लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ११८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ११७ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः ११८
[[लेखकः :|]]
अध्यायः ११९ →

श्रीकृष्ण उवाच-
शृणु त्वं राधिके चाऽन्यं चमत्कारं हरेः शुभम् ।
भक्तरक्षाकरं श्रेष्ठं पापतापप्रणाशनम् ।। १ ।।
सौराष्ट्रे जयनगरेऽभवत् सन्तारणो द्विजः ।
वेदधर्मरतः सम्यक् पूजाविधानतत्परः ।। २ ।।
षट्कर्मनिरतः कथावाचने गुणकीर्तने ।
कथायाः श्रवणे विष्णोः स्मरणे पादसेवने ।। ३ ।।
अर्चने वन्दने दास्ये सख्ये चात्मनिवेदने ।
महाभागवतश्चासीत् कृष्णपूजापरायणः ।। ४ ।।
स्वयं द्विजः समुत्थाय प्रातर्नित्यं नदीतटम् ।
गत्वा स्नात्येव भद्रायां कृत्वा सन्ध्यां च वन्दनम् ।। ५ ।।
जलस्य कलशं मूर्घ्नि स्वयं नीत्वैव भावतः ।
शालग्रामस्य वै पूजां स्वाऽऽहृतकुसुमादिभिः ।। ६ ।।
स्वघृष्टचन्दनाद्यैश्च करोत्येव सदा द्विजः ।
पूजायां जायमानायां तस्य पत्नी पतिव्रता ।। ७ ।।
तरण्याख्या तु सामग्रीर्ददात्येव हि भावतः ।
जलं पुष्पं फलं चापि वस्त्रं भूषां घृतादिकम् ।। ८ ।।
पुत्री तस्य तरलिका कन्या कुमारिका सती ।
शीघ्रं पूजासमयाद्वै पूर्वमुत्थाय नित्यदा ।। ९ ।।
स्नात्वा नत्वा स्वपितरौ देवं नत्वाऽतिभावतः ।
चुल्लिकां वह्नियुक्तां च विधाय त्वरिता सती ।। 2.118.१० ।।
दुग्धपाकं पूरिकाश्च पक्त्वा नैवेद्यमुत्तमम् ।
समर्पयति कृष्णाय विष्णवे चातिभक्तितः ।। ११ ।।
द्वितीया कन्यका नाम्ना कुमुदा सर्वदा प्रगे ।
गां निजां दोहयित्वैव क्षीरं ददाति चार्चने ।। १२।।
दुग्धसारादिकं कृत्वा नित्यं ददाति चार्चने।
पुत्रस्तस्य विनोदश्च देवपुष्पद्रुमाश्रये ।। १३ ।।
जलसेचनकार्यादि करोत्येव तु सेवनम् ।
पात्राणां मञ्जनं धूपं दीपं जलार्पणादिकम् ।। १४।।
करोति सर्वदा पार्श्वे पितुः स्थित्वा यथास्थलम् ।
द्वितीयस्तस्य पुत्रोऽपि वसन्तर्षिश्च वैष्णवः ।। १7८१।।
वायुदानं व्यजनेन करोति पूजनादिषु ।
मक्षिकाद्रावणं चापि शर्करातुलसीदलम् ।। १६।।
फलान्यपि ददात्येव यथापेक्षं च सेवनम् ।
अथ पूजोत्तरं सर्वे कुर्वन्ति स्तवनं प्रभोः ।। १७।।
प्रदक्षिणं दण्डवच्च पुष्पाञ्जलिं ददत्यपि ।
क्षमायाञ्चां प्रकुर्वन्ति ततो नृत्यन्ति वै मुदा ।। १८।।
वादयन्ति सुवाद्यानि कीर्तयन्ति प्रगीतिकाः ।
गायन्ति तालमानाद्यैर्विविधैर्नर्तनैः सदा ।। १९ ।।
एवं संपूजयित्वा च रमाकान्तं सदा पतिम् ।
