लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः २११

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २१० लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः २११
[[लेखकः :|]]
अध्यायः २१२ →

श्रीकृष्ण उवाच-
राधिके बालकृष्णोऽयं दशम्यामध्वरं प्रगे ।
ययौ निजासने स्वर्णे संस्थितश्च तदाऽभवन् ।। १ ।।
तूर्याणां निनदाश्चापि गीतयो वरयोषिताम् ।
वेदघोषा महर्षीणां गान्धर्वगायनानि च ।। २ ।।
ध्वनयश्चापि मन्त्राणां हर्याश्च मखिनां तथा ।
सज्जाः कृताह्निका देवाः कर्मठा हव्यवाहकाः ।। ३ ।।
हव्यप्रदा यजमाना मण्डपे चोपतस्थिरे ।
स्वस्तिवाचः प्रोक्षणानि वस्तूनां चाहृतिस्तथा ।। ४ ।।
पुण्याहवाचो विप्राणां देवानां स्तवनानि च ।
उन्निद्रत्वं तथा साक्षादुपस्थितिश्च पूजनम् ।। ५ ।।
क्रमशोऽक्षरधामस्थेश्वरसृष्टिनिवासिनाम् ।
जीवलोकीयजीवानां पूजनं क्रमशोऽभवत् ।। ६ ।।
षोडशोपसुवस्तूनामर्पणैर्भोजनादिभिः ।
वलिदानैर्हव्यदानै रसदानैः समर्हणम् ।। ७ ।।
सुधावृतफलान्नादिपायसादिप्रदानकैः ।
चरुदानैर्यथायोग्ययवमाषादिदानकैः ।। ८ ।।
भक्ष्यभोज्यप्रदानैश्च लेह्यचोष्यप्रदानकैः ।
स्वाद्यपेयप्रदानैश्च तृप्यदृश्यप्रदानकैः ।। ९ ।।
भाव्यगम्यप्रदानैश्च कल्प्यक्लृप्त्यप्रदानकैः ।
स्थूलसूक्ष्मप्रदानैश्च सत्त्वाऽसत्त्वप्रदानकैः ।। 2.211.१ ०।।
तृप्ता भवन्ति देवाद्याः सर्वसृष्टिनिवासिनः ।
वह्नयो भुञ्जते स्निग्धं बह्वन्नं बहुजातिकम् ।। ११ ।।
हवनानि च हव्यानामभवँस्तत्र वह्निषु ।
असंख्यान्युत्तमान्येव बहुहस्तैश्च भावतः ।। १२।।
अन्तिमं हवनं कृत्वा दत्वा च भूयसीस्तथा ।
दक्षिणाः स्वर्णमुख्याश्च परिहारं व्यधाद्धरिः ।। १३।।
राजानो यजमानाश्च ददुर्दानानि कोटिशः ।
एवं यज्ञे वर्तितेऽथ मध्याह्ने भोजनानि ह ।। १४।।
चक्रुर्मखस्य वै सर्वे प्रासादिकान्नजानि वै ।
मुक्तास्तथाऽवताराश्चाऽवतारिण्यो हरिप्रियाः ।। १५।।
पार्षदाः पार्षदान्यश्च सांख्ययोगिन्य इत्यपि ।
सत्यः साध्व्यश्चेश्वराण्य ईश्वरा देवतास्तथा ।। १६।।
ऋषयः पितरो देवा दिक्पाला लोकपालकाः ।
मानवा दैत्ययक्षाश्च दानवाः पशुपक्षिणः ।। १७।।
अपि कीटपतंगाद्या वृक्षाः स्तम्बाश्च वल्लयः ।
तत्त्वान्यपि जडान्येव चेतनानि च सर्वशः ।। १८।।
नामरूपमयं सर्वं यत्किञ्चिद्धरिनिर्मितम् ।
सर्वं प्रसादमासाद्य तृप्तिं जगाम चाध्वरे ।। १ ९।।
हरिः कुटुम्बसहितोऽनुगैर्युक्तश्च सेविभिः ।
व्रह्मप्रियाभिः सहितो बुभुजे चरुभोजनम् ।।2.211.२० ।।
मिष्टान्नानि च शाकानि रसस्निग्धानि यानि च ।
