लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ११२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १११ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः ११२
[[लेखकः :|]]
अध्यायः ११३ →

श्रीकृष्ण उवाच-
शृणु त्वं राधिके! ताभिर्नदीभिर्यत्तदाऽर्थितम् ।
त्वया कृष्ण! वयं सर्वास्तीर्थीकृताः कृपावशात् । । १ ।।
सर्वदेवनिवासाँश्च प्रदेह्यस्मत्तटेष्विह ।
इत्यस्माकं सुसंकल्पं प्रपूरय प्रभापते ।। २ ।।
श्रुत्वा प्राह महाराजः कृष्णनारायणः प्रभुः ।
ब्रह्माणं शंकरं विष्णुं सर्वदेवाऽऽह्वनाय वै ।। ३ ।।
त्रिदेवाः सस्मरुर्देवान् त्रयस्त्रिंशत्प्रकोटिकान् ।
सर्वे तूर्णं समाजग्मुर्यत्र कृष्णनरायणः ।। ४ ।।
वने वै सुन्दराख्ये ते समागत्य नरायणम् ।
नमश्चक्रुः समीहाना आज्ञां नारायणस्य ते ।। ५ ।।
हरिः प्राह वसूनष्टौ रुद्रानेकादशैव च ।
द्वादशादित्यवर्याश्चाऽश्विनौ द्वौ लोकहेतवे ।। ६ ।।
भवन्तो भिन्नरूपैश्च तिष्ठन्तु तीर्थकाम्यया ।
ब्रह्मपुत्र्यादिसलिले लोकपावनहेतवे ।। ७ ।।
तत आरभ्य तन्मूले वसवो वासमाचरन् ।
संगमेष्वादित्यवर्या रुद्राः समुद्रसंगमे ।। ८ ।।
अश्विनौ वक्रगत्यादौ वासान् समाचरँस्ततः ।
इन्द्राद्याश्च दिशां पाला अष्टौ तेषां ह्रदेषु च ।। ९ ।।
सप्तर्षयस्तीरवनेष्ववसन् यत्र पर्वताः ।
नवग्रहा निवासं चाऽकुर्वन् नगरसन्निधौ ।। 2.112.१ ०।।
मरुद्देवाश्च तीरेषु स्वल्पसरित्समागमे ।
चतुःषष्टिमहायोगिन्यश्चाऽवसन् समुच्छ्रये ।। ११ ।।
अवतारेषु सर्वत्राऽष्टषष्टितीर्थमण्डलम् ।
वालखिल्याः पितरश्चर्षयो विश्वेसुरास्तथा ।। १२।।
सिद्धाश्चासां प्रमार्गेषु न्यवसँस्तीर्थरूपिणः ।
इत्येवं श्रीहरिस्ताभ्यस्तीर्थानि प्रददौ स्वयम् ।। १३।।
एतेषां तु निवासेषु यज्ञदानतपःक्रियाः ।
क्रियमाणा यजमाने शाश्वतपुण्यकारिकाः ।। १४।।
माघकृष्णैकादशिकोत्तरं पुनर्मृधोऽभवत् ।
सप्ताहस्तत्र वै सर्वान् दैत्यान् विनाश्य माधवः ।। १५।।
चक्रे द्वितीययज्ञं स माघे सिते तु पञ्चमे ।
दिने सप्ताहयज्ञः स पूर्णोऽभवद् व्रते दिने ।। १६।।
एकादश्यां कृतं तस्याऽवभृथं च ततः परम् ।
चतुर्दिनानि सर्वासां जलेषु स्नानमाचरत् ।। १७।।
अनादिश्रीकृष्णनारायणः श्रीपूर्णिमातिथौ ।
