लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १६९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १६८ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः १६९
[[लेखकः :|]]
अध्यायः १७० →

श्रीकृष्ण उवाच-
राधिके प्रातरुत्थाय भगवान् स्नानमाचरत् ।
ध्यानं जपं तथा होमं स्वाध्यायं तर्पणं तथा ।। १ ।।
पूजनं निजरूपस्य पितृदर्शनवन्दनम् ।
साधूनां च सतीनां च दर्शनं चाकरोत्ततः ।। २ ।।
दुग्धामृतं मनाक् पीत्वा यज्ञभूम्यवलोकनम् ।
कर्तुं करिणमारुह्य निर्ययौ स निजालयात् ।। ३ ।।
सपक्षहस्ती व्योम्नैवाऽसञ्चरत् सर्वभूमिषु ।
व्यलोकयच्छुभां भूमिं सुदर्शनं प्रगृह्य च ।। ४ ।।
लीनं प्रकाशितं जातं यत्र तत्रैव वेदिकाम् ।
विश्वकर्मकृतां वीक्ष्य प्रसन्नः स्थानमाययौ ।। ५ ।।
प्रशशंस हरिश्चेशानं देवं सर्वदृष्टिकम् ।
भक्तं देवायनं विश्वकर्माणं कपिलादिकान् ।। ६ ।।
देवगुरुं गणेशादीन् प्रशशंस तदा हरिः ।
सामग्रीदायकान् सर्वान् दासान् दासीश्च कोटिशः ।। ७ ।।
सर्वभूपालकाँश्चापि प्रशशंस हरिस्तदा ।
सर्वतत्त्वानि भगवान् प्रशशंस मुहुर्मुहुः। ।। ८ ।।
राजानः ऋषयः सत्यः साधवः पार्षदादयः ।
व्रह्मप्रियाद्याश्च ततश्चक्रुः पूजां हरेस्तदा ।। ९ ।।
लोमशादीन् हरिर्नत्वा विश्रान्तिं मन्दिरेऽलभत् ।
प्रातः पेयानि भोज्यानि सर्वेभ्योऽदापयत् प्रभुः ।। 2.169.१ ०।।
रसशालाः प्रवर्तन्ते दीयन्ते भोजनानि च ।
यथायोग्यानि चेष्टानि सर्वेभ्यः पूर्णतृप्तये ।। ११ ।।
प्रातरारभ्य वै भक्ष्यं पेयं चान्यदपेक्षितम् ।
सातत्येन प्रवाहेण दीयते चाऽऽनिशामुखम् ।। १ २।।
यथा यानि तु तत्त्वानि वर्ष्माणि यादृशानि च ।
यादृशं पथ्यमेतेषां तादृग् ददति वल्लिकाः ।। १ ३।।
मणयो धेनवश्चापि वृक्षाश्च कल्पचिन्तनाः ।
मुक्ता मुक्तान्य एवापि सिद्धयः श्रीरमादयः ।। १४।।
ब्राह्म्यः सुशक्तयोऽनन्ता ऐश्वर्याणि गुणास्तथा ।
अर्पयन्ति समस्तेभ्योऽपेक्ष्यभोज्यानि वै तदा ।। १५।।
प्रतिमन्दिरमेतेभ्यः प्रापयन्तीष्टभोज्यकम् ।
यद्यदपेक्षितं सर्वं त्वधिकं प्रापयन्ति हि ।। १६।।
त्वं राधेऽमर्षमापन्ना दृष्ट्वा गांगेयगौरवम् ।
किन्न स्मरसि शान्ता च मया त्वं सुनयैः कृता ।। १७।।
भोजिता वन्दिता त्वं तु गंगया पादवाहिता ।
शृंगारिता कवर्या च प्रसन्ना त्वं तदा ह्यभूः ।। १८।।
चतुर्थ्यां राधिके तत्र प्राघूणिका विशेषतः ।
