लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः २६९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २६८ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः २६९
[[लेखकः :|]]
अध्यायः २७० →

श्रीकृष्ण उवाच-
शृणु त्वं राधिके तत्र तीर्थे गत्वाऽश्वपाटलः ।
पुनः पप्रच्छ तीर्थस्य किंनामादि च लोमशम् ।। १ ।।
अश्वपाटल उवाच-
गुरो तीर्थमिदं ख्यातं किंनाम्ना च कदाऽभवत् ।
तत्सर्वं मे तु संक्षेपाद् ब्रूहि किं फलमस्य च ।। २ ।।
श्रीलोमश उवाच-
शृणु राजन् प्रवक्ष्यामि तीर्थं परमपावनम् ।
लक्ष्मीतीर्थं तथा नारायणतीर्थमिदं नृप ।। ३ ।।
पुरा राजा ह्यभयाक्षोऽभवत् पांचालभूपतिः ।
धर्मकर्मसमाचारो दानभक्तियुतो हरौ ।। ४ ।।
यस्य गेहेऽतिथयश्च साधवो दीनदेहिनः ।
भुंजते शतशो नित्यं तृप्तिमायान्ति शाश्वतीम् ।। ५ ।।
यत्र नारायणः साक्षात् साधुरूपेण राजते ।
अज्ञेयः सर्वलोकानां विप्रसंसेवितः प्रभुः ।। ६ ।।
लक्ष्मीः राधा तथा साध्वीरूपेण च विराजते ।
देवा देव्यो विजानन्ति न च जानन्ति मानवाः ।।७ ।।
दिव्याक्षा ये मुनयश्च ते जानन्ति न चेतरे ।
राजा नित्यं सेवते श्रीप्रभुं श्रीपुरुषोत्तमम् ।। ८ ।।
नारायणं भजते च चतुर्भुजं श्रियः पतिम् ।
कथां शृणोति सततं साधुविप्राननात् स च ।। ९ ।।
कुटुम्बसहितो राजा त्वात्मज्ञानपरोऽभवत् ।
साधुसेवापरश्चापि प्रजारक्षापरायणः ।। 2.269.१० ।।
नाऽस्य प्रजायां चाऽधर्मो न स्तैन्यं नापि हिंसनम् ।
शौचं प्रजाः पालयन्ति सन्तुष्टा निजवस्तुषु ।। ११ ।।
विप्रास्तु तापसास्तस्य भुंजते भोजनानि वै ।
वेदघोषपरा नित्यं षट्कर्मादिपरायणाः ।। १ २।।
यज्ञयागपराश्चापि नारायणपरायणाः ।
ब्रह्मशीलपरा लोकाः कामं न बहु मन्वते ।। १ ३।।।
अर्थं चापेक्षितं ह्येवार्जयन्ति नाधिकं ततः ।
शेषं तु समयं सर्वे मोक्षार्थं कल्पयन्ति वै ।। १४।।
नाऽस्य राज्येऽस्ति विधवा ह्यपुत्रा चाऽप्यपत्यकः ।
अपत्नीको गृहस्थो न धनधान्ययुताः प्रजाः ।। १५।।
प्रातः सर्वत्र नगरे कृष्णकृष्णस्वनाः शुभाः ।
मांगलिकाश्च जायन्ते श्रूयन्ते कीर्तनानि च ।। १६।।
नाऽस्नातो विद्यते कश्चिन् नाऽपूजो विद्यते तथा ।
मानवानां ललाटेषु तिलकं चन्द्रकान्वितम् ।। १७।।
दृश्यते चान्दनं चोर्ध्वे स्मारकं श्रीहरेः शुभम् ।
कण्ठे सर्वप्रजानां वै दृश्यन्ते तौलसीस्रजः ।। १८।।
करेऽपि तौलसीमाला जपकार्यप्रबोधिनी ।
जिह्वायां श्रीहरेर्नाम नमस्कारेऽपि वै हरिः ।। १ ९।।