ततः प्रसादं भक्तेभ्यः संविभज्य प्रदाय च ।।2.118.२ ०।।
गृहिणस्ते समश्नन्ति शर्करान्नजलादिकम् ।
मध्याह्ने च तथा सायं पूजयन्ति विधानतः ।। २१ ।।
जीविकार्थं तु दिवसे यतन्तेऽपेक्षितं मनाक् ।
एवं प्रयाते समये भगवान् पुरुषोत्तमः ।।२२।।
सुप्रसन्नोऽतिभक्त्यैव साक्षाद् बभूव चैकदा ।
आषाढे कृष्णपक्षे वै रात्रावेकादशीव्रते ।।२ ३ ।।
मुकुटं धारयन् रम्यं वक्रं सौवर्णमुत्तमम् ।
मयूरवर्यपिच्छाग्रं मणिरत्नादिशोभितम् ।।२४।।
कुण्डले मकराकारे दधन् रम्ये तु कर्णयोः ।
तिलकं कौंकुम मध्ये भाले बिभ्रत् सुचन्द्रकम् ।।२५।।
मन्दहास्याननो दिव्यस्मेराकर्षितमानसः ।
कण्ठे सुकौस्तुभहारान् तूलसीपत्रमालिकाः ।।२६।।
सौवर्णहारमालालीन् दधन् कट्यां तु मेखलाम् ।
सौवर्णीं कटके चापि भुजयोश्च प्रकोष्ठयोः ।।२७।।
शृंखले स्वर्णजे रम्येऽङ्गुलीयकोर्मिकाः करे ।
यष्टिं च पौरटीं मुक्तामाणिक्यहीरकान्विताम् ।।२८।।
पादुके रम्यसौवर्णजनिते धारयन् हरिः ।
पीताम्बरश्च रुचिरो व्यदृश्यत यदृच्छया ।। २९ ।।
तेजोमण्डलमध्यस्थो दासदासीगणार्चितः ।
युवा राजाधिराजश्च राधारमादिसेवितः ।।2.118.३ ०।।
ततो भक्तान् तिरोभाव्य किशोरोऽभूत् स्वयंप्रभुः ।
बालकृष्णस्वरूपः श्रीमहाराजाधिराजकः ।।३ १।।
'किशोरो भगवान् कृष्णो ददौ मन्त्रं स्वयं प्रभुः।
 'ओं नमः श्रीकृष्णनारायणाय रवामिने स्वाहा' ।।३२।।
ददौ च मस्तके हस्तं प्रभुस्तत्र तिरोऽभवत् ।
एवं ततो दिनान्नित्यं प्रारभ्योषःसमर्चने ।।३३।।
पूजायां श्रीमहाराजो नित्यमायाति केशवः ।
किशोरः श्रीकृष्णनारायणः श्रीभूप्रसेवितः ।।३४।।
सर्वोपचारान् गृह्णाति पूजायामर्पितानि वै ।
श्रावणे भाद्रके मासे तथाऽऽश्विनेऽपि वै प्रभुः ।।३५ ।।
पूजां तेषाममायां वै गृहीत्वा प्राह तान् हरिः ।
ऊर्जकृष्णदलाष्टम्यां मम जन्ममहोत्सवः ।।३६।
चतुर्दशोऽश्वसरसस्तटेऽक्षराख्यभूतले ।
भविष्यतीति युष्माभिश्चागन्तव्यं मम गृहम् ।।३७।।
पितृभ्यां चापि कन्याभिः पुत्रैः सह ममालये ।
आगमिष्यन्ति त्रैलोक्येश्वरा ममार्चनाय यत् ।।३८।।
इत्युक्त्वा भगवाँस्तेभ्यो भक्तेभ्योऽथ तिरोऽभवत् ।
भक्तास्ते तीर्थयात्रार्थं समुत्सुकास्ततोऽभवन् ।।।३९।।
षष्ठ्यां प्रसाध्य पाथेयं गृहं पिधाय तालकैः ।
उपदाः सुभगा गृह्य पद्भ्यां प्रस्थानमाचरत् ।।।2.118.४० ।।
सप्तम्यां सायमेवैते प्रापुस्त्वश्वसरोवरम् ।
दृष्ट्वा कुंकुमवापीं च तथा श्रीलोमशाश्रमम् ।।४१ ।।
