लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः २६८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २६७ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः २६८
[[लेखकः :|]]
अध्यायः २६९ →

श्रीकृष्ण उवाच-
शृणु ततश्च वै तीर्थं गत्वा साधुसमाश्रितम् ।
पप्रच्छ लोमशं राधे चाश्वपाटलभूपतिः ।। १ ।।
अश्वपाटल उवाच-
किमिदं साधुभिर्व्याप्तं तीर्थं परमपावनम् ।
स्थावरं जंगमं चापि गुरो तीर्थद्वयं वद ।। २ ।।
श्रीलोमश उवाच-
अमोहाक्षोऽभवद् राजा हिमाचलस्य सन्निधौ ।
प्रबोधाख्यं गुरुं प्राप्य तोषयामास सेवया ।। ३ ।।
गुरुस्तस्मै ददौ नैजे रूपे श्रीहरिदर्शनम् ।
चतुर्भुजं शंखचक्रगदापद्मादिराजितम् ।। ४ ।।
पुनर्गुरुस्वरूपश्चाऽभवत् तत्र क्षणान्तरे ।
अमोहाख्यो विस्मितश्च संशिश्ये श्रीपतिं प्रति ।। ५ ।।
गुरुश्चायं मानवोऽस्ति दृश्यते च चतुर्भुजः ।
मन्ये नारायणं त्वेनं मिलितं मम भाग्यतः ।। ६ ।।
तस्मादेनं भजाम्येव सेवे त्वेनं समस्ततः ।
ध्यात्वा सम्पूज्य वै भक्त्या परं श्रेयो व्रजामि च ।। ७ ।।
इत्येवं हृदये कृत्वा निश्चयं च प्रबोधकम् ।
सेवते परया भक्त्या राजा गुरुं जनार्दनम् ।। ८ ।।
राज्ञी पुत्राः प्रजाः पुत्र्यः सेवन्ते स्म गुरुं हरिम् ।
अन्नजलप्रदानेन पादसंवाहनादिभिः ।। ९ ।।
वचसां पालनेनापि वस्त्रक्षालनकादिभिः ।
शयनासनदानैश्च पत्रफलदलार्पणैः ।। 2.268.१ ०।।
चन्दनाऽक्षततैलैश्च सुगन्धिहारभूषणैः ।
राजभोगैः सदा राजकुटुम्बं वै समस्तकम् ।। ११ ।।
सेवते स्म प्रभुं मत्वा गुरुं हरिमतन्द्रितम् ।
भजते स्म प्रबोधेति नाम्नां संकीर्तनेन च ।। १२।।
गुरुर्विचारयामास बन्धनं समुपस्थितम् ।
राजभोगा बन्धनानि जायन्ते निरयाय वै ।। १३।।
तस्माद्भोगाः परिहार्या दूरतो मुक्तिरोधिनः ।
प्रबोधं मायिकं पराभावयितुं न चार्हति ।। १४।।
इत्येवं निश्चयं कृत्वा प्रबोधो वै शनैः शनैः ।
उपदेशैर्नियमैश्च भोगत्यागं चकार ह ।। १५।।
अमोहाक्षाय च प्राह धर्मवार्तां शुभावहाम् ।
राजन् राज्ञां पृथग्धर्मो धर्मश्चान्यस्तपस्विनाम् ।। १६।।
अहं साधुः प्रबोधोऽस्मि न भोगो मम युज्यते ।
गृहस्थानां भूषणानि साधूनां दूषणानि वै ।। १७।।
गृहस्थानां दूषणानि साधूनां भूषणानि वै ।
साधुधर्मः क्षमा प्रोक्ता राजधर्मो हि शासनम् ।। १८।।
साधुधर्मस्त्रिषवणं राजधर्मो ह्यवभृथम् ।
साधुधर्मः शीलरक्षा गृहिधर्मः स्त्रीयोगिता ।। १ ९।।
साधुधर्मश्चावमानं गृहिधर्मो हि माननम् ।
साधुर्भिक्षाजीवनश्च गृही भुजार्जितादनः ।।2.268.२०।।
साधुर्जीर्णाम्बरश्चापि गृही स्वर्णाम्बरादिमान् ।
