लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ११९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ११८ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः ११९
[[लेखकः :|]]
अध्यायः १२० →

श्रीकृष्ण उवाच-
शृणु चान्यं चमत्कारं राधे! भक्तस्य वै हरेः ।
नाम्ना देवायतनस्य सौराष्ट्रवासिनः प्रिये ।। १ ।।
ग्रामे समाधियानाख्ये भक्तोऽभवच्छुभाश्रयः ।
आभीरजातिमूर्धन्यो देवायतनसंज्ञकः ।। २ ।।
नित्यस्नानपरोऽनादिकृष्णनारायणाश्रितः।
हरे कृष्ण हरे स्वामिन् हरे नारायण प्रभो ।। ३ ।।
श्रीगोपाल हरे कृष्ण कम्भराश्रि रमे सति! ।
अनादिश्रीकृष्णनारायण श्रीपुरुषोत्तम ।। ४ ।।
अक्षरेश प्रभाराधामाणिकीपार्वतीपते ।
सत्पते मुक्तधामेश बालकृष्ण हरे हरे ।। ५ ।।
एवं नित्यं कीर्तनं स करोति सरितस्तटे ।
वालुकासु जले चापि वृक्षाश्रये च भूतले ।। ६ ।।
गृहे क्षेत्रे वाटिकासूद्यानेऽरण्ये वनेऽपि च ।
सर्वकर्मसु कृष्णं तं परमेशं स्मरत्यथ ।। ७ ।।
भोजने शयने याने गमने चासने सदा ।
म्रोडे क्षुतौ चाप्लवने शौचे चालस्यमन्दिरे ।। ८ ।।
चत्वरे च सभायां च जातिकुटुम्बकोत्सवे ।
सूतके शोकविषये हर्षस्थानेऽपि सर्वदा ।। ९ ।।
हरे कृष्ण हरे स्वामिन् तालीवादनपूर्वकम् ।
नामसंकीर्तनं कृष्णनारायणस्य सर्वदा ।। 2.119.१ ०।।
श्रद्धया स करोत्येव स्नानोत्तरं च पूजनम् ।
अनादिश्रीकृष्णनारायणमूर्तेः करोति च ।। १ १।।
आरार्त्रिकं च नैवेद्यं फलान्नजलशोभितम् ।
ददात्येव भगवते भावप्रेमप्रपूरितः ।। १२।।
ग्रामे देशे जनास्तं तु देवायतर्षिसंज्ञया ।
प्राहुर्देवायतर्षिश्चैकदा वृक्षतले स्थितः ।। १ ३।।
टिम्बुरुफलमादाय पक्वं मिष्टं सुखप्रदम् ।
सस्मार श्रीकृष्णनारायणं निवेदनाय वै ।। १४।।
अनादिश्रीकृष्णनारायणो भक्त्या वशंगतः ।
आययौ तुम्बुरुवृक्षस्थले यत्र स भक्तराट् ।। १५।।
बालगोपालवेषो वै समागत्य हसँस्तदा ।
देवायतनहस्ताभ्यां तुम्बुरुद्रुफलानि तु ।। १६।।
पक्वमिष्टानि संगृह्य बुभुजे मिष्टतद्रसम् ।
भक्तो देवायतनर्षिश्चारुफलानि संददौ ।। १७।।
प्रसादं कृष्णदत्तं च भुंक्ते नृत्यति शंसति ।
तल्लीनो मूर्तिसंमग्नो दिव्यदृग् दिव्यदेहवान् ।। १८।।
अभवद् बन्धनशून्यो व्योमाक्रमणशक्तिमान् ।
बालकृष्णः फलान्यत्त्वा नदीं यातो जलाय तु ।। १९।।
देवायनोऽपि तत्पृष्ठे नदीं यातो जलाय वै ।
