लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०८६
← अध्यायः ०८५ | लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः) अध्यायः ८६ [[लेखकः :|]] |
अध्यायः ०८७ → |
श्रीकृष्ण उवाच-
शृणु त्वं राधिके! पश्चादैलविलाऽवदद्धरिम् ।
भगवन्मेऽस्ति जिज्ञासा तत् क्षेत्राऽक्षरमीक्षितुम् ।। १ ।।
अनादिश्रीकृष्णनारायणस्तां सह्यपर्वतात् ।
आरोप्य गरुडे चैत्रे व्योम्नाऽक्षरं समाययौ ।। २ ।।
कुंकुमवापिकाक्षेत्रं दिव्यमक्षरसंज्ञितम् ।
सच्चिदानन्दधामाभं नित्यानन्दितमानवम् ।। ३ ।।
दिव्यदेहिसमव्याप्तं देवपित्रादिसेवितम् ।
ब्रह्मह्रदोदसन्मिश्राऽश्वपट्टकसरोऽन्वितम् ।। ४ ।।
सहस्रर्षिगणैश्चापि कृतावासं समुज्ज्वलम् ।
पावनं पावनानां च तीर्थानां तीर्थमुत्तमम् ।। ५ ।।
मोक्षदानां परं मोक्षप्रदं सर्वाघनाशकम् ।
शतसाहस्रप्रासादैः शोभितं वनवल्लिभिः ।। ६ ।।
दिव्यद्रुमैः समुद्यानैः सहस्रैः परिवारितम् ।
जलाशयैः शुभारामैः फलिपुष्पिसुगन्धितम् ।। ७ ।।
कल्पद्रुमैः समृद्धं च चिन्तामणिप्रभासितम् ।
वर्धितं मुनिभिर्नित्यं यज्ञाऽध्ययनभक्तिभिः ।। ८ ।।
आश्रितं चातिथिभिश्च ब्रह्मधामगमैः प्रियैः ।
प्रियाभिः श्रीहरेर्यच्च कृतकौतुकमंगलम् ।। ९ ।।
अमृतानां ह्रदैर्युक्तं यावत्सृष्टिनिषेवितम् ।
गीर्वाणभाषाकुशलैर्वैदिकैर्धार्मिकैर्युतम् ।। 2.86.१ ०।।
सौवर्णदण्डसंराजद्दीर्घध्वजसहस्रकम्
साप्तभौमाढ्यनिलयैः शृंगसौधैर्विराजितम् ।। १ १।।
व्योमयानैर्यत्र मुक्ता उड्डयन्ति नराः स्त्रियः ।
स्वर्गगाः पक्षिणो यत्र संस्कृतज्ञाः शुकादयः ।। १ २।।
वदन्ति वैदिकीं भाषां गोहस्त्याद्या अपि द्विजैः ।
अग्नयो यत्र वर्तन्ते प्रदीप्ता वेदिकास्थले ।। १३।।
दानानि यत्र दीयन्ते सृष्टिपालैर्दिवानिशम् ।
यात्रिका यत्र वर्तन्ते लक्षशो मोक्षभागिनः ।। १४।।
श्रोतृणां कथकानां च सभास्थलसहस्रकम् ।
देवप्रतिमाप्रासादाः शतशोऽथ सहस्रशः ।। १५।।
विद्यन्ते कानकैव्योम्नि कलशैः शृंगशोभनैः ।
वनस्पतयो दृश्यन्ते निकुञ्जा गृहमेधिनाम् ।। १६।।
आश्रमाः ऋषिवर्याणां शोभन्ते स्वर्गिणामिव ।
तापसा यत्र विद्यन्ते कोटिशोऽश्वसरोऽभितः ।। १७।।
साधवो यत्र लोकानां कृष्णभक्तिं प्रकुर्वते ।
साध्व्यो ब्रह्मप्रिया यत्र ब्रह्मव्रतपराः सदा ।। १८।।
वसन्ति कृष्णसेवार्थं क्षेत्राऽक्षरकृताश्रयाः ।
