लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः २५१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २५० लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः २५१
[[लेखकः :|]]
अध्यायः २५२ →

श्रीकृष्ण उवाच-
राधिके च ततो राजा चाऽश्वपाटलको गुरुम् ।
पप्रच्छ लोमशं धर्मक्रतुं ब्रूहीह कीदृशम् ।। १ ।।
लोमशः प्राह राजन् यत् प्राणिनां द्रोहकृत् भवेत्। ।
तत्सर्वथा परित्याज्यं धर्मक्रतुः स एव सः ।। २ ।।
प्राणिनो दुःखिनः कृत्वा देवास्तुष्यन्ति नैव ह ।
सर्वे भवन्तु सुखिनो यथा देवास्तथाविधाः ।। ३ ।।
वर्तन्तेऽनुग्रहपरास्तस्मादद्रोहकः क्रतुः ।
अहिंसा वै धर्ममखो हिंसा यमगृहं मतम् ।। ४ ।।
अद्रोहः सर्वजन्तूनां. यज्ञः सतां स्वभावजः ।
स्नेहवृत्त्योपकारो वै धर्मयज्ञोऽस्ति भूतले ।। ५ ।।
अश्वपाटल उवाच-
आत्मा शुद्धोऽस्ति चेत् केन पापात्मा जायते हि सः ।
कथं धर्मभृदात्मा च कथं रागं प्रमुञ्चति ।। ६ ।।
कथं मुक्तिं प्रयात्येव कुत्र वासं करोति च ।
कीदृशं वर्तनं तत्र यस्मान्नावर्तते पुनः ।। ७ ।।
श्रीलोमश उवाच-
सच्चिदानन्दरूपोऽयं चात्मा मायाविवर्जितः ।
अहंममत्वहीनश्च संगात् तद्वान् भवत्यपि ।। ८ ।।
संगो मायाप्रसंगश्च सान्निध्यं चान्तरे सदा ।
तेनाऽऽकृष्टो भवत्येव पापात्मा दोषसंभृतः ।। ९ ।।
ज्ञानाभावे च मायायाः संगं वै लभते यतिः ।
ज्ञानेन संगदोषाश्च नश्यन्त्येव विवेकिनः ।। 2.251.१ ०।।
ज्ञात्वा ज्ञात्वा विषयाँस्तु चेच्छा तत्र प्रवर्तते ।
तदाप्त्यर्थं प्रवृत्तिश्च निवृत्तिर्वा प्रजायते ।। ११ ।।
रागः प्रवर्तकस्तत्रेष्टताज्ञानेन जायते ।
द्वेषो निवर्तकश्चाप्यनिष्टताबोधनाद् भवेत्। ।। १२।।
यदर्थं यतते तत्रारभते कर्म देहजम् ।
ऐन्द्रियिकं च वाऽभ्यासं तेन करोति देहभाक् ।। १ ३।।
रागाद्याः सुदृढास्तेन दोषा भवन्ति दुःखदाः ।
लोभो मोहः प्रजायेते धर्मस्थितिविनाशकौ ।। १४।।
व्याजेन जायते धर्मो व्याजतश्चरति वृषम् ।
वृषवद् रोचतेऽर्थ व्याजेनैव धनैस्ततः ।। १५।।
कुरुते देहवानज्ञः पापं परात्मदुःखकृत् ।
वर्धतेऽस्याऽधर्मसर्गश्चिन्तनात् कारणात्ततः ।। १६।।
एकशीला मिलित्वैव वर्धयन्ति च पापकम् ।
पापवृद्धावशान्तिश्चोद्वेजनं विघ्नदर्शनम् ।। १७।।
कलहो रोगयोगश्च धननाशो दरिद्रता ।
जननाशोऽवमानं चाऽयशश्चाऽगणना जने ।। १८।।
चौर्यं तेनाऽनृतवादः कापट्यं छलधर्मिता ।
