लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः २५०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २४९ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः २५०
[[लेखकः :|]]
अध्यायः २५१ →

श्रीकृष्ण उवाच-
राधिकेऽश्वपाटलस्तु श्रुत्वा श्रीलोमशं पुनः ।
पप्रच्छ त्यागमार्गं च प्रत्यक्षं फलदं तथा ।। १ ।।
अश्वपाटल उवाच-
त्यागमार्गेण प्रत्यक्षं यत्फलं समजायते ।
तद्वदाऽत्र महर्षे मे किं प्रत्यक्षं च किं फलम् ।। २ ।।
किमत्र प्रत्यक्षतमं यदुपास्ते भवानिह ।
प्रत्यक्षे खलु सर्वेषां समानताऽवलोक्यते ।। ३ ।।
भवानपीह शोकं च यथा हर्षं च विन्दति ।
इन्द्रियार्थाश्च भवतः समानाः सर्वदेहिनाम् ।। ४ ।।
समानानां हि सर्वेषां किं प्रत्यक्षं निरामयम् ।
भवतो हि किमाधिक्यं गृहमेधित एव यत् ।। ५ ।।
श्रीलोमश उवाच-
हरौ त्यागस्त्यागमार्गः किमन्यत् त्यजनेन वै ।
सर्वस्वार्पणरूपोऽयं त्यागः सर्वोत्तमो हरौ ।। ६ ।
तेनाऽऽत्मनो हि साक्षात्त्वं तत्प्रदत्तदृशा खलु ।
फलं चात्मसुखं चापि परमेशप्रसादतः ।। ७ ।।
अहमुपास्से प्रत्यक्षं बालकृष्णनरायणम् ।
अनादिश्रीकृष्णनारायणं श्रीकंभरासुतम् ।। ८ ।।
चक्षुषोर्मनसश्चापि यः प्रत्यक्षतमोऽत्र वै ।
आत्मन्येव परब्रह्म स एवाऽऽस्ते श्रियाः पतिः ।। ९ ।।
लक्ष्मीपतिः सतां स्वामीमुक्तपतिः परेश्वरः ।
कुंकुमवापिकाक्षेत्रलालः श्रीकृष्णवल्लभः ।। 2.250.१० ।।
ब्रह्मप्रियापतिश्चात्मपतिर्विद्यापतिः प्रभुः ।
मुक्तिपतिश्चाऽक्षरेशो धामेशाधिपतिर्हरिः ।। ११ ।।
स प्रत्यक्षतमो मेऽत्र राजँस्तं त्वं विलोकय ।
हर्षं शोकं प्रविन्दामि राजन् नाट्यस्य वेषवत् ।। १ २।।
समानानीन्द्रियाण्येव देहे समानताऽपि च ।
ग्रहणादिव्यवहारः समानोऽपि तथापि तु ।। १ ३।।
भूतावेशितवन्नित्यं चरामि परमात्मना ।
स भोक्ता स नियन्ता च स एवाऽऽलोचनादिमान् ।। १४।।
सर्वभूताधिभूतेनाऽऽवेशितोऽहं चरामि यत् ।
हर्षं शोकं स एवाऽत्र देहे वेत्ति न देह्ययम् ।। १५।।
तथापि नाट्यवत्सर्वं दर्शयामि यथा मयि ।
अहं वेद्मि तथा वेत्ति मार्कण्डेयो महामुनिः ।। १६।।
वेत्ति सनत्कुमारश्च नारदो वा नरायणः ।
स्वयंप्रकाशः शंभुर्वा वेत्ति नान्यो भुवंगतः ।। १७।।
कपिलाद्याश्च वर्तन्ते जले कमलवद्धि ते ।
निर्लेपास्ते वयं कृष्णलिप्ता अपि विलेपिनः ।। १८।।
राजाद्याः स्वार्थलिप्ताश्च प्रत्यक्षं सुखिदुःखिनः ।
वयं सन्तः कृष्णनारायणाऽजस्रपरायणाः ।। १ ९।।
तदर्थकृतसर्वस्वास्तन्मयास्तद्विशेषिताः ।
