लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०५८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०५७ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः ५८
[[लेखकः :|]]
अध्यायः ०५९ →

श्रीराधिकोवाच-
कोऽयमासीद् रक्तबीजोऽसुरः कृष्ण पुरा भवे ।
कथं पुनः स सञ्जातो धुन्धुः कः किं करिष्यति ।। १ ।।
श्रीकृष्ण उवाच-
शृणु वै राधिके पूर्वसृष्ट्युत्थां सुकथां शुभाम् ।
पूर्वकल्पे गते रात्रौ महामत्स्यो नरायणः ।। २ ।।
जले शृंगे स्वके कृत्वा नावं सत्यवता युतम् ।
बीजानि लोकरक्षार्थं पुनः सृष्ट्यर्थमित्यपि ।। ३ ।।
नावि धृत्वा विचचार प्रालेयजलमस्तके ।
तत्र प्रातर्जलोत्पन्नो महामत्स्योऽब्धिजस्तदा ।। ४ ।।
नारायणेन मत्स्येन योद्धुं तत्र समागतः ।
नौस्थान् बीजान् भक्षयितुं समिच्छन् युयुधे तदा ।। '९ ।।
नारायणेन मत्स्येन धृतं सुदर्शनं तदा ।
मुक्तं मत्स्यस्य शिरसि द्वेधा मत्स्यो बभूव ह ।। ६ ।।
तस्य रक्तकणाज्जाता मत्स्या जले तु कोटिशः ।
चक्रविदार्यमाणस्य चाब्धिमत्स्यस्य वै तदा ।। ७ ।।
रक्तस्य बिन्दवो देहादुड्डीय नावमागताः ।
केषुचित्तेषु बीजेषु लग्नास्ते भूभृता तदा ।। ८ ।।
प्रातरेव च नौकातो बहिः क्षिप्ता जले यदा ।
दशसाहस्रसंख्यास्ते रक्तबीजा हि राक्षसाः ।। ९ ।।
द्रागेव तु जले तत्र समुत्पन्ना निसर्गतः ।
मत्स्यपुत्रास्तु ते सर्वे सामुद्रजलवासिनः ।। 2.58.१ ०।।
द्वीपं च मार्गयामासुः शाश्वतावासमुच्छ्रयम् ।
तावज्जलं तु प्रालेयं प्रातर्यातं हि शुष्कताम् ।। १ १।।
सशैला पृथिवी तत्राऽदृश्यताऽपां सुमध्यगा ।
मत्स्यावतारो भगवान् सत्यवन्तं नृपं तदा ।। १ २।।
बीजानां वपनं पृथ्व्यां कुर्वित्याज्ञाप्य वै क्षणात् ।
तिरोबभूव सहसा राजाऽपि बीजशेवधिम् ।। १३।।
पृथ्व्यां जलेऽम्बरे वायौ निचिक्षेप च तेजसि ।
प्रक्षिप्य सर्वबीजानि नावं तत्याज वै जले ।। १४।।
नौकाया अरनद्धेषु काष्ठेषु च व्रणेषु च ।
यानि सूक्ष्माणि बीजानि लग्नान्यासन् हि तानि तु ।। १५।।
भक्षयितुं दुद्रुवुश्च रक्तबीजा हि राक्षसाः ।
नावमारुह्य ते सूक्ष्मबीजान्यभक्षयंस्तदा ।। १६।।
तद्भक्षणात् समुत्पन्ना बालका आरबीजकाः ।
बालिकाश्च तथा जाता आरबीज्यः सुयौवनाः ।। १७।।
तेषु सर्वेषु जातेषु नौकाऽप्यदृश्यतां गता ।
रक्तबीजप्रजाः सर्वा आरबीजाह्वयाश्च ताः ।। १८।।
कामरूपधरा व्योमविहाराश्च निराश्रयाः ।
उड्डीय जलधेः पृथ्व्यां निवासाँश्चाप्यमार्गयन् ।। १ ९।।
