लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १६८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १६७ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः १६८
[[लेखकः :|]]
अध्यायः १६९ →

श्रीकृष्ण उवाच-
शृणु त्वं राधिकेऽनादिकृष्णनारायणः स्वयम् ।
अक्षराख्यं पार्षदं स्वं सस्मार तूर्णमेव ह ।। १ ।।
आगतश्चाक्षरस्तत्र कुंकुमवापिकास्थले ।
नत्वा तस्था हरिस्तस्मै ददावाज्ञां शुभश्रुतिम् ।। २ ।।
केतुमाले महान् यज्ञो भविष्यतीति पत्रिकाम् ।
कुंकुमाढ्यां सर्वसृष्टाशमन्त्रणार्थमर्थदाम् ।। ३ ।।
शीघ्रं दिव्यैः पार्षदैस्त्वं सम्प्रेषय च मा चिरम् ।
इत्युक्त्वा भगवान् तस्मै ददौ तां पत्रिकां यथा ।। ४ ।।
अनादिश्रीकृष्णनारायणो विजयतेतमाम् ।
केतुमाले साप्रपौठानिष्ठापरासमागमे ।। ५ ।।
श्रावणे शुक्लपञ्चम्यां सर्वेष्टिं वैष्णवं मखम् ।
करिष्यति त्रिलोकस्थैस्तत्रागन्तव्यमादरात् ।। ६ ।।
गृह्णीमश्चातिथिलाभं मखलाभं विदन्तु च ।
एकादश्यां पूर्णहवो भविष्यति सुखोत्सवैः ।। ७ ।।
अवतारा ईश्वराश्च पितरः ऋषिदेवताः ।
मानवाः काश्यपाः सर्वे पातालादिनिवासिनः ।। ८ ।।
स्थावरा जंगमाश्चापि समायान्तु मखे सुखाः ।
लोमशश्च यवक्रीतः कपिलश्च बृहस्पतिः । । ९ ।।
सनत्कुमारो भगवान् उरलकेतुभूपतिः ।
ईशानश्च वयमेते निवेदयाम आदरात् ।। 2.168.१ ०।।
जीवलोके ईशलोके ब्रह्मलोके वसन्ति ये ।
आगन्तव्यं समस्तैस्तैर्नारायणोऽपि वच्म्यहम् ।। ११ ।।
अनादिश्रीकृष्णनारायणस्त्रिवारकं दले ।
प्रतिज्ञाय पुनर्वच्मि सर्वे चायान्तु वै मखे ।। १२।।
कुंकुमवापिकाक्षेत्रात् तृतीयायामहं मखे ।
गमिष्यामि भवद्भिश्चोपस्थातव्यं तदा मखे ।। १३ ।।
पार्षदाः सर्वधामस्थाः पार्षदान्यश्च शक्तयः ।
समायान्तु महीमानसेवार्थं पूर्वके दिने ।। १४।।
इत्येवं पत्रिकाः कोटिरूपिणीः समप्रैषयत् ।
सर्वलोकेषु भगवान् कृष्णनारायणः स्वयम् ।। १५।।
चिदाकाशेन च भूताकाशेन मायया तथा ।
महाकालेन धर्मेण द्वारा वै सर्वसृष्टिषु ।। १६।।
सृष्ट्यादौ राधिके सर्वतत्त्वानां लोकलोकिनाम् ।
आसीत् कुटुम्बवद् योगः संसर्गो मेलनं गतिः ।। १७।।
तत्र नैवास्ति चाश्चर्यं यत्रैते द्वाररूपिणः ।
अहं गोलोकगश्चापि त्वया साकं तदाऽगमम् ।। १८।।
सर्वे नारायणास्तत्राऽगच्छन् विलोक्य पत्रिकाः ।
सर्वसृष्टिजनास्तत्र चाययुः स्नेहसंभृताः ।। १९।।
वार्धयस्तु जनानां वै विमानानां तदाम्बरे ।
