लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १६१

विकिस्रोतः तः
Jump to navigation Jump to search

श्रीपुरुषोत्तम उवाच-
शृणुत ब्रह्मकान्ता यद् पृष्टं रत्नसमुद्भवम् ।
पूर्वाख्यानं वदाम्यत्र बलप्रबलभक्तजम् ।। १ ।।
वैकुण्ठे पार्षदाः सर्वे ये वसन्ति मम प्रियाः ।
बलश्च प्रबलश्चापि द्वौ तेषु समतिष्ठतः ।। २ ।।
श्रीमल्ललितालक्ष्म्यास्तौ धाम्नि श्रीपुरसंज्ञके ।
मया तौ प्रेषितौ दिव्यौ पार्षदौ द्वारपालकौ ।। ३ ।।
श्रीललितामहालक्ष्म्या चार्थितौ मां प्रति ध्रुवौ ।
मयाऽऽज्ञप्तौ ययतुस्तौ श्रीपुराख्यं श्रियः पुरम् ।। ४ ।।
सत्कृतौ तौ ललितया द्वाःपालत्वे नियोजितौ ।
सशस्त्रौ चाऽनलसौ च स्वामिभक्तिपरायणौ ।। ५ ।।
समुकुटौ शुभवेषौ मणिरत्नादिभूषितौ ।
तेजःपरिधिवृत्ताऽऽस्यौ सौम्यौ पंकजलोचनौ ।। ६ ।।
अथ नित्यं ललितायाः सख्यो दास्योऽप्यसंख्यकाः ।
प्रातश्चार्घ्यादि चादाय समायान्ति श्रिया गृहम् ।। ७ ।।
दिव्ये श्रीनिर्झरे स्नात्वा कृष्णोद्यानसुमानि च ।
नूतनानि सुगन्धीनि समादाय प्रयान्ति च ।। ८ ।।
काश्चित् कदम्बपुष्पाणि काश्चिद् बाकुलकानि च ।
काश्चिदशोकपुष्पाणि काश्चित् कुन्दकलीः शुभाः ।। ९ ।।
काश्चित् श्रीकुसुमान्येव पारिजातसुमानि च ।
काश्चिच्छृङ्गारपुष्पाणि काश्चित्तु कमलानि वै ।। 3.161.१० ।।
काश्चित्तु चाम्पकान्येव काश्चित् स्थलाब्जकानि च ।
नीत्वा काश्चिद्यूथिकानां गुच्छानां कुसुमानि च ।। ११ ।।
काश्चित् सहस्रपत्राणि तथा कादम्बकानि च ।
एवं सहस्ररूपाणि प्रसंगृह्य प्रयान्ति च ।।१२।।
काश्चिच्चन्दनकुंकुमकर्दमान् गृह्य यान्त्यपि ।
संगृह्य सर्वशृंगारोचितवस्तूनि चापराः ।।१ ३।।
इतराः कज्जलादीनि सुगन्धितैलकानि च ।
गन्धसाराँश्च काश्चित् संगृह्य यान्त्यर्हणाय ताः ।। १४।।
अपरास्तुलसीपत्राणि संगृह्य प्रयान्ति च ।
फलान्यन्या भोजनानि चापराः स्वर्णमुद्रिकाः ।। १५।।
पराश्च रत्नहाराँश्च छत्रचामरकाणि च ।
धूपदीपानुपदाश्च नीत्वा यान्ति श्रियं प्रति ।। १ ६।।
असंख्याताः प्रयान्त्येव सम्मर्दो गोपुरेऽभवत् ।
सखीनां पूजिकानां वै कोलाहलोऽपि चोत्कटः ।। १७।।
अशब्दश्रवणो जातो गोपुरे ललिताश्रियाः ।
युवतीनां तदाऽऽवेशेनिर्गमादिप्रवाहजः ।। १८ ।।
सम्मर्दोऽभून्महाँस्तत्र गोपुरे स्तब्धताकरः ।
प्रबलस्याऽऽसनं चापि बलस्याऽप्यासनं तथा ।। १९
सम्मर्दितं युवतीभिः पतन्तीभिर्हि पार्श्वयोः ।
वेदिकोपरि काश्चिच्चारोहयामासुरेव च ।। 3.161.२०।।
सम्मर्दाऽलब्धमार्गास्ताः सम्मर्दभयवेपिताः ।
प्रबलश्चानुजो हस्तौ चांजलिध्रौ विधाय च ।।२१ ।।