आययौ च विमानेन वनं सुन्दरसंज्ञकम् ।। १८ ।।
तस्मात्तीर्थानि सर्वाणि लाशहाख्ये सरोवरे ।
शालावत्या ब्रह्मपुत्र्या जले सप्ताहकेऽत्र वै ।। १ ९।।
वसन्ति च समायान्ति माघशुक्ले विशेषतः ।
सरित्स्वन्यासु च चतुर्दिनेषु संवसन्ति च ।। 2.112.२०।।
तत्र दानं गवां देयं गजानां वाजिनां तथा ।
अजानां च तथोष्ट्राणां वृषाणां देयमित्यपि ।।२१ ।।
कम्बलानां च वस्त्राणां यानानां दानमुत्तमम् ।
विमानानां गृहाणां च क्षेत्राणां देयमित्यपि ।। २२ ।।
अन्नानां विविधानां च द्विदलानां प्रदानकम् ।
शाकानां चापि पात्राणां कन्दानां देयमित्यपि ।। २३।।
कणानां सुरसानां च शर्कराणां पतत्त्रिणाम् ।
पत्राणामिक्षुदण्डानां फलानां देयमित्यपि ।।२४।।
पेटिकानां मञ्जुषाणां पात्राणां दानमुत्तमम् ।
मञ्चोपकरणानां च स्वर्णस्य रजतस्य च ।।२५।।
मुद्रादेश्च धनस्यापि कर्तव्यं दानमित्यपि ।
विद्यादानं प्रदातव्यं दासदानं तथोत्तमम् ।।२६।।
दासीदानं प्रदातव्यं मोक्षदानं महोत्तमम् ।
ज्ञानदानं कथादानं पुत्रदानं स्वदानकम् ।।२७।।
कन्यादानं प्रदातव्यं योग्याय तु वराय च ।
सौधदानं तथा शय्यादानं पर्यंकदानकम् ।।२८।।
कर्तव्यं दैवपुरुषे दैवीसत्यां फलप्रदम् ।
देवमूर्तिप्रदानं च स्वर्गदं मोक्षदं तथा ।।२९।।
देहदानं प्रकर्तव्यं कटिदानं परात्मने ।
सर्वदानं प्रदातव्यं श्रीशाय परमात्मने ।।2.112.३ ० ।।
आत्मदानं सदा देयं गुरवे मोक्षदाय वै ।
पुस्तकानां पाठदानं कर्तव्यं पाठिने सदा ।।३१ ।।
माघे सर्वाणि दानानि सर्वमासेष्वपि ध्रुवम् ।
कर्तव्यानि सकामैस्तु लभ्यते फलमक्षरम् ।।३२।।
रक्तदानं वाष्पदानं गर्भदानं तथा स्त्रियाः ।
रतिदानं प्रदातव्यं औषधादिप्रदानकम् ।। ३३।।
नारायणबलिः श्राद्धं कर्तव्यं मृतमुक्तिदम् ।
आश्रया आलया धर्मशाला मखाश्च तत्तटे ।।३४।।
अन्नसत्राणि कार्याणि वृद्धानामाश्रयास्तथा ।
विद्यानामाश्रयाः कार्याः कन्याऽनाथाश्रयास्तथा ।।३५।।
विधवानां विधुराणामाश्रयाः कर्मयोजकाः ।
कर्तव्या धनिभिस्तासां नदीनां तीरभूमिषु ।। ३६ ।।
लोकसेवाप्रवाहाश्च कारणीयाः समन्ततः ।
परोपकाराः कर्तव्या मानवैर्नरयोषिताम् ।।३७।।
तीर्थेकृतानि तान्येव कोटिगुणफलानि वै ।
कालमानप्रदानं च विद्युन्मानप्रदानकम् ।।३८।।
अंगदानप्रदानं च कर्तव्यं तीर्थभूमिषु ।
