लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः २१०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २०९ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः २१०
[[लेखकः :|]]
अध्यायः २११ →

श्रीकृष्ण उवाच-
शृणु त्वं राधिके प्रातः स्नात्वा कृष्णनरायणः ।
कृत्वा तु नैत्यिकी पूजां यज्ञभूमिं जगाम ह ।। १ ।।
लोमशाद्याः ऋषयश्च राजानो यजमानकाः ।
प्रजा देवाः सुरेशाश्च कर्मठाश्चोपतस्थिरे ।। २ ।।
यज्ञहव्यानि नव्यानि तत्राहृतानि सर्वतः ।
कामद्रुमादिभिस्तत्र रसाः सम्प्रतिपादिताः ।। ३ ।।
स्वस्तिवाचोऽभवँश्चापि पुण्याहवचनान्यपि ।
वाद्यघोषा अभवँश्च वेदध्वनय इत्यपि ।। ४ ।।
यजमानाश्च राजानो नवम्यां प्रातरेव ते ।
यथास्थानं समागत्य कर्मकाण्डे कृतादराः ।। ५ ।।
सावधाना अभवँश्च जायन्ते क्रमशः क्रियाः ।
प्रोक्षणानि पूजनानि नैवेद्यबलयोऽर्पिताः ।। ६ ।।
वह्नौ हव्यप्रदानानि जातान्याहुतयोऽभवन् ।
देवतातर्पणं जातं सुराद्यास्तृप्तिमागताः ।। ७ ।।
ब्रह्मसृष्टीश्वरसृष्टिजीवसृष्टिस्थदेहिनः ।
यज्ञाहुतिभिः प्रत्यक्षं तृप्तिं गतास्तदाऽध्वरे ।। ८ ।।
अन्त्याहुतिं तथा पुष्पाञ्जलिं ददौ हरिर्मखे ।
परिहारं चकाराऽथ भोजनान्यददात् प्रभुः ।। ९ ।।
मेशुभान्नं मोहनस्थालान्नं मुद्गजलडडुऽकान् ।
सुखदां चूर्णलडडूँऽश्च मौक्तिकान् शष्कुलीस्तथा ।। 2.210.१० ।।
शाटकान् घृतपूराँश्चापूपाँश्च शतछिद्रकान् ।
पिण्डकान् बर्फिकां मिष्टपूर्णपोलीश्च पूरिकाः ।। १ १।।
खाजकान् पायसान् क्षीरं संयावं च बिरञ्जकम् ।
कंसारं बुन्दिकालड्डून् शर्कराघृतलड्डुकान् ।। १२।।
श्रीखण्डं राजिकाराद्धं क्वथिकां सूपमित्यपि ।
ओदनं बहुशाकानि पत्रभाजाश्च भोजनाः ।। १३।।
चणका माषकाश्चापि श्रपिता भर्जितास्तथा ।
वटिकाः फुल्लवटका पोलिकाश्चामृतानि च ।। १४।।
दिव्यभोज्यानि मुक्तानां सत्त्वभोज्यानि चेशिनाम् ।
सुधाभोज्यानि देवानां चामभोज्यानि पितॄणाम् ।। १५।।
रसभोज्यानि तत्त्वानां मदभोज्यानि रक्षसाम् ।
यथायोग्यानि भोज्यानि सर्वेषां देहिनां तथा ।। १६ ।।
यज्ञप्रसादरूपाणि तृप्तिदान्यभवँस्तदा ।
तक्रं बहुविधं शुभ्रं चाम्ब्लमिष्टं सुगन्धि च ।। १ ७।।
पाचकं शान्तिदं तत्रामीक्षाघं चाभवत्तथा ।
मधूनि नैकरूपाणि मधुपर्काणि यान्यपि । । १८।।
तिक्ताम्ब्लकटुचूर्णानि चटन्यश्चाभवँस्तदा ।
आरनालानि रम्याणि फलानि विविधानि च ।। १ ९।।
ताम्बूलकानि दिव्यानि देहिभ्योऽदापयद्धरिः ।
एवं सर्वान् भोजयित्वा ततः संबुभुजे प्रभुः ।। 2.210.२० ।।
