लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ११३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ११२ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः ११३
[[लेखकः :|]]
अध्यायः ११४ →

श्रीकृष्ण उवाच-
अथ श्रीराधिके! कृष्णप्रियास्ताः पितृकन्यकाः ।
अनादिश्रीकृष्णनारायणं पप्रच्छुरादरात् ।। १ ।।
अस्माकं महिमा कान्त कृपया वर्धितस्त्वया ।
श्रीमतश्च महिमानं ज्ञास्यामश्च यथा वयम् ।। २ ।।
तव नो वद सर्वात्मन् मोक्षोऽन्ते नो यथा भवेत् ।
इत्युक्तो भवनाशादिविहीनो भगवान् प्रभुः ।। ३ ।।
आह ताभ्यः स्वरूपस्य ज्ञानं भक्तिसहायकृत् ।
जीवलोकात्परे सन्ति ईश्वराणां हि भूमयः ।। ४ ।।
वासुदेवादयस्तत्र वसन्ति व्यूहकोटयः ।
गोलोकेऽहं राधया सेवितः कृष्णो वसामि च ।। ५ ।।
वैकुण्ठेऽहं श्रिया युक्तो नारायणो वसामि वै ।
तत्परे चाक्षरे धाम्नि वर्तामि पुरुषोत्तमः ।। ६ ।।
अक्षरातीतसंज्ञोऽहं द्विभुजः परमेश्वरः ।
परतश्चाक्षराच्चापि परोऽस्मि परधामनि ।। ७ ।।
असंख्यमुक्तसेव्योऽहं ब्रह्मप्रियाप्रसेवितः ।
मम रोमैकाणुदेशादुत्पन्नं तेज ऐश्वरम् ।। ८ ।।
सर्वेश्वरेषु तद् व्याप्तं पूर्णमिव प्रजायते ।
मदेकगुणलेशेन भवन्तीशा गुणोच्छ्रयाः ।। ९ ।।
मम संकल्पमात्रेण चावतारा भवन्ति हि ।
सृष्टयश्चाऽप्यसंख्याता मत्पुरुषेच्छया खलु ।। 2.113.१ ०।।।
जायन्तेऽनन्तसंख्याकास्तत्राऽन्तर्याम्यहं स्थितः ।
अन्तर्बहिश्च भूतानां यथास्थानं वसाम्यहम् ।। ११ ।।
यथाकार्यं यथापेक्षं यथाभक्तानुसेवनम् ।
तथा भूत्वा निवसामि भक्तवृन्देषु मत्प्रियाः ।। १ २।।
क्वचिद् भवामि चेशेषु क्वचिद् देवेषु वा दिवि ।
ऋषिवर्येषु भक्तेषु क्वचिन्मानवजातिषु ।। १३।।
क्वचिज्जले स्थलेऽरण्ये शैले पृथ्व्यां च गह्वरे ।
पशौ पक्षिणि यादस्सु वृक्षे वल्ल्यां तृणादिषु ।। १४।।
यथाकार्यं भवाम्येव नरो नारी च वेतरः ।
राजा प्रजाऽथवा दीनः साधुः साध्वी च कामिनी ।। १५।।
गोपालो वापि गोबालो गोजालो गोपिकापतिः ।
कल्पे युगे दिने लग्नेऽवतारो मे ध्रुवं प्रियाः ।। १६।।
इदानीं बालकृष्णोऽस्मि श्रीकंभरासतीसुतः ।
कोट्यब्जकन्यकाकान्तः कन्येच्छापूरणार्थकः ।। १७।।
श्रीमद्गोपालकृष्णस्याऽनादिकृष्णनरायणः ।
पुरुषोत्तमसंज्ञोऽहं परमात्मा हि मानवः ।। १८।।
भवतीनां प्राप्यरूपः करुणाकृतकैतवः ।
सौराष्ट्रे कुंकुमवापीक्षेत्रेऽश्वपट्टशोभिते ।। १९।।
लोमशाश्रमसामीप्येऽक्षरक्षेत्रे वसाम्यहम् ।
नरनाट्यं प्रकुर्वाणोऽमेयोऽपि मानतां गतः ।।2.113.२०।।
पूर्वकल्पीयकन्यानां तपःफलप्रदेहया ।