यन्त्रदानं प्रकर्तव्यं प्रतिबिम्बप्रदानकम् ।। ३९।।
दूरश्रवणदृष्ट्यादियन्त्रदानं तथोत्तमम् ।
देयं कृषिहलाद्यं च साधनं महदुत्तमम् ।।2.112.४० ।।
अथ देयं सुगन्ध्यादि पुष्पसारं सदुत्तरम् ।
गन्धसारं रससारं सारसारं परात्परम् ।।४१ ।।
ब्रह्मपुत्री स्थापनीया चतुर्हस्ताऽतिसुन्दरी ।
लवहीता स्थापनीया द्विहस्ता रमणी सती ।।४२।।।
चन्द्रावती स्थापनीया षोडशकरशालिनी ।
इरावती स्थापनीया अष्टहस्ता सुकन्यका ।।४३।।
शालावती स्थापनीया चतुर्हस्ता मनोहरा ।
मेनकांगा मनिकङ्गू स्थापनीये चतुर्भुजे ।।४४।।
लाटिशा कानिशा स्थाप्ये द्विभुजे कन्यके शुभे ।
मापींगा चापि सीक्यांगा स्थाप्येऽष्टकरशालिनी ।।४५।।
अष्टादशभुजे स्थाप्ये अंगस्वांगा हरांगिका ।
मौक्तिका तारिमा स्थाप्ये द्विभुजे चित्तकर्षिके ।।४६ ।।
पन्नाम्नी त्वंगहा स्थाप्ये द्विभुजे च सुरूपिणी ।
मन्नाम्नी मणिवर्णा च स्थाप्ये दशभुजे शुभे ।।४७।।
रंगवर्णा तथा स्थाप्या चतुर्भुजा नदी सती ।
इत्येवं कृष्णपत्नीनां रूपाणि सरितां प्रिये ।।४८।।
कृत्वोद्भिन्नयुवतीत्वभावापन्नानि सर्वथा ।
सुहास्यसौम्यवात्सल्ययुक्ताननानि राधिके ।।४९।।
श्वेतचम्पकवर्णानि स्वर्णकान्तियुतानि च ।
कारयित्वा प्रतिमाश्च मन्दिराणि शुभानि च ।।2.112.५० ।।
स्थापनीयान्यनादिश्रीकृष्णनारायणेन वै ।
सहितानि किशोरेण रम्याणि मानवैर्भुवि ।।५ १ ।।
तत्तन्नदीप्रदेशानां प्रजानां ता हि मातरः ।
पूजिता वन्दिता नित्यं करिष्यन्ति प्रजाऽवनम् ।।५२।।
ताभ्यो भूषाः प्रदातव्या नारीभिः पतिकाम्यया ।
सौभाग्यदाश्च ताः सन्ति नारीणां पूजिताः सदा ।।।५३ ।।
अवैधव्यप्रदाश्चापि तथाऽऽयुष्यविवर्धिकाः ।
पुत्रपौत्रप्रदाश्चाप्यारोग्यदा धनधान्यदाः ।।५४।।
ताभ्यः शाट्यः प्रदातव्याः कंचुक्यश्चोलिकास्तथा ।
केशतैलं प्रदातव्यं केशशृंगारकादिकम् ।।५५।।
पुष्पहाराः कज्जलं च तैलं सुगन्धसारकम् ।
घर्घर्यः कवचं वस्त्रं तथा मत्सरवारिणी ।।५६ ।।
शय्या गेन्दुकमुत्कृष्टं मृदुलं गुप्तदोरकम् ।
उतरीयं केशकाञ्ची प्रदेया सरिते जनैः ।।५७।।
सिंहासनं कारणीयं छत्रं च हाटकादिजम् ।
मुकुटं तन्तिका काञ्ची रशना कटकादिकम् ।।५८ ।।
ऊर्मिकाऽङ्गुलीयकानि शृंखलाश्च नुपूरकम् ।
हाराः सुवर्णजन्याश्च स्वस्तिकश्चन्द्रकस्तथा ।। ५९ ।।
