लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ०७२

विकिस्रोतः तः
← अध्यायः ०७१ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः ०७२
[[लेखकः :|]]
अध्यायः ०७३ →

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं भजनं मम मोक्षदम् ।
कृष्ण विष्णो हरे राम मुकुन्द मधूसूदन ।। १ ।।
नारायण हृषीकेश पुरुषोत्तम केशव ।
अनादिश्रीकृष्णनारायण लक्ष्मीपते प्रभो ।। २ ।।
पद्मनाभाऽक्षरवर्तिन् चात्माराम कृपानिधे ।
वासुदेव मुक्तिकेश श्रीधर श्रीपते विभो ।। ३ ।।
राधारमापते जिष्णो प्रज्ञापद्मावतीपते ।
श्रीद श्रीश श्रीनिवास मोक्षकृन्माणिकीपते ।। ४ ।।
कम्भरानन्दन ब्रह्मप्रियाकान्त जनार्दन ।
गोपालबाल विश्वेश सुखदाश्रीपतेऽधिप ।। ५ ।।
प्राणेश कान्तकान्तेश परमेश्वर माधव ।
इत्येवमुच्चरन्त्यो वै नार्यो नामानि मे भुवि ।। ६ ।।
नराश्चापि प्रयान्त्येव धाम मे जरठा अपि ।
बाला वृद्धाः कुमाराश्च मम नामपरायणाः ।। ७ ।।
प्रणमन्ति हरिं मां ये गृहकर्मरता अपि ।
आसने शयने याने ध्याने ज्ञाने हि मां घवम् ।। ८ ।।
क्रीडमानाः प्रणमन्ति ते यान्ति धाम मेऽक्षरम् ।
दिवारात्रौ सुमधुरं ब्रुवन्ति यत्र नाम ते ।। ९ ।।
कृष्णस्य दृश्यते भावो यत्र गृहे भुवस्तले ।
विष्णुलोकस्य समता मम धाम्नश्च तुल्यता ।। 3.72.१ ०।।
तद्गृहस्य सदा लक्ष्मीर्नात्र कार्या विचारणा ।
नाऽन्तरं तत्र पश्यामि भक्तगृहेऽक्षरालये ।। ११ ।।
ममोच्चारं प्रकुर्वन्ति नित्यं धाम्न्यक्षरे मम ।
तथा पृथ्व्यां मम नाम गृणन्ति यत्र तद्गृहम् ।। १२।।
दिव्यं धामाऽक्षरं बोध्यं विशेषोऽत्र न विद्यते ।
उभयोर्लोकयोर्भावः समस्तेन समानता ।। १३।।
जरारोगभयं नास्ति मृत्युहीना यतो जनाः ।
यत्र मन्नामगानं च मन्मन्त्ररटनं तथा ।। १४।।
किम्वधिकं वदेयं वै माया दिव्या ममाश्रयात् ।
गावो दिव्या हि भक्तस्य महिष्यश्च तथा शुभाः ।। १५।।
गृहोद्यानानि दिव्यानि गृहं दिव्यं शुभं सदा ।
गृहोपकरणान्यस्य दिव्यानि भोजनान्यपि ।। १६।।
गृहांगणं सदा दिव्यं पुत्रपौत्रादयोऽपि च ।
सदा भक्तस्य दिव्या वै पात्राणि च धनानि च ।। १८ ।।
वृक्षाश्च वल्लिका दिव्या खष्ट्वाद्यास्तरणानि च ।
पेटिकाऽम्बरभूषाद्या दिव्या भक्तस्य मे सदा ।। १८।।
भक्तगृहस्य धूली च रजांस्यपि जलानि च ।
धान्यान्यपि च दिव्यानि यत्राऽहं परमेश्वरः ।। १ ९।।
अपि तद्गृहभोक्तारः पक्षिणः पशवोऽपि च ।
दिव्या अतिथयश्चापि मम प्रसादपाविताः ।।3.72.२०।।