प्रवर्तन्तेऽभयाः सर्वे पापात्मसु प्रकर्षतः ।। १ ९।।
न ते सुखिनश्चात्र कुत एव परत्र तु ।
पुनर्याम्यगतिश्चापि तिर्यग्योनिः पुनः पुनः ।।2.251.२० ।।
अथ धर्मभृतां मार्गं शृणु राजन् सुखप्रदम् ।
पूर्वपूर्वानुपुण्येन सार्थसंगेन वा जनः ।।२१ ।।
सत्संगेन सदा देही शुभं सर्वं प्रवाञ्च्छति ।
कुशलं प्रकरोत्येव सत्यं वदति नाऽनृतम् ।। २२।।
सत्यं विचिन्तयत्येब सत्यं करोति साधनम् ।
सत्येन वर्तते नित्यं रागं द्वेषं न विन्दति ।।२३ ।।
विज्ञवृत्त्या हितं स्वस्य परस्यापि करोति च ।
लोभं मोहं विहायैव प्रवर्तते शुभाय वै ।। २४।।
कुशलेनैव धर्मेण देहयात्रां करोति च ।
दानेन सेवया संकीर्तनेन भजनेन च ।। २५।।
यज्ञेन मालया देवपूजया तपसा तथा ।
सत्संगवृद्ध्या नित्यं च विन्दति धर्ममुत्तमम् ।। २६।।
वृद्धानां सेवया लोकसेवया वर्धते वृषः ।
दोषान् विज्ञाय सर्वान् स त्यजत्येव च दूरतः ।।२७।।
गुणान् विज्ञाय गृह्णाति गुणेषु रमते सदा ।
सत्संगसार्थमासाद्य वर्धयत्येव सद्वृषम् ।।२८।।
साधून् प्रसेवते नित्यं साधुधर्मान् प्रसेवते ।
साध्वाचाराऽभ्यासवशाद् वर्धन्तेऽस्य वृषाः सदा ।।२९।।
प्रज्ञा वृषे स्थिरा चास्य नान्यत्र रमते क्वचित् ।
धर्मप्रवृत्तिमान् देही धनार्थं यततेऽपि च ।।2.251.३ ०।।
धर्मधनं समवाप्य धर्मे व्ययं करोति च ।
धर्ममित्राणि जायन्ते धर्मिणो वै स्वभावतः ।।३ १ ।।
धर्मात्मा धर्मशीलश्च धर्मसत्संगशोभितः ।
धर्मजन्यं सुखं चात्र लभतेऽपि परत्र च ।।३२।।
स्वर्गे स्वर्गपरे लोके प्रभुत्वं लभते तथा ।
शब्दे स्पर्शे रसे रूपे गन्धे भोगे प्रभुत्वकम् ।।३३।।
एवं धर्मफलं लब्ध्वा मोदते निस्पृहो यथा ।
ज्ञानदृष्ट्या च निर्वेदं पोषयत्येव मानसे ।। ३४।।
भोगेषु सत्स्वपि विद्वान् नैव बध्नाति तत्र हि ।
अभावयतस्तस्यैव मनो वैराग्यवेगवत् ।। ३५।।
न कामाननुसञ्चारं करोत्यस्य कदाचन ।
धर्मं नैव जहात्येव कष्टे चापदि वैशसे ।। ३६ ।।
लोकं क्षयात्मक दृष्ट्वा धर्मेऽपि रागहीनताम् ।
प्राप्यात्मनो मुक्तिमार्गं मार्गयत्येव यत्नवान् ।।३७।।
यतते चान्वहं मोक्षाभ्यासे ह्युपायमाश्रयन् ।
शनैः शनैश्च सोपानं मोक्षस्य लभते ततः ।।३८।।
पाप्मानं सर्वमेवाऽयं करोत्येव न वै क्वचित्। ।
जहात्येव समायातं पापं शुद्धिं प्रविन्दति ।। ३९।।
विमलात्मा च सन्तोषी देवाश्रयपरायणः ।
व्यर्थवार्तादिरहितो मोक्षं वै लभते परम् ।।2.251.४० ।।
वैकुण्ठे चापि गोलोकेऽक्षरे धाम्नि परे च वा ।