कृष्णाकृष्टेन्द्रियप्राणवर्ष्मा वाटं ययावनु ।।2.119.२०।।
पर्वतान् वनवृक्षादीन् समुल्लंघ्य हरिं त्वनु ।
जगाम व्योममार्गेण निरावरणदेहवान् ।।२१ ।।
आययौ कुंकुमवापीक्षेत्रं चाश्वसरोवरम् ।
श्रीहरिं ध्यानवृत्त्या वै लक्ष्यीकृत्य सरोवरे ।।२२।।
सस्नौ श्रीकृष्णयोगेन सोपानैश्च जलान्तरे ।
देहं विस्मृत्य सलिले मग्नोऽभूल्लीलया क्षणात् ।।२३।।
देहो वै जलमध्ये सन्तिष्ठन्नेव जलाविलः ।
जलं पीत्वाऽऽत्मना दिव्यो भूत्वा वै स जलोपरि ।।२४।।
हरे कृष्ण हरे रवामिन्नेवं रटन् बहिस्तटे ।
निर्गत्य दिव्यदेहेन क्षणं तस्थौ च यावता ।।२५।।
तावत् तस्य समायातो विचारो जीवतारकः ।
यद्यहं दिव्यदेहेन कारयामि प्रजासु तु ।। २६।।
भजनं कीर्तनं विष्णोर्जीवा यास्यन्ति मोक्षणम् ।
इत्येवं संविचार्यैव भजनं श्रीहरे हरे ।।२७।।।
कुर्वन् त्वारण्यकं व्याघ्रं सिंहारण्यं ततः परम् ।
ततः संयमनीं याम्यां पुरीं गत्वाऽप्यकीर्तयत् ।।२८।।
हरे कृष्ण हरे स्वामिन् हरे नारायण प्रभो ।
श्रीगोपाल हरे कृष्ण कंभराश्रि हरे विभो ।।१९।।
बालकृष्ण रमाराधालक्ष्मीपारवतीपते ।
कमलेश प्रभामाणिकीश नारायण प्रभो ।।2.119.३ ०।।
इत्येवं भजनं चक्रे नामकीर्तनघोषणाम् ।
श्रुत्वा याम्यनिगडस्था विपाशा बन्धनच्युताः ।।३ १ ।।
बभूवुः सहसा शुद्धाः पापतापविवर्जिताः ।
मुक्तियोग्या दिव्यदेहा वैकुण्ठयोग्यदेहिनः ।।३ २।।
पुण्यदेहाश्च ते भूत्वा श्रुत्वा नाम हरेर्मुहुः ।
धर्मराजं नमस्कृत्य ययुर्ब्रह्म सनातनम् ।।३३।।
देवायनोऽपि याम्याना भ्रमित्वा सर्वभूमिषु ।
बालकृष्णस्य च हरेः श्रावयित्वाऽभिधां मुहुः ।। ३४।।
प्रज्वाल्य पापिपापानि प्रेषयामास धाम च ।
यमदूता विलोक्यैतन्महाश्चर्यं यमं प्रति ।। ३५।।
त्वरिताः प्रययुर्विज्ञापयामासुरनिष्टकम् ।
यमराज महाबाहो कारागाराणि पापिनाम् ।।३६।।
केनचित्तु समागत्य संश्राव्य नाम वै हरेः ।
विधाप्यन्ते तु रिक्तानि प्रयान्ति ब्रह्म पापिनः ।।३७।।
पुण्यदेहाः पुण्यरूपाः पुण्यात्मानो विहायसा ।
दिव्ययानेन वै गन्तुं समर्थास्ते प्रयान्ति हि ।।३८।।
नाऽस्माँस्ते गणयत्यत्र योजितान् दण्डदायिनः ।
तिरस्कृत्य च नः सर्वान् प्रदर्श्याङ्गुष्ठदन्तकान् ।।३ ९।।
विहस्याऽस्मान् प्रयान्त्येते पश्य रिक्तं पुरं तव ।
इत्युक्तो यमराजोऽसौ यावत् पश्यति पत्तनम् ।।।2.119.४०।।
याम्यं सर्वं दण्डलोकं रिक्तं संदृष्टवाँस्ततः ।