समाययुर्विमानैश्च कोटिशो मानवा दिने ।। १ ९।।
राशियानप्रदेशेभ्यो षोडशलक्षमानवाः ।
प्राग्ज्योतिर्देशतो लक्षमानवाश्चाययुस्तदा ।।2.169.२०।।
प्राचीनदेशतश्चापि दशलक्षाणि चाययुः ।
ब्रह्मदेशाल्लक्षजना उष्ट्रालयाच्च लक्षकम् ।। २१ ।।
आजनाभात् कोटिजना अब्रिक्तात् कोटिशो जनाः ।
आरक्ताल्लक्षजनताश्चोत्तरादपि चाययुः ।।२२।।
मानवानां कोटिचतुष्टयं तत्राऽभवत्तदा ।
तदन्यानां तु लोकानां सृष्टित्रयनिवासिनाम् ।।२३।।
आगतानां देहिनां तु संख्यासंख्या न विद्यते ।
महीमानालया भूमौ जलेऽनिलेऽन्तरीक्षके ।।२४।।
मेघे गिरौ च विवरेऽम्बरे तत्त्वेषु सर्वशः ।
रचिताश्चाभवन् विश्वकर्मणा सूक्ष्मदर्शिना ।।२५।।
सिद्धिमन्तस्तदा चाणूभूय मिश्रीप्रभूय च ।
लीनीभूयाऽपि यज्ञेऽत्र तिष्ठन्ति हरिमानसः ।।।२६।।
परे ब्रह्मणि सर्वेषां त्वक्षरे चापि धामनि ।
आन्तरभाववासेन समावेशोऽभवत्तदा ।।२७।।
ममुः सर्वे परे धाम्न्यक्षरे साक्षाद्विराजिते ।
आश्चर्यं नास्ति राधेऽत्र सर्वाश्रयो यतो हरिः ।।२८।।
अणुदेशे सर्वसृष्टीः समावेशयितुं क्षमः ।
स्वल्पे स्थले विशालत्वं प्रदर्शयितुमर्हति ।।२९।।
तत्कृत्यन्तं न विन्देऽहं कोऽन्यो ज्ञातुं तदाऽर्हति ।
अणौ सृष्टीः क्षणे कल्पान् दर्शयितुं स चार्हति ।।2.169.३ ०।।
जलगण्डूषमात्रेण तर्पयितुं त्रिलोकजान् ।
कणभक्षणमात्रेण तृप्तिं दातुं स चार्हति ।।३ १।।
असंभाव्यं तथाऽतर्क्यं तथाऽशक्यं न माधवे ।
यन्मूर्तेः सर्वमेवेदं समभूत् चेक्षणात्पुरा ।।३२।।
यत्संकल्पात्पुनर्ह्रासं चान्ते तत्रैव यास्यति ।
कोऽहं का त्वं तथा चान्ये नारायणाश्चतुर्भुजाः ।।३३।।
तदग्रे शक्तिमन्तो वै यन्मूर्तेरभवाम ह ।
अलं चातिवचोभिश्च सर्वाधारो हरिर्हि सः ।।३४।।
सर्वानकरोत् सुखिनो मखे संभावनादिभिः ।
अथ श्रीबालकृष्णोऽसौ चतुर्थ्यां मध्यगे रवौ ।।३५।।
मन्त्रान् ददौ नृपेभ्यश्च जनताभ्यश्च मण्डपे ।
कोटिरूपधरो बालकृष्णः सर्वत्र सोऽभवत् ।। ३६ ।।
प्रत्याश्रयं तदा वृष्यां कुशजायां निषद्य च ।
सजलं भक्तकर्णेषु मन्त्रानश्रावयत् प्रभुः ।।३७।।
'शरणं श्रीकृष्णनारायणोऽस्तु मम सर्वदा' ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।। ३८।।
'कालमायापापकर्मशत्रुयाम्यकुहृद्भयात् ।
शूलमीनध्वजधनुश्चक्रस्वस्तिकवानव' ।। ३ ९।।
'ब्रह्माऽहं श्रीकृष्णनारायणभक्तोऽस्मि शाश्वतः' ।