प्रार्थयत्येव शनकैर्गमनार्थं सखीजनान् ।
असम्मर्दार्थमेवापि साम्ना नत्वा वदत्यपि ।।।२२।।
बलस्तु बलसम्पन्नः प्रार्थनया वदत्यपि ।
शनैर्यान्तु शनैर्यान्तु सम्मर्दे माऽऽचरन्त्विह ।।२३।।
आवयोरासने चापि चूर्णिते मर्दिते यतः ।
एवं शान्त्या कथ्यमानास्वपि स्त्रीषु तदा रमे ।।२४।।
सम्मर्दितासु चान्योन्यं पतन्तीषु च गोपुरे ।
बलस्य पार्षदस्यापि पतनं समजायत ।।२५।।
तस्योपरि सखीनां च पादन्यासास्तदाऽभवन् ।
मुकुटो नाशमापन्नो वेषो धूलिप्रकर्दमी ।।२६।।
समजायत शस्त्रादि न्यपतद्धस्ततस्तथा ।
एवं वै पतने जाते बलः क्रोधमवाप ह ।।।२७।।
जयाप्रज्ञापाशवतीमाणिक्यादिसखीजनात् ।
कफोणिकाभ्यां हस्ताभ्यां पार्श्वाभ्यां वक्षसा तथा ।।।२८।।
उत्थायोत्सारयामास धक्कां दत्वाऽतिवेगतः ।
धिक्काराँश्चापि दत्वा स पतिताँश्च सखीजनान् ।।२९।।
धृत्वा हस्ते समुत्तोल्योत्थाप्य दूरेऽकरोत्तदा ।
सख्योऽप्यकाले पतने पारवश्येऽतिमर्दके ।। 3.161.३०। ।
सम्मर्दाधीनपतना वीक्ष्य क्रुद्धं बलं तथा ।
धिक्कुर्वन्तं ददानं च धक्कामुत्सारणस्थितम् ।।३ १ ।।
मारयन्तं कफोणिभ्यां प्रमत्तमिव वै रुषा ।
पतस्वेति पतत्वेति प्राहुर्जयादयश्च तम् ।।३२।।
नात्र योग्यो भवानास्ते स्त्रीगोपुरे रुषान्वितः ।
प्रबलोऽत्र सदा योग्यः सौम्यः सर्वसहो मुहुः ।।३३।।
मिष्टाकृतिर्मधुरा च वाणी यस्य शुभश्रवा ।
विनयश्च सहिष्णुत्वं तैक्ष्ण्यं यत्र न विद्यते ।।३४। ।
नारीतुल्याऽबलश्चायं प्रबलोऽपि सुदास्यभृत्। ।
न धिक्कारं न वै धक्कां करोति मर्दितोऽपि सन् ।। ३५ । ।
प्रत्युत स्तवनं चायं करोति चाभिवन्दति ।
प्रबलोऽयं सदा योग्यः स्थातुमत्र बलो न तु ।। ३६ ।।
पतत्वेवाऽचिरात् सृष्टौ ब्रह्माण्डे वेधसः खलु ।
भुंक्ष्व फलं कफोणीनां फलं दुर्विनयस्य च ।।३७।।
इत्युक्तः सहसा जातो विवर्णः पतनोन्मुखः ।
रुषा युक्तो मानवाँश्च नारायणबलेधितः ।।३८ ।।
स्वं श्रेष्ठं मन्यमानश्च प्रत्याह वचनं सरुट् ।
जयाप्रज्ञापाशवतीमाणिक्याश्चापराः स्त्रियः ।।३९।।
या मां पतस्व प्राहुर्वै ताः पतन्त्वपि वेधसः ।
ब्रह्माण्डे यत्र कुत्रापि भुवं फलं वियोगजम् । ।3.161.४० ।।
हरेर्वियोगजं दुःखं धामवियोगजं तथा ।
इत्येवं च मिथो वाक्ये शापात्मके तु निःसृते ।।४१ ।।
तच्छ्रुत्वा श्रीललिताख्या लक्ष्मीस्तत्र द्रुतं ययौ ।
वृत्तान्तं सकलं ज्ञात्वा क्षणं शुशोच भामिनी ।।४२।।
बलश्चापि जयाद्यास्तां पतनेऽपि विमुक्तये ।
प्रार्थयामासुरत्यन्तं शापनिवृत्तिमित्यथ । ।४३ ।।
ललिताश्रीः समुवाच मदिच्छया ह्यजायत ।
सम्मर्दः पतनाद्यं च शोकस्तत्र न विद्यते ।।४४।।
