लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ०४२
← अध्यायः ४१ | लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः) अध्यायः ४२ [[लेखकः :|]] |
अध्यायः ४३ → |
श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं शिवराज्ञीश्रियं हरिः ।
ततोऽपि विविधानाहाऽऽचारान् वदामि ते शुभात् ।। १ ।।
नवान्नानि रसवन्ति दातव्यानि सदाऽर्थिने ।
नवसस्येष्टिरेवाऽत्र दीर्घायुःसम्प्रदा यतः ।। २ ।।
सर्वेऽपि मानवा नार्यो नराश्चापि नवेऽन्नके ।
सति चाग्निं विशुद्धाऽन्नैर्यजेत परमेश्वरम् ।। ३ ।।
दघ्ना मिष्टाम्ब्लमधुरास्वादेन पयसा तथा ।
मिष्टसारान्वितेनाऽपि यजेत परमेश्वरम् ।। ४ ।।
पायसान्नैः पयःपाकैः क्षीरैर्यजेत माधवम् ।
घृतेन घृतपक्वेन घृताक्तैश्च शुभान्नकैः ।। ५ ।।
नवनीतैः शुभैः सद्योजातैः शर्करयाऽन्वितैः ।
यजेत परमात्मानं दुग्धपुटीप्रपूरितैः ।। ६ ।।
पूरिकापोलिकायुक्तैर्गुप्तपुटकभोजनैः ।
यजेत मां हरिं लक्ष्मि! येन तृप्तो भवामि च ।। ७ ।।
शर्कराभिश्च खण्डाद्यैर्मधुभिर्गुडकैसरैः ।
सद्रसैश्चापि मां शीतपेयैर्यजेत सर्वथा ।। ८ ।।
आम्रफलैर्मिष्टफलैर्यजेत द्राक्षिकाफलैः ।
कदलैश्चाऽमृतैश्चापि नारीकेलादिपाचनैः ।। ९ ।।
शीतफलैः रायणैश्च जम्बूभिः पनसैस्तथा ।
नवचिर्भटकर्कटीभिर्यजेत वधूर्हि माम् ।। 3.42.१ ०।।
मानाऽवमानौ द्वावेतौ सदा बोध्यो विषाऽमृते ।
तत्स्पर्शाभिभवं प्राप्य वधूवर्गोऽवसीदति ।। १ १।।
तस्माद् दास्येन भावेन वर्तितव्यं वधूजनैः ।
चक्षुःपूतं चरेन्मार्गं मनःपूतां चरेत् क्रियाम् ।। १२।।
स्वामिपूतां चरेत् सेवां धर्मपूते वधूर्वसेत् ।
स्वाम्याज्ञां पालयेन्नित्यं चाऽज्ञाभंगं न चाचरेत् ।। १३।।
आज्ञाधर्मो हि पत्नीनां तेनेच्छेत् सिद्धिमुत्तमाम् ।
कैतवं छद्म शाठ्यं च पैशुन्यं वर्जयेद् वधूः ।। १४।।
अतिहास्यमवष्टंभं लीलां स्वेच्छाप्रवर्तनम् ।
वर्जयेत् सर्वयत्नेन गुर्वीणां सन्निधौ वधूः ।। १५।।
तद्वाक्यप्रतिकूलं च तथाऽयुक्तं गुरौ वचः ।
न वदेद् गृहिणीवर्गो ह्यनिष्टं न स्मरेत् क्वचित् ।। १६।।
रजस्वलां सूतिकां च न स्पृशेन्मलवाहिनीम् ।
चतुर्थ्यां सुवधूर्नैव रतिकार्यकरी भवेत् ।। १७।।
अल्पायुर्व्रतविद्याढ्यत्वादिहीनप्रसूस्तदा ।
यतो जायेत तस्माद्वै बलवद्ग्रहगा भवेत् ।। १८।।
सङ्गं सतीभिः कुर्वीत भवेत् सर्वार्थसाधिका ।
असतीसंगमुज्जह्यात् परत्राऽत्र हितं न यत् ।। १९।।
वर्जयेत् क्षुद्रसंगं च विरोधं स्वजनेषु च ।