प्रदृश्यन्ते सर्वदिक्षु त्वायान्तो मखभूमिकाम् ।।2.168.२० ।।
कोट्यर्बुदाब्जपद्मानि त्वाययुः प्रतिदिक्स्तरात् ।
यावन्तो मुक्तकोट्यश्च तावन्तः पार्षदादयः ।। २१।।
तावत्यः शक्तयश्चापि मुक्तान्यः सिद्धयस्तथा ।
तावन्तश्चेश्वराः सर्वे स्वस्वशक्त्यादिशोभिताः ।।२२।।
तावन्तश्च महेशाद्यास्तावन्तश्चाण्डवासिनः ।
सुराऽसुराश्चिदचिदो द्रव्यगुणक्रियादिकाः ।।२३।।
वेदा विद्याश्च तीर्थानि तत्त्वानि धर्मविस्तराः ।
तावन्त एव खनिजाः सर्वस्वर्गनिवासिजः ।।२४।।
विवरस्थाश्च मिश्रस्था व्यतिरिक्तास्तथाऽन्विताः ।
परब्रह्ममयाः सर्वे त्रिगुणास्तत्र चाययुः ।।२५।।
सर्वसृष्टिनिवासानां दर्शनं दुर्लभं तु यत् ।
मखेऽत्र सुलभं तद्वै नारायणकृपावशात् ।।२६।।
किं वक्तव्यं तदा राधेऽन्यथाकर्ता हरिस्तदा ।
कर्ताऽकर्ताऽपि सिद्धः स नान्यशक्तिस्तु तादृशी ।।२७।।
चुम्ब्यन्ते सर्वसामग्र्यो यादृशं चुम्बकं भवेत् ।
चुम्बकोऽत्र परब्रह्म सर्वाऽऽकृष्टिः कथं न वै ।।२८।।
वर्णयितुं न शक्नोमि यथाऽऽकृष्टाः प्रजा मखे ।
अतः पूर्वं मयाऽऽकृष्टा न दृष्टा वै मखान्तरे ।।२९।।
उत्सवात्ते समायान्ति कीर्तनैर्वाद्यनर्तनैः ।
वदन्तश्च परब्रह्माऽऽमन्त्रयत्येव नोऽप्यहो ।।2.168.३ ० ।।
एवं वै गम्यमानेषु सर्वेषु च समन्ततः ।
अनादिश्रीकृष्णनारायणः प्रस्थानमाचरत् ।।३ १।।
ऋषिभिर्मुनिभिः साकं क्षेत्रपालादिभिस्तथा ।
तीर्थैः सौराष्ट्रदेशीयैः प्रजाजनैः कुटुम्बिभिः ।।३२।।
ब्रह्मप्रियाभिः सर्वाभिः कोट्यर्बुदाब्जसंख्यकैः ।
भक्तैस्तथा कुटुम्बेन सहाऽऽरोहद् विमानकम् ।। ३३ ।।
विमानेषु सहस्रेषु तथाऽन्या भक्तकोटयः ।
आरोहन् व्योममार्गेण जयनादान् प्रचक्रिरे ।।३४।।
साधवश्च तथा सिद्धाः सत्योऽन्वीयुस्तदा हरिम् ।
आकाशं व्यनदत् सर्वं विमानवाद्यगर्जनैः ।।३५।।
अग्रे वेदा मूर्तिमन्तः प्रयान्ति मन्त्रिघोषिणः ।
वेत्रधर्यः शारदाद्या गायन्ति गुणकीर्तनम् ।। ३६।।
देववाद्यविमानानि कवयो यान्ति वै ततः ।
निशानध्वजडंकाद्यास्ततो यान्ति जयध्वनाः ।।३७।।
ततो मुक्तास्ततः पत्न्यो ब्रह्मप्रिया असंख्यकाः ।
ततो विमानं कृष्णस्य ततश्च रक्षिणो जनाः ।।३८।।
पार्षदाश्च ततः सर्वे प्रजास्ततः सुराष्ट्रजाः ।
क्षेत्रपालाः सर्वपश्चाः समायान्ति मखे तदा ।।३९।।
हिमालयः स्वयं यद्वद् गगने किं प्रगच्छति ।
स्वर्गं वा स्वयमागत्य क्षित्युत्तरे प्रगच्छति ।।2.168.४० ।।
सागरा रत्नशोभाढ्या यान्ति वा नाकमेव किम् ।