मयाऽपि तत्र गन्तव्यं यत्र यूयं सखीस्त्रियः ।
अनादिश्रीकृष्णनारायणः पुरुषोत्तमः ।।४५।।
तत्र देशे स्वयं चाप्यागमिष्यति न संशयः ।
लोकोद्धारणकार्यार्थे सखीमानसपूर्तये ।।४६ ।।
प्रज्ञेयं च जयेयं च पाशवतीयमित्यपि ।
माणिक्येयं कृष्णपत्न्यो भविष्यथ मया सह ।।४७।।
पतनस्य वियोगस्य दुःख न स्याद्धि भूतले ।
कृष्णयोगेन सततं सुखवत्यो भविष्यथ ।।४८ ।।
अपरं च बलश्चायं पार्षदो हरिणोदितः ।
मद्गोपुरे नियुक्तश्च रुषा शापमवाप्तवान् ।।४९ ।।
सोऽपि कृष्णेच्छया ह्याल्पो मदिच्छयाऽपि वै तथा ।
बलोऽयं रोषयुक्तो वै ब्रह्माण्डे वेधसः खलु ।।3.161.५ ०।।
आसुरेण तु भावेन रोषेण सहितो जनु ।
ग्रहीष्यतीति देवाद्यैर्मृतो मोक्षमवाप्स्यति ।।५ १ ।।
तच्छरीरोत्थधातूनां परिणामात्मका भुवि ।
स्वर्गे चापि सुमणयो रत्नानि भौतिकानि च ।।५२।।
भविष्यन्तीति सर्वत्र पूजार्हाणि समन्ततः ।
इत्येव सुमहत्कार्यकरणार्थं मयाऽपि च ।।५३।।
नारायणेनाऽपि देव्याः पतनं चाऽभिवाञ्च्छितम् ।
बलस्य पतनं चाभिवाञ्च्छितं मणिहेतवे ।।।५४।।
यथाऽभिलषितं मेऽपि तत्तथैव भविष्यति ।
बलोऽयं पार्षदो दिव्यो नारायणस्य भक्तराट् ।।५५।।
महाभागवतश्रेष्ठः पावनो लोकपावनः ।
तस्य पावनदेहोत्था मणयोऽपि च पावनाः ।।।५६ ।।
धृताश्च पावना लोकान् पावयिष्यन्ति पापतः ।
रक्षयिष्यन्ति दुःखेभ्यश्चोपद्रवेभ्य इत्यपि ।।५७।।
विभूषाश्च भविष्यन्ति रत्नानि देहजानि वै ।
मणिमूर्तिहरिश्चापि निवत्स्यति तु भूतले ।।५८।।
एवं मोक्षो बलस्यापि देवैर्नारायणेन वै ।
पुनः शीघ्रं ततः सख्यो भविष्यति द्रुतं भुवि ।। ५९ ।।
अहं ललितारूपेण भविष्याम्यपि भूतले ।
अनादिश्रीकृष्णनारायणदासी नृपात्मजा ।।3.161.६० ।।
दक्षिणे ललितालक्ष्मीर्भविष्यामि तु काञ्चिके ।
अनेकोद्धारकार्यार्थं सर्वं योग्यं भविष्यति ।।६ १ ।।
इत्युक्त्वा ललितालक्ष्मीः श्रीपुरे धाम्नि गोपुरे ।
उक्त्वा ययौ स्वासनं च जयाद्या न्यपतन् द्रुतम् ।।।६२।।
ब्रह्माण्डे भूतले चात्र यथेष्टं जन्म चाप्नुवन् ।
बलोऽपि चात्र लोके चाऽसुरभावो व्यजायत ।।६३।।
दितेः पुत्रः कश्यपाद्वै बलको नामतोऽभवत् ।
महासुरो हि दैतेयः सुकेश्याद्यग्रजो महान् ।।६४।।
तपस्तेपे समुत्पन्नो जातिस्मरोऽतिहर्षितः ।
शतवर्षे मेरुपृष्ठे विष्णुं समभिध्याय च ।।६५।।
पृथ्व्यां तु मस्तकं कृत्वा पादौ कृत्वा तथाऽम्बरे ।
समाधिमिव चापन्नो वल्लिकाजालसंवृतः ।। ६६ ।।
पादयोर्वल्लिकापृष्ठे पक्षिनीडो व्यजायत ।
वल्लीबद्धः शतवर्षं निश्चलोऽतिष्ठिपत्तथा ।।६७।।
शुष्कमांसोऽभवच्चापि नारायणं हदि स्मरन् ।