तं ददर्श दिव्यदेहं भक्तं देवायनं हरेः ।।४१ ।
नाम गृणन्तं तानेन श्रावयन्तं च नारकान् ।
प्रक्षालयन्तं पापानि कुर्वन्तं दिव्यमुक्तताम् ।।४२।।
प्रेषयन्तं हरेर्धाम बलिष्ठं सात्त्वतं स्थितम् ।
यमराजो विलोक्यैनं भक्तं ननाम भावतः ।।४३ ।।
प्राह स्वागतमर्घ्यं च मधुपर्कं ददौ तथा ।
आसनं प्रददौ तस्मै उपाविवेश भक्तराट् ।।४४।।
पप्रच्छ कुशलं सर्वं निरामयं च नाम च ।
आगमं चेति भक्तस्य भक्तो जगाद वै शुभम् ।।४५।।
यमः प्राह हरेर्नाम पापिनां पापनाशकम् ।
भवान् गृह्णाति भक्ताग्र्य तद्योग्यं वै विधीयते ।।४६ ।।
संसारोऽयं तु पापिष्ठो दुःखदः कर्मभिर्वृतः ।
कर्मणा जायते जन्तुः कर्मणैव विलीयते ।।४७।।
कर्मणा भुज्यते दुःखं कर्मणा सुखमाप्यते ।
साधुकर्मप्रकर्ता वै स्वर्गं प्राप्नोति चैश्वरम् ।।४८।।
असाधुकर्मकर्ता वै नारकं दुःखमृच्छति ।
अधर्मकृतकार्याणां पापिनां दण्डहेतवे ।।४९।।
विष्णुना दण्डशालाऽत्र निर्मिता विद्यते सदा ।
तत्राऽहं सूर्यपुत्रोऽस्मि नियुक्तो धर्मदेहवान् ।।।2.119.५०।।
धर्मरूपस्य मे पुत्रो हरिर्नारायणः स्वयम् ।
कृष्णो नरश्च ते पुत्राश्चत्वारो मम वै पुरा ।।५ १ ।।
विशालायां बदर्यां वै मानसा ह्यभवैंश्च मे ।
तन्नाम्ना सर्वदा पापिपापानि प्रज्वलन्ति हि ।।५२।।
मुक्तिं प्रयान्ति जीवाश्च कर्मभूमेर्बलात् खलु ।
यमस्य नगरं त्वेतद् द्ण्डशाला हि केवला ।।५३।।
नैषा कर्मक्षितिश्चास्ते नाऽत्र भक्तप्रवेशनम् ।
अन्तरेण फलभुक्तिं नाऽस्मात् स्थानान्निवर्तनम् ।।५४।।
इत्येवं श्रीहरेराज्ञा मनोराज्ञा विधेस्तथा ।
तामनुसृत्य चैवाऽत्र फलं ददामि देहिने ।।५५।।
तन्मध्ये न क्षतिः कार्या येन केनापि वै क्वचित् ।
इत्येवं नियमस्त्वद्य भक्त त्वया प्रधर्षितः ।।५६।।
अविगणय्य कृष्णस्य नियमं यद् भवानिह ।
समागतोऽस्ति पापानां विनाशको विमुक्तिदः ।।५७।।
तद् योग्यं न कृतं भक्त मा हरेः कीर्तनं कुरु ।
इत्येवं चानुनीतोऽपि न मेने श्रीहरेर्बलात् ।।५८।।।
प्राह भक्तो यमं तत्र मुञ्चेदं व्याधपत्तनम् ।
हरेर्नाम्ना तु ते धर्म मुक्तिं करोमि तेऽपि च ।।५९।।
हरे कृष्ण हरे स्वामिन् वद नारायणेति च ।
भजैनं श्रीबालकृष्णं वाचमन्यां विमुञ्च वै ।।2.119.६ ०।।
तं विदित्वा चातिमृत्युमुपैति नेतरा सृतिः ।
मोक्षार्थं खलु जीवानां मुक्तिदानं परं मतम् ।।६ १ ।।
दीनाऽनाथदरिद्राणामशक्तानां प्रमोक्षणम् ।