चिन्तारोगो न चास्माकं साधूनां विद्यते यतः ।। 2.250.२० ।।
यो रोगो जीवतां देहेन्द्रियात्मवादिनां त्विह ।
स रोगो विगतो नश्च तस्मान्निरामया वयम् ।।२ १ ।।
वासना रोगमूलं च सा च नारायणेऽर्पिता ।
धन्वन्तरिमहावैद्ये नाडिका सर्वतोऽर्पिता ।। २२।।
तस्यान्निरामयाः स्मोऽत्र राजँस्त्वं तादृशो भव ।
हरिप्रदत्तज्ञानेन विहरामोऽत्र वर्ष्मसु ।।२३।।
तत्प्रेरितं प्रकुर्मश्च सर्वमर्थ्यं निरामयम् ।
तत्कृतं समनुष्ठानं सर्वं चास्ते निरामयम् ।।२४।।
तत्प्रदत्तं च विज्ञानं शोकं जहाति मूलतः ।
तं विना स्वार्थवृत्त्युत्थं ज्ञानं नाशयति प्रजाः ।। २५।
अतो वयं ज्ञानवन्तो निरामया हि भूपते ।
ऐकात्म्यं ब्रह्मणा नारायणेनाप्तं निरामयम् ।। २६।।
तत्त्वमबुद्ध्वा बहवश्चाहंकारवशंगताः ।
वादबला न जानन्ति निरामयत्वमीदृशम् ।।।२७।।
ततो भवन्ति ते ब्रह्मस्तेना मोहवशंगताः ।
तमोभावनिमग्नानामेषां तमः परायणम् ।। २८।।।
प्रकृतिं स्वां दोषरूपां दंभाऽनृतमदात्मिकाम् ।
प्राकृताः सम्प्रयान्त्येव ब्राह्मास्तदूर्ध्ववर्तनाः ।। २९।।
एवमान्तरबोधास्ते सन्त्यजन्ति शुभाशुभम् ।
परां गतिं प्रपश्यन्तः सन्तो नारायणे रताः ।। 2.250.३ ०।।
दानमध्ययनं यज्ञः प्रजा सन्तानमार्जवम् ।
हरिं विना साऽऽमयं तन्मोक्षः कृत्वाऽपि नास्ति चेत् ।।३ १ ।।
धिक्कारपदमेतद् वै श्रमः सर्वो निरर्थकः ।
राज्येषु स्त्रीषु लोकेषु देहेन्द्रियाऽर्थभुक्तिषु ।। ३२।।
वर्तमानोऽपि चेत् कृष्णार्पणः सोऽयं निरामयः ।
निर्वस्त्रो निर्जनश्चापि निष्पात्रो निष्परिग्रहः ।। ३३।।
सर्वसहोऽपि वै कृष्णार्पणं विना क्षयाऽऽमयः ।
तस्माद् राजन् भव काण्डैस्त्रीभिश्चापि निरामयः ।।३४।।
शुष्कज्ञप्त्या कर्मणा वा का निरामयता भवेत्? ।
कृष्णभक्त्याऽर्पणभक्त्या ध्रुवं निरामयो भवेत्। ।। ३५ ।।
नामसंकीर्तनं शब्दब्रह्म बोध्यं निरामयम् ।
तत्र निष्णाततां प्राप्य परब्रह्माऽऽगमं व्रजेत्। ।। ३६ ।।
एवं शुद्धसमाचारश्चात्मा भवति ब्राह्मणः ।
कृष्णे त्यागक्रियावांश्च परिग्रहविवर्जितः ।। ३७।।
मनःसंकल्पसंसिद्धो विशुद्धबोधनिश्चयः ।
जन्म कर्म च विद्या च शुक्ला यस्य हरौ मताः ।। ३८।।
प्रत्यक्षब्रह्मपरमः श्रद्दधानः परावरे ।
सत्संगतो भावितात्मा शीलसन्तोषसद्व्रतः ।।३९।।
धर्म भागवतं कृच्छ्रे सत्यप्याचरतीह यः ।
तस्य ब्रह्मसुतस्यैव ब्रह्मांकशयनस्य वै ।।2.250.४०।।
निरामयत्वं चास्त्येव शाश्वतं निरुपद्रवम् ।
नास्य वै वर्तते किंचिद् विधातव्यं दिवं प्रति ।।४१ ।।
प्रायश्चित्तं न चैवास्य कर्मणां चार्पणाद्धरौ ।