तीर्थानि तानि सर्वाणि भक्तभोग्यानि सर्वथा ।
वस्तूनि भोग्यजातानि पावनानि हि पापिनाम् ।।२ १ ।।
इत्येवं विद्यते लक्ष्मि पावनं मम वासतः ।
निर्गुणं पुण्यदं मोक्षप्रदं भक्तगृहादिकम् ।।२२।
शृणु लक्ष्मि ययातेर्वै नाहुषस्य कथानकम् ।
मम भक्तस्य लोकेऽत्र पावनं लोकमोक्षदम् ।।२३।।
ययातिर्भगवद्भक्तो ह्यश्वमेधशतं तथा ।
वाजपेयशतं चक्रे वैष्णवः पृथिवीपतिः ।।२४।।
ददावनेकरूपाणि दानानि श्रद्धया नृपः ।
गवां लक्षसहस्राणि तथा कोटिशतानि च ।।२५।।
कोटिहोमाँश्चकाराऽपि भूमिदानादिकं ददौ ।
वर्षाणां तु सहस्राणि ह्यशीतिर्जीवितो हि सः ।।२६।।
शुशोच वै ययातिः स देहोऽयं कर्मबन्धनः ।
भस्मान्तो वा विडन्तो वा मृदन्तो वा भविष्यति ।।२७।।
अनेन चार्ज्यते पापं नरकं च फलं ततः ।
अनेन चार्ज्यते पुण्यं स्वर्गं राज्यं पुनः पुनः ।।२८।।
अनेन चार्ज्यते भक्तिर्मोक्षो यया भवेद् ध्रुवः ।
तस्मात् स एव साध्योऽत्र राज्ये स्थित्वा विवेकिना ।।२९।।
विचार्येत्थं हरेर्नाम्नामारेभे भजनं नृपः ।
हरे कृष्ण हरे विष्णो कृष्णनारायण प्रभो ।।3.72.३०।।
अनादिश्रीकृष्णनारायण दामोदराच्युत ।
एवं भजन् निजदूतानादिदेश शुभं वचः ।।३ १।।
यान्तु दूता मम राष्ट्रं समुद्रान्तं हि मण्डलम् ।
आदिशन्तु प्रजाभ्यश्च कुर्वन्तु भजनं हरेः ।।३२।।
पश्यन्तु परमात्मानं गृणन्तु नामकीर्तनम् ।
पूजयन्तु हरिं नित्यं भजन्तां परमेश्वरम् ।।३३।।
करं नैव ग्रहीष्यामि भक्तप्रजाभ्य एव ह ।
नामामृतं हरेरेव कीर्तयन्तु सदा प्रजाः ।।३४।।
दूतादिष्टाः प्रजाश्चापि चक्रुर्वै भजनं तथा ।
ध्यायन्ति स्म हरिं कृष्णं गायन्ति स्म जनार्दनम् ।।३५।।
जपन्ति स्म च तप्यन्ते यजन्ते स्म च मां सदा ।
मद्ध्याना मद्व्यवसिता मम पूजापरायणाः ।।३६।।
यावद्भूमण्डलं सर्वं बभूव वैष्णवं तदा ।
मत्प्रतापेन सञ्जाता मानवा आधिवर्जिताः ।।३७।।
वीतशोकाश्च पुण्याश्च सर्वरोगविवर्जिताः ।
सर्वैश्वर्यसमापन्ना धनधान्यसमन्विताः ।।३८।।
पुत्रपौत्रादिसद्वंशा निरामया निरीतयः ।
गृहद्वारे कल्पवृक्षाः सर्वकामफलप्रदाः ।।३९।।
सर्वकामदुघा गावश्चिन्तामणयश्चापि वै ।
अभवन् राज्यवृद्ध्याद्याः सम्पदश्चाऽवितर्किताः ।।3.72.४०।।
सर्वसौभाग्यसम्पन्ना ज्ञानध्यानपरायणाः ।
प्रजाश्चासन् सुपुण्याश्च भक्तिपूजापरायणाः ।।४१ ।।
न दुर्भिक्षं न च व्याधिर्नाऽकालमरणं नृणाम् ।
वैष्णवा मानवाः सर्वे मम ध्यानपरायणाः ।।४२।।
मज्जपा मद्भक्तिसेवानामकीर्तनतत्पराः ।