कुटुम्बसहितः श्रीशो विशश्राम क्षणं तथा ।
मध्याह्ने रायमारीशो नृपः प्रार्थयदच्युतम् ।।२ १ ।।
निजद्वीपं समागन्तुं हरिः सज्जो बभूव ह ।
अन्यान् यथापेक्षिताँश्च नित्ययोगस्थितान् प्रभुः ।। २२।।
पित्रादीनीश्वरं शंभुं सतीं कुटुम्बकं निजम् ।
ऋषीन् लोमशमुख्याँश्च नीत्वा विमानमास्थितः ।। २३ ।।
तदा राजा च राज्ञी च दानवर्षिस्तथा पुरः ।
विमानेन ययुश्चाग्रे द्वीपमालीस्मराभिधम् ।। २४।।
ऋद्धीशा नगरी संशोभाभिश्चलंकृता तदा ।
सैन्येन स्वागतार्थं चोपस्थितिः रचिता द्रुतम् ।। २५।।
तावद् विमानं कृष्णस्य वर्धिमुल्लंघ्य खाडिकाम् ।
द्वीपानुच्चावचाँश्चाप्युल्लंघ्य राष्ट्रं सुशोभनम् ।।२६।।
आलीस्मरं हरिः प्राप विमानं भूतलेऽनयन् ।
ऋद्धीशाया महोद्याने नृपालयस्य सन्निधौ ।।।२७।।
तदा वाद्यान्यवाद्यन्त जयध्वानास्तथाऽभवन् ।
गीतिकाः स्मरनारीणां प्रजानां जयगर्जनाः ।।।२८।।
सुस्वागतैः पताकाद्यैर्ध्वजैर्लाजाऽक्षतादिभिः ।
तोरणैः पुष्पहाराद्यैरञ्जल्यादिभिरेव च ।। २९।।
नमनैः पुष्पदानैश्च सम्मानं श्रीहरेरभूत् ।
विमानाच्छ्रीहरिस्तूर्णं बहिर्यदाऽऽययौ ततः ।। 2.210.३ ०।।
रायमारीशभूपस्त्री राज्ञी कुशलकुण्डला ।
पादौ तीर्थजलैः संप्रक्षालयामास सत्वरम् ।।३ १ ।।
हरेस्तच्चरणोत्थं च जलं पपुर्नृपादयः ।
कुंकुमैश्चरणौ रञ्जयित्वा मुद्राश्च जगृहुः ।।।३२।।
पुष्पहारान् गन्धवारि गन्धसारान् ददौ तथा ।
दुःखहाञ्जलिभिर्नार्यः स्मारिकाः कृष्णमेव ताः ।।३३।।
पुपूजुर्बहुभावेन कन्यका भावगर्भिताः ।
अथ कृष्णं महासौधे राजा न्यषादयत् क्षणम् ।।३४।।
सिंहासने स्वके नीत्वा ददौ धनं तु कोटिकम् ।
सौवर्णं चाम्बराद्यं चीर्णं सर्वं कूप्यमित्यपि ।। ३५।।
रत्नलक्षं प्रददौ च तदा कन्यात्रयं शुभम् ।
मुग्धं कृष्णगले मालात्रयं समार्पयत् पतिम् ।। ३६।।
मत्वा मातृवचोऽवाप्य कृष्णवल्लभमुत्तमम् ।
पतिं कन्यात्रयं प्राप राजा सन्तोषितोऽभवत् ।। ३७।।
राज्ञी जाता कृतकृत्या ततो दुग्धं पपौ प्रभुः ।
अन्ये दुग्धं पपुश्चापि द्रुतं कृष्णो विमानके ।। ३८।।
स्थित्वा स्वल्पे ऋद्धीशायां नगर्यां सैन्यवर्धितः ।
प्रजाभिश्चार्थितः संविहृत्य गृहाणि सर्वतः । । ३९।।
पावनानि तदा कृत्वा दत्वा स्वं दर्शनं शुभम् ।
प्रजाभिश्च कृतं नैकविधोपदाभिरर्चनम् ।।2.210.४० ।।
गृहीत्वा राजसौधं चाऽऽययौ स्वामी हरिः प्रभुः ।
राज्यसिंहासने स्थित्वोपादिदेश प्रजादिकान् ।।४१ ।।
मम योगो महत्पुण्यैर्जातोऽस्त्यत्र महार्णवे ।
भवतां भावनाकृष्टः समायातोऽस्मि दूरतः ।।४२।।
