लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०८७

विकिस्रोतः तः
← अध्यायः ०८६ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः ८७
[[लेखकः :|]]
अध्यायः ०८८ →

श्रीकृष्ण उवाच -
शृणु त्वं राधिके भक्ता हरेर्गृह्णन्ति सद्गुणान् ।
दुष्टा गुणेषु दोषाँश्चारोप्य गृह्णन्ति दुर्गुणान् ।। १ ।।
विश्रवसस्तु पुत्रस्य खरस्य राक्षसस्य वै ।
खचर्यामभवत् पुत्रो ह्यधर्मजीवसंज्ञकः ।। २ ।।
कट्यां वक्रो भग्नपृष्ठो गण्डे गोधाख्यदूषणः ।
कपर्दाक्षः सदा श्वासे दुर्गन्धाढ्यः शिशुप्रियः ।। ३ ।।
सकल्मषोऽतिकापट्याचारो विश्वासघातकः ।
जन्मना ताडिता पद्भ्यां माता मृतेति मातृहा ।। ४ ।।
घूकस्वरः कृष्णवर्णः पिच्छतुल्यशिरोरुहः ।
पृष्ठलिङ्गी कुण्ठकर्णो बहिर्दंष्ट्रोऽतिमत्सरः ।। ५ ।।
उत्पन्नमात्रदुःखकृद्बालानां धर्षकोऽभवत् ।
एकदा स ययौ नद्यास्तटे रन्तुं सबालकः ।। ६ ।।
चर्मकारस्य वासेषु चान्त्यजानां गृहेषु च ।
रिक्तेषु बालरक्षेषु ज्येष्ठास्तु कर्मणे गताः ।। ७ ।।
तत्र बालांस्ताडयित्वा भक्षयामास तद्गृहे ।
श्वमांसं मद्यपानं च प्रचकार पपौ जलम् ।। ८ ।।
तदा बालैर्मिलित्वा च धृत्वा बद्ध्वाऽन्त्यजैर्बलात् ।
क्षारकुण्डे विनिक्षिप्तो दुर्गन्धे स्वल्पकर्दमे ।। ९ ।।
शिलया छादितस्तत्र कुण्ड्यां क्षारपटस्य सः ।
दिवानिशं स वै कुण्ड्यां कुण्डीगन्धं समग्रहीत् ।। 2.87.१० ।।
मासार्धं प्राणरक्षार्थं उभुक्षितस्तृषाकुलः ।
चर्मक्षालनजं वारि चार्मकर्दममित्यपि ।। ११ ।।
सूक्ष्मकीटोद्भवं कुण्ड्यां भक्षयामास पापकृत् ।
राक्षसो जातिजो यश्च चाण्डालगृहभोजनः ।। १२।।
चर्मकुण्डकृतावासश्चर्मकर्दमभक्षकः ।
मातृहाः शिशुमारश्च कोऽस्मात्पापतरो भवेत् ।। १३ ।।
राधिके! तादृशोऽधर्मजीवो नाम्ना महासुरः ।
अन्त्यजैश्चर्मकारैश्च आवलीरञ्जनाम्बरः ।।१४।।
निष्कास्य कुण्डितो दुष्टस्ताडितः षण्ढितस्तथा ।
सिंहले द्वीपके तस्थौ रणान्ते वनिभक्षकः ।। १५।।
पशून् पक्षिगणाँश्चापि क्वचित् कुटुम्बजाऽर्भकान् ।
धृत्वा करोति तद्घातं भक्षयत्येव तानपि ।। १६ ।।
एकदा भक्तराट् तत्र विभीषणो हरेः प्रियः ।
गृणन् रामेति कृष्णेति नारायणेति सञ्चरन् ।। १७।।
विहर्तुं तेन मार्गेण ययौ वनानि वीक्षितुम् ।
तत्रैनं वीक्षयामासाऽधर्मजीवं महासुरम् ।। १८।।
उवाच त्वं कथमत्र वर्तसे निर्जने सुत ।
एहि गृहं हरिं कृष्णं भज नारायणं सुखम् ।। १ ९।।
मा दुःखं वह शुष्केऽत्राऽरण्ये रणे तु निर्जने ।
श्रुत्वा विभीषणं प्राह पितृज्येष्ठं सगर्वकः ।।2.87.२०।।
को हरिः कश्च कृष्णोऽस्ति नारायणोऽपि कोऽस्ति वै ।