ऋषीन् सतीः साधुजनान् देवान् देवालयान् बहून् ।
क्षेत्रपान् क्षेत्ररक्षाँश्च नगरं वाटिकादिकाः ।।४२।
उद्यानानि विचित्राणि दैविवृक्षवनानि च ।
यज्ञशालाः कथाशाला धर्मशाला महालयान् ।।४३।।
दृष्ट्वा श्रीकम्भरालक्ष्मीं श्रीगोपालं हरिं तथा ।
दैवीं भूमिं विलोक्यैव ब्रह्मप्रियाश्च कन्यकाः ।।४४
विमानानि सुदिव्यानि मुक्तान् सौधान् समन्ततः ।
अवापुः परमाश्चर्यं परमेश्वरमद्भुतम् ।।४५।।
अनादिश्रीकृष्णनारायणं नत्वाऽऽर्च्य वै ततः ।
सत्कृता भोजितास्तेन नारायणेन ते जनाः ।।४६।।
न्यूषुः रात्रिं महीमानगृहे सौधेऽतिसुन्दरे ।
चक्रुर्जागरणं रात्रौ सप्तम्यां प्रेमविह्वलाः ।।४७।।
ददृशुर्व्योममार्गेण विमानान्यागतानि ते ।
येषु मुक्तास्त्वक्षरस्य तथा गोलोकवासिनः ।।४८।।
वैकुण्ठस्य तथा मुक्ता वैराजाऽमृतवासिनः ।
ब्रह्मविष्णुमहेशाद्या ईश्वराः पितरस्तथा । ।४९।
ऋषयः स्वर्गिणो देवा मेर्वाश्रयाः सुरादयः ।
दिक्पाला लोकपालाश्च मानवाः साधवोऽमलाः ।।2.118.५०।
सिद्धाः साध्व्यः सतीनार्यः सांख्ययोगिन्य इत्यपि ।
नदा नद्यश्च तीर्थानि समुद्राः ऋतवस्तथा ।।५ १ ।
मासा गुणा अरण्यानि पातालवासिनोऽसुराः ।
दिव्या भक्तास्तथा दैत्या दानवाश्चारणादयः ।।५२।
राजानो दिव्यभक्ताश्च संस्थिताः सन्ति येषु वै ।
तादृशानि विमानानि सूर्यचन्द्रनिभानि वै ।।५३।
कुमारीगणगीतैश्चोद्घोषितानि शुभानि च ।
वाद्यनादातिशब्दानि व्योम्नोऽवतेरुरक्षरे ।।५४।
क्षेत्रे कुंकुमवाप्यास्तु सन्निधो वै सहस्रशः ।
तेषां प्रभाः प्रकाशाश्च कोटिचन्द्रसमास्तदा ।।५५।।
अभवन् गगने भूमौ नगरे सर्वतो दिशि ।
रजोमात्रं नान्धकारस्तत्राऽभूद्धामसदृशे ।।५६।।
अनादिश्रीकृष्णनारायणः श्रीभगवान् प्रभुः ।
तथा गोपालकृष्णाख्यः पिता माता तु कम्भरा ।।५७।।
सन्तोषा च स्वसा भ्राता भगवाँश्च शुकस्तथा ।
वल्लभश्चाऽथ वै हेमन्तकोऽपि भगवाँस्तथा ।।५८।।
दासौ द्वौ मञ्जुला हंसा सगुणा च सखीगणः ।
स्वागतं वासमर्घ्यं च मधुपर्कं ददुः सुखम् ।।५९।।
अथ वै ब्राह्मसमये वेदानूचुर्महर्षयः ।
तदा मंगलतूर्याणि त्ववाद्यन्त समन्ततः ।।2.118.६०।।
मुनयो भजनं चक्रुः साधवो ध्यानमाचरन् ।
जनाश्चापि महीमाना ययुः स्नातुं सरोवरम् ।।६१।।
सन्तारणो द्विजश्चापि तरणिस्तस्य भामिनी ।
तरला च कुमुदा च विनोदश्च वसन्तकः ।।६२।।
सर्वे ते वै कुटुम्बं च स्मृत्वा कृष्णनरायणम् ।
ययुः स्नातुं चाश्वपट्टसरोवरजले तदा ।।६३।।
नौकामादाय शबरं तीरस्थं ते व्यलोकयन् ।