कोटिकन्दर्पसौन्दर्याऽनवधिवीर्यवानहम् ।।२१।।
षड्भगैरष्टसामर्थ्यैरष्टसिद्धिभिरन्वितः ।
कोट्यब्जरूपसामर्थ्याऽसंख्यबलगुणाश्रयः ।।२२।।
कन्यानां भावपूर्त्यर्थं साक्षाज्जातोऽस्मि कान्तकः ।
भवतीनां पतिश्चाऽहं वर्तेऽद्य तपसो बलात् ।। २३।।
मम सेवा प्रकर्तव्या भवतीभिः सुखाप्तये ।
स्नेहेन मम सेवैव भक्तिरेव मता मया ।। २४।।
तया चाहं प्रसन्नः स्यां नान्योपायेन केनचित् ।
सती पतिव्रता यद्वत् सेवते स्वपतिं सदा ।।२५।।
तादृगनन्यभावेन मुमुक्षुर्मा सदा भजेत् ।
परानुरागरूपा सा कर्तव्या मयि सर्वथा ।।२६ ।।
श्रवणं च कथाया मे कर्तव्यं जन्मकर्मणाम् ।
मम भक्तस्य भक्ताया मुखाद्वा मोक्षदं हि तत् । ।।२७।।
मेऽवतारचरित्राणां श्रवणं च मुमुक्षुणा ।
तथैव मम भक्तानां चमत्कारश्रवः शुभः ।।२८।।
श्रोतव्यानि चरित्राणामाख्यानानि मुमुक्षुभिः ।
एवं प्रिया! मम कार्यं कीर्तनं मत्सतामपि ।। २९।।
जन्मकर्मचरित्राणां कथावार्ताः सतां मुखात् ।
कारणीयास्तथा योग्ये समये श्रद्धया मुहुः ।। 2.113.३ ०।।
मद्भक्तानां मम चापि ग्रन्थानां पठनं तथा ।
पाठनं मम पत्नीनां चरित्राणां हि मोक्षदम् ।। ३१ ।।
छन्दसां बद्धपद्यानां गद्यानां मम सर्वदा ।
संस्कृतानां प्राकृतानां ग्रन्थानां गायनं मुदा ।। ३२।।
वीणादिवाद्यसन्मिश्रं तालिकासहितं च वा ।
गालध्वानैश्चिपीटाभिः कर्तव्यं कीर्तनं मम ।।३ ३।।
पादयोर्नुपूरनद्धकिकिणीध्वानमिश्रितम् ।
कट्यां निबद्धपट्टत्य घुर्घुरादिनिनादनैः ।।३४।।
सहितं वा प्रकर्तव्यं नृत्ययुक्तं सुकीर्तनम् ।
मे स्तुतिः सम्प्रार्थना च नाम्नां मे कीर्तनं तथा ।। ३६।।
कार्यं पद्यैर्मम प्रीत्या तथा वाक्यैर्मनोरमैः ।
अथ मे स्मरणं कार्यं चिन्तनं हृदयाम्बुजे ।। ३६।।
सांगोपांगा मम मूर्तिश्चिन्त्या स्वहृदये प्रियाः! ।
एकैकमंगं संचिन्त्य केशात् पादनखावधिम् ।। ३७।।
मूर्तिध्याने मम हास्यं चिन्तनीयं विशेषतः ।
मम नामानि कर्माणि स्मरणीयानि सर्वदा ।। ३८।।
चमत्काराः स्मरणीया मद्भक्तानां ममाऽपि च ।
गुणानां रमरणं कार्यं जप्तव्यो मे मनुस्तथा ।।३ ९।।
परधामाऽक्षरधाम्नोर्गोलोकस्याऽमृतस्य च ।
वैकुण्ठस्याऽव्याकृतस्य श्वेतद्वीपस्य वै तथा ।।2.113.४० ।।
विशालाख्यस्य मे धाम्नः साकेतनामकस्य मे ।
नित्यकैलासनाम्नश्च क्षीरोदस्य च मे तथा ।।४१ ।।
श्रीपुरं च श्रियां मे पार्षदानां ब्रह्मयोषिताम् ।
ऐश्वर्याणां च सिद्धीनां विभूतीनां च मे प्रियाः! ।।४२।।
स्मरणं मम दिव्यानां साधूनां कार्यमुत्सवात् ।
मम देवालयानां च मम पित्रोः कुटुम्बिनाम् ।।४३।।
