लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः २१७

विकिस्रोतः तः
Jump to navigation Jump to search

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं कथां चित्रकृतः शुभाम् ।
नाम्ना संभरदेवस्य मम भक्तस्य पावनीम् ।। १ ।।
निम्बकाले महाग्रामे सौराष्ट्रे सकुटुम्बकः ।
भक्तः संभरदेवाख्यश्चित्रकलाविशारदः ।। रे ।।
अभवत् सर्वचित्राणां स्वतन्त्रो रूपधायकः ।
यथाभावो मानवस्य पशोर्वा पक्षिणेऽपि च ।। ३ ।।
कीटानां वृक्षवल्लीनां तत्त्वानां भूजलादिजः ।
रूपं रङ्गः स्वभावश्च दृश्यता च क्रिया यथा ।। ४ ।।
यथा प्रभा यथा हास्यं चेष्टाऽवस्था यथा तथा ।
सर्व चित्रेषु सहसा लेखिन्या दर्शयत्यथ । । ५ ।।
पटेषु चापि कुड्येषु नाटकेषु च मूर्तिषु ।
प्रासादेषु मन्दिरेषु सौधकक्षासु सर्वथा ।। ६ ।।
कागदेषु च काष्ठेषु पुत्तलेषु समस्ततः ।
प्राकृतान् गुणभावान् स प्रोद्भावयति चित्रकृत् ।। ७ ।।
एवंविधकलायुक्तो भजते मां निरन्तरम् ।
सर्वचित्रेषु वै सूक्ष्मं मम रूपं करोति च ।। ८ ।।
सूक्ष्मातिसूक्ष्मं कृत्वा स्वं कृतकृत्यं स वेत्ति वै ।
यत्र चित्रे हरिर्नास्ति तच्चित्रं निष्फलक्रियम् ।। ९ ।।
यत्र चित्रे हरेर्मूर्तिश्चित्र तत् सफलक्रियम् ।
एवं क्रियाऽपि तस्याऽभूत् सदा श्रीकृष्णमिश्रिता ।। 3.217.१ ०।।
वृत्तिश्चित्रमयी कृष्णमयी तस्याऽभवत् सदा ।
स्वप्नेऽपि चित्रकरणे भासते श्रीपतिः प्रभुः ।। ११ ।।
प्रातरुत्थाय मे नाम गृह्णाति हे नरायण ।
राधाकृष्ण हरिकृष्ण श्रीमत्कृष्णनरायण ।। १२।
एवं स्मृत्वा रटित्वाऽथ स्नात्वा पूजयति प्रभुम् ।
सर्वलब्धोपचारैश्च धूपं दीपं ददाति च ।। १ ३।।
नैवेद्यं दण्डवद् वारि नीराजनं प्रदक्षिणम् ।
समर्प्य च क्षमां प्रार्थ्य भुक्त्वा प्रसादमुत्तमम् ।। १४।।
चित्रशालां प्रयात्येव करोति चित्रलेखनम् ।
अन्येऽपि बहवस्तत्र चित्रकृतो भवन्ति च ।। १५।।
कर्मचारास्त एवाऽपि भजन्ति भक्तसंगतः ।
मामेव परमात्मानं श्रीनाथं कम्भरात्मजम् ।। १ ६।।
गोपालबालकं ब्रह्मप्रियेशं माणिकीपतिम् ।
अवतारपतिं मुक्तपतिं दुःखविनाशकम् ।। १७।।
रात्रौ मिलित्वा सर्वे ते कीर्तयन्ति रमापतिम् ।
नृत्यन्ति पुरतो मूर्तेर्गायन्ति गीतिकास्तथा ।। १८ ।।
तदा संभरदेवोऽपि भक्तमण्डलनोदितः ।
करोति वर्णनं मूर्तेः श्रीकृष्णध्यानलब्धये ।। १ ९।।
शृण्वन्तु चित्रकारा मे भासते हृदये हरिः ।
यथादृष्टं वर्णयामि कृष्णनारायणं हरिम् ।।3.217.२० ।।
अक्षरेशं ब्रह्मप्रियापतिं दिव्यनराकृतिम् ।