शत्रुसेवापरासंगं दुष्टायोगं च वर्जयेत् ।।3.42.२०।।
उत्तमाभिर्हि सांगत्यं पण्डिताभिश्च सत्कथाम् ।
अलुब्धाभिश्च मित्रत्वं कुर्वाणा नावसीदति ।।२१ ।।
परसंगं परिहास्यं चाऽस्थाने नरयोषितोः ।
परवेश्मनि वासं च न कुर्वीत कदाचन ।। २२।।
पराऽपि हितकर्त्री चेद् बान्धवी सा न चेतरा ।
अहितो देहजो व्याधिर्हितमारण्यकौषधम् ।। २३।।
बान्धवी या हिता सैव स पिता यस्तु पोषकः ।
तन्मित्रं यत्र विश्वासः स देशो यत्र जीव्यते ।।२४।।
स भृत्यो यो विधिभृत्यस्तद्बीजं यत्प्ररोहति ।
सा भार्या या पतिनिष्ठा स पुत्रो यः सुखाप्तये ।।२५।।।
सा जीवति गुणा यस्या धर्मो यस्याः सा जीवति ।
गुणधर्मविहीनाया निष्फलं जीवनं यतः ।।२६।।
सा भार्या या गृहे दक्षा प्रतिप्राणा प्रियंवदा ।
हिता भक्ताऽनुकूला च सर्वसौभाग्यवर्धिनी ।। २७।।
यस्य भार्या निःस्नेहाक्षी कपटा कलहप्रिया ।
वादप्रियाऽन्यसंसक्ता त्यक्तलज्जा विमानिनी ।।२८।।
कश्मला सेवया हीना सा जरा न जरा जरा ।
यस्य भार्या समवृत्तिर्गुणज्ञा चानुगामिनी ।।२९।।
पतिभाग्याऽल्पसन्तुष्टा प्रियभावा प्रियंकरी ।
पतिधर्मा पत्यभिन्ना सा प्रिया न प्रिया प्रिया ।।3.42.३० ।।
दुष्टा भार्या शठं मित्रं भृत्यः स्वार्थपरायणः ।
सर्पो यत्र च तत्र स्याद्वासो मृत्युप्रदः खलु ।।३ १ ।।
अगुणज्ञः पतिः क्रुद्धा सपत्नी दोषदायिनी ।
सर्वसंशयिनी वासो यत्र तत्र न शं भवेत् ।।३२।।
त्यजन्तु दुर्जनसंगं भजन्तु साधुसंगतिम् ।
कुर्वन्तु पुण्यमनिशं स्मरन्तु मां हरिं पतिम् ।।३३।।
आपदर्थे धनं रक्षेद् दारान् रक्षेद्धनादिभिः ।
पतिं पुत्रं सतीं भार्यां रक्षेद् धनादिभिः सदा ।।३४।।
त्यजेदेकं कुलस्यार्थे धर्मार्थं तु कुलं त्यजेत् ।
धर्मं त्यजेच्च हर्यर्थे मोक्षार्थं सर्वमुत्सृजेत् ।।३५।।
वरं वासोऽरण्यदेशे न तु दुष्टे गृहे क्वचित् ।
दुश्चरितं गृहं क्लेशः प्रत्यक्षनरकावुभौ ।। ३६।।
चलत्येकेन पादेन तिष्ठत्येकेन धीमती ।
न परीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत् ।।३७।।
त्यजेद्दशमसद्वृत्तं वासं सोपद्रवं त्यजेत् ।
कृपणं स्वामिनं मायामयं दुष्टं नरं त्यजेत् ।।३८।।
पदस्थस्यैव मित्राणि यानि तानि न चांजसा ।
अर्थपदविहीनस्य मित्राणि सार्थकानि वै ।।३९।।
आपद्रक्षाकरं मित्रं क्षीणसम्पत्सु कामिनी ।
दुर्भिक्षादौ सहयाना सा भार्या भाग्यशालिनः ।।3.42.४०।।
द्रुमं क्षीणफलं शुष्कं सरः पतिं च निर्धनम् ।