गवां मे वाहनादीनां मम वेषस्य वै तथा ।
ममाऽऽयुधानां मत्सम्बद्धवस्तूनां स्मृतिः सदा ।।४४।।
कर्तव्या वै तया मुक्तिः स्याद् दिव्या मुक्तिदा हि मे ।
अथ कार्यं चरणयोः संवाहनं मम प्रियाः! ।।४५।।
प्रत्यक्षस्य हरेर्मेऽत्राऽनादिकृष्णस्य सत्पतेः ।
मम मूर्तेः पादसंवाहनं कार्यं तथा मुहुः ।।४६।।
तत्र स्थितोऽहं गृह्णामि सेवां संवाहनादिकाम् ।
मम मूर्तिः कारणीया सर्वांगा चिह्नशोभना ।।४७।।
धातवी दारवी वापि पार्थिवी च किशोरिका ।
तस्याः सेवा नरैश्चापि नारीभिः सर्वथा सदा ।। ८८।।
कारणीया स्नेहपूर्णा कर्तव्या मनसेप्सिता ।
मानसीं वा मम मूर्तिं प्रकल्प्य ध्याननिर्मिताम् ।।४९।।
तस्याश्चरणयोः स्पर्शस्तदंगानां समन्ततः ।
स्पर्शो भावेन कर्तव्यो रन्तव्यं च तया सह ।।2.113.५० ।।
मानसं सर्वथा कार्यं सेवनं मम भावितम् ।
भोजनीयः पूजनीयौ रञ्जनीयो विशेषतः ।। ५१ ।।
हृदयस्थोऽप्यहं कृष्णो ग्रहीष्ये सेवनं तु वः ।
धृत्वा मां शयने नित्य सुप्तव्यं हि मया सह ।।५२ ।।
व्यवहारेऽपि मां चाऽग्रे कृत्वा कर्तव्य एव सः ।
भोक्तव्यं मां प्रधार्यैव नान्यथा तु कदाचन ।।५३।।
शरीरेऽहं सदा चास्मि तथेन्द्रियेषु सर्वथा ।
भोक्तर्येवं प्रभोग्येषु मां निधायाऽऽचरेत् क्रियाः ।। ५४ ।।
तत्सर्वं निर्गुणं मोक्षप्रदं पुण्यप्रदं भवेत् ।
गन्तव्यं मां पुरस्कृत्य स्थातव्यं मयि सर्वथा ।।५५।।
एवं मे सेवनं कार्यं देहसंवाहनं मम ।
सेवया मे वासुदेवाऽनुजा व्यूहस्वरूपिणः ।।५६ ।।
यावत्सृष्ट्युद्भूतिपुष्टिसंहृतिशक्तिमाप्नुवन् ।
मम पादांगुष्ठपूता गंगा पुनाति गोलकम् ।। ५७।।
कालमायापापकर्मशत्रुकुहृद्भयादिकम् ।
मम पादाश्रयवतां तूर्णं नश्यति सेवया ।। ५८।।
राधारमाप्रभापारवतीश्रीमाणिकीप्रियाः ।
द्वादशाधिकशतसंख्याश्चान्या ब्रह्मयोषितः ।।५९।।
पादौ परिचरन्त्यन्याः कोट्यर्बुदस्त्रियश्च मे ।
मुक्तकोट्योऽपि यौ पादौ सदा परिचरन्ति हि ।।2.113.६०।।
देवप्रिया ह्यसंख्याश्च मम पादप्रसेवया ।
गोप्यश्चाऽसंख्यकाश्चापि कीर्तिं प्रापुर्ममाऽधिकाम् ।।६ १।।
यौ पादौ मे स्तुवन्त्येव व्यासाः शतसहस्रशः ।
तौ पादौ संवाहनीयौ सेव्यौ मे मुक्तिकामुकैः ।।६२।।
चरणौ च यया सेव्यौ सेव्यौ भुजौ तथा मम ।
मस्तकं मे सदा सेव्यं पृष्ठं संवाहनेन च ।।६३।।।
सेव्यं मेंऽगं तथोपांगं प्रत्यंगं भावतः प्रियाः! ।
यस्य कस्याऽपि मेंऽगस्य सेवनं मोक्षदं मम ।। ६४।।
अथाऽर्चनं मम कार्यं सात्वतीभिश्च सात्त्वतैः ।
बाह्यार्चनं षोडशभिस्तथा चाष्टशतैरपि ।। ६५ ।।
उपचारैः प्रकर्तव्यं हृद्यैः श्रेष्ठैर्मनोरमैः ।