नैनं जानामि कश्चास्ते कस्माद् भजेऽविचारितम् ।। २१ ।।
भक्तो विभीषणः प्राह हरिर्दुःखहरोऽस्ति सः ।
परब्रह्म स्वयं दिव्यो दिव्याक्षरनिवासकृत् ।।२२।।
राक्षसोऽधर्मजीवस्तु प्राह धनापहारकः ।
द्रव्यापहारको नार्याद्यपहारक एव सः ।।२३।।
हारकस्त्वन्यसमृद्धेश्चौरः कश्चिद् भवेत् हरिः ।
कृष्णं पापं दुष्टकर्म तत्कृत् कृष्णो भवेद्धि सः ।। २४।।
नारास्वप्स्वयनः कश्चित् नदीस्थो धीवरो भवेत् ।
जलहारकभृत्यो वा किंकरः कस्यचिद्भवेत् ।।२५।।
जले वासकरो वाऽयं सर्पो मत्स्योऽथवा भवेत् ।
परः शत्रुर्ब्रह्म महान् महाशत्रुर्भवेद्धि सः ।।२६।।
दिव्यो धूर्तो द्यूतवेत्ता व्यसनी कश्चिदेव सः ।
अक्षैः पाशैः रमते च राति गृह्णाति नाणकम् ।।२७।।
द्यूतगृहे निवासी च भवेत् कश्चिदघात्मकः ।
विभीषणस्तु तं प्राह परमात्मा परेश्वरः ।।२८।।
पुरुषोत्तम एवाऽयं भगवानीश्वरेश्वरः ।
मुक्ताऽधिपः परे धाम्नि राजमानोऽस्ति पुत्रक ।।२९।।
राक्षसोऽधर्मजीवश्च प्राह नाऽयं तथा पितः ।
पं पानं मद्यजं तत्र रमते त्वात्मना स्वयम् ।।2.87.३ ०।।
मद्यपानादिलुब्धः स मद्यपः परमो भवेत् ।
परस्य दीनलोकस्य दुःखकृच्चेश्वरो भवेत् ।।३ १।।
पुरु सिनोति पापानि चाऽधिकं तमसाऽऽवृतः ।
तामसः पापकृच्चाऽयं भवेत्। स पुरुषोत्तमः ।।३२।।
भगं गुह्यं च वा तस्य नारीचिह्नं भवेत् खलु ।
भगवान् गुप्तनारी सा भवेत् पुरुषवेषिणी ।।३३।।
ईश्वराणां मादृशानां योद्धॄणामिशुभिर्हतः ।
न रक्षितुं स्वयं शक्तः स्वं भवेदीश्वरेश्वरः ।।३४।।
मुक्ता याः पतिभिर्नार्यो गृहान्निष्कासिताश्च याः ।
तासामधिपः स भवेद् व्यभिचारिशिरोमणिः ।।३५।।
परे धाम्नि गृहे नित्यं वसति परभूस्थितः ।
गृहद्वारविहीनः स भवेद्वा भिक्षुकः पितः! ।।३६।।
विभीषणश्च तं प्राह पुत्र! व्यूहस्वरूपधृक् ।
सर्वावतारहेतुः स सर्वशक्तिधरः प्रभुः ।।३७।।
गोलोकेशः स वैकुण्ठधामेशो वै परः पुमान् ।
योगिगम्योऽन्तरात्मा च मोक्षदश्चेति तं भज ।।३८।।
अधर्मजीवरक्षोऽपि प्राह मन्ये स वञ्चकः ।
वञ्चनार्थं तु लोकानां व्यूह्य व्यूह्य तु वेषधृक् ।।३९।।
क्वचिन्नटः क्वचिद्गोपः कचिद्राजकुमारवत् ।
क्वचिद्विप्रो भवत्येव वञ्चको व्यूहवान् भवेत् ।।2.87.४०।।
सर्वेषामवताराणां लोके वै निम्नकर्मणाम् ।
हेतुः कर्ता निम्नवर्णो भवेत् कश्चिद् विवर्णजः ।।४१ ।।
सर्वेषु प्राणिषु शस्त्रशक्त्याख्यस्य प्रयोजकः ।
भवेत् स घातकी कश्चिदिति मन्ये पितः खलु ।।।४२।।
प्रसह्य भवति कष्टप्रदः कश्चिद् भवेदघी ।
गवां स वृषभाणां वै लोके समूहके महान् ।।४३।।
महावृषभो वा कश्चिद् भवेद्वा वृषवाहकः ।
कुण्ठितं धामवासादि गृहकुट्यादिवर्जितः ।।४४।।