मदर्थे दीयते सर्वं शाश्वतं जायते हि तत् ।
निर्गुणं मम योगेन मोक्षदं जायते हि तत् ।। ४३ ।।
आशां विहाय चान्यस्मिन् मायिकेऽखिलवस्तुनि ।
रमते चात्मयोगेषु मोक्षमार्गं स विन्दति ।ऽ। ४४।।
आशा दुःखगृहं शश्वत् हिमवत्समनिश्चलम् ।
महोदधिसमं चाप्यगाधं दोषसमन्वितम् ।।४५।।
नभःसममपारं च रौरवं जीवतः स्थितम् ।
अपि राज्यस्थितो राजा चाशया मृगयाकृते ।।४६।।
वने दुःखं तथाऽऽप्नोति यथा क्षुद्रो हि लुब्धकः ।
अपि सर्वेन्द्रियतृप्तः कामनाशाधृतो भवेत् ।।४७।।
अन्यायकामभोगेन महद्दुःखमवाप्नुयात् ।
अन्तरीक्षं तथा कामो द्वयोर्ज्यायान् नु को भवेत् ।।४८।।
इति प्रश्नेऽन्तरीक्षं वै ज्यायः कामो न हि क्वचित् ।
अन्तरीक्षस्य पारं वै यान्ति योगिजनाः क्वचित् ।।४९।।
आशाया नैव पारं संलभन्ते तदनुसृताः ।
ऋषभो नाम भक्तो मे पुरा श्रीबदरीवनम् ।।2.210.५० ।।
उपाययौ मम दिव्यं नरनारायणाश्रमम् ।
यत्र मे बदरी रम्या ह्रदो वैहायसोऽमलः ।।५१ ।।
अश्वशिरा ऋषिर्यत्र यत्र गंगाऽतिपावनी ।
तत्रागत्याश्रमे रम्ये मण्डपे मम सन्निधौ ।।५२।।
नत्वा वासार्थमेवाऽसौ दृष्ट्वाऽऽश्रमर्षिसत्कुटीम् ।
पर्णकुटीं ययौ कर्तुं दीर्घवासेच्छया पुनः ।।५३ ।।
तेन मार्गे ऋषिर्नान्ना तनुर्दृष्टस्तपोधनः ।
ऊर्ध्वे त्वष्टगुणो देहे कृशतायां तृणेशवत् ।।५४।।
कनिष्ठिकासमस्त्वस्य दर्शनं चाद्भुतं ह्यभूत् ।
तं नत्वा ऋषभस्तस्थौ दत्तासने विवेश ह ।।५५।।
पृष्टः कुशलमेवापि कथयामास सान्त्वनम् ।
तथाऽऽह पर्णशालां च कर्तुमिच्छामि चात्र वै ।।५६।।
तपः कर्तुं तथेच्छामि शान्तिं विन्दामि येन च ।
तत्सर्वं कर्तुमिच्छामि शाधि मे त्वं तनो मुने ।।५७।।
तनुः प्राह मया नैव कृताऽत्र पर्णसत्कुटी ।
यतः सर्वं नश्वरं वै कस्यार्थे पर्णजा कुटी ।।५८।।
यावदिच्छा च ते त्वास्ते पर्णशालाविधापने ।
तावच्छान्तिर्न ते स्याद्वै तृष्णाशालावृतस्य वै ।।५९ ।।
निस्तृष्णस्य निरीहस्य निरिच्छस्य महत्सुखम् ।
तपसाऽपि सुखं नैव यदीच्छा तत्र जाग्रति ।।2.210.६ ०।।
पर्णकुट्यां निविष्टस्य न स्याद् ब्रह्मप्रवेशनम् ।
आशाकुटीविहीनस्य भवेद् ब्रह्मप्रवेशनम् ।।६ १ ।।
ब्रह्मावेशितलोकस्य शान्तिः शाश्वतयोगिनी ।
तस्मादाशां परित्यज्याऽन्तरीक्षादपि दीर्घिकाम् ।।६२।।
चिदाकाशे पर्णकुट्यां लभ विश्रान्तिमच्युते ।
तनुनैवं समुक्तः स ऋषभो ज्ञानचक्षुषा ।।६३।।
पर्णकुटीं परित्यज्याऽभजन्मां परमेश्वरम्।
ममांऽशो मत्स्वरूपः सोऽभवन्मोक्षगतिस्ततः ।।६४।।
तस्मादाशां परित्यज्य मनो मयि समर्पयेत् ।