तदाऽहं पुरतो यातस्तस्य शापविमुक्तये ।।६८ ।।
मया ता वल्लिकाः सर्वाः स्वहस्तेन विदूरिताः ।
हस्ताभ्यां च मया सृष्टः किञ्चिज्ज्ञानमवाप सः ।।६९ ।।
विवेद मम हस्तौ स कोमलौ स्पर्शमात्रतः ।
मया चाप्लावितस्तूर्णमूर्ध्वाननो बभूव ह ।।3.161.७० ।।
चकार दण्डवच्चापि रुरोदाश्रूणि संत्यजन् ।
प्रेमविह्वलगात्रश्चाऽर्थयन्मोक्षं वियोनितः ।।७ १ ।।
विष्णुः प्राह सदा मे त्वं भक्तोऽसि पावनस्तथा ।
दत्वा स्वदर्शनं भक्त पावितोऽसि ततोऽधिकः ।।९२।।
शृणु शीघ्रं हि दानव्या योनेर्विमोक्ष्यसे त्वितः ।
तपस्त्यक्त्वा चेन्द्रलोकं याहि बलं च दर्शय ।।७३ ।।
दैत्यं भक्तं विजेतुं वै न शक्ता देवकोटयः ।
भविष्यन्ति यदा सेवां करिष्यन्ति च ते तदा ।।७४।।
प्रसन्नस्त्वं वरदानं तेभ्यो दास्यसि चोत्तमम् ।
यज्ञे समित् स्वरूपस्त्वं याचितो वै भविष्यसि ।।७५ ।।
तद्वा ते हननं सर्वे करिष्यन्ति च संहताः ।
तव देहसमुत्थाश्च भविष्यन्ति तु हीरकाः ।।७६।।
मणयो विविधाश्चापि रत्नानि विविधानि च ।
मोक्षस्ते च तदा तूर्णं भविष्यति न संशयः ।। ७७ ।।
इत्युक्त्वा मम चक्रं तु दत्वाऽदृश्योऽभवं स तु ।
तपस्त्यक्त्वा ययौ स्वर्गे युद्धं चेन्द्रादयाचत ।।७८ ।।
समरे दत्तवान् युद्धं महेन्द्रो निर्जितोऽमुना ।
सूर्यश्चन्द्रोऽपि विजितौ दिक्पाला विजिता अपि ।।७८१।।
लोकपाला जिताश्चापि विष्णुसुदर्शनेन वै ।
इन्द्राद्या निर्जितास्तेन तैर्निर्जेतुं न शक्यते ।।3.161.८ ०।।
देवाः परवशा भूत्वा बलसेवां प्रचक्रिरे ।
सेवया स बलोऽत्यन्तं प्रसादितो वराय तान् ।।८ १ ।।
सुरान् स प्रैरयत्तेऽपि सुरा विचार्य वै तदा ।
विष्णुवाक्यं प्रसंस्मृत्याऽयाचन्त लाभकृन्निजम् ।।८२।।
यदि देयो वरो नोऽस्ति यदि सत्यवचो भवान् ।
यदि सेवाप्रतुष्टोऽसि भक्तिमाँश्च नरायणे ।।८३ ।।
तदा देहि वरे सर्वसुरेष्टमेकमुत्तमम् ।
यज्ञो नारायणः साक्षात्तत्र समित् स्वयं भव ।।८४।।
अस्माभिर्देवदैत्यैश्च नागैः सर्पैश्च दानवैः ।
मिलित्वा होममापन्नो मोक्षस्त्वं वै गमिष्यसि ।।८५।।
इत्युक्तो बलको दैत्यः प्रसन्नश्चात्यजायत ।
विष्णोरर्थे समित् प्राह भाग्यं यत् परमं मम ।।८ ६।।
देवार्थे मरणं सर्वार्पणं श्रेष्ठं भवेदिह ।
मृत्युशीलो हि संसारो मरणं देवतार्थकम् ।।८७।।
यदि लभ्येत् गोऽर्थं च गुर्वर्थं माधवार्थकम् ।
धर्मार्थं धर्मकार्यार्थं ततो लाभः परस्तु कः ।।८८ ।।
अहो भाग्यमहो भाग्यं मम चाऽद्य परं स्थितम् ।
यदहं विष्णुदेवस्य मुखगः कल्पितः सुरैः ।।८९।।
आत्मनिवेदिता मेऽद्य सम्पत्स्यते सुशोभना ।
विचार्येत्थं तथास्त्वेवं वरदानं ददौ तदा ।।3.161.९० ।।