अज्ञानां चाऽप्यसुराणां रक्षसां मोक्षणं सदा ।।६२ ।।
कार्यं विजानता नित्यं संसारे पापसंकुले ।
मया त्वत्र समागत्य पापिनां पापवार्धयः ।।६ ३ ।।
प्रदह्यन्ते हरेर्नाम्ना तद् योग्यं क्रियते यम ।
एकोऽपि मानवस्त्वत्र नाम्ना चेदुद्धरेदितः ।।६४।।
तस्य पुण्यस्य वै पारं नैव पश्यामि सूर्यज ।
यमदूताः कथं न्वेते रक्षिता राक्षसा इव ।।६५।।
दीयतां वै त्वया तेभ्यश्चाद्यदिनादभृत्यताम् ।।
श्रवणाद्याश्चित्रगुप्ताः प्रगच्छन्तु च मोक्षणम् ।।६६।।
श्रावयामि हरेर्नाम कुर्वन्तु निर्जनां पुरीम् ।
वसन्तु भगवद्भक्ताः सर्वे दुःखविवर्जिताः ।। ६७।।
प्रक्षालयन्तु यन्त्राणि पापिनां मोक्षणं कुरु ।
वैष्णवाश्च भवन्त्येव सर्वे दयालुसात्त्वताः ।।६८।।
हरेर्नामबलात् सर्वान् मोक्षयिष्ये न संशयः ।
याम्यापुरी भवत्वेषा स्वर्गपुरी सुखान्विता ।।६ ९।।
पापिरिक्तां करोम्येषो भजनेन हरेरिह ।
यथेष्टं कुरु याम्येश भज नारायणं हरिम् ।।2.119.७०।।
इत्युक्त्वा च यमं नत्वा भजन्नारायणं हरिम् ।
बालकृष्णं हृदि धृत्वा ययौ कुण्डेषु पापिनाम् ।।७ १ ।।
हरेकृष्ण हरेस्वामिन् हरेनारायण प्रभो ।
बालकृष्ण हरेकृष्ण श्रीपते पार्वतीपते ।।७२।।
परब्रह्माऽक्षरातीत माणिकीश रमापते ।
राधालक्ष्मीपते कृष्ण प्रभापतेऽव पापिनः ।। ७३।।
इत्येवं करतालाभ्यां शब्दयन् कण्ठतस्तथा ।
पुरीं याम्यां सुखयंश्च पापिनः परितो ययौ ।।७४।।
असंख्यान् पापिनस्त्वेवं संश्राव्य कीर्तनं मनुम् ।
पापानि संप्रदाह्यैव प्रेषयामास चाक्षरम् ।। ७५।।
यमराजो विह्वलः सन् ययौ कुंकुमवापिकाम् ।
अक्षरं परमं क्षेत्रं दिव्यं चाश्वसरोवरम् ।।७६।।
अकस्माच्छ्रीहरेश्चाग्रे त्वागत्य दण्डवत् भुवि ।
पतितः साश्रुनेत्रश्च मौनमास्थाय संस्थितः ।।७७।।
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।
जानन्नपि नृनाट्येन पप्रच्छैनं हि कारणम् ।।७८।।
जगाद यमराजोऽपि भक्तं याम्ये समागतम् ।
अर्पयन्तं प्रमुक्तिं च पापिभ्यो नामकीर्तनात् ।।७२।।
हरिः प्राह तु तच्छ्रुत्वा भक्ताऽधीनोऽस्म्यहं यम ।
भक्तेच्छापूरकश्चाऽस्मि भक्तवश्यः करोमि किम् ।।2.119.८०।।
न निरोद्धुमहं शक्तस्त्वेनं ब्रह्मादयोऽपि च ।
तस्माच्छृणु ममाज्ञां त्वं मा शुचश्चात्र संभवे ।।८ १ ।।
एकवारं याम्यलोकं रिक्तं कारयितुं हि ते ।
मद्भक्ताय तु समयं देहि पश्चात् गमिष्यति ।।८२।।।