विहर्तुमानसा वार्धौ नावमारुरुहुश्च ते ।।६४।।
शुल्कं दत्वा निषेदुश्च नाविको नावमैरयत् ।
जलमध्ये गता नौका क्रोशादप्यधिकं यदा ।।६५ ।।
तदा नौका अपराश्च मानवैरधिरोहिताः ।
शतशश्चापि सरसो मध्ये तटे समन्ततः ।।६६ ।।
विहरन्ति स्म जलधौ सुखान्ननु सरोवरे ।
यदृच्छया महत्या सा नौकया सह वै तदा ।।६७।।
आघातं सहसा प्राप्य वक्रा चाधोमुखी क्षणात् ।
अभवत् तद्भयेनैते नौकास्थाः सहसा तदा ।।६८।।
एकपार्श्वेऽपसस्रुश्च पतिताः सलिलान्तरे ।
नौकाऽपि जलमध्ये सा मग्ना जलप्रपूरिता ।।६९।।
अत्रोपायो न चैवाऽस्ति समुद्धर्तुं तदा हि तान् ।
महत्या नौकया चापि तथा नौकाभिरेव च ।।2.118.७०।।
सहसा तत्र ते सर्वे धीवरैः परिमार्गिताः ।
अगाधे तु जले तत्र मग्नाः षडेव तत्क्षणात् ।।७१ ।।
तरणस्य कलां नैते जानन्ति तेन हेतुना ।
सरस्येव तले मग्ना धीवराणां न हस्तगाः ।।७२।।
अभवैंस्ते तले मग्नाः पपुर्जलं विशेषतः ।
सस्मरुः श्रीकृष्णनारायणं श्रीपरमेश्वरम् ।। ७३।।
आर्त्तिहं त्राणकर्तारं निराधारजलान्तरे ।
तुष्ठुवुर्मनसा मृत्युपाशाधीनाश्च वै हरिम् ।।७४।।
जलमग्नां महीं यश्च समुद्दधार सूकरः ।
जलस्थां च महानौकां जग्राह मकरश्च यः ।। ७५।।
जलमग्नं महाशैलं पृष्ठे कूर्मो दधार यः ।
जलमग्नं गजं भक्तं यो ररक्ष प्रभुर्हरिः ।।७६।।
जलमग्नं च वणिजं ररक्ष भगवाँस्तु यः ।
जलमग्नं महादेशं चोष्ट्रालयं ररक्ष यः ।।७७।।
जलमग्नं नृपं यश्च ररक्षोदयनं पुरा ।
मांझांबिकां जलमग्नां समुद्रे संररक्ष यः ।।७८।।
एवं चान्यान् जलमग्नान् ररक्ष वहुधा प्रभुः ।
निजभक्तान् यदि सत्यान् मन्यसे त्वं नरायण ।।७९।।
तदाऽस्मान् दयया कृष्ण सन्तारय जलान्तरात् ।
मृत्युस्ते सर्वदाऽधीनः कालस्ते कवलस्तथा ।।2.118.८०।।
जलं प्राणनिरोधश्च तव शक्तिवशौ सदा ।
अन्तरात्मा भवानास्ते त्वकालमृत्युहारकः ।।८ १।।
हर दुःखानि देवेश यदि त्रातुं हि मन्यसे ।
त्वं नौकास्त्वं महाप्राणस्त्वं जीवस्त्वं च जीवनम् ।।८२।।
त्वमेव जलमध्ये वै प्रह्लादं प्राणदोऽभवः ।
नास्ति स्तुतेस्तु समयः प्राणा जलनिरोधिताः ।।८३।।
स्थैर्यं यान्ति हृदात्मा च मूर्धानं प्रतिगच्छति ।
क्षणं मृत्योर्मध्यवर्ति विद्यते नाऽधिकं ततः ।।८४।।
इत्येवं ते जलमध्ये राधिकेऽतीव मूर्छिताः ।
स्तुत्वाऽर्पणं च शरणं जग्मुः श्रीकम्भरासुतम् ।।८५।।
सर्वज्ञो भगवान् श्रीशो बालकृष्णस्त्वरायुतः ।
धृत्वा वै कामठं रूपं महाकच्छपमुत्तमम् ।।८६।।
षड्भक्तान् सहसा पृष्ठे धृत्वा तांश्च जलोपरि ।
