लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १६२

विकिस्रोतः तः
Jump to navigation Jump to search

पूर्वपुटः


श्रीपुरुषोत्तम उवाच-.
शृण्वन्तु श्रीरमाद्याश्च जयाद्या मम वै प्रियाः ।
तानि रत्नानि सर्वाणि महागुणानि सन्ति वै ।। १ ।।
भूतरक्षोविषव्यालव्याधिघ्नान्यवहान्यपि ।
भवन्ति गुणयुक्तानि तथैव विगुणान्यपि ।। २ ।।
वज्रा मुक्ताः पद्मरागा मरकता मणीश्वराः ।
इन्द्रनीलाश्च वैदूर्याः पुष्परागाश्च जातयः ।। ३ ।।
कर्केतनाः सपुलका रुधिराः स्फटिकास्तथा ।
विद्रुमा मौक्तिकाः काचा मणयस्ते भवन्ति वै ।। ४ ।।
आकारं च तथा वर्णं गुणं दोषं च तत्फलम् ।
परीक्ष्य मूल्यमेतेषां निर्णीयते न चान्यथा ।। ५ ।।
कुलग्नेषूपयुज्यन्ते यानि चोपहतेऽहनि ।
दोषाढ्यानि भवन्त्येव वियोजयन्ति सम्पदा ।। ६ ।।
तस्मात् परीक्ष्य रत्नानि गृह्णीयाद् धारयेदपि ।
शुभे काले शुभान्येव परां श्रियं ततो लभेत् ।। ७ ।।
वज्रमणिः समस्तेषु महाप्रभाववान् भवेत् ।
बलाऽस्थिसमिद्बीजानि निपेतुर्यत्र तत्र च ।। ८ ।।
वज्राणि वज्रनामानि जातानि विविधानि च ।
हैममातंगसौराष्ट्राः पौण्ड्रकलिंगकोसलाः ।। ९ ।।
वेणातटाश्च सौवीरा देशा वज्रोद्भवान्विताः ।
आताम्रा हिमशैलोत्था मातंगोत्थाः कपीशिनः ।। 3.162.१ ०।।।
सौराष्ट्रजास्तु ताम्रास्ते श्यामाः पुण्ड्रभवा मताः ।
कलिंगोत्थाः स्वर्णवर्णाः पीतप्रभास्तु कोसले ।। ११ ।।
वेणातटीयाः शशिभाः सौवीरे मेघकान्तयः ।
सम्यक् सम तु पार्श्वेषु गुणवद्वर्णवल्लघु ।। १ रे।।
रेखाबिन्दुकाकपदकलंकत्रुटिवर्जितम् ।
परमाणुमात्रमपि वज्रं वज्रोत्तमं हि तत् ।। १ ३।।
यदि तीक्ष्णाग्रधारं तत् तस्मिन् देवसमाश्रयः ।
लाभदं चावितथं तत् सर्वसौख्यप्रदं धृतम् ।। १४।।
यथावर्णस्तथा देवनिवासस्तैजसो यथा ।
तथामूल्यं तथा देवाभिधानं चापि कल्प्यते ।। १५।।
वर्णभेदेन वज्रेषु भिन्ना देवा वसन्ति हि ।
हरित्सु हरिरेवाऽऽस्ते श्वेतेषु वरुणः स्वयम् ।। १६।।
पीतेषु शक्रएवाऽऽस्ते पिङ्गेषु तु हुताशनः ।
श्यामेषु पितरः सन्ति ताम्रेषु मरुतस्तथा ।।१७।।
विप्रः कुमुदस्फटिकशंखाभं धारयेद्धितम् ।
क्षत्रियः शशबभ्र्वक्षिसदृशं धारयेन्मणिम् ।। १८।।
वैश्यः कदलीदलभं धारयेलाभदं मणिम् ।
शूद्रः स्वच्छकरवालनिभं सन्धारयेन्मणि ।। १ ९।।
जपाविद्रुमशोणं वा हरिद्रारससन्निभम् ।
द्वौ वज्रवर्णौ राजानो धारयेयुर्हितप्रदौ ।।3.162.२० ।।
सर्वरङ्गमयं वज्रं राजा वै धारयेन्मणिम् ।
अधरोत्तरवृत्तोऽपि बहुवर्णयुतो मणिः ।।।१ ।।
राजयोग्यो नेतरेषां वर्णानां कष्टदो हि सः ।
वज्रो विभूतिर्गुणिनामन्येषां व्यसनप्रदः ।।२२।।
यस्य शृंगं दलितं वा विशीर्णं लोक्यते यदि ।