तेजःपरिधिसंव्याप्तं कोटिकोट्यर्कतेजसम् ।।२१ ।।
सुधास्राविसमस्तसत्करणैरभिकाशितम् ।
सपादपञ्चषष्ट्यंगुलोर्ध्वं सुवर्णकेशिनम् ।।२२।।
हिरण्यश्मश्रुहिरण्यमूर्तिसर्वसुवर्णकम् ।
प्रसन्नहास्यवदनं लम्बगोलाननं प्रभुम् ।।२३ ।।
आकर्णायतनेत्रं च कोटिकामभ्रशोभनम् ।
प्रेमसंभृतचक्षुष्कं दिव्याऽपरोक्षदर्शनम् ।।२४।।
विशालोन्नतभालं च मध्योपरितिलान्वितम् ।
दक्षललाटरोमोर्ध्वसीमस्थिततिलान्वितम् ।।२५।।
दक्षभालोर्ध्वकोणे च वामभालोर्ध्वकोणके ।
समकृष्णतिलशोभिललाटकोज्ज्वलम् ।। २६ ।।
वामभालोर्ध्वकेशाप्तसीमसूक्ष्मतिलद्वयम् ।
वामनेत्रान्तनिम्नश्रीकपोले तिलधारिणम् ।। २७।।
दक्षकपोलके सूक्ष्मतिलचतुष्टयान्वितम् ।
द्वयोश्च कर्णयोरूर्ध्वे सूक्ष्मैकैकतिलान्वितम् ।।२८।।
तिलपुष्पसमनासं दिव्यनेत्रं मनोहरम् ।
लम्बशष्कुलिकातुल्यकर्णद्वयविराजितम् ।। २९ ।।
सूक्ष्मधवलकान्त्याढ्यकुन्दवद्दन्तशोभितम् ।
पक्वरक्तबिम्बफलभासौष्ठद्वयराजितम् ।। 3.217.३० ।।
पुष्टमुखं सुचिबुकं सूक्ष्मपिंगलकेशिनम् ।
भाले कैसरतिलकम् मध्यकुंकुमचन्द्रकम् ।। ३१ ।।
उभप्रान्तान्तसंव्याप्तदीर्घरेखाढ्यभालकम् ।
अर्धचन्द्रसमरेखामध्यभालविराजितम् ।।३२ ।।
वामगले सूक्ष्मतिलो जत्रूपरि विराजते ।
कण्ठकूपे कृष्णतिलः सुभगः संविराजते ।। ३३ ।।
जिह्वा रक्तस्थलपद्मनिभा सरस्वतीश्रिता ।
कण्ठकूपादधोभागेंऽगुलनिम्ने तिलोऽस्ति च ।। ३४।।
दक्षस्कन्धे स्वल्पतिलस्तदधश्चाऽपरस्तिलः ।
तदधश्च भुजायां वै तिलस्तृतीय इत्यपि ।। ३५।।
तदधश्च चतुर्थोऽपि वर्तते च शुभस्तिलः ।
भुजायां सन्निधौ चापि पञ्चमो वर्तते तिलः ।
कफोणिकोपरिभागे भुजायां षष्ठकस्तिलः ।। ३६ ।।
कफोणिकायाः सन्धौ च सूक्ष्मसत्तिलपञ्चकम् ।
कफोणिकोपरि पृष्ठभागे तिलश्च वर्तते ।
करनाल्यां तिलः सूक्ष्मः करभे सुतिलोऽस्ति च ।। ३७।।
लड्डुकषट्क्गुच्छोऽस्ति करपृष्ठे तु शोभनः ।
करतलेमत्स्यधनुर्ध्वजशूलशरास्तथा ।। ३८ ।।
स्वस्तिचक्ररेखिकाश्च सन्ति रक्ताः शशिप्रभे ।
अंगुल्यः कोमलाः सन्ति रक्तोन्नतनखान्विताः ।। ३९ ।।
रोमावल्यः सुभगाश्च स्वर्णवर्णाः प्रभान्ति ताः ।
मध्यांगुल्यग्रे शंखोऽस्ति चक्राणि तु चतुस्वपि ।।3.217.४० ।।
तर्जन्यां यवरेखाऽस्ति हस्तश्चन्द्रोज्ज्वलोऽस्ति च ।
वामस्कन्धे जत्रुमूले श्यामचिह्नं सुशोभते ।।।४१ ।।
तदधो वर्तते सूक्ष्मतिलत्रयं भुजान्तिके ।
स्कन्धपृष्ठे तिलश्चास्ते रक्तवर्णः सुसूक्ष्मकः ।।४२ ।।
वामोदरे नलपार्श्वे तिलश्चैकः प्रशोभते ।