सुराश्च वरदानं तत् प्राप्य मेरोस्तु पश्चिमे ।
नितम्बे मखभूमिं च कारयामासुरुत्सुकाः ।। ९१ ।।
आकारितास्तत्र देवा दैत्याश्च दानवाः खगाः ।
महर्षयश्च पितरो मानवा वृक्षवल्लयः ।। ९२।।
यक्षाश्च राक्षसाश्चापि पिशाचा भूतयोनयः ।
कुष्माण्डाः किन्नरा नागा गन्धर्वा भोगिनस्तथा ।।।९३।।
सर्पा आसुरमूर्धन्या अप्सरसस्तथाऽऽपगाः ।
समुद्राश्च तथाऽरण्यान्यपि भूभृत उच्छ्रयाः ।। ९४।।
मेघाश्च विद्युतश्चापि खनयश्चौषधिव्रजाः ।
तत्त्वान्यामन्त्रितान्येवाऽऽययुस्तत्र महाऽध्वरे ।। ९५।।
यज्ञकार्यं ब्रह्मविष्णुमहेशाद्यैः प्रवर्तितम् ।
बलो ददौ समिध्रूपं निजं तत्र तदा क्षणे ।। ९६ ।।
निषसादाऽध्वरेयावत् प्रोक्षितो वर्धिनीजलैः ।
तावत् समित्स्वरूपः स महानद्रिसमोऽभवत् ।। ९७।।
महापुंजो यथावृक्षवल्लीसस्योद्भवोऽभवत् ।
व्रीहिपुष्पफलाढ्यश्च घृतमिष्टरसोऽभवत् ।।९८ ।।
न ज्ञायते प्राणिरूपो हव्यरूपोऽभवत्तदा ।
सर्वहव्यानि चाद्रौ वै दृश्यन्ते तत्र वै तदा ।।९९।।
हव्यस्य पर्वताकारं बलं मत्वा विवर्तितम् ।
कृत्वा तु पावनं प्रोक्ष्य देवा होमं व्यधुस्तदा ।। 3.161.१०० ।।
वह्नावाहुतयस्तस्य लक्षशो वै तदाऽभवन् ।
बीजकणाज्यफलसद्रसात्मिका सुगन्धयः ।। १०१ ।।
तस्य विशुद्धसत्त्वस्य बलस्याऽवयवाः शुभाः ।
वह्नौ समिधः क्षिप्तास्ता रत्नबीजानि चाऽभवन् ।। १०२।।
सूर्यचन्द्रसमाभानि बीजानि कुण्डके तदा ।
दृष्ट्वा सुरादयस्ताँश्च जगृहुर्मूल्यवेदिनः ।। १०३।।
देवानामथ यक्षाणां सिद्धानां पवनाशिनाम् ।
मानवानां महर्षीणामध्वरिणां समन्ततः ।। १ ०४।।
रत्नबीजमयो ग्राहः सुमहानभवत्तदा ।
कुण्डाद् गृह्णन्ति देवाद्या उत्प्लुत्याऽम्बरमार्गतः ।। १ ०५।।
संप्रगृह्य दूरं यान्ति विमानैर्वै निजान् गृहान् ।
परस्परावकर्षैश्च सम्मर्दोऽभूत्तदा महान् ।। १ ०६।।
अम्बरे रत्नबीजार्थमास्कन्दनं महत्वभूत् ।
आस्कन्दिते व्योममार्गात् पेतुर्बीजानि यानि च ।। १ ०७।।
वेगात्पततां विमानैर्हस्ताभ्यां पतितानि च ।
पर्वतेषु समुद्रेषु सरित्सु काननेष्वपि ।।१ ०८ ।।
वृक्षेषु मेघमार्गेषु भूमौ सरोवरेष्वपि ।
तत्तद्गुणैश्च बीजानि रत्नानि चाभवँस्तदा ।। १०९ ।।
आधेयगुणयुक्तानि विविधानि तदाभवन् ।
इत्येवं रत्नजातानामुद्भवो वः प्रकीर्तितः ।। 3.161.११ ० ।।

इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वलाऽऽख्यपार्षदस्य श्रीपुरधाम्नो जयादिभिः परस्परशापेन पतनं बलदैत्यस्य यज्ञे समित्स्वरूपिणः काय- तत्त्वेभ्यो रत्नानामुत्पत्तिरित्यादिनिरूपणनामा एकषष्ट्यधिकशततमोऽध्यायः ।। १६१ ।।

अग्रिम पुटः