यत्राऽस्माकं भवेद् वासो जलं च परितो भवेत् ।
तत्परितश्च पृथिवी भवेच्चापि वनादिकम् ।।2.58.२०।।
रणमरण्यमनुजा बीजपुष्पफलानि च ।
गह्वराणि विचित्राणि भवेयुर्यत्र सर्वतः ।।२१ ।।
तत्र वस्तव्यमस्माभिरिति मत्वा च तादृशम् ।
भूतलं रक्तबीजैर्हि तत्प्रजाभिश्च सर्वथा ।।२२।।
आरबीजैः स्वीकृतं सद्भूतलं द्वीपकल्पकम् ।
रक्तबीजो महान् राजा मत्स्यबीजोद्भवः पुरा ।।२३ ।।
तत्प्रजानां तदा जातस्ततस्तदुद्भवो नृपः ।
आरबीजो महान् राजाऽभवद् देवविरोधकृत् ।। २४।।
तं हत्वा यमराजस्तु राज्यं निजानुगाय वै ।
अरवाय ददौ सम्यगृषीणां रक्षणाय च ।।२५।।
रक्तबीजो हतो युद्धे यमलोकं जगाम ह ।
तत्र कर्मभोगान् कश्यपस्यौरसः सुतः ।।२६।।
दनोर्गभसमुद्भूतो धुन्धुनामा भविष्यति ।
ब्रह्माणं तपसाऽऽराध्य सुराऽवध्यत्वमेष्यति ।।२७।।
स्वर्गं विजेष्यति द्राक् च स्वयं शक्रो भविष्यति ।
आसुरं तु तदा राज्यं भविष्यति त्रिविष्टपे ।।२८।।
त्रिदशा ब्रह्मलोकं च गमिष्यन्त्यस्य वै भयात् ।
धुन्धुर्वक्ष्यति दैत्याँश्च भो दैत्या हि कथं वयम् ।। २९।।।
व्रजेम सत्यलोकं संविजेतुं त्रिदशादिकान् ।
दैत्या निशम्य वक्ष्यन्ति न नो गतिर्हि तत्र वै ।।2.58.३ ०।।
इतो लोको महश्चास्ते महर्षिगणसेवितः ।
योषां दृष्ट्र्या च दह्यन्ति दैत्याः सरोषकेक्षणैः ।।३ १ ।।
ततः परो जनलोको जना देवा वसन्त्यथ ।
ततस्तपस्ततः सत्यो यत्र ब्रह्मपरा स्थिताः ।।३२।।
योषां वेदध्वनिं श्रुत्वा विकसन्ति सुरादयः ।
संकोचमसुरा यान्ति ये च तेषां सधर्मिणः ।।३३।।
तस्मान्मा त्वं महाबाहो तत्र गन्तुं समादधः ।
वैराज्यभवनं क्षुब्धो दुरारोहं तु दानवैः ।। ३४।।
तेषां तु वचनं श्रुत्वा धुन्धुर्दैत्यान् प्रवक्ष्यति ।
गन्तुकामः स सदनं ब्रह्मणो जेतुमीश्वरान् ।। ३९।।
केन तु कर्मणा, कथं गम्यते, तत्र दानवाः ।
इन्द्रः कथं प्रयात्येव दैवाः प्रयान्ति वै कथम् ।।३६ ।।
वदताऽत्र च मे दैत्याः कुर्मा वयं तु तत्तथा ।
ततो दैत्यगुरुः शुक्रः कथयिष्यति साधनम् ।।३७।।
सहस्राक्षः शतं चैकं यज्ञानामयजत् पुरा ।
श्रेष्ठानां वाजिमेधानां तेन ब्रह्मसदोगतिः ।।३८।।
शुक्रवाक्यं निशम्याथ यज्ञान् स वै करिष्यति ।
शुक्रमामन्त्र्य च दैत्यान् दानवान् वसुधां प्रति ।।३९।।
गमिष्यति सरिच्छ्रेष्ठा देविकां सिद्धिदां ततः ।
संविधास्यति यज्ञांश्च भार्गवैः शुक्रशिष्यकैः ।।2.58.४०।।
यज्ञभागभुजस्तत्र स्वर्भानुप्रमुखास्तदा ।
भविष्यन्ति हयत्राताऽग्निधूमाऽसुर एव च ।।४१।।