यथोपास्तिं प्रयात्येव मोक्षस्थलं परात्परम् ।।४१ ।।
तत्र ब्रह्महदे स्नात्वा ब्रह्मतनुः हरिर्यथा ।
सम्पद्यते सुरूपेण दिव्यरूपेण तादृशः ।।४२।।
जक्षन् क्रीडन् रममाणश्चास्तेऽश्नुतेऽखिलेप्सितम् ।
एकधा वहुधा चापि भवत्येव यथेप्सितम् ।।।४३ ।।
सर्वरसः सर्वगन्धः सर्वानन्दः प्रजायते ।
सर्वसुखः सर्वरूपः सर्वसिद्धिगुणाश्रयः ।।४४।।
परब्रह्मस्वरूपश्च तत्सामर्थ्यसमन्वितः ।
तत्सेवातत्परो मुक्तः प्रजायतेऽतिमोदनः ।।४५।।
ब्रह्ममूर्तेर्महत् सौख्यं प्रवाहैः स समेत्यपि ।
कराग्रे सर्वसृष्टीश्च प्रपश्यत्येव मुक्तराट् ।।।४६।।
सार्वज्ञ्यं जायते चास्येश्वरत्वं संप्रजायते ।
नात्र वाऽन्यत्र लोकेऽस्याऽऽवर्तनं जायते क्वचित् ।।४७।।
यत्र यत्र प्रयात्येव तत्र धामाऽक्षरं पुरः ।
प्रकाशतेऽस्य नाऽन्यद्वै दिव्यनेत्रस्य सर्वथा ।।४८।।
क्रिया दिव्या भवत्यस्य मायाऽस्य संगतोऽपि च ।
दिव्यैव जायते तूर्णं तत्त्वादीनां तु का कथा ।।४९।।
मानवे सुरलोके वै पैतृके चार्षकेऽपि वा ।
ऐश्वरे वाऽवतारभ्यां दिव्यो मुक्तोऽयमेव ह ।।2.251.५०।।
यत्र क्वापि वसेद् वापि यत्र क्वापि चरेदपि ।
सर्वं दिव्यं करोत्येव मोक्षं ददाति देहिने ।। ५१ ।।
अस्यैव दर्शनान्मुक्ताः स्पर्शनादपि मोक्षिणः ।
संगात् प्रसेवया मुक्ता जायन्ते स्त्रीनरादयः ।।५२।।
यथा धाम्नि तथा सृष्टौ देहे वा मुक्तसंस्थितौ ।
सर्वं समं भवेदस्य भिन्नता नाऽस्य वर्तने ।।।५३।।
एवं प्राप्तां गतिं नित्यां सुखिनीं मोदिनीं सतीम् ।
आनन्दिनीं प्रियां मुक्तोऽनुभवत्येव सर्वदा ।।५४।।
राजँस्त्वं धर्ममार्गं वै साधूनामवलम्ब्य च ।
गतिं लभस्व वै प्रोक्तां किमन्येन विनाशिना ।।५५।।
विज्ञानं सारथिं कृत्वा भक्तिं कृत्वा सहायिनीम् ।
धर्मं चाग्रगतिं कृत्वा याहि ब्रह्म सनातनम् ।।५६।।
अश्वपाटल उवाच-
कथं दोषविनाशः स्याद् येन धर्मगतिर्भवेत् ।
विज्ञापय महर्षे त्वं येन श्रेयो हि देहिनः ।।५७।।
श्रीलोमश उवाच-
जयेत् क्रोधं क्षमयैव विचारेण पुनः पुनः ।
जयेत् कामं ह्यनाभोगात् संकल्पसंगवर्जनात् ।। ५८।।
स्वप्नं जयेच्च तपसाऽनाहारेण च सत्त्वतः ।
भयं जयेत्तदुत्थानपरित्यागाद् विवेकतः ।।५ ९ ।।
आत्मशीलाभ्यसनाच्च मृत्युभीतिं सदा त्यजेत्। ।
धैर्येण कामनामिच्छां द्वेषं जयेत् कलिं तथा ।।2.251.६ ० ।।
भ्रान्तिं मोहं ममकार भेदज्ञानान्निवर्तयेत् ।
याथार्थ्यज्ञानलाभेन विपर्यदादिकं त्यजेत् ।।६ १ ।।