परः शत्रुस्वरूपो वा पुमान् भवेद्धि रक्षसाम् ।
समशीलैर्योगवद्भिर्गम्य_ साप्तपदीनकम् ।।४५।।
तस्मादसज्जनः कश्चिदिति मन्ये पितः खलु ।
अन्तरं भिन्नता यस्य कामे मनसि चात्मनि ।।४६।।
वाचि वा भिन्नता तस्माद् विश्वासघातको भवेत् ।
मोक्षं सर्वं समाच्छिद्य दुर्बलस्य विनाशनम् ।।४७।।
मन्ये करोति कश्चित् स हिंस्रो दुर्बलघातकः ।
कस्तं भजेदसन्तं वै गुणाग्र्यैश्च विवर्जितम् ।।४८।।
विभीषणस्तु तं प्राह स तु विद्वान् गुणाश्रयः ।
वेदविद् वेदशास्त्रादिकर्ता शीलव्रतादिमान् ।।४९।।
सर्वधर्माश्रयः साधुकर्मकः शान्तिसंभृतः ।
अधर्मजीवो रक्षोऽथ प्राह विद्वान्न चास्ति सः ।।2.87.५०।।
न रंभणं विजानाति गीतिं जानाति नैव च ।
अभिचारान्न जानाति मायां जानाति नैव च ।।५१ ।।
अतो नैव भवेद्वा स विद्वान् पितः कदाचन ।
गुणो रज्जुर्गवां दोहकार्यार्थं यस्य विद्यते ।।५२।।
स्कन्धे तस्माद् भवेद् गोपो गुणाश्रयः पितः खलु ।
वेदं वा वेदिकां ग्रामचतुष्के निर्मितां जनैः ।।५३।।
पाषाणानां मृदां वा तां कर्तुं जानाति कुंभकृत् ।
कुभकारो भवेद् वाऽयं वेदिकाशिल्पवित् खलु ।।५४।।
शं शातनं हि केशानां करोत्यस्त्रेण मस्तके ।
नापितोऽयं भवेद्वा च रोमशत्रुप्रशस्त्रवान् ।।५५।।
शीलं चाऽस्खलनं धर्मो व्रतं कृच्छ्रादि यत्तपः ।
अत्ति खादति चोभं तत् तादृग्धर्मविघातकः ।।५६।।
शीलव्रतादनश्चायं भवेत् कश्चिद्धि भाण्डकः ।
सर्वे धर्माः पशुधर्मास्तद्वान् वा स पशुर्भवेत् ।।।५७।।
साधोः कर्म गृहस्थानां विरुद्धं गृहभञ्जनम् ।
सन्यासादिस्वरूपं तत्कारकोऽयं यतिर्भवेत् ।।५८।।
जडो वा स्याद् विचित्तो वा शान्तिसंभृत एकलः ।
विभीषणश्च तं प्राह पुत्र विप्रोऽस्ति माधवः ।।५९।।
यज्ञोपवीतसन्धर्ता क्लेशतापप्रशामकः ।
महाविद्याश्रयः शास्त्ररचनाकारकः स्वयम् ।।2.87.६०।।
एक एवाऽद्वितीयोऽयं तीर्थयात्राकरोऽच्युतः ।
अधर्मजीवो रक्षस्तु प्राह विप्रो भवेन्न सः ।।६ १।।
विं पक्षिणं तु यः प्राति गृह्णाति मृगयूर्यथा ।
तस्माद् व्याधो भवेत् कश्चित् पक्षिमारोऽथवा पशुः ।।६२।।
माधवो मातृगामी वा भवेत् कश्चित् पशुप्रजः ।
यस्य नियामको नास्ति यस्य नास्ति धवस्तथा ।।६३।।
मातृहीनः पितृहीनो भवेत् कश्चिद् वनेचरः ।
इतः प्राप्तश्च विः पक्षी तं यज्ञस्यैव सन्निधौ ।।६४।।
सन् धारयति भक्ष्यार्थं शकुनादो भवेद्धि सः ।
क्लेशैस्तापैः प्रकर्षैश्च शामको लोकनाशकः ।।६५।।
तस्माद् विप्लवकर्ता स भवेत् कश्चित्तु घातकी ।
महाविद्याः कामविद्याश्चोच्चाटनीं विनाशिनीम् ।।६६।।
मारिणीं मोहिनीं चेद्वा जानात्ययं तदा पितः ।
श्वपाको वाऽथ चाण्डालो मलिनो वा भवेद्धि सः ।।६७।।