नाभिर्निम्ना गभीरा चोदरमुज्ज्वलमित्यपि ।।४३ ।।
नाभौ त्रिवल्ल्यो द्योतन्ते समोदरं प्रशोभते ।
उदरस्य दक्षपार्श्वे तिलत्रयं प्रशोभते ।।४४।।
दक्षपृष्ठे तिलैकश्च दक्षकुक्षौ तिलद्वयम् ।
स्तनचिह्ने श्यामवर्णे सरोम्णिशोभया युते ।।४५ ।।
श्रीवत्सचिह्नसहितं वक्षो विशालमुन्नतम् ।
वक्षोऽधो वर्तते सूक्ष्मतिलः व समोदरोपरि ।।।४६ ।।
वामभुजे कुक्षिपार्श्वे तिलो रम्यो हि वर्तते ।
वामभुजायां तिलकः सुशोभश्चापि वर्तते ।।४७ ।।
वामकफोणिकासन्धौ सूक्ष्मतिलद्वयं तथा ।
प्रकोष्ठे सुतिलश्चास्ते करांगुलिनखाः शुभाः ।।४८ । ।
मध्यांगुलौ शंखरेखा चक्राणि तु चतुस्स्वपि ।
स्थलपद्मनिभं रक्तं हस्ततलं नखास्तथा ।।४९ । ।
कान्तिमती समनिर्यत्प्रभाऽऽकृतिः सुमोहिका ।
धैर्यत्यागकरी स्त्रीणां कोटिकन्दर्पसुन्दरा ।।3.217.५० । ।
भरयौवनपूर्णा च दिव्या मूर्तिर्विराजते ।
यज्ञोपवीतयुक्ता च कण्ठे कण्ठी विराजिता ।।५१ ।।
करे तु मालिकायुक्ता क्वचित्तु लेखिनीयुता ।
सचक्राद्यायुधा मूर्तिर्विराजते कथान्विता ।।५२।।
जघने बालकृष्णस्य लक्ष्मीमूर्तिर्विराजते ।
लिङ्गे मध्ये ह्युपर्यधस्तिलद्वयं विराजते ।।५३।।
दक्षे नितम्बे चास्ते च तिलद्वयं सुशोभनम् ।
दक्षसक्थि ह्यधोभागे तिलद्वयं विराजते ।।५४।।
जानुद्वयं सुशोभं च वर्तुलं राजते तथा ।
जङ्घायां दक्षपादस्य जानोरधस्तिलोऽस्ति च ।।५५।।
तथा मध्येऽन्तःसुपार्श्वे कृष्णतिलः सुशोभते ।
वामसक्थिसन्धिभागे तिलः श्रेष्ठः सुशोभते ।।५६ ।।
तत्पार्श्वे सक्थिभागे तु महच्चिहं क्षतत्य(स्य?) वै ।
वर्ततेऽथ वामनितम्बके तिलः सुसूक्ष्मकः ।।५७।।
वामसक्थ्न उपर्यास्ते श्रीः पूर्णचन्द्रसन्निभा ।
अदृश्या ह्युज्ज्वला दिव्या सर्वकामप्रपूरिका ।।५८।।
हस्तिकरनिभे पुष्टे जंघे स्तः परमात्मनः ।
आजानुलम्बहस्तौ च वर्तेते श्रीरमापतेः ।।।९९।।
वामपादप्रकोष्ठेऽधस्तिलश्चैको हि वर्तते ।
घटिकायाः सन्निधौ वै पादफणान्तिके शुभः ।।3.217.६०।।
द्वितीयः सूक्ष्मतिलको रेखायां वर्तते शुभः ।
घूटीत्रयं च प्रत्येके पादे बाह्ये हि वर्तते ।।६१ । ।
कम्मानिकानिभे पादतले शिरीषकोमले ।
रक्ताभे चोपरि रोमावलिराजितपुष्टके ।।६२।।
अगुल्यंगुष्ठपर्वोर्ध्वे रोमाणि कानकानि वै ।
विद्योतन्ते तथा सर्वे नखाश्चन्द्रनिभोन्नताः ।।६३।।।
 पादयोस्तलयोः सन्ति दिव्यचिह्नानि शार्ङ्गिणः ।
मूर्तौ सूक्ष्माणि चिह्नानि समुद्रोक्तानि सन्ति च ।।६४।।
नवांगुलं फुल्ललिंगं वर्तते परमात्मनः ।