सगुणोऽपि न वै धार्यः श्रेयोऽर्थिभिः कदाचन ।।२३।।
विशीर्णस्फुटितशृंगो मलपृषतमध्यकः ।
वज्रः श्रियं नाशयति न रक्ष्यो भवने क्वचित् ।।२४।।
यदेकदेशो रक्ताभो यद्वा लोहितवर्णवान् ।
स कुर्यान्मृत्युरेवाऽयं मणिर्धार्यो न वै क्वचित् ।।२५।।
कोट्यः पार्श्वानि धाराश्च षडष्टौ द्वादशेति च ।
उत्तंगसमतीक्ष्णाग्रा वज्रस्याऽऽकरजा गुणाः ।।२६।।
षट्कोटिशुद्धममलं प्रस्फुटतीक्ष्णधारकम् ।
लघु वर्णान्वितं दोषशून्यं तथा सुपार्श्वकम् ।।२७।।
इन्द्रायुधांशुरंगाढ्यकृताभिव्योममण्डलम् ।
दुर्लभं धारयेद् वज्रमायुःस्त्रीधनवर्धकम् ।।।२८। ।
सम्पद्गोपशुधान्यानां सम्पदां च प्रवर्धकम् ।
व्यालवह्निविषव्याघ्रतस्कराऽम्बुभयापहम् ।।२९।।
आथर्वणाभिचाराणां दूरान्निवर्तकं मणिम् ।
विंशतितण्डुलभारं वज्रं गुणाऽग्र्यमूल्यकम् ।।।3.162.३०।।
गुणैः प्रभया स्नेहेन गुरुत्वेनांऽशहीनकम् ।
वज्रं न्यूनं मतं तद्वै मूल्ये लाभे सुखादिषु ।।३ १ ।।
अर्धे त्वर्धगुणं प्रोक्तं पादं पादगुणं भवेत् ।
पादार्धगुणकं चापि मूल्ये पादार्धकं भवेत् ।।३२।।
त्रिंशद्भागं शतांशं चाऽशीतिभागं तथा ह्यपि ।
सहस्रभागं वज्र स्यात् सूक्ष्मं गुणेऽपि शक्तिमत् ।।।३३।।
अष्टाभिः सर्षपैश्चापि वज्राणां गुरुता भवेत् ।
यत्तु सर्वगुणैर्युक्तं वज्रं तरति वारिषु ।।३४।।
रत्नवर्गे समस्तेऽपि धारणं तस्य विद्यते ।
स्वल्पमात्राऽपि गुरुता धारणे त्वनुमीयते ।।३५ ।।
कर्तव्यं धारणं तस्मात् परमाणोरपि ध्रुवम् ।
अल्पोऽपि दोषवान् वज्रो दशांशमूल्यवान् भवेत् ।।३६।।
प्रकटाऽनेकदोषस्तु शतांशमूल्यवान् भवेत् ।
बहुदोषस्य वज्रस्य मूल्यं स्वल्पं विभूषणे ।।३७।।
सन्नह्य धार्यते तादृक् सदोषं लघुहानिदम् ।
अलं सदोषवज्रस्य भूषायां धारणं ह्यपि ।।।३८ ।।
नार्या वज्रमधार्यं वै सगुणं ह्यपि कर्हिचित् ।
पुत्रप्रसवमिच्छन्त्या नैव धार्यं कदाचन ।। ३९ ।।
धार्यं तु दीर्घं चिपिटं ह्रस्वं वज्रं च निर्गुणम् ।
अयसा पुष्परागेण तथा गोमेदकेन च ।।3.162.४० ।।
वैदूर्येण स्फटिकेन काचैश्चापि पृथग्विधैः ।
प्रतिरूपाणि जायन्ते कुशलैर्वज्रसन्निभाः ।।४१ ।।
क्षारोल्लेखनशालाभिस्तेषां कार्यं परीक्षणम् ।
पृथिव्यां यानि रत्नानि ये चान्ये लोहधातवः ।।।४२।।
सर्वाणि विलिखेद् वज्रं तच्च तैर्न विलिख्यते ।
गुरुता सर्वरत्नानां श्रेष्ठत्वे च प्रभाऽच्छता ।।४३ ।।
कारणं वज्रके हेतुर्लघुता च प्रभाऽच्छता ।
वज्रजातिरजातिं वै विलिखन्ति समन्ततः । ।४४।।
वज्रेण लिख्यते वज्रं वज्रं नाऽन्येन लिख्यते ।
वज्राणि मुक्तामणयो ये च केचन जातयः ।।४५ ।।
न तेषां प्रतिबद्धानां भा भवत्यूर्ध्वगामिनी ।