शास्त्रेषु रचनां चायं प्रतारणस्य कारकः ।
प्रतारको भवेत् कश्चित् नहि शास्त्रस्य कारकः ।।६८।।
एकाकी तु वनेऽरण्ये भ्रमन् कुटुम्बहीनकः ।
अद्वितीयो विधुरोऽयं तीर्थमुण्डी च वा भवेत् ।।६९।।
न च्यवते धनं दाने दरिद्रः स भवेत् पितः ।
साधुधर्मविहीनश्च कपटी निन्दकः खलः ।।2.87.७०।।
प्रच्छन्नचौरो नारीणां चाञ्चल्यस्य प्रवर्धकः ।
असंख्यवारनारीणां भ्रामको वेषधारकः ।।७१।।
गोपीनामदृश्यकर्ता सिद्धमन्त्रकरो भवेत्। ।
कामिनीनां कामनायाः पूरकोऽन्यायकारकः ।।७२।।
धर्मलोप्ता कुललोप्ता ह्यासक्तो ग्राम्यदर्शने ।
क्रोधलोभादिदोषाणामाकरोऽज्ञानशेवधिः ।।७३ ।।
व्यवहारविधुरश्च बुद्धिहीनोऽतितामसी ।
पशुपाशो भवेत् कश्चित् कन्याहरः शिशुप्रियः ।।७४।।
यादृशस्तादृशो वापि भवेन्मे किं प्रयोजनम् ।
तद्गुणान्न सहे दिव्यानदिव्यान् वा कथञ्चन ।।७५।।
नास्ति कश्चित् ततो ध्येयो भजनीयोऽपि मे पितः ।
अहं श्रेष्ठस्ततश्चाऽस्मि नास्ति श्रेष्ठोऽपि कश्चन ।।७६।।
विभीषणस्ततः प्राह मा पुत्र तं विमानय ।
अनादिश्रीकृष्णनारायणः श्रीकमलापतिः ।।७७।।
सर्वपतिः परमेशश्चान्तर्यामी नियामकः ।
कर्तुमकर्तुमन्यथाकर्तुं शक्तः स वै हरिः ।।७८।।
वर्तते बालरूपस्तं भज सर्वात्मना सुत ।
दिव्याः सन्ति गुणास्तस्मिन्नेकैको मोक्षदो हि यः ।।७९।।
सत्यं शौचं दया क्षान्तिस्त्यागः सन्तोष आर्जवम् ।
शमो दमस्तपः साम्यं तितिक्षोपरतिः श्रुतम् ।।2.87.८० ।।
ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेजो बलं स्मृतिः ।
स्वातन्त्र्यं कौशलं कान्तिधैर्यं च मार्दवं तथा ।।८ १।।
प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः ।
गांभीर्यं स्थैर्यमास्तिक्यं कीर्तिर्मानोऽनहंकृतिः ।।।८२।।
कृतोपकारश्चाद्रोहोऽनीहाऽकिञ्चनता तथा ।
मैत्री सार्वज्ञ्यमेवैते गुणाः सन्ति परात्मनि ।।८३।।
अधर्मजीवनो रक्षः प्राह मन्ये न तान् गुणान् ।
अहं नपुंसकं मन्ये कार्योत्साहविवर्जितम् ।।८४।।
धमार्थकामनाहीनं निष्क्रियं निर्बलं च तम् ।
परभाग्योपजीवित्वं परसम्पद्विकर्षणम् ।।८५।।
अमार्गवाहिता चापि मन्ये तत्रैव सन्ति हि ।
तस्मात् पितर्न मे वक्तुं गुणानर्हसि तस्य वै ।।८६।।
राधिके एवमेवायमधर्मजीवनोऽसुरः ।
शताधिकान् हरौ दोषान् जगाद पितरं प्रति ।।८७।।
विभीषणस्तु तं क्रुद्धो जघान गदया तदा ।
अमृतश्च विदुद्राव सिंहलद्वीपतस्ततः ।।८८।।
कपटी मानवो भूत्वा सौराष्ट्रे चाजगाम सः ।
शत्रुजयानदीतीरे त्रिवटाख्ये भुवस्तले ।।८९।।
उवास कृतकेतश्च द्विषन् कृष्णनरायणम् ।
यतिवेषधरो भूत्वा सतां विद्वेषकः खलः ।।2.87.९०।।