दाने परोपकारेऽपि श्रीहरिं स्मर्यते जनैः ।
कन्यकाश्च कुमाराश्च विद्याभ्यासपराश्च ये ।। 2.269.२० ।।
शालायां प्रथमं कृत्वा कीर्तनं श्रीहरेस्ततः ।
अभ्यस्यन्ति पाठयन्ति चोपाध्याया हरिश्रिताः ।।२१ ।।
न्यायालयेऽपि सततं श्रूयतेऽग्रेऽवसानके ।
हरेराम हरेकृष्ण नारायण नमोऽस्त्विति ।।२२।।
नदीतीरे गृहे क्षेत्रे वाटिकासु वनेऽपि च ।
कर्षुकाः शिल्पिनः काष्ठहारास्तृणादिनिन्दकाः ।। २३।।
सर्वे कृष्णपराः कृष्णं स्मृत्वा कुर्वन्ति वै श्रमम् ।
आन्धसिका हरेर्भक्ताः स्थाले कृत्वा तु पाचितम् ।।२४।।
अन्नं सर्वविधं चापि फलमूलजलादिकम् ।
समर्प्य हरये पश्चाद् भोजयन्ति गृहेश्वरान् ।।२५।।।
देवार्पणं प्रकृत्वैव भुंजते च पिबन्ति च ।
आपणस्थाः श्रेष्ठिवर्या गणेशार्चनमित्यपि ।।२६ ।।
कृत्वा घृतप्रदीपं च ततः श्रीकृष्णपूजनम् ।
व्यापारयन्ति दिवसे रात्रौ भजन्ति माधवम् ।। २७।।
पशुपाला हरिं नत्वा गां सम्पूज्य च मन्दिरम् ।
श्रीकृष्णस्य वीक्ष्य पश्चात् कृत्वा कृष्णस्य दर्शनम् ।।।२८।।
यान्त्यरण्यभूभागान् हरिस्मृतिपरायणाः ।
काष्ठहाराः कृष्णकृष्ण भजन्तो यान्ति वै पथि ।। २९।।
रजका वस्त्रसम्पुटक्षालने रामनाम वै ।
कृष्णनारायणेत्युक्त्वा क्षालयन्ति जलाशये ।।2.269.३ ०।।
शुकाद्याः पक्षिणश्चापि वक्षन्ति श्रीनरायण ।
रंभंते पशवश्चाप्योंकारमिश्रं हि वैष्णवाः ।। ३१ ।।
तौर्यत्रिका वादयन्ति कृष्णकीर्तनगीतिकाः ।
कवयश्चारणाद्याश्च कृष्णप्रबन्धकारिणः ।।३२।।
अभयाक्षं स्वकं नाम विवृत्त्य भूभुजा स्वयम् ।
अधोक्षजं हरेर्नाम ख्यापितं चोपनाम तत् ।। ३३ ।।
प्रजानां चापि नामानि परेशार्थयुतानि च ।
कारितामीति राष्ट्रं सद् वैष्णवं संव्यजायत ।।३४।।
एवंविधोऽभयभक्तो विचार्य नश्वरं गृहम् ।
धनं राज्यं च सम्पच्च गत्वरं च वपुर्निजम् ।। ३५।।
वैराग्यावेशतश्चायमश्वपट्टसरो ययौ ।
प्रजा विप्रास्तथा वृद्धास्तं राजानं समन्वयुः ।।३६।।
मार्गे कीर्तनभक्त्यैव समायातान् विलोक्य तान् ।
मार्गग्रामागता लोकाः कौतूहलसमन्विताः ।।३७।।
सह चाश्वसरस्तीर्थं प्रत्याययुः समुत्सुकाः ।
उत्तरे सरसस्तीरे वासं चक्रुर्द्रुमालये ।। ३८।।
कृत्वा तीर्थानि सर्वाणि लोमशस्याश्रमं ययुः ।
ततोऽनादिकृष्णनारायणप्रासादमाययुः ।। ३९।।
पुपूजुः परया प्रीत्या श्रीमत्कृष्णनरायणम् ।
मातरं पितरं नत्वा दृष्ट्वा कुंकुमवापिकाम् ।।2.269.४०।।
कुंकुमवापिकावारि पीत्वा श्रीपूजनं तथा ।