विचरिष्यति पृथ्व्यां च गन्धो यास्यति वै दिवम् ।
घ्रात्वा देवा विषण्णाश्च प्रवक्ष्यन्ति तु वेधसम् ।।४२।।
सवेधसो गमिष्यन्ति क्षीरस्थं परमेश्वरम् ।
विज्ञप्तिं च करिष्यन्ति श्रूयतां वै जनार्दन ।।४३।।
धुन्धुनामाऽसुरपतिर्बलवान् बलसंवृतः ।
त्रैलोक्याधिपतिश्चास्ते नस्त्राता नैव विद्यते ।।४४।।
साम्प्रतं ब्रह्मलोकस्थानपि जेतुं समुद्यतः ।
शुक्रस्य मतमादाय यजते च शतक्रतून् ।।४५।।
आरोढुमिच्छति सत्यलोकं जेतुं च वेधसम् ।
तस्मादकालहीनं च चिन्तयस्व परेश्वर ।।४६ ।।
उपायं यज्ञनाशे च येन स्याम सुनिर्वृताः ।
श्रुत्वा वक्ष्यति भगवान् यूयं गच्छथ केतनम् ।।४७।।
गच्छाम्यहं विजेतुं तमित्युक्त्वा च गमिष्यति ।
भगवान् वामनो भूत्वा स्नास्यति देविकाजले ।।४८।।
पतिष्यति देविकाया जले यज्ञस्य सन्निधौ ।
क्षणान्मज्जँस्तथौन्मज्जन् जलचेष्टां करिष्यति ।।४९।।
यज्ञीयाश्च निमज्जतीत्येवं मत्वा द्रुतं च तम् ।
उद्धर्तुं च प्रयास्यन्ति समुद्धार्य तटस्थितम् ।।2.58.५०।।
वामनं तं ब्राह्मणं च प्रक्ष्यन्ति धुन्धुऋत्विजः ।
कस्त्वं कस्मात् समायातः कथं किं ते प्रयोजनम् ।।५ १ ।।
तदा वक्ष्यति विप्रः स दुःख्यहं गृहवर्जितः ।
मम पिता प्रभासाख्यो गोत्रेणापि तु वारुणः ।।५२।।
मम भ्राता नेत्रभासो गतिभासोऽहमेव च ।
रम्यं चावसथं त्यक्त्वा पिता नौ च मृतस्ततः ।।५३।।
वर्षान्ते चाग्रजश्चोक्तो विभजाम गृहं च नौ ।
तेनोक्तौ नैव भवतो विद्यते भाग इत्यहम् ।।५४।।
कुब्जवामनखञ्जानां क्लीबानां श्वित्रिणामपि ।
उन्मत्तानां तथाऽन्धानां दायभागो न विद्यते ।।५५।।
प्रियं वाक्यं गृहे वासो भोजनाच्छादनादिकम् ।
एतावद् दीयते तेभ्यो दायभागहरा न ते ।।५६।।
ततः क्लेशेन महता निष्कासितोऽस्मि तद्गृहात् ।
यज्ञं श्रुत्वा समायातो स्नातुं जले प्रवेशवान् ।।५७।।
निमज्जितो यतश्चाहं न जाने ह्यवतारणम् ।
के भवन्तोऽत्र सम्प्राप्ताः सस्नेहा बान्धवा यथा ।।५८।।।
कोऽयं शक्रप्रतिकाशो युष्मन्मध्ये विभासते ।
अनुकम्पां प्रकुर्वन्तु यद्याश्रयोऽत्र लभ्यते ।।५९।।
इति वै वामनवाक्यं श्रुत्वा विप्राश्च धुन्धुकम् ।
प्रवक्ष्यन्ति च दानार्थं धुन्धुर्दास्यति शोभनम् ।।2.58.६०।।
श्रीमदावसथं दासी रत्नानि विविधानि च ।
सर्वोपस्करयोगाँश्च दासान् गा वाहनानि च ।।६ १ ।।
हिरण्यं स्यन्दनानश्वान् गजान् तथापि वामनः ।
न ग्रहीष्यति विभवान् साधुधर्मं वदँस्तदा ।।६२।।
दासीर्दासाँश्च भृत्याँश्च गृहं रत्नं परिच्छदान् ।