सर्वं मयि समर्प्यैव शाश्वतं सुखमाप्नुयात् ।।६५।।
आशा कृता कृशा येन पुष्टात्मा स मतो मम ।
आशा पुष्टा भवेद् यस्य कृशः स्यात् स न संशयः ।।६६।।
या सक्ता सर्वभूतेषु कृतघ्नेष्वलसेषु च ।
नृशंसेषु हिंसकेषु याऽपकारिषु विद्यते ।।६७।।
पुत्रस्त्रीधनसौधेषु देहेन्द्रियेषु भुक्तिषु ।
वार्धक्ये पुत्रहीनानां पुत्रे राज्ञां च राष्ट्रके ।।६८।।
प्रदानकांक्षिणीनां च कन्यानां सुविलासने ।
लुब्धानां प्रियविषये डिम्भानां मातरि ध्रुवा ।।६९ ।।
याऽऽशा कृता कृशा येन स शान्तिमधिगच्छति ।
षष्टिवर्षसहस्राणि गौतमस्तप आचरत् ।।2.210.७० ।।
उपायातो धर्मराजस्तमुग्रतपसं मुनिम् ।
गौतमो धर्मराजाय नमस्कुत्याऽऽसनं ददौ ।।७ १ ।।
प्रपच्छ कुशलं चापि स्वागतं चाकरोत्ततः ।
धर्मराजो गौतमं संपप्रच्छ तपसा मुने ।।७२।।
किं ते प्रयोजनं चास्ते कथं करोषि दुस्तपः ।
गौतमः प्राह शान्त्यर्थं तपश्चरामि दुश्चरम् ।। ७३।।
येन यास्ये पुण्यकृताँल्लोकान् सुखादिसंभृतान् ।
यमः प्राह विचारस्ते विमार्गं प्रतिगच्छति ।।७४।।
पुण्यकृतां तथाऽपुण्यकृतां लोकेषु सदृशम् ।
तृष्णाजन्यं महादुःखं बाधते पुण्यशालिनः ।।७५।।
धामाक्षरं विनाऽन्यत्र तार्ष्णं दुःखं प्रविद्यते ।
तस्मादाशां विहायैव तिष्ठ ब्रह्मणि निश्चलः ।।७६।।
सर्वां शान्तिं ब्रह्मयोगादविनाशामवाप्स्यसि ।
आशावतः सुखं नास्ति यया ते तपतोऽपि वै ।।।७।।
यावदाशा च तृष्णा च तथेहा स्वार्थगृध्निका ।
इच्छाऽभिलाषा कामश्च तावद् व्यक्तेः कथं सुखम् ।।।७७।।
सर्वं चेष्टं निवृत्तं च यस्य भवति सर्वथा ।
तस्याऽब्धिः शाश्वतश्चोपतिष्ठेदानन्दसंभृतः ।।७९।।
तस्मान्नारायणः साक्षाद् येषामिच्छास्ववस्थितः ।
सन्तोऽपि ब्रह्मवेत्तारस्त एव शान्तिसंभुजः ।।2.210.८० ।।
श्रुत्वैवं गौतमस्त्यक्त्वा तपो भक्तौ व्यवस्थितः ।
निराशः शान्तहृदयः परां शान्तिं गतस्तदा ।।८ १ ।।
तस्मान्नृपैः प्रजाभिश्च नरैर्नारीभिरेव च ।
यष्टव्योऽहं महायज्ञैः सन्तोषणीयः सेवया ।।८२।।
इच्छार्पणेन साक्षाच्च भजनीयोऽहमेव च।
एवं मां प्राप्य सेवाभिर्मोक्षं नैजं प्रसाधयेत् ।।।८३ ।।
भवन्तश्च जनाः सर्वे प्रजा राजादयोऽपि च ।
मयि नारायणे कृष्णे कर्मणा मनसा गिरा ।।८४।।
सर्वं समर्प्य मां कृष्णे भजन्तु गतलालसाः ।
महाशान्तिं परमां मे दास्येऽक्षरे परे स्थिताम् ।।८८३ ।।
इत्युक्त्वा श्रीहरिः राधे चाह मन्त्रं प्रजादिषु ।
भक्तिं ददौ निजां पश्चाद् विरराम महाप्रभुः ।।८६।।
राजा राज्ञी प्रजाश्चापि भोजयामासुरच्युतम् ।