उपद्रवान् जयेत् सर्वान् कौशल्येन विधानतः ।
रोगान् जयेत् हेतुजयात् पथ्यजीर्णमिताशनात् ।।६ २।।
लोभं तृष्णां विवेकाद्वा सन्तोषात् प्रजयेदपि ।
विषयान् विषबोधाद्वा तत्त्वदृष्ट्या जयेदपि ।।६ ३ ।।
अधर्मं चात्मकृपया जयेदनर्थभावतः ।
धर्मं पालनबुद्ध्या च जयेन्मोक्षप्रदं चरेत् ।।६ ४।।
आशां जयेन्निरुत्थानाद् भाविफल्गुविधानतः ।
अर्थं चानर्थबुद्ध्या च जयेत् संगविवर्जनात् ।।६५ ।।
स्नेहं चानित्यदृष्ट्या च बन्धनादिविवेकतः ।
क्षुधां जयेद् यात्रया च योगेनाऽऽवश्यकेन च ।।६६।।
मानं जयेदनावृत्त्या कारुण्येन विवेकतः ।
सन्तोषाच्च जयेद् गृध्ना विवेकज्ञानतस्तथा ।।६७।।
तन्द्रां जयेत् स्वस्थभावादुत्थानाच्च बलादपि ।
संशयं शास्त्रवचनाच्च निर्णयात् प्रजयेत् सदा ।।६८।।
वाग्दोषान् मुनिभावेन मनोदोषाँश्च विद्यया ।
पावित्र्येण जयेच्चापि कल्मषं तामसं सदा ।।६९।।
ज्ञानदृष्ट्या तमश्चापि जयेदज्ञानसंज्ञितम् ।
आत्मबोधेन च ज्ञानं मानसं प्रजयेद् यतिः ।।2.251.७०।।
आत्मानं च जयेत्परमेशे समर्पणेन तु ।
तदर्पणात् सर्वदोषा शिष्टा नश्यन्ति द्राक् खलु ।।७१ ।।
तदा विवर्धते तेजो ब्रह्मलोकप्रकाशकम् ।
सिद्धयश्चोद्भवन्त्यस्य विज्ञानं सम्प्रवर्धते ।।७२।।
सतामाचारमाप्तः सन् वर्तमानः सताश्रये ।
स्वेच्छयैव निनीषेत् स ब्रह्माऽक्षरं परं पदम् ।।७३।।
एष मार्गो विमुक्तेर्वै राजन् शुभाश्रयः सदा ।
यत्र विघ्ना न जायन्ते निर्विघ्नस्य हरेः श्रयात् ।।७४।।
दिव्येन्द्रियक्रियाहारो दिव्यसद्गुणवर्तनः ।
दिव्यकृष्णे कृतस्थानो याति ब्रह्म सनातनम् ।।७५।।
संघाते संस्थितेश्चापि मुक्तो नैव हि तप्यते ।
बद्धो हि तप्यते तस्य सम्बन्धास्तापदायिनः ।।७६ ।।
नात्माऽस्ति कस्यचित् कश्चिन्नास्य कश्चन विद्यते ।
कथं गृह्णात्ययं दुःखं परोत्पन्नं निजात्मनि ।।७७।।
नैव सञ्जायते चात्मा नापि विपद्यते क्वचित् ।
मुक्त्वा देहं प्राप्य कृष्णं प्रयाति परमां गतिम् ।।७८।।
पुण्यपापमयो देहः कर्मक्षयेन नश्यति ।
ततो देही प्रमुक्तः सन् ब्रह्मत्वमुपगच्छति ।।७९।।
पुण्यपापक्षयार्थं हि कृष्णार्पणं विधीयते ।
तथा नैर्गुण्यमासाद्य याति ब्रह्मपरां गतिम् ।।2.251.८०।।
अर्थाः स्मृद्धिभराश्चापि बाढं दुःखभरा यतः ।
स्वादलालावगूढास्ते मोहयन्त्यविचक्षणम् ।।८ १ ।।
सर्वेन्द्रियसुखं दिव्यं वितृष्णस्य तु कल्मषम् ।