बिन्दुश्चन्द्रकपट्टी च नखरञ्जनकानि च ।
भोज्यपानानि देयानि मन्दिरे सरितां जनैः ।।2.112.६ ० ।।
कंकतिर्दोरकश्चापि चिपीटकश्च राजतः ।
सुकिंकिणीजालयुक्तचड्डिका पादयोस्तथा ।।६ १ ।।
धूपो दीपश्च नैवेद्यं तथा नीराजनादिकम् ।
कलशश्चान्यवस्तूनि देयानि सरितां गृहे ।।६२।।
कन्यकाभिः कुंकुमं चाक्षता देयाश्च शर्कराः ।
सुवासनीभिः शृंगाराम्बरभूषादि सौभगम् ।।६३ ।।
दातव्यं वै नदीभ्यश्च हरिप्रियाभ्य उत्तमम् ।
प्रेङ्खा देया घोटकादि दोला पालनमित्यपि ।।६४।।
वातयानं वाष्पयानं वह्नियानं तथा शुभम् ।
उष्णयानं प्रभायानं चाणुयानं समुत्तमम् ।।६५।।
प्रदातव्यं विहारार्थं व्योम्नि जले तथाऽम्बरे ।
जलयानं चाश्वयानं दातव्यं भूविहारि च ।।६६ ।।
जलरूपां मूर्तिरूपां पितृकन्यां सुतोषयेत् ।
तासु भगवत्पत्नीषु तुष्टासु तुष्यति प्रभुः ।।६७।।
तासां महोत्सवाः कार्या माघे कृष्णे सिते तथा ।
तासामग्रे प्रकर्तव्यं नृत्यं वादित्रवादनम् ।।६८ ।।
कीर्तनं भगवद्गानं स्तवनं सामवैदिकम् ।
कोटिहीरकरत्नाद्यैः शोभनीयाश्च तास्तदा ।।६९।।
पुष्पसुगन्धशोभाद्यैरर्चनीया हरिप्रियाः ।
ऊर्जकृष्णाष्टमीप्रातःकाले ब्रह्मप्रियायुतः ।।2.112.७०।।
पितृकन्यायुतोऽनादिकृष्णनारायणः प्रभुः ।
पूजनीयोऽतिभावेन शोभनीयोऽतिवस्तुभिः ।।७ १।।
शृंगारणीयो भगवान् तदा राजाधिराजवत् ।
स्वर्णहारादिभिः स्वर्णतन्त्वम्बरादिभिस्तथा ।।७२।।
अष्टोत्तरशतैश्चापि भक्ष्यभोज्यादिभिस्तथा ।
परिचर्यादिभिः कृष्णस्तोषणीयोऽतिगीतिभिः ।।७३।।
राशैर्मनोहरैश्चापि नरनारीसुमिश्रितैः ।
नगरे नगरे ग्रामे वने चावसथेष्वपि ।।७४।।
घोषे च पत्तने पूरे राजधान्यां विशेषतः ।
ताभिस्ताभिः सुपत्नीभिः सह नारायणो हरिः ।।७५।।
गजयानैरश्वयानैः स्वर्णशकटीभिस्तथा ।
राजतीभिः शकटीभिः कलशध्वजापार्षदैः ।।७६।।
सहिताभिः शुभाभिश्च भ्रामयितव्य एव सः ।
रथश्च सेवकैः स्थिरीकर्तव्यः प्रतिचत्वरम् ।।७७।।
प्रतिहट्टं प्रतिरथ्यं प्रत्यापणं च गोपुरे ।
पूजनीयः श्रीफलाद्यैः प्रतिराजगृहं तथा ।।७८।।
पुष्पवृष्टिः प्रकर्तव्याऽक्षतलाजादिमिश्रिता ।
चन्दनं गन्धसलिलं प्रोक्षणे देयमेव तु ।।७९।।
मिष्टान्नं मिष्टपानीयं पातव्यं चार्थिने रथात् ।