साधुर्विहारशीलश्च गृही चैकत्र सौधवान् ।।२१ ।।
साधुः स्नेहविहीनश्च गृही कुटुम्बवासनः ।
साधुश्चात्मपरो नित्यं गृही गृह्यपरस्तथा ।।२२।।
साधुश्चाप्यनिकेतश्च गृही सम्बन्धिकेतनः ।
मिताहारः सदा साधुर्गृही पुष्ट्यदनः सदा ।।२३।।
द्वन्द्वहीनः सदा साधुर्गृही द्वन्द्वसमन्वितः ।
निराशश्च सदा साधुर्गृही त्वाशाभिरावृतः ।।२४।।
मोक्षदः साधुधर्मश्च गृहधर्मो हि नाकदः ।
इत्येवं धर्ममार्गेषु पार्थक्यं विद्यते हि नौ ।।२५।।
अथ ज्ञानेऽपि वै राजन् शृणु पार्थक्यमत्र नौ ।
मम पुत्रो मम पत्नी मम द्रव्यं गजादिकम् ।।२६।।।
मम क्षेत्रं मम राज्यं गृहस्थस्य विभाति हि ।
न मे पुत्रो न मे पत्नी न मे द्रव्यं गजादिकम् ।। २७।।
न मे क्षेत्रं कुतो राज्यं साधुलोकस्य भाति ह ।
मम सम्बन्धिनश्चेमे कुटुम्बिनस्तथा मम ।।२८।।
मम भृत्या मे प्रजाश्च गृहस्थस्य विभाति ह ।
न मे सम्बन्धिनश्चापि न मे कुटुम्बिनस्तथा ।। २९।।
न मे भृत्याः कुतः प्रजाः साधुलोकस्य भाति ह ।
मम देहो मम रूपं ममाऽऽज्ञा च बलं मम ।।2.268.३ ०।।
मम सत्ता मम सर्वं गृहस्थस्य विभाति ह ।
न मे देहो न मे रूपं न चाऽऽज्ञा मे बलं न मे ।।३ १ ।।
न मे सत्ता कुतः सर्वं साधुलोकस्य भाति ह ।
मम पुष्टिर्मम रोगो मे मिष्टं मम शीतलम् ।।३२।।
मम दुःखं मम गर्वो गृहस्थस्य विभाति ह ।
न मे पुष्टिर्न मे रोगो मिष्टं शैत्यं न मे न मे ।।३३।।
न मे दुःखं न मे गर्वः साधुलोकस्य भाति ह ।
अहं वृक्णो ह्यहं स्थूलः कुष्ठ्यहं खञ्जकोऽस्म्यहम् ।।३४।।
अहं बुद्धो जडश्चाऽहं गृहस्थस्य विभाति ह ।
नाऽहं वृक्णो न च स्थूलो न कुष्ठी न च खञ्जकः ।।३५।।
न वा बुद्धो जडो नैव साधुलोकस्य भाति ह ।
मम जन्म मम मृत्युर्मम स्वर्गं भवेदिति ।।३६।।
मम पूजा मम कीर्तिर्गृहस्थस्य विभाति वै ।
न मे जन्म न मे मृत्युर्न मे स्वर्गं न बन्धनम् ।।३७।।
न मे पूजा न मे कीर्तिः साधुलोकस्य भाति ह ।
तव ग्रामस्तव वाटी तवोद्यानं तव क्षितिः ।।३८ ।।
तवेदं च ममेदं च गृहस्थस्य विभाति ह ।
न ते ग्रामो न ते वाटी ते नोद्यानं न ते क्षितिः ।।३९।।
तवेदं न ममेदं न साधुलोकस्य भाति हि ।
एवं ज्ञानेऽपि पार्थक्यं वैराग्ये शृणु पार्थिव ।।2.268.४० ।।
कमनीया मम भार्या कमनीयं गृहं मम ।
कमनीयश्च मे देहो गृहस्थस्य हि रक्तता ।।४१ ।।
न मे भार्या गृहं देहः कुतश्च कमनीयता ।
प्रत्युत क्लेदमिश्रास्ते कल्मषाश्च जुगुप्सिताः ।।४२।।
इत्येवं साधुलोकस्य स्वभावाद् रागहीनता ।
अहो द्रव्यमहो भोगा अहो तत्साधनानि च ।।४३ ।।
अहोऽहं च मदर्थं यद् गृहस्थस्य तु विस्मयः ।
किंस्विद् द्रव्यं च के भोगाः कानिस्वित् साधनानि च ।।४४।।