पादयोश्चोर्ध्वरेखे च वर्तेते ब्रह्मगे शुभे ।।६५।।
कण्ठस्वरस्तु मधुरोऽमृतस्रावी हरेः सदा ।
वर्तते बालकृष्णस्यौदार्य सौन्दर्यमुत्तमम् ।
दयालुत्वं च लावण्यं कल्याणगुणयोगिता ।। ६६।।
वर्तते श्रीकृष्णनारायणस्याऽव्ययवीर्यता ।
सर्वैश्वर्याणि सन्त्येव समस्तशक्तयस्तथा ।।६७।।
सर्वशृंगारशोभाश्च चमत्कारा भवन्ति च ।
सर्वाश्चर्याणि विद्यन्ते राजाधिराजसम्पदः ।।६८।।
सर्वा आकर्षणधर्मिण्यश्च श्रियोऽस्य सन्ति हि ।
सर्वमाधुर्यभावाश्च सर्वानन्दाब्धयोऽत्र वै । ।६९।।
सर्वोत्सवप्रमोदाश्च विद्यन्ते परमात्मनि ।
सर्वकामप्रपूर्णत्वं सर्वान्तर्यामिताऽस्य च ।।3.217.७०।।
सर्वकान्ताऽतिकान्तत्वं सर्वदत्वं हराविव ।
सर्वज्ञत्वं सर्वरूपधारकत्वं हरेः सदा ।।७१ ।।
पार्श्वस्थाः श्रीराधिकापद्मावतीमाणिकीरमाः ।
नारायणीसुखदालक्ष्मीसतीकमलादिकाः ।।७२।।
ब्रह्मप्रियाश्च मुक्तान्यः सांख्ययोगिन्य इत्यमुम् ।
प्रसेवन्ते कुमार्यश्च गोप्यश्चापि हरिप्रियाः ।।७३।।
मुक्ताश्च पार्षदाश्चापि वाहनानि च हेतयः ।
ऐश्वर्याणि प्रसेवन्ते विभूतयश्च तत्समा ।।७४।।
मोक्षार्थे सर्वजीवानां वर्तते मानवे भवे ।
स एव दिव्यरूपोऽस्ति मानवो वाप्यमानवः ।।७५।।
साक्षात् स भगवानत्र नराकारोऽपि वर्तते ।
धाम्ना स्वेन तथा मुक्तैः पार्षदाद्यैः समन्वितः ।।७६।।
परिवारेण सर्वेण वर्तते जनगोचरः ।
नृत्वदिव्यत्वयोर्भेदो नैवाऽस्ति परमेश्वरे ।।७७।।
यत्र कृष्णस्तत्र धाम सन्ति मुक्ताश्च शक्तयः ।
सर्वे दिव्या मूर्तिमन्तः साकाराः कृष्णसदृशाः ।।७८।।
नरा नार्यो दिव्यरूपा दिव्यमुक्ता भवन्ति ते ।
भवन्तः सर्व एवापि दिव्याः श्रीकृष्णयोगिनः ।।७९।।
तमनादिकृष्णनारायणं श्रीकान्तवल्लभम् ।
गोपालकम्भरापुत्रं वंशीहस्तं भजन्त्विह ।।3.217.८०।।
रटन्तु श्रीपतिं नित्यं ध्यायन्तु कमलापतिम् ।
सेवन्तां माणिकीकान्तं प्राप्नुवन्तु परं सुखम् ।।८१ ।।
इत्येवं मम भक्तः स भक्तमण्डलमध्यगः ।
भक्तानुपदिशत्येव नित्यं कल्याणदं वचः ।।८२।।
भक्ताः संभरदेवं च चित्रकारं गुरुं निजम् ।
मन्यन्ते पूजयन्त्येव भक्तिं कुर्वन्ति सेवनम् ।।८३।।
अथैकदा प्रसन्नोऽहमाषाढपूर्णिमादिने ।
गुरोः पूजां देवपूजां तैः कृतां वीक्ष्य तद्गृहे ।।८४।।
द्रुतं संभरदेवस्य रूपमघारयं शुभम् ।
गृहे संभरदेवोऽस्ति द्वितीयोऽहं तु चत्वरे ।।८५।।
तौ द्वौ संभरदेवौ संवीक्ष्य प्रपूजका जनाः ।
चित्रकृतः समस्ता वै भ्रान्तिमाश्चर्यमिश्रिताम् ।।८६।।
अवापुश्च मुहुर्गत्वा पश्यन्ति चत्वरे गृहे ।