छाया मत्स्या धर्मपत्नी न त्यजन्ति कदाचन ।।४१ ।।
विहगाः सारसाश्चापि गणिकास्तान् त्यजन्ति वै ।
स्वार्थवशास्तथा बोध्या विश्वसेन्न तथाविधान् ।।४२।।
लुब्धां द्रव्यप्रदानेन श्रेष्ठामञ्जलिना तथा ।
मूर्खां छन्दानुवृत्त्या च याथातथ्येन पण्डिताम् ।।४३।।
साध्वीं प्रसेवया बालां मिष्टवाण्या जयेद् वधूः ।
साध्व्यश्च देवताश्चापि तुष्यन्ति शुद्धभावनैः ।।४४।।
असती खाद्यपानाद्यैः शठा शाठ्येन तुष्यति ।
यस्या यादृक्स्वभावः स्यात् तस्यां तथाऽऽविशेद् वधूः ।।४५।।
नद्यश्च नखिनश्चापि शृंगिणः शस्त्रपाणयः ।
राजकुलं च लुञ्चादो विश्वासार्हा न सर्वथा ।।४६।।
द्रव्यहानिं समुद्वेगं गृहे दुश्चरितं तथा ।
अवमानं वञ्चनं च प्रकाशयेन्न वै वधूः ।।४७।।
स्वामित्यागो हीनसंगो वधूशीलविनाशकौ ।
गर्वी दोषी व्यसनी च लाभनाशकरास्त्रयः ।।४८।।
यत्र मानं न प्रीतिर्न विद्या शान्तिर्न सौहृदम् ।
पतिस्नेहो न वै पत्न्यां तद् गृहं त्वनलालयम् ।।४९।।
भयहीनं धनं त्वर्ज्यं भयहीनं च सौहृदम् ।
भयहीना तथा प्रीतिर्निर्भयः स्वर्ग एव सः ।।3.42.५०।।
दात्र्या भाव्य न त्वदात्र्या क्षन्त्र्या भाव्यं स्त्रिया सदा ।
शीलिन्या च तथा भाव्यं पुण्यार्जिन्या सुखाय च ।।५१।।
नग्ना रूक्षा भिक्षुकी च कृपणा याचनापरा ।
अवस्थेयमदानस्य तस्माद् दात्री भवेद् वधूः ।।५२।।
सञ्चितं याचितं प्राप्तं सत्कार्ये युज्यते न चेत् ।
चौरपार्थिवपृथिवीहार्यं तद्वै भविष्यति ।।५३।।
कदर्याया धनं याति भूमितस्करराजसु ।
नार्या दण्डः पृथक् शय्या पत्युर्दण्डो ह्यसेवनम् ।।५४।।
दुर्जना दासवर्गाश्च पटहाः पशवस्तथा ।
ताडिता मार्दवं यान्ति दुष्टा स्त्री व्यसनी नरः ।।५५।।
नद्यो नार्यः समभावा वेगवत्योऽतिनिम्नगाः ।
कूलं कुलं पातयन्ति स्वच्छन्दगतिका यदि ।।५६।।
न तृप्तिरस्ति कामस्य पुत्रस्य च धनस्य च ।
सुखस्य जीवितस्यापि तानि जित्वा भजेद्धरिम् ।।५७।।
शाश्वतं साधयेद् भावि देवपूजादिसाधनैः ।
अशाश्वतं विदित्वैव त्यक्तव्यं दैहिकं तु यत् ।।५८।।
ध्रुवमोक्षं परित्यज्य चाऽध्रुवं या हि सेवते ।
अध्रुवं नाऽऽत्मना सार्धं गमिष्यति चरेद् ध्रुवम् ।।५९।।
हविर्दुष्टकुलाद् ग्राह्यं बालादपि सुभाषितम् ।
अमेध्यात् काञ्चनं ग्राह्यं मोक्षः सत्पुरुषात्तथा ।।3.42.६०।।
स्थानेष्वेव प्रयोक्तव्या भृत्या भूषाः स्त्रियोऽपि च ।
सती नारी सदश्वश्च वीरः सत्यपरो जनः ।।६१।।
अनपेक्षो न सहते कषाघातं तथाऽनृतम् ।
वैभवेन विहीनाऽपि सती नीचं न सेवते ।।६२।।