कोऽहंकारो ममकारः साधोर्नैवाऽस्ति विस्मयः ।
उत्सवोऽद्य विवाहोऽद्य नृत्यमद्य च गायनम् ।।४५।।
रङ्गोऽद्य नाटकं चाऽद्य गृहस्थस्य तु विभ्रमः ।
आत्मोत्सवो मोक्षवाहो नृत्यगीती हरौ सदा ।।४६।।
रङ्गनाट्ये परेशार्थं साधोः कृष्णे समर्पणम् ।
इदं द्यूतमिदं लब्धं जितं ग्रस्तं निजीकृतम् ।। ४७।।
दत्तं चापि गृहीतं च गृहस्थस्य सरागता ।
आत्मद्युतं ब्रह्मलब्धं जितं मनः स्थिरीकृतम् ।।४८।।
अदत्तमगृहीतं च साधोः रागविहीनता ।
सुखानुशयिता नित्यं तृष्णातन्त्वनुपातिता ।।४९।।
गृध्नभावानुयायित्वं गृहस्थस्य सरागता ।
आत्मानुशयिता नित्यं ब्रह्मसूत्रानुपातिता ।।2.268.५० ।।
साधुभावानुयायित्वं साधोर्विरागता सदा ।
एवं वैराग्यपार्थक्यं भक्तौ चापि निशामय ।।५१ ।।
गृहस्थस्य गृहे भक्तिः साधोर्भक्तिस्तु माधवे ।
गृहस्थस्य रतौ भक्तिः साधोस्तु विरतौ हि सा ।।५२।।
स्वार्थे च गृहिणो भक्तिः साधोर्भक्तिः परार्थके ।
गृहस्थस्यैहिके भक्तिः साधोः सा परमार्थिका ।।५३ ।।
गृहस्थस्य स्थितौ भक्तिः साधोर्भक्तिः परस्थितौ ।
गृहस्थस्य रसे भक्तिः साधोः सर्वरसात्मनि ।।५४।।
गृहस्थस्य भ्रमे भक्तिः साधोर्भक्तिर्भ्रमातिगे ।
गृहस्थस्य ऋतौ भक्तिः साधोर्भक्तिः ऋते हरौ ।।५५।।
भक्तिः साधोरनावर्त्ते ह्यावर्ते गृहिणस्तु सा ।
भक्तिर्गर्भे गृहस्थस्य साधोर्भक्तिर्हिरण्मये ।।५६।।
गृहभक्ता गृहस्थाश्च साधवो ग्रहसेविनः ।
भक्तभक्ता गृहस्था वै साधवो नक्तभक्तकाः ।।५७।।
बहुभक्ता गृहस्थाश्च साधवश्चैकभक्तकाः ।
सभक्ता वै गृहस्थाश्च निर्भक्ताः साधवः सदा ।।५८।।
सर्वभक्ता गृहस्थाश्च ह्यभक्ताः साधवः खलु ।
एवं राजन् भक्तिमार्गे पार्थक्यं गृहिणां सताम् ।।५ ९।।
गतौ चापि साहचर्यं भवत्येव नहि क्वचित् ।
गृहस्थस्य गतिर्निम्ना साधोर्गतिः सदोर्ध्विका ।।2.268.६ ० ।।
गृही त्वारामगतिकः साधुः रामगतिः सदा ।
गृहस्थो रक्तगतिमान् साधुः शुक्लगतिः सदा ।।६ १ ।।
गृहस्थो द्वन्द्वगतिकः साधुर्द्वन्द्वाऽगतिस्तथा ।
गृहगतिर्गृहस्थश्च साधुर्ग्रहगतिः सदा ।।६२।।
कर्मगतिर्गृहस्थस्य साधोर्ब्रह्मगतिस्तथा ।
आत्मगतिर्गृहस्थस्य साधोश्चात्माऽऽत्मसद्गतिः ।।६३ ।।
साधोर्गतिर्भगवति गृहस्थस्य भगे गतिः ।
एवं राजन् गतेश्चापि पार्थक्यं गृहिणां सताम् ।।६४।।
वद् त्वया समं मेऽत्र कथं स्यात् सहयोजनम् ।
रागाऽरागौ सहनस्तस्तेजस्तमसी नैव च ।।६५।।
बन्धमोक्षौ सहयोगौ न स्तो न स्तः कदाचन ।
तस्माद् वासं वने साधुसम्मतं समरोचये ।।६६।।
पश्य राजन् शरीरं वै कललं कललोद्भवम् ।
अपानस्य प्रदेशेन धातुद्वारा प्रजायते ।।६७।।
अपानस्य स्थले गर्भे पच्यते कललैः सदा ।