रिक्तायां यमपुर्यां स नाऽवलोक्य तु पापिनः ।
कृतकार्यं तु मत्वा स्वं स्वयं गतो भविष्यति ।।८३।।
अद्य मे जनिदिवसश्चतुर्दशसमाकृतः ।
पापिनां निगडानां वै मोक्षणं भवताद् यम ।। ८४।।
इत्युक्तो यमराजोऽपि कृष्णाज्ञां प्राप्य पूजनम् ।
हरेश्चकार विधिना मुमुदे सुखतः स्थितः ।।८५।।
भोजयामास भगवान् यमराजं ततः परम् ।
ददौ च मुकुटं तस्मै सौवर्णं मस्तके हरिः ।।८६।।
कण्ठे हारं च सौवर्णं रत्नहीरकशोभितम् ।
'ओंनमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।।८७।।
मन्त्रं ददौ च तुलसीमालां यमेश्वराय वै ।
पारितोष्यं ददौ मूर्तिं प्रतिमां स्वां सुवर्णजाम् ।।८८।।
ततश्च भगवान् बालकृष्णो जगाद सूर्यजम् ।
भक्तं देवायनं ब्रूहि जय कृष्णनरायण ।।८ ९।।
विमानं सर्वगाम्येतद् देहि तस्मै सुखास्पदम् ।
यात्रार्थं सर्वलोकानां कल्पवल्ल्यादि संश्रितम् ।। 2.119.९०।।
अधिरुह्य प्रयाहि त्वं यमराज विमानकम् ।
प्रसादं तु मम नीत्वा देहि सर्वेभ्य एव च ।।९ १।।
त्वत्पुरं पावनं चास्तु चाद्याऽपराधिवर्जितम् ।
देवायने प्रयाते तु पुनः पूर्णं भविष्यति ।।९२।।
इत्युक्तो यमराजः स राधिके श्रीहरिं तदा ।
नत्वा कृत्वा दण्डवच्च भूत्वा वै वैष्णवो महान् ।।९३ ।।
ययौ विमानवर्येण याम्यं नैजं पुरं पुनः ।
श्रावयामास सर्वेभ्यो यद्वृत्तं हरिसन्निधौ ।।९४।।
देवायनोऽपि यच्छ्रुत्वा मुमुदेऽति ननर्त च ।
नामसंकीर्तनं चक्रे भ्रमित्वा परितः पुरम् ।।९५।।
रिक्तं यमपुरं चक्रे संश्राव्य नाम वै हरेः ।
यमराजो ददौ तस्मै प्रसादं च विमानकम् ।।९६।।
यमदूताः पापिनां च पीडनं प्रजहुस्ततः ।
मोचिता निगडेभ्यश्च बन्धनेभ्यस्तथा तदा ।।९७।।
गताः सर्वे हरेर्नाम्ना स्वर्गं सत्यं सुखाश्रयम् ।
वैकुण्ठं चापि गोलोकं चाव्याकृतं तथाऽमृतम् ।।९८।।
अक्षरं धाम परमं निवर्तन्ते न यद्गताः ।
इत्येवं सुचमत्कारो दृष्टो जातो जनैस्तदा ।।९९।।
चतुर्दशस्थलोकैर्वै तथा धामनिवासिभिः ।
भुक्तिमुक्तिप्रदः कृष्णः समर्थो न करोति किम् ।। 2.119.१० ०।।
यस्य सर्वं यत्र सर्वं यद्वशे सर्वमेव च ।
यस्मात् सर्वं स वै शास्ता किं न करोति राधिके।। १०१ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने देवायतनर्षिभक्तो यमपुर्यां श्रीहरेर्नामसंकीर्तनं कृत्वा याम्यान् सर्वान् मोचयामासेत्यादिनिरूपणनामा
नवदशाधिकशततमोऽध्यायः ।। ११९ ।।