त्यक्त्वा पदत्रयं भूम्यासनं सेत्स्यति वै तदा ।।६३।।
धुन्धुर्दास्यति भूभागं पदत्रयं यदा ततः ।
वैराजरूपमास्थाय पदैकेन महीमिमाम् ।।६४।।
द्वितीयेन कटाहं च तृतीयेन च दानवम् ।
ग्रहीष्यति हरिस्तं च पातालेऽधो नयिष्यति ।।६५।।
देवेभ्यश्च निजं राज्यं दत्वाऽदृश्यो भविष्यति ।
पुनर्बलेर्वर्धितस्य राज्यं खर्वो हरिष्यति ।।६६।।
अथ धुन्धुरन्धकस्य साहाय्यं च करिष्यति ।
अन्धकस्य महायुद्धं शंकरेण भविष्यति ।।६७।।
शुक्राचार्यं तदा शंभुर्मुखे प्रक्षिप्य चोदरे ।
धृत्वा पुनश्च शिश्नेन तदा निष्कासयिष्यति ।।६८।।
शुक्ररूपः शुक्रनाम्ना शंभोः पुत्रो भविष्यति ।
अथेन्धकेन योद्धु च महेन्द्रोऽपि गमिष्यति ।।६९।।
मूर्ध्नि वज्रं परिभ्राम्याऽन्धकं यदा हनिष्यति ।
अन्धकस्य शिरस्येव वज्रं चूर्णं भविष्यति ।।2.58.७०।।
वह्निस्तस्मै तदा शक्तिं दास्यत्येव भयंकराम् ।
तथा च देवगन्धर्वा रथं दास्यन्ति स्वस्तिकम् ।।७१।।
शमीकस्य ऋषेः पत्नी बालं तदा तु भूतले ।
पृथिव्यां कम्पमानायां स्थापयिष्यति वै तदा ।।७२।।
बालौ द्वावेकतश्चैव भविष्यतस्तदा तयोः ।
एको वै मातलिर्नामा गमिष्यति महेन्द्रकम् ।।७३।।
तदा स सारथिर्भूत्वा साहाय्यं च करिष्यति ।
रुद्रस्तदा महेन्द्रश्च तथाऽन्ये देवताः सह ।।७४।।
मारयिष्यन्त्यंधकं च शंकरो लोकशंकरः ।
शंकरस्य ललाटोर्ध्वाद् गदाघातेन बिन्दवः ।।७५।।
रक्तस्यापि पतिष्यन्ति भविष्यन्ति च भैरवाः ।
विद्याराजो रुद्रराजश्चण्डः प्रचण्ड इत्यपि ।।७६।।
कपाल्येककपाली च तथा ललितराजकः ।
विघ्नराजोऽष्टमश्चापि भैरवास्ते तदोद्भवाः ।।७७।।
ललाटफलकाच्छंभोः कन्याश्चैका भविष्यति ।
चर्च्चिका नामतः साध्वी हिङ्गुलाद्रिनिवासिनी ।।७८।।
अथाऽन्धकं मारयित्वा भृंगिनामगणं स्वकम् ।
करिष्यति शंकरस्तं ततो धुन्धुर्भयान्वितः ।।७९।।
पातालं यास्यति शीघ्रं ततः कालान्तरे पुनः ।
बलेः साहाय्यतां यदा करिष्यति तदा हरिः ।।2.58.८० ।।
सुदर्शनेन च धुन्धुं मारयिष्यति जीवतः ।
इत्येवं कथितं राधे रक्तबीजकथानकम् ।।८ १ ।।
श्रीराधिकोवाच-
कथं कृष्ण जलमत्स्यो विष्णुचक्रेण घातितः ।
पवित्रतां गतो नैव यद्वंशे राक्षसा यतः ।।८२।।
श्रीकृष्ण उवाच-
विष्णुचक्रपरिच्छिन्नो जलमत्स्यस्तु राधिके ।
गतपापोऽभवच्छीघ्रं स्वर्गे महेन्द्रतां गतः ।।८३।।
आद्यः स एव संकल्पजन्योऽभूद् देवतापतिः ।
आद्ययुगप्रवृत्त्यर्थं ततः पृथ्व्यामवातरत् ।।८४।।
विष्णुभक्तोऽभवल्लोके सुवर्णांगदविश्रुतः ।