ज्ञानयज्ञा ब्रह्मयज्ञा दानयज्ञा भवन्ति च ।। १९।।
सेवायज्ञा मोक्षयज्ञास्तृप्तियज्ञा भवन्ति च ।
कथायज्ञाः सततं च विप्रर्षयो वसन्ति च ।।2.86.२०।।
व्रतयज्ञाः सत्रयज्ञा उद्यापनविधिप्रथाः ।
तीर्थयज्ञा हरेर्नाम्नां कीर्तनक्रतवः सदा ।।२१।।
वर्तन्ते सततं यत्र देवाराधनरीतयः ।
दिव्यपावनहृदया वसन्ति यत्र देहिनः ।।।२२।।
कृष्णनारायणस्वामिन् परब्रह्मेतिवादिनः ।
कम्भरानन्दनकृष्ण गोपालात्मज माधव ।।२३।।
श्रीपते राधिकाकान्त सर्वात्मन् भव मे प्रिय ।
इत्येवं भजमानास्तं बालकृष्णं वसन्ति ते ।।२४।।
वैरहीनास्तिरश्चोपि ददर्शैलविलाऽऽश्रमे ।
लोमशस्य रमणीये ब्रह्मप्रियाद्यधिष्ठिते ।।२५।।।
मूर्तयस्तन्निवासिन्यस्तेजःप्रचुरशोभनाः ।
तया व्योम्ना वीक्षिता वै यानस्थयैलया तदा ।।२६।।
भ्रमणं तद्विमानेन कृत्वा क्षेत्रप्रदक्षिणम् ।
अवाततार प्रासादे कृष्णनारायणस्य सा ।।२७।।
सह श्रीस्वामिना सार्धं ययौ श्रीकम्भरां प्रति ।
ददर्श पूजयामास ववन्दे च ननाम च ।।२८।।
ततो गोपालकृष्णं सा ययौ ननाम पादयोः ।
ततो गजासनं गत्वा स्वामिनं सहयायिनम् ।।२९।।
अनादिश्रीकृष्णनारायणं कृतपरिश्रमम् ।
बालरूपं परब्रह्म सिषेवे देहमर्दनैः ।।2.86.३०।।
पादसंवाहनं चक्रे दासीव श्रीहरेस्ततः ।
तीर्थान्यश्वसरःस्थानि ययौ सस्नौ विधानतः ।।३ १।।
जलं कुंकुमवाप्याश्च पपौ दधार मस्तके ।
ततः श्रीलोमशं नत्वा पूजयित्वा विधानतः ।।३२।।
ब्रह्मप्रियाः सर्वकन्या मिलित्वा मन्दिरं ययौ ।
बालकृष्णस्त्वैलविला भोजयामास पायसम् ।।३३।।
पाययामास मधुरं वारि स्वचरणामृतम् ।
पावयामास भक्तां स्वां रञ्जयामास भावतः ।।३४।।
ततः साऽक्षरभूमिं तां विलोक्य स्थातुमानसा ।
प्रार्थयत्परमात्मानं सदा वासं सती यदा ।।३५।।
चैत्रे हरिर्ददौ तस्यै रूपद्वयं समं शुभम् ।
छायां संप्रेषयामास पुलस्त्यं प्रति वै तदा ।।३६ ।।
ऐलविलां दिव्यरूपामरक्षत् स्वान्तिके सदा ।
ब्रह्मव्रतधरां साध्वीं साधुधर्मान्वितां सतीम् ।।३७।।
अथ तस्या वरदानं सफलं समजायत ।
विश्रवसोऽभवन्पत्न्यश्चतस्रः कुलवर्धिकाः ।।३८।।
पुष्पोत्कटा च वाका च कैकसी देववर्णिनी ।
ज्येष्ठं वैश्रवणं यक्षं सुषुवे देववर्णिनी ।।३९।।
कैकस्यजनयत् पुत्रं रावणं राक्षसाधिपम् ।
कुभकर्णं शूर्पणखां तथैव च विभीषणम् ।।2.86.४०।।
पुष्पोत्कटाऽप्यजनयत् पुत्रान् विश्रवसः शुभान् ।