एवं बहुविधा विप्रा यज्ञकर्मपरायणाः ।।४२।।
शुचयो व्रतवन्तश्च त्र्यवदाना हरिस्थिताः ।
यजन्तोऽहरहर्यज्ञैराशाबन्धनवर्जिताः ।।४३।।
ऋजवः शमजित्याश्च ब्रह्मकर्मपरायणाः ।
ब्रह्म येषां परो धर्मः परार्थो ब्रह्म नित्यदा ।।४४।।
कामोऽपि ब्रह्म चैतेषां मोक्षो ब्रह्म सनातनम् ।
न्यूनं वाऽऽधिक्यमेवापि वर्तनं ब्रह्म शाश्वतम् ।।४५।।
व्युत्क्रमश्च क्रमश्चापि येषां ब्रह्म परात्परम् ।
तेषां कृष्णात्मनां ब्रह्मसत्तमानां तु शाश्वतम् ।।४६ ।।
स्वर्गं स्वर्गोत्तमं नित्यं निरामयं महासुखम् ।
शाश्वतानन्दपूर्णं ते यन्ति तत्परमं पदम् ।।४७।।
गृहे यद्वा वने यद्वा न्यासे वा ब्रह्मणि स्थिताः ।
यन्ति ते सात्वता राजन् परब्रह्म परेश्वरम् ।।४८।।
सकामास्ते तु दृश्यन्ते दिवि ज्योतिर्मयाः सुराः ।
धिष्ण्येषु बहुभोगाश्च नक्षत्रतारकागणाः ।।४९।।
अकामा नैव दृश्यन्ते दूरं पारं परं गताः ।
सकामाश्च पुनः सन्तो भूत्वा यास्यन्ति तत्पदम् ।।2.250.५० ।।
ब्रह्मात्मनामतृष्णानां तेषामनामयं ध्रुवम् ।
धामाऽक्षरं परब्रह्मस्थानं परं निरामयम् ।।५१ ।।
सामयस्य कृते धर्मः परोपकारसंज्ञकः ।
पुण्यदः पुण्यशीलस्य गृहे जन्मप्रदस्तथा ।।५२।।
पुण्यजन्मतया चार्थः पुण्यलाभोऽस्य जायते ।
कामना रागहीना च कृतात्मनः प्रजायते ।।५३ ।।
त्यागसन्तोषसिद्धिश्च प्रज्ञा विशारदी भवेत् ।
अपवर्गमतिश्चापि ब्रह्मधर्मपरो भवेत् ।।५४।।
ब्रह्मणः पदमन्विच्छन् ब्रह्मलोकं प्रयाति च ।
गच्छन् क्षेमं समन्विच्छन् दुर्बलोऽत्राऽवसीदति ।।५५।।
भुंक्ते दत्ते च यजते प्राप्ताभिर्वस्तुभिर्यदि ।
परिग्रहः शुभोऽप्यस्य न त्यागसुखसदृशः ।।५६।।
कर्मपाकः शरीरं वै ज्ञानपाको निरीहता ।
भक्तिपाको ब्रह्मता च ब्रह्मपाकः परं पदम् ।।५७।।
दया क्षमा च सन्तोषः सत्यं शान्तिरहिंसनम् ।
आर्जवं ह्रीस्तितिक्षा च मानगर्वविवर्जनम् ।।५८।।
सत्संगो भक्तिभावश्च सेवा सतां सुरार्चनम् ।
पन्थानो ब्रह्मणस्त्वेते प्राप्नोत्येतैः परं पदम् ।।५९।।
गतिं गच्छन्ति सन्तो यां तामाहुः परमां गतिम् ।
संसारो वासनावर्गः सन्तोषस्त्वपवर्गकः ।।2.250.६ ० ।।
साम्येऽपीन्द्रियवर्गेऽपि सामयाऽमयते नृप ।
एते निदेशिते तेऽत्र निरामयत्वमावह ।।६ १ ।।
अश्वपाटल उवाच-
धर्मार्थकामान् सततं चामनन्तीह देहिनः ।
मोक्षं केचित् समिच्छन्ति तस्माद्वै बलिनस्त्रयः ।।६२।।
तत्र लाभो विशिष्टो वै कस्याश्रयेण देहिनः ।
किं फलं कीदृशं चेति तन्मे लोमश दर्शय ।।६३ ।।
लोमश उवाच-
राजन्पुरा ह्यहं कल्पे गतोऽभवं वनान्तरे ।