सर्वत्र वैष्णवो भावो गृहे वृक्षे पशुष्वपि ।।४३।।
गृहे गृहे मन्दिराणि भास्वन्ति मम चाभवन् ।
गृहभित्तिषु चित्राणि ममैवाऽऽसन् त्वया सह ।।४४।।
मद्भक्ताभिश्च नारीभिर्गीयन्ते गीतयो मम ।
प्रभजन्ति प्रजा मां च बालवृद्धकुमारकाः ।।४५।।
गृहकर्मरता नार्यो भजन्ते मां परेश्वरम् ।
आसने शयने याने पाने स्थाने च भोजने ।।४६।।
क्रीडायामुत्सवे कामे मां भजन्ति हरिं प्रभुम् ।
ब्रुवन्ति श्रीहरेर्नाम मानयन्ति स्म मोक्षदम् ।।४७।।
एवं वैकुण्ठतुल्यं वै भूतलं सर्वतोऽभवत् ।
सर्वे भक्तिपरा लक्ष्मि मम स्नेहपरायणाः ।।४८।।
ययातिनोपदिष्टास्ते सञ्जाता वैष्णवा भुवि ।
जरामरणशून्याश्चाऽभवन् मम प्रसादतः ।।४९।।
मम लोकं न ते यान्ति वैष्णवा दीर्घजीविनः ।
ये च यान्ति विमानेन वैष्णवं मम धाम ते ।।3.72.५०।।
अप्यब्दलक्षदेहास्ते वृद्धा अपि नराः स्त्रियः ।
पञ्चविंशाऽब्दिकाः सर्वे दृश्यन्ते कृपया मम ।।५१।।
स्थिरकायाश्च सुखिनो जरारोगादिवर्जिताः ।
तेषु भक्तेषु सर्वेषु विष्णुदूता हरेः श्रिताः ।।५२।।
विचरन्ति ताडयन्ति दृष्ट्वा यमस्य पार्षदान् ।
रुदन्तस्ते ताडिताश्च याम्या ययुर्यमं प्रति ।।५३।।
कथयामासुरेवैते चेष्टितं भूभृतः क्षितौ ।
अमृत्युभूतलं जातं वैष्णवं सर्वमेव ह ।।५४।।
ययातिना महाभक्त्या वैकुण्ठाभं कृतं खलु ।
ताड्यन्ते यमदूता वै विष्णुदूतैः क्षितौ यम ।।५५।।
किं कुर्मो नैव गच्छामो भूतलं धर्मराज वै ।
धर्मराजः श्रुतवाँश्च चिन्तयामास तत्क्षणम् ।।५६।।
अस्य राज्ञो भवेदन्तस्तथा कार्यं मया ध्रुवम् ।
राज्ञो नाशे प्रजाः सर्वा भविष्यन्ति कुमार्गगाः ।।५७।।
याम्यमार्गः साऽतिथिको भविष्यति पुनस्तथा ।
विचार्येत्थं ययौ विष्णुं वैकुण्ठे प्रार्थयत् प्रभुम् ।।५८।।
ननाम दण्डवच्चापि पुपूज परमेश्वरम् ।
न्यवेदयद्धरिं धर्मराजो ययातिवर्तनम् ।।५९।।
तव भक्तेन भगवन् रुद्धः पन्था यमस्य मे ।
मानवा भूतले सर्वे वैष्णवास्तेन वै कृताः ।।3.72.६ ०।।
तस्माद्धरे निजभक्तं शीघ्रमत्र समाह्वय ।
पापिनां दण्डरोधोऽपि भवेदुद्धाटितस्ततः ।।६१।।
इदानीं तु भक्तयोगात् पापिनोऽपि व्रजन्ति तत् ।
धाम पापानि निर्धूय रिक्तं याम्यगृहं मम ।।६२।।
इत्यर्थितो हरिः प्राह सत्यं मम तथाऽस्ति तत् ।
मद्भक्तानां संगमाद्वै पापिनोऽपि हि पावनाः ।।६३।।
भवन्त्येव न सन्देहो भूर्वैकुण्ठसमा हि सा ।
किन्तु भक्ताधीन एव भवामि नान्यथा यम ।।६४।।
भक्तस्येच्छाविरुद्धं यन्नाचरामि कदाचन ।