'अनादिश्रीकृष्णनारायणः स्वामी पतिश्च मे' ।।2.169.४०।।
'बालकृष्णः परब्रह्म मम वै शाश्वतः पतिः ।
पिता बन्धुः सुहृन्मित्रं रक्षकः पालकोऽस्तु सः' ।।४१ ।।
'श्रीकृष्णवल्लभः कृष्णः स्वामी मेऽयं पतिर्हि मे' ।
एवं शरणमन्त्रं चार्पणमन्त्रं च रक्षकम् ।।४२।।
मनुं च ब्रह्मभावं च मन्त्रं स्वाम्यनिवेदकम् ।
सर्वस्वं च मनुं कृष्णनारायणः परेश्वरः ।।४३ ।।
यथाधिकारं संवीक्ष्याऽऽबालवृद्धनरीनरान् ।
कृतार्थान् श्रावयामास चकार मानवान् बहून् ।।४४।।
ततो वै भोजनं चक्रुर्दीक्षिताश्च हरिर्जनाः ।
लक्ष्मीनारायणसंहिताख्यानं सायमेव वै ।
लोमशः प्रचकाराऽथ चक्रे नीराजनं हरेः ।।४५ ।।
जायन्ते चोत्सवास्तत्र रात्रौ तु भोजनोत्तरम् ।
सर्वेषां सुखदा राधेऽपररात्रे विशश्रमुः ।।४६।।
पञ्चम्यां च प्रगे ब्राह्मे मुहूर्ते श्रीहरिः स्वयम् ।
सस्नौ तु संगमे नद्योः सर्वे सस्नुस्ततः परम् ।।४७।।
नित्यविधीन् विधायाऽथ कृत्वा देवार्हणादिकम् ।
कृष्णनारायणो यज्ञमण्डपं शीघ्रमाययौ ।।४८।।
राजानश्च प्रजाः सर्वे ऋषयो मुनयस्तथा ।
कर्मचाराः ऋत्विजश्च जापकाद्याः समाययुः ।।४९।।
वादित्राणां निनादाश्च तदाऽभवन् सुसूचकाः ।
अध्वरस्य क्रियाकाण्डं कुर्वन्तु भूसुरा इति ।।2.169.५० ।।
अनादिश्रीकृष्णनारायणश्चाजिज्ञपद् द्विजान् ।
विप्राद्या मंगलं चक्रर्वेदमन्त्रैः प्रसुस्वरम् ।।५१।।
आचार्यो लोमशस्तत्र देशकालावकीर्तयत् ।
गणेशस्मरणं कृत्वा कृष्णनारायणः प्रभुः ।।५२।।
आचार्यवरणं चक्रे नत्वा श्रीलोमशं गुरुम् ।
प्रकोष्ठे बन्धनं चक्रे चक्रे चावाहनं क्षितेः ।।५३ ।।
पञ्चगव्यकुशैर्भूमेः प्रोक्षणं प्रचकार ह ।
भूताद्यपक्रमार्थं च प्राक्षिपत् श्वेतसर्षपान् ।।५४।।
एवं भूमिं पूजयित्वा प्रायश्चित्तं चकार ह ।
आचमनं प्राणायामं कृत्वा चक्रे प्रपूजनम् ।।५५।।
स्वात्मकस्य गणेशस्य षोडशोपसुवस्तुभिः ।
पुण्याहवाचनं चक्रे कलशस्थापनं तथा ।।५६।।
आशीर्वादान् ददुस्तत्र ब्राह्मणा वेदवेदिनः ।
शान्तिपाठाञ्जगुर्वारिसेकं चक्रुस्तदा द्विजाः ।।५७।।
स्वस्तिवाचो जगुश्चापि चक्रुः कृष्णाभिसेचनम् ।
मातृकापूजनं चक्रुर्नान्दीश्राद्धं प्रचक्रिरे ।।५८।।
तदंगदक्षिणादानं चकार परमेश्वरः ।
प्रत्येकाचार्यवरणं ब्रह्मवरणमित्यपि ।।५९।।।
ऋत्विजां वरणं द्वारपालवरणमित्यपि ।
जापकानां वरणं च चक्रे पुपूज ताँस्ततः ।।2.169.६०।।
ततः पृथिवीं सम्पूज्य चक्रे दिग्रक्षणं ततः ।