दिव्यानि चापि सर्वाणि बुभुजे बालकृष्णकः ।।२ १ ।।
भोजनोत्तरमेवात्र सन्निधौ श्रीहरेस्तदा ।
राजा द्वैपायनद्वीपपतिः राज्ञीसमन्वितः ।।२२।।
रायबालेश्वरो नाम्ना प्रार्थयत्परमेश्वरम् ।
मालावनर्षिसहितो वायुफेनापुरीं प्रति ।।।२३।।
नेतुं स्वराष्ट्रे श्रीकृष्णं हारितास्मारितापतिम् ।
तथास्त्विति हरिः प्राह तूर्णं सज्जोऽभवत्तदा ।।२४।।
लोमशेन कुटुम्बेन शंकरेण सह प्रभुः ।
विमानं दिव्यमास्थायाऽम्बरेऽभवत् क्षणान्तरे ।।२५।।
ऋषिः राजा विमाने स्वे कुटुम्बसहितोऽभवत् ।
पूर्वं स्वागतदानार्थं ययौ तूर्णं निजां पुरीम् ।।२६।।
सैन्यं सज्जं चकाराऽसौ तूर्णं सम्माननाय वै ।
प्रजाः पुष्पादिसामग्रीर्धृत्वा सज्जास्तथाऽभवन् ।।२७।।
वायुफेनानगर्याः सन्निधावुद्यानसंस्थिते ।
राजसौधे महाविशालांगणे च ययुस्तदा ।।२८।।
तावद्धरेर्विमानं चाम्बरेऽत्यन्तसुभासुरम् ।
समदृश्यत सुर्याभं वाद्यानि विविधानि वै ।।२९।।
अवाद्यन्त तथा घोषा जययुक्तास्तदाऽभवन् ।
प्रजास्त्वेकाग्रदृष्ट्यैव वीक्षितुं त्वरितास्तदा ।।2.211.३ ०।।
तावच्च सन्निधौ तूर्णं विमानं त्वागतं हि खे ।
राज्ञा दर्शितमार्गेणाऽवातरत् सौधसन्निधौ ।।३ १।।
मालावनर्षिर्मालाभिर्विमानं प्रागवर्धयत् ।
प्रजा लाजाक्षताद्यैश्चाऽवर्धयत् परितस्ततः ।।३२।।
राजा मालां स्वर्णहारं हरेः कण्ठे समार्पयत् ।
पादौ प्रक्षाल्य च पपौ हरिर्बहिः समाययौ ।।३३।।
प्रजाः स्रगादिभिस्तूर्णं पुपूजुः स्वागतादिभिः ।
राजा सौधे हरिं नीत्वा पुपूज बहुभिर्धनैः ।।३४।।
ततो याने तु सौवर्णे चोपवेश्य परेश्वरम् ।
कुटुम्बं लोमशं शंभुं नगर्यां नीतवान्नृपः ।।३५।।
ससैन्यः श्रीहरिर्मार्गे सम्मानितः प्रजाजनैः ।
पूजितो वन्दितश्चापि वीक्षितो भावनेत्रकैः ।।३६।।
आर्पितो बहुरत्नाद्यैर्धनैः सौवर्णरूप्यकैः ।
प्रधानैः पूजितश्चापि भ्रमित्वा नगरीं ततः ।।३७।।
आययौ राजसौधं तं निषसाद नृपासने ।
उपादिदेश च तदा प्रजाभ्यो हितकृद्वचः ।।३८।।
ईष्यते बहुभिः कृष्णो विना पुण्यं न लभ्यते ।
लभ्यते बहुभिः पुण्यैर्विनाभावं न सेव्यते ।।३९।।
सेव्यते बहुभिर्भावैर्विना श्रद्धां न रज्यते ।
रज्यते चार्पणैः सर्वैस्तत्राऽनुग्रहकारणम् ।।2.211.४०।।
अनुग्रहेण विवशो भवाम्येव स्वयं प्रभुः ।
मयाऽऽनुग्रहयुक्तेन भवद्देशो विलोकितः ।।४१।।
सेवा चांगीकृता प्रेम्णा निर्गुणा मुक्तिदा हि सा ।
मद्योगो मुक्तिदश्चास्ते सदा सर्वस्य देहिनः ।।४२।।
यथाज्ञानं च सेवन्ते प्राप्य मां देहिनस्त्विह ।
तेषां तथैव दाताऽहं तथाऽनुग्रहकारकः ।।४३।।
प्रसन्नोऽहं ददाम्येव सुखं रक्षामि विघ्नतः ।