प्रसादश्च प्रदातव्यो भक्तेभ्यः पथि सर्वथा ।।2.112.८०।।
तूर्याणि राजतूर्याणि वादनीयानि चाग्रतः ।
धूपदीपसहितोऽयं भ्रामणोत्सव उत्तमः ।।८ १।।
कर्तव्यः कार्तिके कृष्णे कृष्णजन्ममहोत्सवः ।
एवं वै भ्रामयित्वैव भगवन्तं प्रियायुतम् ।।८२।।
विशाले मण्डपे रात्रौ स्थापनीयो गजासने ।
नीराजनं प्रकर्तव्यं शताष्टवर्त्तिभिस्ततः ।।८३।।
रासस्तत्र प्रकर्तव्यस्तालिकादण्डिकादिभिः ।
वादित्रैर्विविधैश्चापि कथा कार्या तदा हरेः ।।८४।।
पूजनं संविधायैव परिहारं समाचरेत् ।
रात्रौ तन्मन्दिरे नेयो भगवान् सह पत्नीभिः ।।८५।।
ततो भक्तैः प्रकर्तव्यं जागरणं तथाऽथवा ।
सुप्तव्यं स्वगृहे गत्वा ब्रह्मचर्यपरायणैः ।।८६।।
प्रातः स्नात्वा हरिं नत्वा कृत्वा दर्शनपूजनम् ।
ततो दानादि कर्तव्यं नवम्यां प्रातरित्यपि ।।८७।।
तस्य पुण्यस्य नान्तोऽस्ति परमोक्षप्रदं हि तत् ।
एवं महोत्सवे कृष्णनारायणः प्रसीदति ।।८८।।
सरितश्च प्रसीदन्ति ददत्यतीव सम्पदः ।
धनधान्यादिसमृद्धीर्ददत्यपि नवा नवाः ।।८९।।
आरोग्यं पुत्रपौत्रादि गोमहिषी धनान्यपि ।
अश्वहस्त्युष्ट्रयानानि विमानं राजसम्पदः ।।2.112.९० ।।
कीर्तिं स्वर्णं पूज्यतां च लोके ख्यातिं परां स्थितिम् ।
ददत्येव सरिच्छ्रेष्ठास्तुष्टाः श्रीपतिना सह ।। ९१ ।।
इत्येवं श्रीकृष्णनारायणः प्राह स्वयं प्रभुः ।
गृहे गृहे प्ररक्ष्या मे प्रतिमा सरिता सह ।। ९२।।
पूजनीया सदा प्रातर्मध्याह्ने सायमित्यपि ।
करिष्ये तन्मन_ पूर्णं स्वेष्टं दास्ये पुनः पुनः ।। ९२ ।।
इत्याह भगवाँस्ताभ्यः सतीभ्यस्तत्र सुन्दरे ।
वने पश्चाद् ब्रह्मपुत्रीसागरे सस्नुरेव च ।। ९४।।
गंगासागरयोगे च सस्नुः सर्वविमानगाः ।
साकं भगवता स्वामिकृष्णनारायणेन वै ।। ९५।।
क्षणं ध्यात्वा पुपूजुश्च कृष्णनारायणं प्रभुम् ।
दध्युर्नारायणमूर्तिं हृदयेषु स्थिरीकृताम् ।।९६।।
इत्येतद् राधिके! तुभ्यं मयोक्तं हरिचेष्टितम् ।
श्रवणात्पठनाच्चापि भुक्तिमुक्तिप्रदं शुभम् ।।९७।।
स्वर्गमोक्षप्रदं चापि पापतापप्रणाशनम् ।
सर्वदा कीर्तनीयं वै भक्तैरपि मुमुक्षुभिः ।।९८।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने द्वितीययज्ञभूमिरूपलाशहासरोवरसरितां मूर्त्यादिपूजनप्रतिष्ठामाहात्म्यवर्णननामा द्वादशाधिकशततमोऽध्यायः ।। ११ २ ।।