सम्प्रोक्ष्य यज्ञसामग्रीः स्वस्तिमन्त्रान् जगाद ह ।।६१ ।।
मण्डपपूजनं वास्तुपूजनं प्रचकार ह ।
वास्तुदेवार्हणं सर्वं विधिना प्रचकार ह ।।६२।।
कलशस्थापनं चक्रे फलौषधिमृदार्पणम् ।
दर्भपवित्रदानं च तीर्थावाहनमित्यपि ।।६३।।
अथाऽग्न्युत्तारण चक्रे सर्वदेवान् पुपूज च ।
प्राणप्रतिष्ठामन्त्रांश्च जगाद परमेश्वरः ।।६४।।
योगिनीक्षेत्रपालाँश्च पुपूज विधिना हरिः ।
पीठदेवार्हणं चक्रे बलिं ददौ ननाम च ।।६५।।
मण्डपस्याऽर्हणं चक्रे ब्रह्मपूजां चकार ह ।
तथा मण्डपदेवानामर्हणं प्रचकार च ।।६६।।
षोडशादिस्तम्भपूजां बहिर्देवादिपूजनम् ।
शाखादेवप्रपूजां च ध्वजानां पूजनं तथा ।।६७।।
सर्वकलशपूजां च वेदपूजां चकार ह ।
वेदीकुण्डेषु सर्वेषु कुण्डपूजां चकार च ।।६८।।
कुण्डमध्ये विश्वकर्मपूजनं प्रचकार सः ।
मेखलापूजनं तत्र देवानां पूजनं तथा ।।६९।।
योनिपूजां कण्ठपूजां नाभिपूजां चकार सः ।
वास्तुपूरुषपूजां च वह्निस्थापनमाचरत् ।।2.169.७०।।
नवग्रहार्हणं चाधिदेवतार्हणमाचरत् ।
प्रत्यधिदेवतापूजां नागपूजां समाचरत् ।।७ १ ।।
लोकपालार्हणं चक्रे गणेशभूतपूजनम् ।
दिक्पालपूजनं चक्रे श्रीदेवीपूजनं तथा ।।७२।।
मण्डलस्थापितदेवार्हणं चक्रे हरिस्तथा ।
कलशार्हणमेवापि षट्पञ्चाशत्सुरार्हणम् ७३।।
ऋषीणां पूजनं पितृपूजनं सिद्धपूजनम् ।
मृत्युकालार्हणं चक्रे सरित्सागरपूजनम् ।।७४।।
शैलाऽऽयुधाऽर्हणं चक्रे आर्षीदेवीप्रपूजनम् ।
कलशस्थापनं कृत्वा वरुणार्हणमाचरत् ।।७५।।
चतुर्विंशत्यवतारान् वासुदेवादिकानपि ।
ईश्वरान् तत्सतीः साध्वी सर्वाश्च हरिरार्चयत् ।।७६।।
त्रिदेवपार्षदान् सर्वान् सर्वधामनिवासिनः ।
ब्रह्मसृष्टिमयान् सर्वान् ईशसृष्टिमयानपि ।।७७।।
जीवसृष्टिमयान् सर्वान् श्रीकृष्णः समपूजयत्। ।
चतुर्दशसु लोकेषु ये वसन्ति तु देहिनः ।।७८।।
जडान् दिव्यान् चेतनाँश्च गुरून् दासीश्च दासकान् ।
चतुःखनिषु चोत्पन्नान् सर्वान् कृष्णो ह्यपूजयत् ।।७९।।
प्रतिकुण्डं च राजानस्तथा चक्रुः प्रपूजनम् ।
तत्तन्महर्षिगुरुणा यथोद्दिष्टं तथा व्यधुः ।।2.169.८०।।
द्रव्यत्यागं कुण्डवह्नौ चकार परमेश्वरः ।
प्रोक्षणीप्रोक्षणं चक्रे तथाऽऽज्यहवनं व्यधात्। ।।८ १ ।।
चरुं त्वग्नौ समारोप्य तथाऽवस्थाप्य तत्स्थले ।
समिधो हवनं चक्रे स्रुवेणाऽऽज्याहुतीर्ददौ ।।८२।।
स्वाहा देवायाऽमुकायेत्येवं होमं चकार सः ।