दुष्टो धर्मध्वजो भूत्वाऽप्रतारयन् जनान् बहून् ।
अनादिश्रीकृष्णनारायणे श्रीपरमेश्वरे ।।९१।।
वैरं कुर्वन् वचोभिश्च लोके नास्तिक्यमादधन् ।
आययौ कुंकुमवापीक्षेत्रं नष्टायुरेव सः ।।९२।।।
लोमशस्याऽऽश्रमे गत्वा निनिन्द परमेश्वरम् ।
तदा श्रीशंकरः श्रुत्वा भैरवं प्राह सेवकम् ।।९३।।
याहि भैरव दुष्टं तमधर्मजीवनाऽसुरम् ।
घातयैनं पिशाचैस्त्वं नारकिणं हि कर्मणा ।।९४।।
इत्युक्तो भैरवः शूलं धृत्वा गत्वा पिशाचकैः ।
जीवग्राहं गृहीत्वा तं बद्ध्वा चार्मणरज्जुभिः ।।९५।।
निचिक्षेप मलस्थाने विष्टाव्याप्तक्षितौ तदा ।
तन्मखे मूत्रयामासुर्विष्ठां चक्रुः पिशाचकाः ।।९६।।
मूढमारं दृढं सर्वे मारयामासुरासुरम् ।
अङ्गानि छेदयामासुश्चिक्षिपुर्लावणं जलम् ।।९७।।
अनादिश्रीकृष्णनारायणद्वेषिणमेव ते ।
ततो रज्जुप्रबन्धेन गृध्रवासद्रुमान्तरे ।।९८।।
शाखायां बन्धयामासुर्लम्बते सोऽप्यधोमुखः ।
गृध्रकाकादिविष्ठा च पतत्येव तु तन्मुखे ।।९९।।
एवं मासद्वयं दण्डं चक्रे श्रीभैरवोऽसुरे ।
ततः क्षुधातृषाव्याप्तो ममार प्राणतो हि सः ।। 2.87.१०० ।।
ययौ यमालयं सोऽयमसुरोऽधर्मजीवनः ।
कुंभीपातेऽपतत्तत्र सहस्रवत्सरं हिं सः ।। १० १।।
अथाऽत्र भैरवो देवः सस्नौ चाश्वसरोवरे ।
तस्य संसर्गदोषोत्थपापप्रक्षालनाय वै ।। १ ०२।।
एवं विनाशमापन्नोऽसुरोऽधर्मप्रजीवनः ।
शिशुप्रियः स्वपापेन मृतोऽसद्गतिमार्गगः ।। १ ०३।।
राधिके मेऽपराधस्य कर्तॄणां नास्ति सद्गतिः ।
यदि स्याच्छरणापन्नस्तदा गतिं ददाम्यहम् ।। १ ०४।।
अथ शरणं नाऽऽयातो मृतोऽपि परमेश्वरम् ।
ततः कोट्यर्बुदवर्षेरप्यस्य सद्रतिर्न वै ।। १ ०५।।
आषाढे स मृतो दैत्यसमो रक्षोऽतिनिन्दकः ।
अथ विभीषणः श्रुत्वाऽधर्मजीवमृतिं ततः ।। १ ०६।।
नीत्वा तन्मातरं तत्र सौराष्ट्रे व्योममार्गतः ।
आययौ चार्थयामास सद्गतिं परमेश्वरात् ।। १ ०७।।
हरिर्जन्मान्तरे प्राह तस्य गतिर्भविष्यति ।
मम हस्तेन मृत्युं स लब्ध्वा यास्यति सद्गतिम् ।। १ ०८।।
तस्य मात्रे ददौ मन्त्रं लोमशर्षिस्ततः परम् ।
विभीषणाय मन्त्रं स ददौ श्रीपारमेश्वरम् ।। १ ०९।।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।
मासं स्थित्वा ययतुस्तौ राधिके वै निजालयम् ।। 2.87.११० ।।
भेजाते श्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ।
विभीषणश्च खचरी त्वन्ते दिव्यौ बभूवतुः ।। १११ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने खरपुत्रस्याऽधर्मजीवनस्य नास्तिक्यं, हरेर्गुणेष्वगुणकल्पनाः, हरौ द्वेषोऽसद्गतिस्ततः कालान्तरे सद्गतिवरदानमित्यादिनिरूपणनामा सप्ताशीतितमोऽध्यायः ।। ८७ ।।