सकृद्दुष्टं पुनर्मित्रं न सन्धीत कदाचन ।
सन्धानाया भवेन्मृत्युर्वध्वास्तत्र विशेषतः ।।६३।।
शत्र्वपत्यं विषपात्रं विश्वासपात्रमेव न ।
विपत्प्रदं भवेत् काले विपरीते समागते ।।६४।।
सानुकूलं यदा दैवं सर्वमन्यन्निरर्थकम् ।
सानुकूले न दैवं चेत् कृतं सर्वं निरर्थकम् ।।६५।।
धनार्जने व्यये विद्यार्जने प्रभोजने रतौ ।
स्वकार्यसाधने त्यक्तलज्जा नारी सुखं लभेत् ।।६६।।
लज्जा रक्षा जलं राजा गुरुर्देवालयो निजाः ।
जना यत्र न वर्तन्ते स्थितिस्तत्र हि दुःखदा ।।६७।।
साधुज्योतिर्विदो ज्ञानी वृद्धश्च मेलनं मिथः ।
स्नेहश्चान्नं च वैद्यश्च यत्र नो तत्र नो वसेत् ।।६८।।
स्वजनान् पालयेत् साध्वी वधूरन्नाम्बरादिभिः ।
विष्णुं प्रपूजयेन्नित्यमायुःकीर्तिबलप्रदम् ।।६९।।
क्षणेन विभवो नश्येन्नात्मायत्तं धनादिकम् ।
क्षणं मत्वा साधयेद्वै मोक्षं प्रसेव्य मां सती ।।3.42.७०।।
व्याघ्री जरा च रोगोऽरिः प्रसह्याऽऽगच्छतो हि तौ ।
आयुर्भिन्नघटाभं च ज्ञात्वा मोक्षं प्रसाधयेत् ।।७१ ।।
पितृवत्परपुरुषे परद्रव्येषु घासवत् ।
निजवत् सर्वभूतेषु या पश्यति सती हि सा ।।।७२।।।
द्रव्यवत्यास्तु मित्राणि द्रव्यवत्यास्तु बान्धवाः ।
द्रव्यवती सुपूज्या स्याद् द्रव्यवती हि पण्डिता ।।७३।।
शास्त्रहीना सदाऽन्धा स्यात् तस्माच्छास्त्रवती भवेत् ।
शास्त्रचक्षुष्मती नारी स्वाराज्यसुखमेधते ।।७४।।
यया सन्तोषितो देवः पतिर्दास्यः प्रतिप्रियाः ।
कुटुम्बनारीवर्गाद्या जिता तेन वसुन्धरा ।।७५।।
मनस्तापं न कुर्वीत क्वापि वधूर्महापदि ।
समप्रज्ञा विवेकाढ्या सुखदुःखसमा भवेत् ।।७६।।
परगृहं न मन्तव्यं पत्युर्गृहं निजं गृहम् ।
यत्पत्युस्तन्निजं सर्वं मोदितव्यं विवेकतः ।।७७।।
चापल्याद् वारयेद् दृष्टिं मिथ्यावाक्यं च वारयेत् ।
मनो निवारयेच्छाठ्यात् संसारात् स्वां निवारयेत् ।।७८।।
हुंकारं भ्रुकुटीं नैव तेजयेत् स्वजनान् प्रति ।
सहस्त्रीवर्गमालोक्य रञ्जयेत् प्रणमेद् वधूः ।।७९।।
उद्योगश्च विवेकश्च धैर्यं शक्तिः सुशीलता ।
उत्साहश्चेति षट् नार्याः सिद्धिदाः सुखदाः सदा ।।3.42.८०।।
मार्दवं दास्यभावश्च नम्रता क्षमता दया ।
प्रसन्नता स्निग्धता च सप्त वध्वाः सुखप्रदाः ।।८१ ।।
कुलशीलगुणोपेता सत्यधर्मपरायणा ।
रूपवती प्रसन्ना च नार्यध्यक्षा भवेद्धि सा ।।८२।।
बलाबलमतिज्ञात्री सैन्याऽध्यक्षा भवेद्धि सा ।
इङ्गिताकारभावज्ञा प्रतीहारी भवेद् रमा ।।८३।।