विधाय दत्वा दानानि ययुः सरस्तटे पुनः ।।४१ ।।
अधोक्षजः स राजाऽत्र स्थले चेयेष वै क्रतुम् ।
कर्तुं नारायणं सम्प्रसादयितुं महेज्यया ।।४२।।
लोमशं संप्रार्थयच्च यज्ञार्थं स ह्यधोक्षजः ।
लक्षसौवर्णमुद्राभिर्यज्ञं चकार वैष्णवम् ।।४३ ।।
देवानतर्पयद्धव्यैः पितॄन् श्राद्धैः सतोऽन्नकैः ।
जनान् दानैस्तथा चात्मार्पणैः साधून् सुरेश्वरान् ।।४४।।
पूर्णाहुतौ स्वयं कृष्णो नारायणश्चतुर्भुजः ।
शंखचक्रगदापद्मधरो वह्नावदृश्यत ।।४५।।
भुञ्जन् हव्यानि सर्वाणि लक्ष्म्या समन्वितः प्रभुः ।
रमानन्दसुनन्दादिसेवितो गरुडान्वितः ।।४६।।
प्रसन्नवदनः श्यामो युवा कोट्यर्कभास्वरः ।
विप्राश्चान्ये जनाः सर्वेऽभवन्नाश्चर्यसंभृताः ।।४७।।
अहो राज्ञः सुभक्तिश्च स्नेहो नारायणस्य च ।
लक्ष्मीनारायणः साक्षाद् भुंक्ते हव्यं नृपाऽर्पितम् ।।४८।।
राजानं भगवानाह मन्दिरं चात्र कारय ।
लक्ष्म्या साकं निवत्स्येऽहं प्रतिष्ठापय मां नृप ।।४९।।
साधुदीक्षां गृहीत्वैव त्वं मे पूजां विधेहि च ।
स्थास्ये वशे च ते राजन् साधोऽधोक्षज मां भज ।।2.269.५०।।
इत्युक्त्वा च प्रभुक्त्वा च हव्यानि भगवाँस्ततः ।
तिरोभवत् ततो राजाऽधोक्षजो भूसुरादिके ।।५१ ।।
दक्षिणा वितरय्यैव भोजयित्वा समस्तकान् ।
स्वतःप्रकाशऋषितस्त्यागिदीक्षां समग्रहीत्। ।।५२।।
उपवासं चकाराऽसौ देहशुद्धिं चकार च ।
मुण्डनं कारयामास स्नात्वा चक्रेऽनले हवम् ।।५३ ।।
नारायणं पुपूजाऽपि सर्वतोभद्रमण्डले ।
गोदानं पृथिवीदानं स्वर्णदानादिकं ददौ ।।५४।।
लक्ष्मीनारायणस्याऽपि मन्दिरस्य निमित्तकम् ।
लक्षं सुवर्णमुद्राणां दानं च गुरवे ददौ ।।५५।।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।
'शरणं श्रीकृष्णनारायणोऽस्तु मम सर्वदा' ।।५६।।
'कालमायापापकर्मशत्रुयाम्यकुहृद्भयात् ।
शूलमीनध्वजधनुश्चक्रस्वस्तिकवानव' ।। ५७ ।।
'ब्रह्माऽहं श्रीकृष्णनारायणभक्तोऽस्मि शाश्वत ।
अनादिश्रीकृष्णनारायणः स्वामी पतिश्च मे' ।।।५८।।
'बालकृष्णः परब्रह्म मम वै शाश्वतः पतिः ।
पिता बन्धुः सुहृन् मित्रं रक्षकः पालकोऽस्तु सः' ।।५९।।
'श्रीकृष्णवल्लभोनाथः श्रीस्वामी शरणं मम ।
कृष्णवल्लभभक्तोऽहं श्रीहरिः शरणं मम' ।।2.269.६०।।
'श्रीकृष्णवल्लभस्वामी श्रीहरिः शरणं मम' ।
इतिमन्त्रान् स जग्राह स्वतःप्राकाशसद्गुरोः ।।६ १ ।।
ततः काषायाम्बराणि धारयामास सद्व्रती ।
यज्ञोपवीतकं कण्ठीं तौलसीं च स्रजं करे ।