पुष्टिमेति बहिर्याति पयसा रन्धितान्नकैः ।।६८।।
सर्वं कललसंव्याप्तं निधानं कललस्य वै ।
कललं च मलं वापि सलिलं तत्र वर्तते ।।६९।।
भौतिकं चापि दुर्गन्धं त्वापादनखमस्ति यत् ।
मलात्मकं निधानं च मलस्यैव विलोक्यते ।।2.268.७०।।
सुगन्धाढ्यं प्रभुक्तं च पीतं गलादधोगतम् ।
दुर्गन्धं जायते शीघ्रं मलं कृत्वा प्ररक्षति ।।७१ ।।
सुगन्धो गन्धसारश्च घ्राणेन यः प्रपूरितः ।
कोष्ठले स तु दुर्गन्धो भूत्वा बहिः प्रयाति च ।।७२।।
नवद्वारेषु सर्वत्र दुर्गन्धानि मलानि वै ।
क्षरन्त्येव हि सर्वेषां नारकं कुण्डमेव यत् ।।७३।।
पश्य स्वांगजुगुप्सां च मा संसर्गं परैः कुरु ।
जलान्नग्रहणे योग्यं कललक्लेदविकृतौ ।।७४।।
मलमूत्रसर्जने च का तत्र शुभवासना ।
अशुभं शुभमाविद्य रमते निगडे यथा ।।७५।।
भुक्तविकाररूपाद् वै लालात्मसलिलात् खलु ।
भूतेजोवायुसम्मिश्राज्जायते कललोद्भवः ।।७६।।
तस्माद् देहस्ततस्तत्रेन्द्रियाणि गोलकादयः ।
तन्मात्राद्यास्तथा तेषां सञ्चालिका प्रशक्तयः ।।७७।।
ग्राह्यग्राहकभावाश्च तस्मादेव भवन्ति वै ।
तत्र को नाम संविद्वान् प्रमोदं लभतेऽवशः ।।७८।।
क्षणे क्षणेऽन्यरूपाणि दृश्यन्तेऽतर्कितानि वै ।
कुत्रक्षणेऽयं संघातो विघातं संप्रयास्यति ।।७९।।
अब्भ्रवद् धूम्रवद्वा च धूलीपटलवत्तथा ।
ज्ञात्वैवं देहपटलं ज्ञो न विश्वासमाप्नुयात् ।।2.268.८०।।
शून्यं क्षणान्तरे त्वेतत्प्राणस्य विगमे भवेत् ।
दुःखं चालोक्यते साक्षाद् यतः स्वलक्षणं हि तत् ।।८१ ।।
शरीरं चेदृशं तस्य सम्बन्धिषु तु का कथा ।
तस्माद् राजन्निवत्स्येऽहं त्वात्मन्यरण्यसंज्ञके ।।८२।।
अनरण्ये परमेशे वासं लप्स्ये ततः परम् ।
मदुक्तं यदि मिष्टं ते तं सुमार्गं प्रसाधय ।।८३ ।।
एष यामि वियोगस्य मा शोकं वर विज्ञक ।
गुरौ देहो यथोक्तश्च सदा चेत्तादृशोऽस्ति वै ।।८४।।
अरण्येऽपि तथैवास्ते तत्संगस्तु भयावहः ।
तत्संगे चेदरण्येऽपि वासस्ते संभविष्यति ।।८५ ।।
समद्रष्टुश्च तेऽरण्यं गृहं मेऽपि समं यतः ।
वासं त्वत्रैव सततं विधेहि याहि मा प्रभो ।।८६ ।।
प्रबुद्ध उवाच-
सत्यं राजन् त्वदुक्तं वै मयोक्तं चापि तत्तथा ।
अविघ्ने भवने गत्वा मोक्षं यास्यामि दुर्लभम् ।।८७।।
बहुविघ्नमयं राजन् भवनं ते विलोक्यते ।
स्वल्पविघ्नमरण्यं वै यतिष्ये च यथाबलम् ।।८८।।
आत्मवित्तिं प्राप्य प्रवेक्ष्यामि वै ब्रह्मवित्तिके ।
ब्रह्मवित्त्या परब्रह्म साधयिष्यामि शाश्वतम् ।।८९।।
अमोहाक्ष उवाच-
पूर्णब्रह्मस्वरूपस्य दर्शनं मे कथं भवेत् ।
गुरो त्वं मे प्रदेह्यत्र पूर्णब्रह्मप्रदर्शनम् ।।2.268.९०।।
प्रबुद्ध उवाच--