मेधाविनी च वाचाला सत्यव्रता जितेन्द्रिया ।
बहुशास्त्रादिकुशला चोपदेष्ट्री भवेद्धि सा ।।८४।।
बुद्धिमती परचित्तलक्षकी तथ्यवादिनी ।
कुलीना प्रभुशक्त्याढ्या नारी दूती तु सा मता ।।८५।।
समस्तनियमज्ञा या तर्कशक्तिसमुच्छ्रया ।
देशकालादिविज्ञा च धर्माध्यक्षा भवेद्धि सा ।।८६।।
मातृमातामहीदक्षा कृतपाकपरिश्रमा ।
शुद्धा शुद्धिप्रविज्ञा च रसज्ञा पाचिका भवेत् ।।८७।।
आयुर्वेदकृताभ्यासा सर्वेषां हितकारिणी ।
निदानपद्धतिप्रज्ञा भिषग्वर्या भवेद्धि सा ।।८८।।
वेदवेदाङ्गतत्त्वज्ञा ध्यानहोमजपान्विता ।
हिताशीर्वादवक्त्री स्याद् गुर्वी तथा च शिक्षिका ।।८९।।
आचारज्ञा नियमज्ञा देशकालादिबोधिनी ।
कुशला चतुरा स्याद्वै लेखिका पाठिका गुरुः ।।3.42.९०।।
द्विजिह्वा क्लेशदा नारी तथोद्वेगकरी शठा ।
क्रूरा च दारुणा या स्यात् साऽपकारकरी मता ।।९१ ।।
दुष्टा स्त्री परिहर्तव्या विद्ययाऽलंकृताऽपि तु ।
दुर्जनी च वधूस्तद्वत् त्यक्तव्या व्यवहारके ।।९२।।
तुल्यार्थां तुल्यसामर्थ्यां मर्मज्ञां व्यवसायिनीम् ।
शूरां प्रभावयुक्तां च योजयेद् राज्यकर्मसु ।।९३।।
निरालस्या च सन्तुष्टा सुखदा प्रतिबोधिका ।
सुखदुःखसमा धीरा भृत्या सर्वत्र दुर्लभा ।।९४।।
क्षान्तिसत्यविहिना च क्रूरा शठा च निन्दिका ।
दांभिकी गृध्नभावा च त्यक्तव्या भक्ष्यलुञ्चिका ।।९५।।
गुणयुक्ता नियुञ्जीत गृहे राज्ये शुभे स्थले ।
अगुणां मोक्षमार्गे च दास्ये युञ्जीत वा प्रियाम् ।।९६।।
सतीभिः सततं रामा ह्यासीत सङ्गतौ तथा ।
असतीभिर्न चासीत मैत्रीं नो विदधीत च ।।९७।।
पण्डिताभिर्वनिताभिः सत्यव्रताभिरित्यपि ।
बन्धनस्थापि तिष्ठेत न खलाभिः कदाचन ।।९८।।
सावशेषाणि कार्याणि कर्तव्यानि वधूजनैः ।
अपूर्णे तु परित्यक्ते हानिः स्वस्या प्रजायते ।।९९।।
मक्षिकावन्मधु ग्राह्यं पत्युर्वध्वा सुयोषिता ।
अवन्ध्यं दिवसं कुर्याद् भक्तिसेवादिभिः सदा ।। 3.42.१०० ।।
रागं त्यजेन्नीतिवर्ज्यं स्नेहं कुर्याद् वृषान्वितम् ।
ज्ञानं कुर्यादनालस्यं या सा जयेज्जगत्त्रयम् ।। १० १।।
पत्या न वै गृहं प्रोक्तं गृहिण्या गृहमेव यत् ।
तस्माद् गृहं सदा रक्ष्यं स्वामिन्या प्रतिमा यथा ।।१ ०२।।
कर्तव्यमेतन्नारिणां वधूनां सुज्ञयोषिताम् ।
सर्वं मत्वा निजं सेव्यं वर्धनीयं विशेषतः ।। १ ०३।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वधूगीतायां सदाचारप्रदर्शनादिनिरूपणनामा द्वाचत्वारिंशोऽध्यायः ।। ४२ ।।