इत्येवं दर्शनं व्योम्नि कृष्णनारायणस्य वै ।।४१ ।।
प्रस्थानसार्थयानस्याऽभवत्तदा विलक्षणम् ।
तृतीयाया दिने मध्याह्नोत्तरं भगवान् स्वयम् ।।४२।।
घटिकासु दशस्वेव व्यतीतासु मखाम्बरम् ।
प्राप तदा जयध्वानाऽन्तरीक्षे खे स्थलेऽभवन् ।।४३।।
अर्बुदाऽर्बुदकोट्यश्च दर्शकानां विनिर्ययुः ।
आकाशं तेजसा व्याप्तं विलक्षणेन चाऽभवत् ।।४४।।
सूर्यवह्नयादयो यत्र विलीना नैव गोचराः ।
लोकानां दर्शनयोग्यान्यासन् नैत्राणि वै तदा ।।४५।।
अनादिश्रीकृष्णनारायणस्य कृपयैव ह ।
श्रीहरेस्तेजसा सर्वे तेजोमयं ह्यभूत्तदा ।।४६।।
अपि कृष्णाः शिलाः सर्वा भासन्ते मणयो यथा ।
अपि कृष्णं भूतलं तु चन्द्रोज्ज्वलमभूत्तदा ।।४७।।
अपि रोमाणि केशाश्च स्वर्णवर्णास्तदाभवन् ।
अपि काका भ्रमराश्च हंसा इव च कोकिलाः ।।४८।।
अपि नीलं तदा व्योमाऽभवच्चान्द्रं तलं यथा ।
अप्यान्तराणि लोकानामभवन् ब्रह्मभानि तु ।।४९।।
भौतिकं तु तदा दिव्यं यावत्त्वक्षरवद्ध्यभूत् ।
स्वर्गभूव्योमतत्त्वानां भेदोऽपि विलयं गतः ।।2.168.५० ।।
सप्तरूपाणि सर्वाणि श्वेतवर्णानि चाऽभवन् ।
मायायास्तामसो रक्तो भावोऽपि सत्त्वतां ययौ ।।५१।।
अपि सर्वाश्च सामग्र्यो ब्रह्ममय्यस्तदाऽभवन् ।
ब्रह्मभवनतुल्याश्च तदा ग्रामा गृहाणि च ।।५२।।
सर्वं ब्रह्ममयं चाभूद् बालकृष्णस्य तेजसा ।
दिव्योपहारपूजाद्यैः प्रजा नृपा महर्षयः ।।५३ ।।
राधिके स्वागतार्थं चोपतस्थिरे समुत्सुकाः ।
जयनादान् प्रकुर्वन्तश्चित्रयन्तः प्रतिकृतीः ।।५४।।
साञ्जलयः सार्हणाश्च सभावाः स्नेहिलाननाः ।
प्रफुल्लनेत्रपद्माश्च प्रेमभराऽऽन्तरास्तथा ।।५५।।
नार्यः कुक्षौ धृतबाला नराश्च्युतशिरोधृताः ।
ऊर्ध्वलग्नवृत्तयश्चोत्तानाननास्तदाऽभवन् ।।५६।।
अनादिश्रीकृष्णनारायणः श्रीभगवान् प्रभुः ।
तिरोभावयदुग्रं तत्तेजोऽम्बरादवातरन् ।।५७।।
सर्वदृश्योऽभवच्चापि स्थूलदृश्योऽभवत् प्रभुः ।
अम्बरात् सुरमुक्तानां पुष्पवृष्टिस्तदाऽभवत् ।।५८।।
चन्दनानां शुभा वृष्टिश्चाऽक्षतानां तथाऽभवत् ।
स्वर्णरूप्यकहीराणां वृष्टिस्तदाऽम्बरादभूत् ।।५९।।
क्लृप्तगोपुरसोपानैः शनैः कृष्णो ह्यवातरत् ।
चतुर्दन्तार्जुनहस्तियाने कृष्णं न्यषादयत् ।।2.168.६ ०।।
नृपाः सर्वे स्वर्णरत्नहारान् गुच्छान् समार्पयन् ।
नेमुश्च दण्डवत् देव्यो राज्ञ्यः कन्या व्यवर्धयन् ।।६१ ।।
भगवन्तं त्वक्षताद्यैश्चांकुरैश्चन्दनैः सुमैः ।
नेत्रपुटाख्यकमलैर्दुःखहाञ्जलिभिर्मुहुः ।।६२।।