ब्रह्मसृष्टीश्वरसृष्टिजीवसृष्टिभ्य एव च ।।८३।।
यज्ञदेवेभ्य एवाऽपि बह्वाहुतीर्ददौ प्रभुः ।
कुण्डमण्डपवास्तूनां देवताभ्यो हवं ददौ ।
सतीसाध्वीसेविकाशक्तिभ्यः कृष्णो हवं ददौ ।।८४।।
योगिनीभ्यश्च मुक्ताभ्यो ब्रह्मप्रियाभ्य इत्यपि ।
सर्वांगव्यापिनीभ्यः सिद्धिभ्यः कृष्णो हवं ददौ ।।८५।।
आदित्यवसुरुद्राश्विकुमारेभ्यो हवं ददौ ।
अवतारसहिताय निजाय चाहुतीर्ददौ ।।८६।।
चर्वाहुतीर्ददौ चामृतात्मिकास्तृप्तये हरिः ।
यूपारोपं ततश्चक्रे यूपदेवानपूजयत् ।।८७।।
यूपमसिञ्चयच्चापि बलिं यूपाय वै ददौ ।
निद्राकलशपूजां च प्राकारयद्धरिस्ततः ।।८८।।
आमन्त्रितान् जीवजातान् यज्ञे भागं हरिर्ददौ ।
पायसान्नं घृतं दुग्धं फलानि च रसान् ददौ ।।८९।।
यथा यथा मखे वह्नौ सहस्रायुतधारिकाः ।
पतन्त्याहुतयो हव्यात्मिकास्तथा तथाऽभितः ।।2.169.९०।।
सर्वे जीवास्तृप्तिमन्तो जायन्ते हर्यनुग्रहात् ।
व्रीहयश्च यवा निवाराद्या मुन्यन्नकानि च ।।९ १।।
खर्जुरा रसवन्तश्च कणा मिष्टरसान्विताः ।
ओषधयश्च समिधः फलानि रसवन्ति च ।।९२।।
शर्कराद्यास्तथा मिष्टान्नानि चाहुतयोऽभवन् ।
वह्नयः सर्वजातीयाश्चागत्य तृप्तिमावहन् ।।९३।।
अग्निमुखा देहिनश्च येऽन्ये ब्रह्ममुखास्तथा ।
कृष्णमुखास्तथा सर्वे साधुमुखास्तथाऽपरे ।। ९४।।
सतीमुख्यो देविकामुख्यश्च याः शक्तयस्तथा ।
स्वाहामुख्यश्च या लक्ष्मीश्रीमुख्यश्च तथाऽपराः ।।९५।।
अन्नपूर्णानना याश्च सर्वास्तास्तृप्तिमावहन् ।
जडचेतनतत्त्वानि तृप्तानि विविधैर्हवैः ।।९६।।
पूर्णाहुतिं ददौ पश्चादारार्त्रिकं ततोऽकरोत् ।
सर्वदेवादिसत्त्वानां विश्रान्तिं प्रददौ ततः ।।९७।।
एवं वै सप्तविंशत्यात्मकेषु कुण्डकेषु च ।
सर्वत्र ऋषिभिः पूजाबलिदानहवाः कृताः ।।९८।।
राजभिर्युगलैश्चापि हवनेच्छायुतैस्तथा ।
गृहीतो हवलाभश्च बालकृष्णाज्ञया मखे ।।९९।।
दक्षिणाः प्रतिपूजायां भूयस्योऽर्प्यन्त एव च ।
फलाहारा रसाहारा अन्नाहारा ह्यतिप्रियाः ।। 2.169.१००।।
दीयन्ते सर्वजन्तुभ्यः स्वस्वाहारास्तु शार्ङ्गिणा ।
कल्पचिन्तामणिजन्या दीयन्ते भक्ष्यसद्रसाः ।। १०१ ।।
एवं निर्वर्तितं रम्यं पञ्चमीहवनं शुभम् ।
ततः सर्वानब्जकोट्यर्बुदपद्मादिसंख्यकान् ।। १ ०२।।
मुक्तान् धामानि मुक्तानीश्चावताराँश्च तत्प्रियाः ।
पार्षदान् पार्षदानीश्च भोजयामास चामृतान् ।।१ ०३ ।।
मिष्टान्नानि च दिव्यानि पेयान्यनन्तकानि च ।