स्वस्ति तेऽस्तु भज मां त्वं मा भक्तिविघ्नमाचर ।।६५।।
यद्वा सत्ये ब्रह्मलोके याहि त्वं परमेष्ठिनम् ।
निवेदय यथार्थं च स ते बुद्धिं प्रदास्यति ।।६६।।
इत्युक्तो यमराजश्च लक्ष्मि ययावजं प्रति ।
ननाम पुपूज यमो न्यवेदयच्च तत्तथा ।।६७।।
श्रुत्वा ब्रह्मा यमं प्राह भक्तो राजा हि वैष्णवः ।
पराभाव्यो न वै स्याद्धि मा यत्नं कुरु तत्र वै ।।६८।।
किन्तु ते चाऽस्ति हृदयं याम्यमार्गं प्रवर्तितुम् ।
कुरु यत्नं तथा धर्म याहीन्द्र प्रति वै दिवम् ।।६९।।
अर्धासनं महेन्द्रस्य राज्ञे दानाय वेदय ।
एवं कृते सदा राजा स्वर्गे स्थास्यति न क्षितौ ।।3.72.७०।।
भक्तिर्मन्दा प्रजायां च भविष्यति ततो यम ।
धर्मो मन्दस्तेन मार्गस्तव पूर्णो भविष्यति ।।७१ ।।
इत्युक्तः प्रययौ धर्मराजश्चेन्द्रं दिवं प्रति ।
समायान्तं धर्मराजं ददर्श सुरराट् द्रुतम् ।।७२।।
समुत्थाय ददावर्धासनं पप्रच्छ चागमम् ।
धर्मराजोऽब्रवीत् सर्वं ययातेश्चरितं शुभम् ।।७३।।
नहुषस्याऽऽत्मजेनापि ययातिना महीतले ।
वैष्णवेन कृताः सर्वे वैष्णवा धार्मिकाः खलु ।।७४।।
वैकुण्ठतुल्यरूपं वै राजते भूमिमण्डलम् ।
मानवा अमरा जाता जरारोगविवर्जिताः ।।७५।।
अपापाः सत्यशीलाश्च क्रोधादिदोषवर्जिताः ।
भक्तिशीला धर्मपराः समर्चन्ति नरायणम् ।।७६ ।।
दूर्वा वटा यथा भूमौ विस्तारं यान्ति वंशगाः ।
तथा प्रजा विस्तृताश्च पुत्रपौत्रैः प्रपौत्रकैः ।।७७।।
यममार्गे न चाऽऽयान्ति यान्ति वैकुण्ठमेव ताः ।
कार्यहीनोऽस्मि सञ्जातो व्यापारेण विवर्जितः ।।७८।।
एतज्ज्ञात्वा महेन्द्र त्वं प्रजाया मेऽपि वै हितम् ।
समाचार प्रवाहस्य वेधःसर्गस्य वै गतिम् ।।७९।।
इत्युक्त्वा प्रययौ धर्मराजः स्वस्याऽऽलयं ततः ।
महेन्द्रो मातलिं चाह सारथिं याहि भूतलम् ।।3.72.८ ०।।
नाहुषं नृपतिं भक्तं ययातिं वद मद्वचः ।
अर्धासनं महेन्द्रो वै भवते दास्यते निजम् ।।८ १।।
याहि स्वर्गं सुखं भुङ्क्ष्व कल्पान्तं दिवि भूपते ।
वर्षाणां तु सहस्राणि राज्यं भुक्तं त्वया नृप ।।८२।।
स्वर्गं भुङ्क्ष्व पुनः श्रेष्ठं शाश्वतं च ततः पदम् ।
पुत्रास्ते सन्ति चत्वारो रुरुः पुरुः कुरुर्यदुः ।।८३ ।।
तेभ्यो राज्यं समर्प्यैव विमानेनैहि च दिवम् ।
इलः पुरूरवा विप्रचितिः शिविर्मनुस्तथा ।।८४।।
सगरो नहुषस्तेऽपि पिताऽन्ये च नरेश्वराः ।
स्वर्गे तत्र प्रमोदन्ते चायाहि त्वं तथाविधः ।।८५।।
शक्रेण सह मोदस्व स्वर्गधर्मेषु संस्थितः ।
नृपाऽशीतिसहस्राणि वर्षाणि भूतले तव ।।८६।।