शाटीप्रान्तैस्तथा चोपस्थानैः स्वस्तिकहस्तकैः ।
हृदयैः प्रेमभावैश्च नमनैस्तमवर्धयन् ।।६३।।
जयशब्दैश्च लाजाभिः कुसुमैस्तीर्थवारिभिः । [
अवर्धयन् हरिं बालकृष्णं नारायणं प्रजाः ।।६४।।
व्यजनैश्चामरैश्छत्रैः सुगन्धिशीतलैर्जलैः ।
गन्धसारान्वितैः कृष्णं श्रेष्ठिनो सुखयन् मुदा।।६५।।
नारिकेलैः शर्कराभिः कुंकुमाबीरलालकैः ।
मांगलिकफलाद्यैश्च बालकृष्णं व्यवर्धयन् ।।६६।।
स्वर्णरथे शतचक्रे दिव्यसिंहासने प्रभुः ।
राजमानश्च गृह्णाति जनार्पितोपदास्तदा ।।६७।।
कांश्चिद् दृष्ट्या नेत्रकोणैः स्मितैर्हस्तैश्च केन च ।
भावैस्तु विविधैः कृष्णो मानयामास वै प्रजाः ।।६८।।
सर्वेभ्यो हासवदनैर्बहुरूपैस्तदा हरिः ।
समन्ततो ददौ नैजं दर्शनं कृपया चिरम् ।।६९।।
यथा चाग्रे तथा पश्चे यथा पार्श्वे तथोर्ध्वके ।
तथैव सर्वनेत्रेषु हृदयेष्वप्यदृश्यत ।।2.168.७०।।
केभ्यश्चिद्धारपुष्पाणि ददात्येव प्रसादतः ।
केभ्यश्चिद्धीरकान् मौक्तिकादीन् रत्नानि गुच्छकान् ।।७१ ।।
ददात्येव महाराजः प्रासादिकान् परेश्वरः ।
फलानि ताम्बूलकानि पूग्यादीनि ददाति च ।।७२।।
नारिकेलानि वस्त्राणि पूजायामागतानि च ।
स्वागतार्थोपदात्मानि प्रासादीनि ददाति वै ।।७३ ।।
शतक्रोशेषु सर्वत्र दत्वा स्वदर्शनं हरिः ।
गजयानेन वै रात्रौ निवासालयमाययौ ।।७४।।
जलपानादिकं चक्रुः सर्वे सार्थाश्च भोजनम् ।
दत्तालयेषु योग्येषु विशश्रमुश्च वै ततः ।।७५।।
सकुटुम्बो हरिश्चापि ब्रह्मप्रियासमन्वितः ।
षड्युक्चत्वारिंशदूर्ध्वं शतयुक् बुभुजे स्वयम् ।।७६ ।।
पपौ शान्तिं जगामाऽथ निद्रां योगमयीमपि ।
आप्रातश्चापि जग्राह दासदासीप्रसेवितः ।।७७।।
रात्रौ स्थले स्थले तत्र बभूवुः कीर्तनानि तु ।
कथाः प्राग्वृत्तमिश्राश्च संप्रचक्रुर्महर्षयः ।।७८।।
चारणा वंशविस्तारान् इतिवृत्तजुषस्तदा ।
इतिहासान् जगदुश्च समाजे भूभृतां तदा ।।७९ ।।
साधवो ज्ञानवार्ताश्च चक्रुर्मोक्षविधिप्रदाः ।
नार्यो गायन्ति रागाद्यैर्गीतिकाः कृष्णमानसाः ।।2.168.८० ।।
कन्यका रासमाबध्य भ्रमन्ति वर्तुलानि च ।
गायन्ति तालिकाध्वानैर्नुपूरघुर्घुरीगतैः ।।८ १।।
नर्तक्यो नर्तनं रंगे कुर्वन्ति धनिसंकुले ।
वाद्यका वाद्यकुशला वादयन्ति रमन्ति च ।।८२।।
नटा नाट्यं प्रकुर्वन्ति दर्शयन्ति च पाटवम् ।
कवयो रचनाव्याप्ता दृश्यन्ते शंसिनस्तदा ।।८३।।
मल्लाः कुर्वन्ति युद्धानि लोकरञ्जनकानि च ।
प्रदर्शनानि दृश्यन्ते सृष्टिसृष्ट्यन्तराणि च ।।८४।।