महोदरं प्रहस्तं च महापार्श्वं खरं तथा ।।४१ ।।
कुंभीनसीं तथा शृंगीमन्याश्च शतकन्यकाः ।
वाकाजास्त्रिशिराश्चैव विद्युज्जिह्वश्च दूषणः ।।४२।।
क्रूरं कन्याशतं चापि पौलस्त्यवंशजा दश ।
रक्षोभावयुताः सर्वयुगधर्माश्रयास्तथा ।।४३।।।
तपोयुक्ता दानयुक्ता रागयुक्ताः सकल्मषाः ।
सत्याऽसत्योभययुक्ता बलदर्पसमन्विताः ।।४४।।
कलिधर्माश्रिताश्चापि यन्नाशार्थं हरिः स्वयम् ।
रामरूपं विधत्ते च प्रहन्ति राक्षसाँस्ततः ।।४५।।
पापानि क्षालयित्वा ते यान्ति वैकुण्ठवासिताम् ।
ऐलविलावरदानप्रतापेन तु वंशजान् ।।४६।।
सबलान् राक्षसान् कृष्णचक्रं हन्ति युगे युगे ।
राधिके मम चक्रं वा जलं वा तुलसीदलम् ।।४७।।
पदं वा येन सम्प्राप्तं मुक्तो भवति कोऽपि यः ।
यक्षो वा राक्षसो वाऽपि दानवो दैत्य इत्यपि ।।४८।।।
विश्रवाः सिंहले द्वीपे ययौ वंशयुतस्ततः ।
ऐलविला तपः स्थाने चक्रे यत्र हरिः स्वयम् ।।४९।।
तद्रक्षां च तपसोऽपि परीक्षां प्रचकार ह ।
तत्तीर्थं चैलवैलेयं शृंगं सह्याद्रिभूभृतः ।।2.86.५०।।
सजलं जलकुण्डेन प्रस्रवणेन राजितम् ।
पावनं श्रीकृष्णनारायणपादरजोन्वितम् ।।५१।।
सञ्जातं मोक्षदं यत्र वृक्षस्तम्बात्मको हरिः ।
समभूद् वर्षमात्रं वै वर्षमात्रं शुकादयः ।।५२।।
हरिणा धृतरूपाश्च तद्वंशा वैष्णवाश्च ते ।
सह्याद्रौ सह्यपक्षिस्त्रीजन्यास्ते हरिवंशजाः ।।५३ ।।
दिव्या दिव्यस्वरूपाश्च वसन्ति सुसुखान्विताः ।
यत्र वृक्षाः पावनाश्च हरिवंशोद्भवास्तथा ।।५४।।
यत्राऽवग्रहलेशोऽपि सह्याद्रौ न कदाचन ।
यत्राऽनलदवो नास्ति न हिंस्रोपद्रवस्तथा ।।५५।।
श्वेतवर्णाश्च करिणश्चतुर्दन्ता महोच्छ्रयाः ।
हरिवंशोद्भवा यत्र वर्तन्ते देववाहनाः ।।५६ ।।
शरभाश्चोच्छ्रिता यत्र हरिवंशोद्भवाः शुभाः ।
शुभ्रवर्णा वसन्त्येव द्विशुण्डाः सिंहजातयः ।।५७।।
श्वेताः स्वस्तिकयुक्ताश्च भुजगाः पावनास्तथा ।
निःक्ष्वेडा हरिवंशोत्थाः श्वेता मयूरजातयः ।।५८।।
वर्तन्ते दिव्यरूपास्ते हरेर्वंशोद्भवा हि ते ।
सह्याद्रिः सर्वथा तीर्थोत्तमं तस्य वनानि च ।।५९।।
पञ्चवर्षाणि वै हरेर्योगात् पावित्र्यवन्ति च ।
पठनाच्छ्रवणाद् राधे भुक्तिमुक्तिप्रदानि च ।।2.86.६०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने ऐलविलायाः कुंकुमवाप्यागमनं रूपद्वयं, हरिवंशीयप्रजायाः सह्याद्रौ वासश्चेतिनिरूपणनामा
षडशीतितमोऽध्यायः ।। ८६ ।।