योगक्षेमो करोम्यस्य भक्तस्य सेवकस्य मे ।।४४।।
सेवाबलाढ्यभक्तस्य सर्वं सन्निहितं शुभम् ।
सेवाबले बुभूषेद्वै सवं बलवतो वशे ।।४५।।
सेवाबलं स्थितं स्वस्मिँत्त्रायते महतो भयात् ।
सर्वधर्माद्बलं धर्मः सर्वसौख्यप्रवर्तकः ।।४६।।
सेवाबले स्थितो धर्मो धर्मे तिष्ठाम्यहं सदा ।
मयि तिष्ठति यावच्छ्रीः सर्वसौख्यस्य साधनम् ।।४७।।
धूमो वायोरिव वशे सेवां धर्मोऽनुवर्तते ।
सेवा बलवतां धर्मः सर्वापत्यः प्रवर्तते ।।४८।।
नास्त्यसाध्यं सेवकानां प्रसन्नत्वजुषामिह ।
मदनुग्रहपात्रं वै क्षिप्रं बहुमतं भवेत् ।।४९।।
लोके वै लभते पूजा परत्रेह महत्फलम् ।
सुखं सुचित्रं भुञ्जीत शाश्वतं च ततः परम् ।।2.211.५०।।
सेवा सत्येन कर्तव्या देवपितृतपस्विनाम् ।
अतिथीनां सतां चाप्यनाथानां योषितः तथा ।।५ १ ।।
असेवा नैव कर्तव्या असेवा द्रोह एव तु ।
उद्वेजनं भवेद् द्रोहात् तेन रुष्टा भवन्ति ते ।।५२।।
येषां रुष्टाश्च गुर्वाद्यास्तेषां भाग्यं विलीयते ।
न तेषां त्रिषु लोकेषु त्राता भवति कश्चन ।।५३ ।।
यस्तान् परिवदेच्चापि तन्नाशं चापि रोचयेत् ।
स्वयं नाशे गतः स्यात् स तमः सूर्योदये यथा ।।५४।।
अनागतस्य सन्द्रष्टा प्रत्युत्पन्नमतिस्तथा ।
सेवया सुखमेधेते तद्विहीनौ विनश्यतः ।।५५।।
प्राप्ते काले भवेत् सेवा सा सेवा मोक्षदा मता ।
गते काले गते देवे गते श्रीसंभवे ततः ।।५६।।
स लाभो न भवत्येव यो लाभोऽनुग्रहेऽर्थितः ।
ब्रह्मवेतॄन् प्रसेवेत ज्ञानवृद्धाँस्तपस्विनः ।।५७।।
श्रुतचारित्र्यवृत्ताढ्यान् सतः सेवेत भूतये ।
प्रीत्या यशो भवेद्दिव्यमप्रीत्या श्रेयसां क्षयः ।।५८।।
प्रीतिं सम्पादयेत् सेवां कृत्वा सतां स बुद्धिमान् ।
प्रीताः सन्तो हरिर्वापि शरणायं प्ररक्षति ।।।५९।।
कपोतेन शरणायः पूजितो मांसदानकैः ।
लुब्धोऽरण्ये शबरो वै क्रूरकर्मा च निष्ठुरः ।।2.211.६०।।
जनः पापसमाचारस्त्यक्तः स्वैर्बान्धवैः पुरा ।
ययौ वनं तदा वृष्टिरभूत् सर्वातिशायिनी ।।६ १।।
जलं जलं ह्यभूत् सर्वं महाजलमयं यथा ।
लभ्यन्ते प्राणिनो नैव पक्षिणः पशवोऽपि न ।।६२।।
लुब्धकः स तदा सायं त्वेकां कपोतिका वने ।
प्राप्तवान् पञ्जरे तां च कृत्वा वृक्षं समाश्रितः ।।६३।।
लुब्धकः स तदा रात्रौ वृक्षं मत्वा तु दैवतम् ।
साञ्जलिः प्रणतिं कृत्वा वाक्यमाह वनस्पतिम् ।।६४।।
शरणं यामि यान्यस्मिन् दैवतानि वनस्पतौ ।
रक्षन्तु मां निराधारं शरणागतमत्र वः ।।६५।।
क्षुधितः स तु सुष्वाप मूले निधाय मस्तकम् ।
शाखायां विहगश्चास्ते नाम्ना चित्रकपोतकः ।।६६।।
