर्तते भूतले कृष्णो दृश्यते नरचक्षुषा ।
नरवच्चाक्षरं धाम भूवच्चेष्टासमा गुणाः ।।७७।।
मुक्ता मानवतुल्याश्च क्रियाश्च प्राकृता यथा ।
धामस्थानां च भूस्थानां मनाग् भेदो न विद्यते ।।७८।।
दिव्यसमाधिनेत्रास्तु विचक्षते सुदिव्यकान् ।
यत्र कृष्णस्तत्र धाम तत्र मुक्ताश्च शक्तयः ।।७९।।
ते सर्वे मानवैर्भक्तैरर्पितान्नजलाम्बरम् ।
धनसम्पद्गृहाद्यं च गृह्णन्ति मानवा इव ।।3.218.८०।।
तथापि निस्पृहास्ते तु भक्तकल्याणहेतवे ।
गृह्णन्ति तानि दिव्यानि जायन्ते तत्प्रसंगतः ।।८१ ।।
दातारो दिव्यरूपं तल्लभन्ते त्वक्षरे पदे ।
कृष्णस्यैवं तथा तस्य भक्तानां च सतां सदा ।।८२।।
वेदनीयं हि माहात्म्यं चेत्थं दिव्यप्रमुक्तिदम् ।
कृष्णमाहात्म्ययुक्तस्य विपदो न भवन्ति वै ।।८ ३।।
कृष्णभक्तश्च रंकोऽपि नाऽवमान्यः कदाचन ।
रंकाऽवमन्तुर्नाशः स्यात् तत्स्थकृष्णस्य पीडनात् ।।८४।।
कृष्णक्रियाः समग्राश्च यथा दिव्यास्तथैव च ।
भक्तानामपि दिव्यास्ता मन्तव्या भक्तिवेदिना ।।८५।।
हरिर्भक्तमनःप्रीत्यै रमते भक्तमानवैः ।
कामेन रमते चापि हास्येन रमते तथा ।।८६।।
चेष्टया चापि सदृश्या रमते स्त्रीजनैः सह ।
तथापि तूर्ध्वरेतस्त्वं कोटिस्त्रीणां स्मयावहम् ।।८७।।
धरते श्रीहरिः कोटिरूपधृक् कामगर्वहाः ।
नराकृतिः स्वभक्तार्थं करोति नरवत् क्रियाः ।।८८।।
कामं क्रोधं भयं लोभं मोहं शोकं च मत्सरम् ।
दर्शयति क्वचित्तद्वै सर्वं मंगलकृन्नृणाम् ।।८९।।
श्रुतं च कथितं दृष्टं ध्यातं चाप्यनुमोदितम् ।
चरितं श्रीहरेः सर्वं मानवानां हि मोक्षदम् ।।3.218.९०।।
नराकारः श्रीकृष्णो वै नृणां मनांसि पूरयेत् ।
नृणां साजात्यभावेन सेवाधर्मो हरौ भवेत् ।।९१ ।।
तेन निःश्रेयसं विन्देत् सेविताच्च प्रसादितात् ।
रंकोऽपि दास्यभावोऽपि दास्यपि नगुणाऽपि च ।।९२।।
दृढकृष्णाश्रयस्यैव प्रमोदनं सदा भवेत् ।
जातं मे परमं श्रेयो मोक्ष्यन्ते मम संगिनः ।।९३।।
कृतार्थोऽहं कृतार्थास्ते ये मे वचनवर्तिनः ।
सन्तः सन्ति ममाऽऽत्मानश्चात्मदर्शी सदाऽस्म्यहम् ।।९४।।
हरिं सतोऽन्यन्नैवाऽस्ति द्रष्टव्यं मम मायिकम् ।
एवं मम निवासोऽत्र भूतलेऽपि परेऽक्षरे ।।।९५।।
विद्यते नात्र सन्देहश्चैवं ज्ञात्वा भजन्तु तम् ।
रक्षाकृद् भगवानत्र परत्रापि त्वविष्यति ।।९६।।
इत्युपादिश्य संश्रुत्वा ययुः खनौ तु कर्मणे ।
हरिस्तेषां परीक्षार्थं खनिभित्तौ जलागमम् ।।९७।।
महासरित्स्वरूपेण गर्तं कृत्वा समानयत् ।
खातेन भित्तिभंगाद्वै महासरित्प्रवाहवत् ।।९८।।
प्रवाहः सहसा तत्र गह्वरे समजायत ।
सर्वे ज्ञानेन तृप्तास्ते मृत्युभयविवर्जिताः ।।९९।।
अनादिश्रीकृष्णनारायणं मां सस्मरू रमे ।
जलं तु गह्वरे तत्र सरोवरसमं ह्यभूत् ।। 3.218.१० ०।।
भग्ना निमग्ना भक्तास्ते भजन्तो मां रमापतिम् ।
आत्मनिष्ठा ज्ञानिनश्च दृढाश्रयास्तु ते हृदि ।। १० १।।
दध्युर्मां त्वन्तरात्मानं समाधाविव मोदिनः ।
मौक्तिकेशी मम भक्तो मां प्रसस्मार भूखनौ ।। १ ०२।।
भूगर्भे श्रीपतिं कृष्णं जलमग्नोऽतिभक्तिमान् ।
अथाऽहं दुःखहीनानां भजतां कर्मचारिणाम् ।।१०३।।
प्राविरासं खनौ तत्र जलमध्ये जलार्दनः ।
सुदर्शनेन चक्रेणाऽशोषयं वारि सर्वगम् ।। १०४।।
क्षणेनैव पलेनैव प्रवाहं चाऽप्यरोधयम् ।
स्वस्थास्ते मम भक्ता वै दृष्ट्वा चक्रं सुदर्शनम् ।। १ ०५।।
दृष्ट्वा मां ते निमग्ना वै क्षणं सुखे तु शाश्वते ।
अथ मां पूजयामासुः प्रार्थयामासुरक्षरम् ।। १० ६।।
धाम मोक्षार्थमेवापि तथास्त्वित्यवदं तु तान् ।
भक्तिदार्ढ्यं समादिश्य तूर्णं तिरोभवं ततः ।। १ ०७।।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।
एवं मन्त्रं ददौ तेभ्यो मौक्तिकेशी खनीश्वरः ।। १०८।।
सर्वे ते जापमात्रेण दिव्यज्ञाना प्रजज्ञिरे ।
अथ कालान्तरे मौक्तिकेशिनं चान्यमानवान् ।। १ ०९।।
विमानेनाऽनयं धामाऽक्षरं मे परमं पदम् ।
एवं माया कुलसानां खनिखाताः परीक्षिताः ।। 3.218.१ १०।।
रक्षिता मोक्षिताश्चापि लक्ष्मि कृपानुकर्षिणा ।
पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिर्भवेदपि ।। १११ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने मौक्तिकेशिनाम्नो भक्तस्य शिलांगारखनीश्वरस्य भक्त्या परीक्षणं मोक्षणं चेत्यादिनिरूपणनामा
अष्टादशाधिकद्विशततमोऽध्यायः ।। २१८ ।।