इन्द्रजालानि लोक्यन्ते रचितानि सुवेदिभिः ।
हास्यशालासु हास्यानि नर्माणि च भवन्त्यपि ।।८५।।
प्रकाश्यन्ते वह्निचूर्णैर्विद्युदग्निसुशिल्पिभिः ।
वह्नावाकाररूपाणि चाम्बरे गर्जनानि च ।।८६।।
खेलनानि वह्नियोगैः क्षिप्यन्ते त्वम्बरेऽपि च ।
भवन्ति गर्जना व्योम्नि प्रस्फोटद्रव्यचित्रता ।।८७।।
बहुरूपधराश्चाद्दि रूप्यन्ते कौशलैर्निजैः ।
भण्डका वेषकाश्चापि रञ्जयन्ति प्रजास्तदा ।।८८।।
वृषभाणां महिषाणां राण्डियानां प्रगर्विणाम् ।
करिणां भल्लुकानां वानराणां योधनानि च ।।८९।।
रात्रावुत्सवरूपेणाऽभवँस्तदा तु राधिके ।
द्वन्द्ववाद्यान्यवाद्यन्त तूपशब्दाः पुनः पुनः ।।2.168.९०।।
अजायन्त मुरादीनां विपञ्चीनां स्वरास्तदा ।
अप्सरसां कन्यकानां गीतयः सर्वतोऽभवन् ।।९१।।
वैदिका ध्वनयस्तत्राऽऽर्षाणामप्यभवन् क्षितौ ।
नपुंसकानां नर्माणि पुत्तलीखेलनानि च ।। ९२।।
गारुडीनां च विद्यानां प्रयोगाश्च तदाऽभवन् ।
कल्पजालस्य रचना विविधाश्च क्वचित्स्थले ।।९३।।
रासे कृष्णकृता लीला गोपीजनविभूषिताः ।
कुत्रचिच्चाऽभवँस्तत्र भक्तिभेदैर्मनोगमाः ।।९४।।
रामादित्यनरादित्यलीलाश्चापि क्वचित्स्थले ।
बालकृष्णचमत्काराः क्वचित्कुर्वन्ति तद्विदः ।।९५ ।।
एवं रात्रौ तदा राधे! जनानां भूमिवासिनाम् ।
तथान्येषां यथेष्टान्यासन्नानन्दोत्सवानि वै ।।९६।।
श्रीमद्गोपालकृष्णस्य तथा श्रीकम्भराश्रियः ।
यशोगानानि योषित्सु सर्वस्थले तदाऽभवन् ।।९७।।
कुंकुमवापिकाक्षेत्रं सुराष्टं चाजनाभिगम् ।
तदा गीतिषु सर्वासां धन्यवादेन शस्यते ।।९८।।
गांगेयास्तु तदा बाला बालिका भूभृतस्तथा ।
ऋषयो ब्रह्मभक्ताश्च प्रशस्यन्ते च गीतिषु ।।९९।।
द्विनदीसंगमश्चापि तीर्थं सुदर्शनं तथा ।
यज्ञतीर्थं शतक्रोशं शस्यन्ते राधिकेऽभितः ।। 2.168.१० ०।।
एवं तृतीयरात्रिः सा व्यतीयाय सुखोच्छ्रया ।
प्रातर्जातं चतुर्थ्यास्तु कृष्णो निद्रां जहाति च ।। १० १।।
मंगलानि च तुर्याणि ह्यवाद्यन्त समन्ततः ।
अगायन्त यशोवार्ताः सूतमागधबन्दयः ।। १ ०२।।
राधिके श्रीहरिर्निद्रां तत्याज मंगलश्रवाः ।
उन्निद्रं सर्वतः क्षेत्रं चाभूत् क्रोशशतान्तरम् ।। १ ०३।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने यज्ञमंगलपत्रिकाप्रकाशनं सर्वसृष्टिवासिनामागमनं श्रीहरेः सकुटुम्बसौराष्ट्रीयप्रजासहितस्य विमानैर्यज्ञभूमिगमनं स्वागतं भ्रमणं विश्रान्तिर्मनोरञ्जनादीनि चेतिनिरूपणनामाऽष्टषष्ट्यधिकशततमोऽध्यायः ।। १६८ ।।