चलायां मे प्रतिमायां मामावाह्य प्रपूजयेत् ।। ६६ ।।
स्नापयेद् घृतदुग्धाद्यैरभिषिञ्चेज्जलैस्तथा ।
कारयेच्च ततः श्रेष्ठवासांसि सुसमर्पयेत् ।। ६७ ।।
अलंकारान् विविधाँश्च यथास्थानं प्रधारयेत् ।
काश्मीरकेसरोपेतचन्दनाद्यंगलेपनम् ।। ६८ ।।
यथर्तुं कुर्यात् स्नेहेन तिलकं बिन्दुगर्भकम् ।
हारान् सुगन्धिनश्चापि शेखरानवतंसकान् ।। ६९।।
मम दद्यात्प्रदीपं सुधूपं नैवेद्यमुत्तमम् ।
महानीराजनं कुर्याद्गीतवादित्रवादनैः । ।2.113.७ ० ।।
प्रदक्षिणां स्तवनं च प्रार्थनां नमनादिकम् ।
पुष्पांजलिं प्रदद्याच्च पञ्चकालं तु पूजनम् ।। ७१ ।।
त्रिकालं वा द्विकालं वा प्रातरेव तु वाऽऽचरेत् ।
मम जन्मदिनेष्वत्र कर्तव्यं पूजनं महत् ।।।७२ ।।
व्रतेष्वेकादशीनां च गीतवादित्रपूर्वकम् ।
भोजनीयाः साधवश्च सत्यश्च पारणादिने ।।७३ ।।
धनवन्तः कारयेयुर्मन्दिराणि दृढानि मे ।
प्रतिष्ठां कारयेत्तत्र धनी मे सुमहोत्सवैः ।। ७४।।
ग्रामं क्षेत्रं धनं दद्याद् गृहं पूजाधनार्थिकाम् ।
वृत्तिं प्रबन्धयेद् रम्यां पूजाप्रवाहसिद्धये । । ७९ ।।
कूपं च वापिकां पुष्पवाटिकां सुसरांस्यपि ।
कुण्डान् कूपान् कारयेच्च मदर्थं च सतां कृते ।। ७६।।
वैष्णवान् कारयेच्छ्रेष्ठान् मखान् वै भूरिदक्षिणान् ।
मन्त्रजपान् प्रकुर्याच्च स्तोत्राणां पाठनादिकम् ।।७७।।
पुरश्चर्यां तथा कुर्यान्मम नाम्नां पुनः पुनः ।
मन्त्राणां च पुरश्चर्यां ग्रन्थानामपि भावतः ।। ७८ ।।
पितरो देवताः पूज्याः ऋषयो वृद्धदेहिनः ।
एवं बाह्यार्चनं प्रोक्तं मानसं चान्तरं तु तत् ।। ७९।।
अष्टाधिकशतश्रेष्ठोपचारैर्मानसैर्हृदि ।
पूजनं मे प्रकर्तव्यं प्रेमसागरसंभृता । । 2.113.८० ।।
अथ मे वन्दनं कार्यं साष्टांगं वांऽगषष्टकम् ।
पद्भ्यां कराभ्यां जानुभ्यामुरसा शिरसा दृशा ।। ८१ ।।
वचसा मनसा चेति दण्डवत् पुरुषैः सदा ।
पद्भ्यां कराभ्यां मनसा वचसा शिरसा दृशाः ।। ८ २।।
नारीभिः सन्निषद्यैव प्रणामः कार्य एव मे ।
मत्पादस्पृष्टसद्धूल्यां कर्तव्यं परिलुण्ठनम् ।।८३।।
रजांसि वर्ष्मणि शीर्षे निधतव्यानि तानि वै ।
मद्गात्रस्पृष्टवार्यादि मद्गात्रस्पृष्टचन्दनम् ।।८४।।
रंगसलिलसौगन्ध्यचूर्णादि धार्यमित्यपि ।
अहो भाग्यं मम श्रेष्ठं प्राप्तं चूर्णं रजो मया ।।८५।।
भगवत्पादपद्मैर्यत् स्पृष्टं चाहो सुभाग्यवान् ।
इत्येवं वै वदन् नित्यानन्दे भग्नो भवेज्जनः ।।८६।।
अथ दास्यं सदा कार्यं यथा मे लोमशो मुनिः ।
दासभावे सदा लक्ष्मीरिव संवर्तते तथा ।।८७।।
न मानं तत्र वै कार्यं सेवने क्षतिधायकम् ।