सतृष्णेन ममत्वेन कल्पितं स्वार्थपूर्तिकम् ।।८२।।
तदेव परितापाय नाशे सम्पद्यतेऽधिकम् ।
तस्मात् तापकरं पूर्वं तापं मत्वा न चार्जयेत् ।।८३।।
कृतकृत्यः सदा मत्वा भूत्वाऽप्येवं न संज्वरेत् ।
इष्टानिष्टावुभौ त्यक्त्वा परेशे सर्वमर्पयेत् ।।८४।।
प्राणान्तिकं परं रोगं तृष्णात्मकं परित्यजेत् ।
अपूर्यमाणं पातालं तृष्णात्मकं च चाविशेत् ।।८५।।
शीलं सन्तोषमेवापि शान्तिं भक्तिं क्षमां मतिम् ।
सेवां समर्पणं कृत्वा ब्रह्मधाम समाविशेत् ।।८६ ।।
पश्यन् मृत्युं शिखावासं कालं च प्राणवासिनम् ।
कर्म चात्मकृतावासं ब्रह्मवासं समर्जयेत् ।।८७।।
अहोरात्राणि यान्त्येव यात्रा भवति खण्डिता ।
रात्र्यां रात्र्यां व्यतीतायामायुर्विन्दति हस्वताम् ।।८८।।
पुष्पवद् देहिनं मृत्युर्नयत्यपूर्णकामिनम् ।
आत्मकार्यं तु प्रथमं कुर्वीत दैहिकं ततः ।।८९।।
देहसम्बन्धजं पश्चाद् येन न स्यात् प्रतारितः ।
अकृतेष्वपि कार्येषु मृत्युरादाय गच्छति ।।2.251.९० ।।
नहि कश्चिद् विजानाति कदा मृत्युर्भविष्यति ।
सुप्तं वा जाग्रतं स्वस्थं मृत्युरादाय गच्छति ।।९ १ ।।
कुर्वन्तं बहुसंकल्पान् पुत्रस्मृद्धिपशुस्थितिम् ।
अन्यव्यासक्तहृदयं मृत्युरादाय गच्छति ।।९२।।
न मृत्युपृतनां कश्चिन्निवर्तयितुमुद्बलः ।
ब्रह्मबलो भक्तिबलो मृत्युं दूरयितुं क्षमः ।। ९३।।
ब्रह्मविद्याप्रकाशाढ्यः सत्संगयानवाहनः ।
श्रीकृष्णसारथिं प्राप्तो मृत्युं तीर्त्वाऽक्षरं व्रजेत् ।।९४।।
मा मोहं व्रज राजेन्द्र कृते पुण्ये कथंचन ।
स्वर्गे च गत्वरसंज्ञे सन्नद्धो भव केशवे ।।९५।।
केशवः कालकालोऽस्ति मृत्योर्मृत्युः परेश्वरः ।
सर्वकर्मफलज्योष्टा तस्मिन् कार्यं समर्पय ।। ९६ ।।
निर्भीको भव राजेन्द्र भयं कोशो हि कर्मणाम् ।
मुञ्च नारायणे देवे विकोशो भव पार्थिव ।।९७।।
गृह्णाऽनादिकृष्णनारायणपादं हि निर्भयम् ।
कांभरेयपदे स्थित्वा शाश्वतानन्दभाग् भव ।।९८।।
इत्युक्त्वा राधिके तत्र लोमशो विरराम ह ।
राजाऽश्वपाटलः शान्तिं चावाप पारभेश्वरीम् ।।९९।।
बहु मत्वाऽमृतं श्रीमल्लोमशाननवाहितम् ।
तृप्तोऽपि च पुनस्तृप्तिं नाधिजगाम भक्तराट् ।। 2.251.१०० ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने लोमशगीतायामश्वपाटलकृतानाम् आत्मनः पापात्मकत्वे पुण्यात्मकत्वे मुक्तिभावे दोषविनाशभावे च प्रश्नानां
श्रीलोमशकृतोत्तरदानमित्यादिनिरूपणनामैकपञ्चाशदधिकद्विशततमोऽध्यायः ।। २५१ ।।