दानयज्ञवृषभक्तिभिर्गतानि शुभानि ह ।
पञ्चात्मकशरीरस्य भूमौ त्यागं विधाय वै ।।८७।।
दिव्यं रूपं समगृह्य भुङ्क्ष्व स्वर्गसुखानि तु ।
श्रुत्वोवाच ययातिश्च मातले! शृणु मद्वचः ।।८८।।
येन कायेन संसिद्ध्येत् सुकृतं मुक्तिसाधनम् ।
भक्तिश्च जायते कृष्णे कथं त्याज्यं कलेवरम् ।।८९।।
सत्यधर्मात्मकं पुण्यं येन कायेन मानवः ।
समर्जयति मुक्तिं च तत् कस्मात् संविसर्जयेत् ।।3.72.९०।।
आत्मा कायश्च द्वावेतौ मित्ररूपावुभावपि ।
तस्मान्नैव परित्याज्यमात्मना स्वकलेवरम् ।।९१ ।।
श्रुत्वैतन्मातलिश्चाह राजन् सत्यं तवोदितम् ।
किन्तु कालवशो देहः कर्मपोष्यः स्थितस्त्विह ।।९२।।
भूतपञ्चकरूपश्च पार्थिवस्तु विशेषतः ।
आयुष्यकर्मनाशे वै त्यक्तव्योऽयं प्रसह्य वै ।।९३।।
भवत्येव सदा लोकैः स्थितिरेषा हि विद्यते ।
जराऽस्य जायते पश्चान्नश्यत्येव न संशयः ।।९४।।
तस्मात् त्याज्यस्वभावं वै देहं त्यक्त्वा दिवं व्रज ।
श्रुत्वा प्राह ययातिर्वै मातले सा जरा ननु ।।९५।।
कदोत्पन्ना कथं पीडाकरी वद यथातथम् ।
श्रुत्वा च मातलिः प्राह शृणु राजन् स्वभावजम् ।।९६।।
महाकालो हरेः शक्तिः श्रीपतेः परमात्मनः ।
महाकालस्य मृत्युर्वै पुत्री तस्या जरा सुता ।।९७।।
सा मायाकृततत्त्वेषु समुत्पत्तौ सहस्थिता ।
उत्पन्नान्निर्णीतकालानाविशति क्षयंकरी ।।९८।।
क्षीयते हि प्रधानं वै महत्तत्त्वं विनाशवत् ।
अहंकारः क्षीयतेऽपि मनोऽपि क्षीयतेऽपि च ।।९९।।
वैराजः क्षीयते चापीन्द्रियाणि विषयास्तथा ।
भूतानि चापि क्षीयन्ते भौतिकानि तया मुहुः ।। 3.72.१० ०।।
रसाः पोषणकर्तारः क्षीयन्ते देहसंस्थिताः ।
सरसाः सर्वदेहा वै प्रकाशन्ते प्रपोषिताः ।। १०१ ।।'
रसाः शुक्रस्वरूपा वै रसाधिक्ये तु यौवनम् ।
नारीप्रसंगतो राजन् रसनाशो भवत्यपि ।। १ ०१।।
नार्या नरप्रसंगेन रसनाशो हि वृद्धता ।
रसो वीर्य कामना तन्नाशे सर्ववृद्धता ।। १ ०३।।
शुक्रशोणितयोर्नाशे शून्यदेहः प्रजायते ।
विवर्णो दुःखसन्तप्तो जराव्याप्तस्तदा भवेत् ।। १ ०४।।
पलितं जायते तेन ज्वरतापः प्रजायते ।
नाशमायान्ति जीर्णास्ते मरणं तत्तथा ध्रुवम् ।। १ ०५।।
इति राजन् विचार्यैव देहं त्यक्त्वा दिवं व्रज ।
विमानं चेन्द्रसौभाग्यमानीतं त्वत्कृते मया ।। १०६।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने भगवन्नाममन्त्रभजनेन ययातेर्नृपत्य प्रभावेण सर्वप्रजावैष्णवीत्वादिनिरूपणनोमा द्वासप्ततितमोऽध्यायः ।। ७२ ।।