सर्वकाले यथापेक्षसेवायां दासवद् भवेत् ।।८८।।
परिचर्या सर्वविधा योग्याऽयोग्याऽपि सर्वथा ।
कर्तव्या मम दास्येव भृत्येव योषिताऽपि च ।।८९।।
नरेण वा सदा भक्त्या सेव्योऽहं परमेश्वरः ।
मम स्नानोपयोगार्थं जलं स्वयं समाहरेत् ।। 2.113.९० ।।
कुसुमान्याहरेच्चापि मालां प्रागुम्फयेत् स्वयम् ।
तुलसीं चन्दनं चापि घर्षयेद् द्रवमेव च ।।९१।।
पाकं कुर्यात् स्वयं भक्तो भोजयेत् कवलैश्च माम् ।
जलपानादिकं दद्याच्चुलुकं कारयेदपि ।। ९२।।
ताम्बूलकं मुखवासं दद्यान्मे स्वयमेव तु ।
तालवृन्तादिभिर्भक्तो वेजयेन्मां यथोचितम् ।।९३ ।।
सम्मार्जनं मन्दिरस्य मम कुर्याद् विलेपनम् ।
जीर्णोद्धारं प्रकुर्वीत नूतनं मन्दिरादिकम् ।।९४।।
भक्तानामन्नतोयाद्यैः फलाद्यैः सेवनं शुभम् ।
मानं हित्वा प्रकुर्वीत प्रणमेत्तान् हि भावतः ।।९५।।
देहस्त्रीपुत्रवित्तादेर्दास्येऽर्पणं विधापयेत् ।
इत्येवं वर्तमानस्य मम साम्यं ददाम्यहम् ।।९६।।
अथ सख्यं विधातव्यं सर्वं प्रकाशवन्मयि ।
आचरितव्येमेवाऽत्र परत्र स समो मम ।। ९७।।
देहस्त्रीपतिपुत्रादेः स्नेहः कार्योऽधिको मयि ।
मानुष्यनाट्यं दधतो मे क्रियासु न दोषधीः ।।९८।।
कर्तुरकर्तुरन्यथाकर्तुर्मे कर्मसु क्वचित् ।
संशयो नहि कर्तव्यो भक्ताधीनस्य मे प्रियाः ।।९९।।
कामान् क्रोधात्तथा लोभान्मोहात् स्वार्थात् सुखेच्छया ।
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ।। 2.113.१० ०।।
न तत्र संशयः कार्यः सख्यं मैत्र्यमिदं मयि ।
यत्करोमि तु भक्तार्थं भक्तकल्याणहेतवे ।। १० १।।
लोका नैतद् विजानन्ति गहनां तां गतिं मम ।
तस्मात् कार्यो हि विश्वासो मम क्रियासु सर्वथा ।। १ ०२।।
अथ कार्यं समस्तं वै मयि त्वात्मनिवेदनम् ।
नरेण योषिता वापि देहोऽर्प्यो मयि सर्वथा ।। १० ३।।।
तथेन्द्रियाणि चार्प्यानि तथाऽन्तःकरणान्यपि ।
स्वभावाश्च मयि चार्प्याः कुटुम्बं चापि वै मयि ।। १ ०४।।
समर्पणीयं भक्तेन तदधीनो भवेन्न वै ।
अनादिश्रीकृष्णनारायणः स्वामी भवाम्यहम् ।। १ ०५।।
ममाऽधीनो भवेन्नित्यं मदर्थं सकलक्रियः ।
मदर्थसर्वव्यापारो भवेद् भक्तो मम प्रियः ।। १०६ ।।
एवं प्रियाभिर्युष्माभिर्वर्तितव्यं सदा मयि ।
कान्तोऽहं भवतीनां च दास्ये वै शाश्वतं सुखम् ।। १ ०७।।
एवमाह स्वयं कृष्णनारायणः परेश्वरः ।
राधिके! बहुधा भक्तिस्वरूपाणि विशेषतः ।। १ ०८।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रभोः सर्वथा प्रसन्नताऽऽपादकविविधभक्तिस्वरूपविवेचनामा त्रयोदशाधिकशततमोऽध्यायः ।। ११३ ।।