कर्मकषायदाहेन पूर्णं ब्रह्म प्रकाशते ।
राजन्नाऽहं तथा युक्तः कर्मजालसमावृतः ।।९ १।।
अमोहाक्ष उवाच-
देहस्याऽस्य न विश्वासः क्षणान्तेऽयं विनश्यति ।
गुरोः सकाशाल्लाभो न परब्रह्मप्रगोचरः ।। ९२।।
तदा शिष्येण तु कदा क्व स लाभो ह्यवाप्स्यते ।
त्वं प्रदेहि गुरो ज्ञानं चाऽपरोक्षं परात्मनः ।। ९३ ।।
प्रबुद्ध उवाच-
नाहं तादृक् समर्थोऽस्मि सामर्थ्यं भजनाश्रयम् ।
मादृशा अवतारास्तु बुद्धा जाताः सहस्रशः ।।९४।।
भक्त्योपासनया यस्य परब्रह्मण एव ह ।
तदुपास्त्या भवान् राजन् तरिष्यति न संशयः ।।९५।।
यास्याम्यहं वने राजन् त्वं चेदिच्छसि सत्वरम् ।
ब्रह्मदर्शनमत्रैव विना साधनसम्पदम् ।।९६।।
कृपयाऽहं कथयामि देशे सुराष्ट्रसंज्ञके ।
अश्वपट्टसरःक्षेत्रेऽक्षरक्षेत्रे शुभावहे ।। ९७।।
कुंकुमवापिकातीर्थे प्रत्यक्षो भगवान् स्वयम् ।
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।। ९८।।
विराजते परब्रह्म धृतमानुषविग्रहः ।
याहि शीघ्रं च तं देशं परब्रह्म मिलिष्यति ।।९९।।
प्रासादे मां गुरुं तत्र स्थापयित्वा ततः परम् ।
यास्यसि ब्रह्मलोकं च याहि शीघ्रं हि मा चिरम् ।। 2.268.१० ०।।
एष यास्यामि राजँस्ते स्वस्ति भवतु सर्वदा ।
इत्युक्त्वा नृपते बुद्धो निर्ययौ वनविस्तरम् ।। १० १।।
अमोहाक्षो द्रुतं सज्जो भूत्वा समाजगाम ह ।
क्षेत्रमेतत्समागत्याऽनादिकृष्णनरायणम् ।। १०२।
प्रत्यक्षं सन्ददर्शापि तीर्थेऽत्र न्यवसत्तथा ।
प्रबुद्धं स्थापयित्वाऽत्र ययौ मोक्षं परात्परम् ।। १ ०३।।
दिव्यविमानमारुह्याऽक्षरं धाम सनातनम् ।
तदिदं बुद्धतीर्थं वै तथा तीर्थममोहकम् ।। १ ०४।।
मोहनाशकरं पूर्णब्रह्मप्राप्तिकरं सदा ।
स्नाहि राजन् गुरुं ध्यात्वा दानान्यपि प्रदेहि च ।। १ ०५।।
इत्युक्तो राधिके राजा चाश्वपाटलकस्तदा ।
लोमशोक्तदिशा स्नानं दानं चकार शोभनम् ।। १ ०६।।
ययौ ततोऽयं सहसा तीर्थं चाऽपरमेव सः ।
पठनाच्छ्रवणाच्चास्य परब्रह्मगतिर्भवेत् ।। १ ०७।।
विवेको जायते चापि तथा ब्रह्मस्थितिर्भवेत् ।
भुक्तिर्मुक्तिर्भवेच्चापि स्वर्गं च शाश्वतं भवेत् ।। १ ०८।।
अत्र दानेन तपसा भजनेनाऽऽप्लवेन च ।
जलपानेन यज्ञस्याऽश्वमेधस्य फलं भवेत् ।। १ ०९।।
अपि पापिजनश्चात्राऽऽगत्य प्राणान् जहाति चेत् ।
प्रबुद्धश्चात्र संभूत्वा मोक्षपदं प्रयास्यति ।। 2.268.११ ०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने अमोहाक्षनृपतेः प्रबुद्धगुरोरुपदेशेन कुंकुमवापीक्षेत्राऽऽगमे साक्षात्परब्रह्मप्राप्तिः, बुद्धतीर्थं, मोक्षश्चेत्यादिनिरूपण-
नामाऽष्टषष्ट्यधिकद्विशततमोऽध्यायः ।। २६८ ।।