सार्थान् संभोजयामासुः राजाद्याश्चक्रुरादनम् ।। ८७।।
ततः पूजां परिगृह्य विमानमध्यरोहयत् ।
सर्वान् स्वयं चारुरोह गन्तुं च मखभूमिकाम् ।।८८।।
सम्मानं बहुधा चक्रुः प्रजाः सैन्यानि योषितः ।
ससार च ततः कृष्णो राज्ञा च ऋषिणा सह ।।८९।।
द्वीपे द्वीपान्तरे चापि सायं वै काशिमं ययौ ।
द्विवामं च ययौ पश्चान्मीलवीलं समाययौ ।। 2.210.९० ।।
ततोऽध्वरप्रदेशं स आययौ च निशांशके ।
स्नात्वा सन्ध्या तत्र चक्रे निजावासे च भोजनम् ।।९१ ।।
विशश्राम च निद्रायां रायमारीशकन्यकाः ।
तिस्रः सिषेविरे कान्तं भगवन्तं नवं पतिम् ।। ९२।।
प्रातःकाले वेदघोषैर्मंगलावहतूर्यकैः ।
गीतिभिर्वाद्यघोषैश्च जजागार हरिः स्तवैः ।। ९३ ।।
राजाधिराजो भगवान् कृतस्नानविधिस्ततः ।
पितरौ पूजयामास भक्तेभ्यो दर्शनं ददौ ।। ९४।।
कृताह्निकः सुवेषश्च मखभूमिं समागतः ।
दानवर्षिं तथा रायमारीशभूपतिं तदा ।। ९५।।
प्राहेदं कोटिद्रव्यं यत् पूजायां मम चागतम् ।
भवतोश्च प्रजानां च सर्वं मखेऽस्तु चार्पितम् ।। ९६ ।।
इत्युक्त्वाऽऽहूय कोशेशं कुबेरं प्रददौ च तत् ।
मखे व्ययार्थं धनराडयुंक्त सर्वमेव तत् ।। ९७।।
इत्येवं राधिकेऽनादिकृष्णनारायणः स्वयम् ।
पावयित्वा जनान् देशान् नराँश्च योषितस्तथा ।। ९८।।
संगृह्य शरणे मुक्तियोग्यान् करोत्यनुग्रहात् ।
बालान् वृद्धान् मध्यरूपान् यूनः सर्वाश्च देहिनः ।।९९।।
पावयित्वा मोक्षयोग्यान् करोति परमेश्वरः ।
अपि कन्या भूभृतां च मुग्धाः समर्पिताः स्वयम् ।। 2.210.१० ०।।
परिगृह्यापि विधिना निजयोगं ददाति सः ।
कृपापारावाररूपो दिव्योऽपि जनताश्रयः ।। १०१ ।।
अदिव्यान् मानवान् देहान् स्वीकृत्यापि प्रमोक्षणम् ।
ददातीति कृपा तस्याऽऽनन्दवार्धेर्हरेः प्रिये ।। १०२।।
अलेप्यस्य न लेपोऽस्ति कालमायेशितुः क्वचित् ।
सर्वं चास्य शरीरं वै भोग्यं चाधीनकं तथा ।। १०३ ।।
विशेषेण परिगृह्य पावयत्येव भक्तिगम् ।
नित्यतृप्तस्य नास्त्येव पराधीना हि तृप्तिका ।। १ ०४।।
सर्वानन्दप्रदः सोऽयं सर्वत्र जयतेतमाम् ।
राधे भक्त्यैव भगवान् भक्ताधीनो भवत्यपि ।। १ ०५।।
यो यथा तं प्रपद्येत तं तथा भजते प्रभुः ।
या यथा सेवत कृष्णं कृष्णस्तां सेवते तथा ।। १०६ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने नवम्यां यज्ञकार्योत्तरं रायमारीशभूपराष्ट्रे आलीस्मरद्वीपे ऋद्धीशापुरीं प्रतिगमनं भ्रमणं पूजनमुपदेशनं काशिमद्विवाममीलवील- द्वीपान् पावयित्वा मखभूमावागमनं रात्रौ विश्रान्तिश्चेत्यादिनिरूपणनामा दशाधिकद्विशततमोऽध्यायः ।। २१० ।।