भार्या तस्य गता भक्ष्यं चरितुं नागता तु सा ।
शुशोच बहुधा रात्रौ कपोतो वृष्टिपीडितः ।।६७।।
मन्ये भार्या मृता मे वै वातवृष्टिभिरद्य वै ।
अपि स्वस्ति भवेत्तस्याः प्रियाया मम कानने ।।६८।।
भार्याहीनं गृहं त्वद्य शून्यं मे दृश्यते किल ।
पुत्रपौत्रवधूभृत्यदासाद्यैः पूरितं ह्यपि ।।६९।।
न गृहं गृहमित्याहुर्गृहिणी गृहमेव यत्। ।
पत्नीं विना गृहं चास्तेऽरण्यं शून्यमिवाऽपरम् ।।2.211.७० ।।
तया विना जीवनं मे व्यपार्थकं हि लोक्यते ।
न भुंक्ते मय्यभुक्ते या नाऽस्नाते स्नाति सुव्रता ।।७ १ ।।
नाऽतिष्ठत्युपतिष्ठेत्सा शेते तु शयिते मयि ।
हृष्टे भवति सा हृष्टा दुःखिते मयि दुःखिता ।।७२।।
प्रोषिते दीनवदना क्रुद्धे तु प्रियवादिनी ।
पतिव्रता पतिगतिः पतिप्रियहिते रता ।।७३ ।।
यस्य स्यात् तादृशी भार्या धन्यः स पुरुषः सदा ।
सा च शान्त क्षुधार्तं च जानीते मां तपस्विनी ।।७४।।
अनुरक्ता स्थिरा चैव भक्ता स्निग्धा यशस्विनी ।
वृक्षोऽपि सद्गृहं भाति तया युक्तं सुखावहम् ।।७५।।
तद्विहीनो महासौधः कान्तार इव भाति वै ।
धर्मार्थकामकार्येषु भार्या पुंसः सहायिनी ।।७६।।
विदेशगमने चापि विश्वासपात्रिका हि सा ।
भार्या वै परमश्चार्थः पुरुषस्य सदाऽस्ति हि ।।७७।।
असहायस्य लोकेऽत्र भार्या चास्ते सहायिनी ।
रोगकृच्छ्राभिभूतस्य भेषजं परमं हि सा ।।७८।।
नास्ति पत्नीसमो बन्धुः सहायो धर्मसंग्रहे ।
विनोदे परलोके च गतौ सुहृत् तु सा सटा ।।७९।।
यस्य साध्वी सती भार्या रम्या च प्रियवादिनी ।
नास्ति गृहे च तेनात्राऽरण्ये गन्तव्यमेव तु ।।2.211.८० ।।
मर्तव्यं वेति रात्रौ स विलापं कृतवान् बहुम् ।
तं विलापं प्रसुप्तेनाऽरण्ये धृता कपोतिका ।।८ १ ।।
पञ्जरस्था प्रशुश्राव सस्नेहा वाक्यमब्रवीत् ।
अहोऽतीव सुभाग्याऽहं यस्या मे दयितः पतिः ।।८२।।।
अनाज्ञापालिकाया मे गुणानेवं प्रभाषते ।
न सा स्त्री ह्यभिमन्तव्या यस्यां भर्ता न तुष्यति ।।८३।।
तुष्टे भर्तरि नारीणां तुष्टाः स्युः सर्वदेवताः ।
भस्मीभवति सा नारी यस्या भर्ता न तुष्यति ।
इति सञ्चिन्त्य भर्तारं कपोती वाक्यमब्रवीत् ।।८४।।
नाथ वक्ष्यामि सुखकृत् तत्तया कर्तुमर्हसि ।
शरणागतसेवायां तत्परो भव सर्वथा ।।८५।।
अयं शाकुनिको लुब्धस्तव वासं समागतः।
क्षुधार्तस्याऽन्नदानेन सेवनं पुण्यदं भवेत्। ।।८६।।
शरणागतसेवायाः पुण्यं स्वर्गप्रदं मतम् ।
स त्वं सेवय कैरातिं देहदानेन वा प्रिय ।।८७।।
पूजामस्मै प्रयुंक्ष्व त्वं शरीरे मा स्पृहां वह ।
इति श्रुत्वा प्रियावाक्यं कपोतोऽधो जगाम ह ।।८८।।