पुष्करारण्यसंज्ञे च तत्र विप्रो विशालिकः ।।६४।।
आसीत्तेन कृता मे च पूजा फलजलादिभिः ।
तपस्विना दुर्बलेन निर्धनेन च रागिणा ।।६५।।
ततोऽहं पृष्टवाँस्तस्य कुशलं स जगाद माम् ।
दारिद्र्यं दुःखदं लोके तन्निराकुरु लोमश ।।६६।।
ततस्तं च समादाय गतोऽहं चोत्तरां दिशम् ।
कुबेरनगरं दिव्यं व्योम्ना द्रव्यप्रलिप्सया ।।६७।।
कुबेरः स्वागतं चक्रे ददौ धनं यथेष्टकम् ।
विशालिकः प्रसन्नोऽभूद् द्रव्यं जग्राह शेवधिम् ।।६८।।
अथापि धनराजेन निशि निजपुरे शुभे ।
रक्षितौ मन्दिरे रम्ये त्वावामास्व च निद्रितौ ।।६९।।
अहं जानामि तत्सर्वं निद्रायां ब्राह्मणेन यत् ।
विलोकितं महाश्चर्यं कल्मषाढ्यं हि तच्छृणु ।।2.250.७० ।।
अपश्यत जनान् काँश्चिद्धर्माढ्यान् शुद्धमानसान् ।
काँश्चित्कामाभिभूताश्च नृत्यगीतपरायणान् ।।७१ ।।
काँश्चित्स्वर्णमणिरत्नद्रव्याभूषणसंभृतान् ।
कुबेराद् द्रव्यमादाय गच्छतः स्वपुरीं प्रति ।।७२।।
तावद् भूकम्पनं जातं भूतनाशकरं मुहुः ।
पृथ्वीगर्तगतास्ते वै मृता निष्पेषिता मृदा ।।७३ ।।
तत्रायाता यमदूता नेतुं मृताननेकशः ।
कामिनो नीतवन्तस्ते दृढबन्धनबन्धितान् ।।७४।।
धनिनोऽपि नीतवन्तो विना बन्धनमेव तान् ।
ततो ददर्श कामं च क्रोधं लोभं भयं मदम् ।।७५।।
निद्रां तन्द्रां महालस्यं पापं चावृत्य तान स्थितान् ।
निरोधयितॄन् स्वर्गाणि भयदान् याम्यदुःखदान् ।।७६।।
विविधान् निरयाख्याँश्च पुरुषान् परितः स्थितान् ।
तानेव विप्रः स्वद्रव्ये ददर्श लीनतां गतान् ।।७७।।
भयं चावाप वै स्वप्ने विप्रो दोषान् विलोक्य च ।
तावद् देवाः समायाता धार्मिकान् नेतुमेव ह ।।७८।।
विमानैः शुभशोभैश्च स्मृद्धैः सम्मानितान् मृतान् ।
धार्मिकान् देवतुल्याँश्च कृत्वा निन्युर्हि तापसान् ।।७९।।
हर्षितान् धार्मिकान् प्राप्तदिव्यलोकान् विलोक्य सः ।
विप्रो विचारयामास तपोद्रव्यं परं सुखम् ।।2.250.८०।।
धनं दोषभृत चास्ते कामः कल्मषसंभृतः ।
निरयाणां कारणे तौ धनकामौ न शान्तिदौ ।।८ १ ।।
अथोऽनर्थस्वरूपोऽस्ति कामो दुःखस्वरूपवान् ।
तपोधर्मः स्वर्ग एव धर्मं चरामि वै ततः ।।८२।।
चरिष्येऽपि ततो धर्मं लोमशस्य कृपावशात् ।
अस्याऽनुग्रहमाप्यैव सुखं प्राप्स्ये वृषोद्भवम् ।।८३।।
पृथिवीं रत्नपूर्णां वा महान्तं रत्नसंचयम् ।
अवाप्य याम्यलोकानां द्वारं नैष्ये कदाचन ।।८४।।
इत्युक्त्वा तु धनं प्रातस्त्यक्त्वा तत्रैव मन्दिरे ।
तं कुबेरं नमस्कृत्य ययौ वै तपसे द्विजः ।।८५ ।।
लोमशेन समं श्रेष्ठं तपो दिव्यं चकार ह ।