तिर्यक्क्षतत्वात् केषांचित् कथञ्चिद् यदि दृश्यते ।।४६।।
तिर्यगालिख्यमानानां सा पार्श्वेषु विहन्यते ।
विशीर्णकोटिवज्रो विवर्णः सरेखबिन्दुकः ।।४७।।
सेन्द्रायुधश्चेत् पुत्रादीन् धनं धान्यं ददाति सः ।
विद्युत्प्रभमिन्द्रवज्रं दधानो नृपतिः खलु ।।४८ ।।
पराक्रमेण तस्यैव साम्राज्यं लभते भुवि ।
कथितं वज्ररत्नं वो ब्रह्मप्रियास्ततः परम् ।।४९ ।।
मुक्ताफलात्मकं रत्नं कथयामि निबोधत ।
अच्छाः स्वच्छाः सान्द्रभाश्च मलभाश्च पृथक् पृथक् ।।3.162.५० ।।
हस्तिमेधक्रोडशंखमीनाऽहिशुक्तिवेणुजाः ।
पृध्वीसलिलजा मुक्ता मणयः संभवन्ति वै ।।५१ ।।
शुक्त्युद्भवं मुक्तकं तु श्रेष्ठं सर्वेषु गण्यते ।
शुक्त्युद्भवं भवेद् वेध्यं शेषाण्यवेध्यकानि हि । । ५२।।
वेणुहस्तिमत्स्यसूतं शंखजं च वराहजम् ।
भासाहीनं यद्यपि स्यान्मंगलं तत् प्रशस्यते ।।५ ३ ।।
शंखोद्भवं गजोत्थं च मुक्तारत्नं कनिष्ठकम् ।
गजकुंभमध्यवर्णं पीतं वा निष्प्रभं तथा ।।।५४।।
वृहत्कोणपलमानं शांखं चापि कनिष्ठकम् ।
श्रेष्ठाः शंखा हस्तिनश्च शुद्धवंश्यास्तु ये मताः ।। ५५ ।।
तेषु वृत्तानि पीतानि जायन्ते निष्प्रभाण्यपि ।
मीनेषु यानि जायन्ते सुवृत्तानि लघून्यपि ।।५६।।
अतिसूक्ष्माणि पाठीनपृष्ठवर्णानि तानि च ।
मत्स्याऽऽननेषु जायन्ते पयोधेर्मध्यतः खलु ।। ५७।।
वाराहदंष्ट्राप्रभावं दंष्ट्रांकुरसमानभम् ।
भूतलोत्थं च मुक्ताख्यं क्वचित् तादृङ् मतं शुभम् ।। ५८ ।।
उपलोत्थं च तद्वर्णं वंशोत्थं तत्समानभम् ।
वेणवोऽपि भव्यजनैर्भोग्याः सर्वत्र नैव ते ।। ५९ ।।
भुजंगजानि रत्नानि वृत्तानि चोज्ज्वलानि च ।
धौतानीव भवन्त्येव खड्गधाराप्रभाणि च ।। 3.162.६ ०।।
भौजंगममौत्तिकधृक् पुण्यवान् तेजसाऽन्वितः ।
राज्यश्रीमान् भवेदेव प्रभावाढ्यो भवेदपि ।। ६१ ।।
रत्नमूल्यस्य जिज्ञासुः शुभे मुहूर्तके खलु ।
रक्षितं सुमहत् कृत्वा स्थापयेद् भवनोपरि ।। ६२।।
तदाऽम्बरे महाघोषा भेरीनादा भवन्ति हि ।
विद्युतो विस्फुरणानि घनाश्चापि भवन्ति हि ।। ६३।।
एतादृशं मौक्तिकं तु यत्र कोषे गृहेऽस्ति वा ।
न तत्र सर्पा विघ्नानि यातुधानाश्च नाऽऽधयः ।।६४।।
उपसर्गा व्याधयो न यत्र भुजंगमौक्तिकम् ।
अथ मेघोद्भवं यत् स्यान्मौक्तिकं तत्तु देवताः ।। ६५।।
व्योममार्गाद्धरन्त्येव त्वादित्यार्चिसमप्रभम् ।
रात्रौ भाति दिवावत्तद् यत्रास्ते प्रभया स्वया ।। ६ ६।।
एतादृशस्य रत्नस्य मूल्यं स्वर्णमयी मही ।
अपि नैव सुपर्याप्ता यतस्तत् स्वर्णरत्नदम् ।। ६७।।
यस्याऽग्रे रत्नमेतत् स्याद् भुंक्ते स क्षितिमण्डलम् ।
प्रजानां नृपतेश्चापि वर्धन्ते भाग्यकान्तयः ।।६८।।
योजनानां सहस्रेषु ह्यनर्था यान्ति नैव तु ।