अनादिश्रीकृष्णनारायणभक्तोऽतिमानवः ।।८५।।
ततो धाम ययौ दिव्यं परं कृष्णस्य राधिके ।
अथ ये रक्तबीजाश्च आरबीजादयस्तथा ।।८६।।
ते सर्वे बीजहन्तारः सृष्ट्यादौ चाऽभवन् यतः ।
सत्यव्रतस्य शापेन राक्षसत्वमपागताः ।।८७।।
आदिबीजप्रहन्तारश्चाऽलभ्यवस्तुनाशकाः ।
महापापाऽतिपापास्ते यतो वंशविनाशकाः ।।८८।।
विचार्येत्थं तदा राजा शशापैतान् विघातकान् ।
बीजघातप्रकर्तारश्चासुरा वै भविष्यथ ।।८९।।
इत्येवमासुरा जाता यतश्चासुरभावनाः ।
पक्ष्यण्डानां कललादेर्भक्षका राक्षसा हि ते ।। 2.58.९०।।
पशुबीजप्रहन्तारो रजोवीर्यविनाशकाः ।
बीजकोशप्रहन्तारस्तामसास्तेऽसुरा मताः ।।९१।।
अलभ्यबीजघाते तु महत् पापं प्रजायते ।
प्रथमं पार्वती देवी शंकरस्य समागमे ।।९२।।
बीजलब्धेरवसरे देवैर्विघ्नवती कृता ।
शशाप दयिता साध्वी दुःखितेनाऽन्तरात्मना ।।९३ ।।
देवा मे गर्भवाञ्च्छाया घातकाः स्वार्थसिद्धये ।
बीजदाने घातका वै यतो जाता हरं प्रति ।।९४।।
अपुत्राऽहमगर्भाऽहं कृता युष्माभिरित्यतः ।
भवन्तोऽपि ह्यपुत्राश्च भवत्पत्न्योऽप्यगर्भिकाः ।।९५।।
अनपत्याः सदा सन्तु इति देवान् शशाप सा ।
तस्माद्वै राधिके पापं प्रथमं बीजघातनम् ।। ९६।।
ततोऽप्यधिकपापं च स्त्रिया वै ऋतुघातनम् ।
ततोऽप्यत्यधिकं पापं गर्भहत्या प्रकथ्यते ।।९७।।
सर्वेभ्यश्चोल्बणं पापं बालकस्य विनाशनम् ।
सद्यो विवाहितयोश्च घातनं पापकोटिकम् ।।९८।।
सगर्भाघातनं पापं पापकोट्यर्बुदाऽधिकम् ।
असमाप्ते तु मिथुने घातनं सृष्टिघातजम् ।।९९।।
पापं वै जायते तस्माद् बीजघ्ना नोद्धरन्ति वै ।
ब्रह्मचारिव्रतं तस्मात् पुण्यदं मोक्षदं मतम् ।। 2.58.१०० ।।
यत्र बीजं न हन्येत रक्ष्यते तु स्वभावतः ।
रक्षणस्य महत्पुण्यं धर्मेणाऽपि प्रदानकम् ।। १०१ ।।
महत् पुण्यं स्वयं ब्रह्मा विष्णुः शिवो जगुः सदा ।
इत्येवं राधिके चोक्तं राक्षसत्वे हि कारणम् ।। १ ०२।।।
बीजघ्नानां स्वयं कृष्णो दृष्टेः पथं प्रयाति न ।
यमद्वारा विनाशश्च तेषां करितवान् प्रभुः ।। १ ०३।।
ऋतुदानं महत्पुण्यं गृहस्थानां सुरोदितम् ।
वंशदानं चातिपुण्यं वंशकृतां प्रकीर्तितम् ।। १ ०४।।
निर्वंशा नोद्धरन्त्येव संसाराऽब्धि तरन्ति न ।
सवंशाः पितरस्तृप्ताः समुद्धरन्ति सागरात् ।। १ ०५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने रक्तबीजाऽऽरबीजाद्यसुरोत्पत्तिर्धुन्धुदैत्योत्पत्तिर्बीजनाशात्मकपातक-
मित्यादिनिरूपणनामाऽष्टपञ्चाशत्तमोऽध्यायः ।। ।५८ ।।