भक्ष्यभोज्यानि सर्वाणि लेह्यान्यपि शुभानि च ।। १ ०४।।
ब्रह्मप्रियास्तथा भक्ताः सतीः साध्वीर्हरिप्रियाः ।
भोजयामास भगवान् कन्यका बहुसंख्यकाः ।। १ ०५।।
ईश्वरानीश्वराणीश्च मायां मायाकुटुम्बकम् ।
चतुर्विंशतितत्त्वानि भोजयामास माधवः ।। १ ०६।।
अष्टावरणलोकस्थान् ब्रह्मेशविष्णुसेवकान् ।
त्रिदेवदासदासीश्च भोजयामास माधवः ।। १ ०७।।
त्रिदेवदेविकाः सर्वा ब्रह्मचर्याऽधिकन्यकाः।
देवीः कुमारिका योगिनीः सांख्ययोगिनीः सतीः ।। १ ०८।।
सर्वाः संभोजयामास व्रतैकादशिकादिकाः ।
तिथिरूपान् देविकानां गणानप्सरसस्तथा ।। १ ०९।।
सर्वाः संभोजयामास भगवान् कृष्णवल्लभः ।
मेरुस्थान् सत्यलोकस्थान् महर्जनतपःस्थितान् ।। 2.169.११ ०।।
ऋषीन् पितॄन् तथाऽऽर्षीश्च पितृका मातृकास्तथा ।
स्वःस्थान् देवान् देविकाश्च भुवर्लोकस्थिताँस्तथा ।। ११ १।।
भूस्थान्नरान् नारीवर्गान् जरायुजाऽण्डजाँस्तथा ।
स्वेदजानुद्भित्प्रजातान् भोजयामास माधवः ।। ११ २।।
तीर्थान्यरण्यसरितः पर्वतान् सागरादिकान् ।
अपि कीटपतंगाद्यान् भोजयामास माधवः ।। ११ ३।।
ब्रह्मपुत्रान् राजसांश्च तामसान् सर्वजातिकान् ।
धर्माधर्मप्रजाताँश्च काश्यपान् सूर्यचन्द्रजान् ।। १ १४।।
पातालस्थान् राक्षसाँश्च यक्षान् गन्धर्वकिन्नरान् ।
सप्ततलिनो भूताँश्च प्रेतान् यमालयस्थितान् ।। ११ ५।।
किंपुंसो मागधान् सूतान् बन्दिजनानभोजयत् ।
चारणान् शूद्रजातीयान् विद्याध्रान् वनवासिनः ।। १ १६।।
क्रूरान् सत्त्वान् डाकिनीश्च शाकिनीश्च तथाऽपराः ।
चाण्डालान् श्वपचान् पशून् भोजयामास माधवः ।। १ १७।।
सर्पान्नागान् पक्षिगणान् कुष्माण्डान् प्रविनायकान् ।
दैत्यान् देवानासुराँश्च भोजयामास माधवः ।। १ १८।।
जडं च चेतनं सर्वम् आधाराधेयमिश्रितम् ।
बुभुजे यज्ञभागं वै क्रतोः प्रासादिकं शुभम् ।। ११ ९।।
सर्वं त्रिसृष्टिजं नित्यमनित्यं स्थिरजंगमम् ।
भुक्त्वा यज्ञप्रसादं सुतृप्तिमाप हि शाश्वतीम् ।। 2.169.१ २०।।
राधाद्या मे प्रियाः सर्वास्तृप्तिमाप्ता प्रसादजाम् ।
इत्येवं राधिके! यज्ञकार्यं चाद्यदिनेऽभवत् ।। १२१ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने यज्ञे भूमिपूजनं वास्तुकुण्डमण्डपादिदेवानां पूजनं ब्रह्मसृष्टीश्वरसृष्टिजीवसृष्टिदेहिनां पूजनं हवनं महापूर्णाहुतिदानं
भोजनदानं चेत्यादिनिरूपणनामा नवषष्ट्यधिकशततमोऽध्यायः ।। १६९।।