तमुत्थाप्याऽऽह भद्रं ते स्वागतं करवाणि ते ।
स्वगृहे वर्तसे चात्र किमिच्छसि करोमि ते ।।८९।।
त्वमत्र वनमध्ये मे शरणागत आगतः ।
शत्रावप्युचितं कार्यमातिथ्यं गृहमागते ।।2.211.९० ।।
यज्ञतुल्यं फलं तस्यातिथ्यकर्तुर्गृहस्थितेः ।
श्रुत्वा किरातश्चोवाच शीतं क्षुधा च मेऽद्य वै ।।९ १ ।।
वाधेते तन्निवृत्त्यर्थं यत्नः स्याच्चेद् विधीयताम् ।
कपोतः शीघ्रमुड्डीय कर्मारगृहमागतः ।।९२।।
ज्वलत्काण्डं गृहीत्वैव चञ्च्वा वृक्षमुपाययौ ।
शुष्कपर्णेषु वह्निं चाऽदीपयल्लुब्धकोऽतपत् ।।९३।।
शीतं गतं ततः प्राह भोजनं देहि मे प्रिय ।
कपोतः प्राह मे नास्ति सञ्चयो वनवासिनः ।।९४।।
नित्योञ्च्छवृत्त्या जीवामि नाशयेयं कथं क्षुधाम् ।
किन्तु स्वात्मप्रदानेन तर्पये त्वां नु मन्यसे ।। ९५।।
ऋषीणां देवतानां च पितॄणां च महात्मनाम् ।
सतीनां च सतां पूजां कुर्यादात्मार्पणैरपि ।।९६।।
इत्युक्त्वा त्रिःपरिक्रम्याऽग्निं विवेश विहंगमः ।
भक्षयेति गृणन् वाक्यं नत्वाऽतिथिं पुनः पुनः ।। ९७।।
लुब्धकोऽपि कपोतं संवीक्ष्याग्निभर्जितं तदा ।
उप्पन्नकरुणः प्राह पातकं मित्रघातजम् ।।९८।।
ममोत्पन्नं नृशंसस्य प्रायश्चित्तं नु किं भवेत् ।
अहो देहप्रदानेनातिथ्यसेवा प्रदर्शिता ।।९९।।
सोऽहं चापि वने स्थित्वा चरिष्ये पारलौकिकम् ।
धर्मं कर्मं चरिष्यामि धर्मसेवा परा गतिः ।। 2.211.१० ०।।
इत्यभिधाय शीघ्रं तत्पञ्जरं च कपोतिकाम् ।
प्रमुच्य कृष्णकृष्णेति जजाप भक्तिमान् यथा ।। १०१ ।।
सा कपोतीं पतिं वीक्ष्य वह्निदग्धं ततोऽप्यनु ।
सतीधर्मं तदालम्ब्य वह्निं विवेश दुःखिता ।। १ ०२।।
ततश्चित्रांगदधरं भर्तारं साऽन्वपश्यत ।
विमानस्थं हि देवीभिः पूजितश्च महात्मभिः ।। १ ०३।।
प्रापि दिव्या सुराणी च भूत्वा विमानगाऽभवत् ।
लुब्धकस्तौ विमानस्थौ देवौ खे सन्ददर्श ह ।। १ ०४।।
सेवाधर्मफलं दृष्ट्वा किरातोऽपि तपोऽकरोत् ।
अतिथीनां सेवनं चाकरोद् वननिवासिनाम् ।। १ ०५।।
पालनं पशुपक्ष्यादेः शरणागतरक्षणम् ।
दावाग्निना वने दग्धे भस्मीभूतोऽभवत्ततः ।। १०६ ।।
नष्टकल्मष एवाऽसौ जपन् कृष्णनरायणम् ।
दिव्यां गतिं जगामैव सेवया ब्रह्मसेविनाम् ।। १ ०७।।
एवं सेवां प्रकुर्वन्तु यान्तु मोक्षपदं परम् ।७
इत्युक्त्वा राधिके कृष्णो विरराम क्षणं तदा ।। १ ०८।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्तानेऽध्वरदेवतापूजनहोमाद्युत्तरं भोजनं, ततो रायबालेश्वरराष्ट्रं द्वैपायनद्वीपं च प्रतिगमनम् । वायुफेनापुर्यां भ्रमणं
पूजनं चोपदेशनं चेत्यादिनिरूपणनामैकादशाधिकद्विशततमोऽध्यायः ।। २११ ।।