देवार्चनपरो नित्यं नित्यं चातिथिपूजनः ।।८६ । ।
लोमशाश्रयमासाद्य पर्णाहारो बभूव ह ।
जलाहारस्ततश्चासीद् वायुभक्षो बभूव च ।। ८७।।
दिव्यदृष्ट्या द्विजश्चापि यमपुर्यां नृपान् गतान् ।
कुण्डे राजसहस्राणि मग्नानि निरये तदा ।।८८ ।।
ददर्श तपसा चापि नारकान् काममोहितान् ।
ततः स्वप्नं क्षणात्तस्य तत्रैवान्तरधीयत ।। ८९ ।।
विशालिको द्रुतं शय्यां त्यक्त्वा श्रीलोमशं मुनिम् ।
प्रणनाम जगादापि दृष्टं सर्वमनिष्टकम् ।। 2.250.९० ।।
कामोऽर्थश्च सदा याम्यलोकदौ दुःखदौ गुरो! ।
मया दृष्टौ यमपुर्यां धर्मः स्वर्गप्रदो मतः ।। ९ १ ।।
धर्माद् दृष्टा गतिः श्रेष्ठा तपसा स्वर्गसंभृता ।
देवताः सविमानाश्च पूजयन्तीह धार्मिकान् ।। ९२ ।।
न धनाढ्यान्नापि चात्र कामिनः पूजयन्ति ते ।
धर्मे सुखकला चास्ते चरिष्यामि वृषं हितम् ।। ९३ ।।
नेदं धनं मया ग्राह्यं दुःखदोषानुसेवितम् ।
सर्वे दोषा निवसन्ति धने दृष्टा मया गुरो ।। ९४।।
अद्य स्वप्ने मया दृष्टं कम्पनं वै भुवः खलु ।
धनारंभे महद्दुःखभरं यद्दर्शनं त्विह ।। ९५।।
तदेवाऽमंगलं मेऽद्य तद्धनं न प्ररोचये ।
इत्युक्त्वा धनदायैव धनं दत्वा तु भूसुरः ।। ९६ ।।
लोमशेन मया सार्धं चायात् कुंकुमवापिकाम् ।
भेजे कृष्णं परब्रह्म तपसा धर्मसंभृता ।। ९७।।
भक्तिं जगाम परमां भक्त्या नारायणस्य च ।
वैशालिकं हि तत्तीर्थं जातं चात्र पुरा नृप ।। ९८ ।।
तस्माद्धर्मो महास्वर्गमोक्षदः सुखशान्तिदः ।
निर्दोषः श्रीहरो न्यस्तो धर्मो निष्कामसात्त्वतः ।। ९९ ।।
सात्त्वतानां समाचारस्तपो ध्यानं क्रतुक्रिया ।
भजनं सेवनं देवदेवस्याश्रयणं सदा ।। 2.250.१०० ।।
तन्मयत्वं तत्परत्वं तदर्थत्वं तदात्मता ।
तस्य सम्बन्धवत् सर्वं दिव्याचरणमेव यत् ।। १०१ ।।
स्नानसन्ध्यादिकं दैह्यं स्मृत्याराधनमान्तरम् ।
पूजार्चाद्यं सामयिकं सत्संगाद्यं तु सार्थजम् ।। १०२ ।।
सर्वं वै पावनं पुण्यं धर्माख्यं चात्मनो हितम् ।
पापनाशकरं चापि याम्यदूतनिरोधकम् ।। १०३ ।।
विष्णुधामप्रदं स्वर्ग्यं शाश्वतानन्ददायकम् ।
इत्युक्त्वा राधिके श्रीमान् लोमशो विरराम ह ।। १ ०४।।
राजा धर्मे मनः कृत्वा पुनः पप्रच्छ वै गुरुम् ।
लोमशं ज्ञानदं दिव्यात्मानं ब्रह्मपरायणम् ।। १ ०५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने
लोमशगीतायामश्वपाटलकृतस्त्यागमार्गप्रत्यक्षफलप्रश्रः, निरामयप्रश्रः, त्रिवर्गेषु किंश्रेष्ठप्रश्नः, लोमशकृतोत्तरं चेत्यादिनिरूपणनामा पञ्चाशदधिकद्विशत-
तमोऽध्यायः ।। २५० ।।