तिलकं चान्दनं चोर्ध्वपुण्ड्रं चक्रादिमुद्रिकाः ।।६२।।
पूजार्थं कानकीं कार्ष्णनारायणीं रमायुताम् ।
प्रतिमां चापि जग्राह गुरुपूजां चकार च ।।६३ ।।
अधोऽक्षजप्रकाशेति नाम नैजं ररक्ष वै ।
दीक्षांगं विधिवद्वैधं समाप्य सरसस्तटे ।।६४।।
पर्णकुट्यां सदावासं चक्रे त्वत्र मखस्थले ।
जजाप परया भक्त्या श्रीशं कृष्णनरायणम् ।।६५।।
कारयामास सुभगं लक्ष्मीनारायणालयम् ।
लक्ष्मीं नारायणं प्रतिष्ठापयामास मन्दिरे ।।६६।।
तदिदं मन्दिरं राजन् राजते श्रीहरिश्रितम् ।
कुरु वै दर्शनं तत्र श्रियो हरेश्च वै ततः ।।६७।।
दानानि देहि राजेन्द्र स्नानं चात्र समाचार ।
एतत्तीर्थं महातीर्थं सर्वयज्ञफलप्रदम् ।।६८।।
यज्ञतीर्थं साधुतीर्थं लक्ष्मीतीर्थं तथा मतम् ।
अधोक्षजाख्यतीर्थं च नारायणाख्यतीर्थकम् ।।६९।।
दीक्षातीर्थं तथा ख्यातं पावनं त्वेतदेव यत् ।
मार्गशीर्षे केशवं च प्रपूज्य विधिनाऽत्र वै ।।2.269.७०।।
मार्गशीर्षे स्नानदानादश्वमेधफलं लभेत् ।
पौषे स्नानाच्च दानाच्च श्रिया युक्तं नरायणम् ।।७१।।
प्रपूज्य लभते पुण्यं वाजपेयमखोत्थितम् ।
माघमासे स्नानदानान्माधवं सम्प्रपूज्य च ।।७२।।
तीर्थकृल्लभते चात्र राजसूयफलं परम् ।
फाल्गुने स्नानदानाच्च गोविन्दं सम्प्रपूज्य च ।।७३।।
अतिरात्राख्ययज्ञोत्थं फलं लभेद्धि तीर्थकृत् ।
चैत्रे स्नानात्तथा दानादत्र विष्णुं प्रपूज्य च ।।७४।।
पुण्डरीकफलं तीर्थकर्ता प्रयाति पावनम् ।
वैशाखे स्नानदानाच्च प्रपूज्य मधूसूदनम् ।।७५।।
अग्निष्टोमफलं राजन् लभतेऽत्र स तीर्थकृत् ।
ज्येष्ठे स्नानात्तथा दानात् त्रिविक्रमं प्रपूज्य च ।।७६।।
लभते तीर्थकृच्चात्र गवायनक्रतोः फलम् ।
आषाढे स्नानदानाच्च वामनं सम्प्रपूज्य च ।।७७।।
लभते तीर्थकृच्चात्र फलं वै सोमयागजम् ।
श्रावणे स्नानदानाच्च श्रीधरं सम्प्रपूज्य च ।।७८।।
लभते तीर्थकृच्चात्र विश्वजित्क्रतुजं फलम् ।
भाद्रे स्नानात्तथा दानात् हृषीकेशं प्रपूज्य च ।।७९।।
लभते तीर्थकृच्चात्र फलं सौत्रामणिक्रतोः ।
आश्विने स्नानदानाभ्यां पद्मनाभं प्रपूज्य च ।।2.269.८०।।
तीर्थकृल्लभते पुण्यं विविधं सोमयोगजम् ।
कार्तिके स्नानदानाभ्यां दामोदरं प्रपूज्य च ।।८१।।
लभतेऽत्र तीर्थशायी विष्णुयागोद्भवं फलम् ।
अधिमासे स्नानदानात् प्रपूज्य पुरुषोत्तमम् ।।८२।।
तीर्थकृल्लभते सर्वमेधयज्ञफलं परम् ।
यत्र क्वचिद्दिने त्वत्र स्नानाद् दानाजपादिभिः ।।८३ ।।
तीर्थकृल्लभते राजन् सर्वयज्ञफलानि वै ।