आनयामास भगवान् निर्नौकाजलमस्तके ।।८७।।
मूर्छां जलं च सहसा बालरूपधरः प्रभुः ।
हस्ताभ्यां च मुहुः स्पृष्ट्वा वारयामास तत्क्षणम् ।।८८।।
पीतं जलं विलीनं च करस्पर्शनमात्रतः ।
मूर्छा दूर गता चापि भानवन्तोऽभवँश्च ते ।।८९।।
स्वस्तिदा महति कूर्मे स्थितान् ददृशुरन्तिके ।
बालं गोपालकृष्णस्य रक्षकं ददृशुस्तथा ।।2.118.९० ।।
दिवरूपधरं कृष्णं दृष्ट्वा शान्तिं परां ययुः ।
मार्गयद्भिर्जनैः षट् ते दृष्टा वै कमठोपरि ।।९ १ ।।
अनादिश्रीकृष्णनारायणेन रक्षिता इति ।
सहसा ते तदा याता नौकायां कूर्मपृष्ठतः ।।९२।।
जगृहुस्तान् नाविका वै कूर्मश्चाऽदृश्यतां गतः ।
शंखचक्रगदापद्मधरोऽभूद् भगवान् हि सः ।।९३।।
सर्वैरेव क्षणं दृष्टः कूर्मो जलान्तरे नरः ।
बालकृष्णे लयं यातश्चैवं दृष्टो जनैस्ततः ।।९४।।
नौकया तान् समगृह्य तीरमानीय तत्यजुः ।
आश्चर्यं श्रीबालकृष्णचमत्कारात्मकं प्रजाः ।।९५।।
आविदन् रक्षकं कृष्णं भेजुर्वै भावतस्ततः ।
अथ जन्मोत्सवपूजां कर्तुं ततश्च मण्डपे ।। ९६ ।।
आययुरीश्वरा मुक्ता देवा देव्यश्च देहिनः ।
पूजनं सर्ववस्त्वाद्यैर्व्यधुश्चारार्त्रिकं व्यधुः ।। ९७।।
उपदाश्चार्पयामासुस्तथा प्रददुराशिषः ।
श्रीगोपालो महीमानान् भोजयामास सर्वशः ।। ९८।।
दत्वा दानानि बहूनि मत्वोपकृतिमुत्तमाम् ।
सर्वान् विसर्जयामास महीमानान् ययुश्च ते ।।९९।।
सन्तारणो द्विजस्तत्र बालकृष्णाय वै तदा ।
कन्याद्वयमतं ज्ञात्वा कन्याद्वयं ददौ मुदा ।। 2.118.१० ०।।
जग्राह भगवान् कन्यारत्नद्वयं श्रियः पतिः ।
कन्यके कृतकृत्ये च सञ्जाते पतिलाभतः ।। १० १।।
लोमशस्याऽऽश्रमे चोभे लोमशाय हरिर्ददौ ।
रक्षितुं कन्यके ब्रह्मप्रियाभिः सह माधवः ।। १ ०२।।
सन्तारणः सपत्नीकः सपुत्रः श्रीहरेस्तदा ।
पूजां जन्मोत्सवं कृत्वा दृष्ट्वा कृतेष्टकोऽभवत् ।। १ ०३।।
आज्ञामादाय स विप्रो ययौ जयन्तपत्तनम् ।
राधिके तन्महातीर्थं शुभं सन्तारणाभिधम् ।। १ ०४।।
अभवद् यत्र वै कूर्मो राजते भगवान् स्वयम् ।
तीरे मन्दिरमध्ये च स्नानात् संसारतारकः ।। १ ०५।।
पठनाच्छ्रवणाच्चापि पापतापात्स तारयेत्।
स्मरणादस्य मोक्षः स्यात् किं पुनः सेवनात्प्रभोः ।। १ ०६।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्तानेऽश्वपट्टसरोवरे चतुर्दशवर्षीयबालकृष्णाष्टमीप्रातःकाले जलमग्नानां सन्तारणादिविप्राणां कूर्मरूपेणोद्धरणमित्यादि-
निरूपणनामाऽष्टादशाधिकशततमोऽध्यायः ।। ११८ ।।