एतादृशानि मुक्तानि बलस्य दन्तरूपिकाः ।।६९।।
समिधो याः कृतास्तत्राऽध्वरे ताभ्यस्तदा तदा ।
बीजानि यानि जातानि विचित्रवर्णाकानि वै । ।3.162.७० ।।
समुद्राणां जले यानि निपेतुः शुद्धकानि हि ।
चन्द्रांऽशुकान्तिरम्याणि शुक्तिजानि हि तानि वै ।।७ १ ।।
द्वीपे तु सैंहले तानि सौराष्ट्रे ताम्रपर्णके ।
पारशवे पारलोके कौबेरे पाण्ड्यदेशके ।।।७२ ।।
हाटके हेमके चेति जायन्ते शुक्तिजानि वै ।
शुक्त्युत्थं नातिनिकृष्टवर्णं गुणप्रभायुतम् । ।७३ ।।
संस्थानमानयुक्तं च जायते वर्धनादिषु ।
वर्धने पारसीके च पाताले सिंहलेऽपि च ।।७४।।
शुक्तिजस्यैकस्य मुक्ताफलस्य शाणयोगिनः ।
मूल्यं मुद्राः सहस्रे द्वे राजत्यः संभवन्ति हि ।।७५ ।।
माषार्धहीनरत्नस्य दशांशहीनमूल्यकम् ।
माषकत्रयगुरु यत् सहस्रद्वयमूल्यकम् । ।७६ ।।
सार्धद्वयमाषकस्य मूल्यं सार्धसहस्रकम् ।
माषकद्वयगुरु यन्मूल्यं सहस्रमुद्रकम् । ।७७। ।
सार्धमाषकगुरु यन्मूल्यं पञ्चशतानि वै ।
षड्गुञ्जागुरु यद् रत्नं तस्य सार्धशतद्वयम् । । ७८ ।।
चतुर्गुञ्जागुरु यत्तन्मूल्यं शतद्वयं मतम् ।
गुञ्जाद्वयगुरु यत् तन्मूल्यं शतं मतं तथा ।।७९ ।।
गुञ्जैकगुरुमूल्यं तु पञ्चाशन्मुद्रिकाः खलु ।
षोडशगुञ्जाधरणं दार्विकाख्यं भवेद्धि तत् । ।3.162.८ ० ।।
त्रिंशद्ग्रुञ्जाधरणं तु शिक्यं रत्नं तदुच्यते ।
निकृष्टानि तु रत्नानि त्रिंशन्मूल्यानि तानि वा । ।८ १ ।।
विंशतिमूल्यकान्येव दशमूल्यानि वा तथा ।
अथाऽस्य संपरीक्षा तु भाण्डे जाम्बीरजं रसम् ।।।८८२।।
निक्षिप्य पच्यते रत्नं घृष्यते पिण्डमूलकैः ।
सरेखं स्यात् कृत्रिमं तन्निकृष्टं वा भवेत् किल । ।८ ३ ।।
मृल्लिप्ते पुटके मध्ये निक्षिप्य चाऽनले पचेत् ।
दुग्धे ततश्च पयसि घृते पुनर्जलेषु च ।।८४।।
ततो वस्त्रैर्घर्षणेन गुणकान्तियुतं भवेत् ।
तच्छ्रेष्ठं सत्यमेवेति मौक्तिकं क्षतिवर्जितम् ।।८५ ।।
श्वेतकाचसमं हेमनद्धं धार्येत भूषणम् ।
कृत्रिमं चेति सन्देहे कार्यं पुनः परीक्षणम् ।।८ ६ । ।
उष्णे सलवणे स्नेहे निशां तद् वासयेज्जले ।
व्रीहिभिर्मर्दनीयं तच्छुष्कवस्त्रान्तरीकृतम् ।।८७।।
यदि नाऽऽयाति वैवर्ण्यं विज्ञेयं तदकृत्रिमम् ।
सितं प्रमाणवत् स्निग्धं गुरु स्वच्छं सुनिर्मलम् । ।८८ ।।
तेजोऽधिकं सुवृत्तं च मौक्तिकं गुणवद्धि तत् ।
नाऽस्य भर्तारमेकोऽपि दोषोऽनर्थं उपैति वा ।।८९।।
एवं मुक्तामणयो वै मयोक्ता वो हरिप्रियाः ।
पद्मरागान् प्रवक्ष्यामि शृणुतैतान् यथोद्भवान ।।3.162.९० ।।

इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वज्रमणेर्मुक्तमणेश्चोत्पत्तिमूल्यश्रैष्ठ्यादिनिरूपणनामा द्वाषष्ट्यधिकशततमोऽध्यायः ।। १६२ ।।

अग्रिमपुटः