शिवरात्र्यां स्नानदानान्महारुद्रफलं भवेत् ।।८४।।
इत्येतत्पावनं क्षेत्रं लक्ष्मीनारायणोदितम् ।
कुरु स्नानं तथा पूजां लक्ष्मीनारायणस्य वै ।।८५।।
सर्वान् भगवतो ध्यात्वा सर्वपुण्यान्यवाप्नुहि ।
इत्युक्तो राधिके! राजा त्वश्वपाटल एव ह ।।८६।।
सकुटुम्बो जले सस्नौ पुपूज मन्दिरे हरिम् ।
श्रिया युक्तं षोडशोपचारैर्नीराजनादिभिः ।।८७।।
तावत्तस्य श्रीहरौ वै प्रतिमायां चतुर्दश ।
केशवाद्या भगवन्तो ह्यदृश्यन्त यथोदिताः ।।८८।।
क्षणं स्वदर्शनं दत्वाऽनादिकृष्णनरायणे ।
लीनाः सर्वेऽवतारास्ते स चाऽप्यन्तरधीयत ।।८९।।
अश्वपाटलनृपतिर्महाश्चर्यं जगाम ह ।
कृतकृत्यं निजं मेनेऽधोक्षजे तीर्थके तदा ।।2.269.९०।।
अश्वपाटल उवाच-
लोमशाऽत्र मम जातं दर्शनं केशवादिजम् ।
कृतकृत्यो भवाम्येव किं तीर्थैर्दानविस्तरैः ।।९ १ ।।
श्रीलोमश उवाच-
राजँस्तीर्थबलेनैतज्जातं सर्वं विभावय ।
अतीर्थस्य बलं नास्ति नास्ति पुण्यं पवित्रता ।। ९२।।
नास्ति नैर्मल्यभावश्च नास्ति कृष्णप्रसन्नता ।
नास्ति भक्तिरतीर्थस्य नास्ति मोक्षो दिवं च वा ।। ९३।।
जंगमं वा स्थावरं वा तीर्थं कल्मषनाशनम् ।
कल्मषाणां विनाशोर्ध्वे तीर्थी प्राप्नोति योग्यताम् ।।९४।।
योग्यतायां सुसत्यां वै हृदि ब्रह्म प्रकाशते ।
ब्रह्मरूपस्य भक्तस्य स्नेहस्तत्र प्रजायते ।। ९५।।
परब्रह्मनिकटत्वं जायतेऽस्य निसर्गजम् ।
ततो भवति दुर्लभ्यं दर्शनं सुलभं हरेः ।।९६।।
एवं दर्शनमाप्तस्य लोकसंग्रहहेतवे ।
कर्तव्यतया तीर्थानि विहितान्येव सर्वदा ।।९७।।
तस्मात् तीर्थानि दानानि कर्तव्यानि कृपाजुषा ।
मुक्तः सिद्धश्च वा देवो दिव्यो वा ब्रह्मरूपधृक् ।। ९८।।
यद्यदाचरते मोक्षप्रदं स्वर्गप्रदं च वा ।
पुण्यकृत् तत्समालम्ब्याऽऽचरते त्वपरो जनः ।।९९।।
तेन मुक्तिर्भवेदेवाऽभयदानं भवेदपि ।
कर्मणा मनसा वाचा भावेन तीर्थमाचरेत् ।। 2.269.१० ०।।
इत्युक्त्वा लोमशस्तं वै चाश्वपाटलभूपतिम् ।
अग्रे तीर्थान्तरं निन्ये विष्णुमन्दिरमुत्तमम् ।। १०१ ।।
राधिके यत्र वै विष्णोः श्वेता मूर्तिः सनातनी ।
राजते कमलायुक्ता गरुडेन प्रशोभिता ।। १ ०२।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्तानेऽभयाक्षनृपतेर्भक्तिर्वैराग्यं मखश्चाश्वपट्टसरस्तीरे त्यागिदीक्षाग्रहणं लक्ष्मीनारायणादिदर्शनं मन्दिरनिर्माणं लक्ष्मीतीर्थं नारायणतीर्थं चेत्यादिनिरूपणनामा नवषष्ट्यधिकद्विशततमोऽध्यायः ।। २६९ ।।