कथं रूपद्वयं चास्ते गुरोः सत्यं पृथक् पृथक् ।।८७।।
अथ चक्रुः परीक्षां ते गृहे सत्योऽथ चत्वरे ।
आरार्त्रिकं प्रचक्रुस्ते समकाले तदोभयोः ।।८८।।
गृहस्थस्य शरीरान्तःप्रभा सावरणाऽभवत् ।
चत्वरस्थस्य दीपानां ज्योतिर्निरावरणकम् ।।८९।।
व्यपश्यँस्ते देहमध्ये निश्चिक्युश्चात्वरं हरिम्।
गृहे तु गुरुरूपं तं प्राहुः श्रीगुरुवे ततः ।।3.217.९ ०।।
गृहात् तूर्णं बहिर्वेद्यामाययौ संभरो हरिम् ।
हरिस्तूर्णं संभरे वै लीनो बभूव पश्यताम् ।।९१ ।।
आश्चर्यं सुमहच्चैतन्मत्वा तुष्टुवुरुत्सुकाः ।
हरे कृष्ण हरे विष्णो नाथ नारायण प्रभो ।।६२।।
पुनस्तौ दर्शनं साक्षाद् यथा स्यात् सत्कृपां कुरु ।
ननृतुस्ते गुरोरग्रे कीर्तनानि प्रचक्रिरे ।। ९३।।
पूजनानि विविधानि गुरौ मूर्तौ च चक्रिरे ।
अथ मध्याह्नवेलायां नैवेद्यार्पणसत्क्षणे ।। ९४।।
प्राविरासं पुनस्तत्र गुरुरूपः स्वयं रमे ।
अथ ते मां व्यपश्यँश्च दिव्यरूपं गुरुं हरिम् ।।९५ ।।
ततश्चक्रादिचिह्नाढ्यं चतुर्भुजं श्रियःपतिम् ।
उज्ज्वलं सकिरीटं च गुरुवर्णितचिह्नकम् ।। ९६।।
हारकुण्डलकेयूरापीडोर्मिकादिशोभितम् ।
शृंखलामणिरत्नाढ्यभूषाऽम्बरविशेष्टि()तम् ।। ९७।।
आहराद् भोजयामासुरारार्त्रिकं व्यधुस्तथा ।
जलं ताम्बूलकं श्रेष्ठसुगन्धं च ददुर्हि मे। ।।९८ ।।
पादसंवाहनं चक्रुर्नरा नार्योऽपि सर्वशः ।
वव्रुश्चाशीर्वचनं मे मोक्षदं प्रददावहम् ।। ९९ ।।
प्रोचे पूजां द्रुतं चित्रकृतो मूर्तौ तिरोभवम् ।
ते सर्वे हृष्टमनसो भेजुर्मां गुरुरूपिणम् ।। 3.217.१०० ।।
अनादिश्रीकृष्णनारायणश्रीवल्लभं हरिम् ।.
अथ कालान्तरे प्राप्ते संभराऽऽयुःप्रसंक्षये ।। १०१ ।।
गजेन साकं चानेतुमाययौ दिव्यविग्रहः ।
पत्नीं संभरदेवस्य दर्शयामास मद्गजम् ।। १ ०२।।
ततो मम स्वरूपं च दर्शयामास चैश्वरम् ।
ततः संभरदेवाय प्रददौ दर्शन मम ।। १ ०३।।
दिव्यदेहं विधायैव भक्तं तं संभरं तथा ।
तप्पत्नीं चित्रसरिताभिधां च दिव्यविग्रहाम् ।। १ ०४।।
विधायाऽऽदाय सौवर्णाऽम्बालिकायां गजोपरि ।
निन्ये धामाऽक्षरं श्रेष्ठं तथाऽन्यान् भक्तिपाकिनः ।। १०५।।
एवं लक्ष्मि मया चित्रकारः समुद्धृतोऽनुगः ।
पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिर्भवेद् ध्रुवा ।। १०६ ।।

इति श्रीलक्ष्मीनारायणीयसहितायां तृतीये द्वापरसन्ताने संभरदेवाख्यचित्रकारस्य भक्त्या भगवता दत्तं दर्शनं मोक्षणं च कृतमित्यादिनिरूपणनामा सप्त- दशाधिकद्विशततमोऽध्यायः ।। २१७ ।।