लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०५७

विकिस्रोतः तः
← अध्यायः ०५६ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः ५७
[[लेखकः :|]]
अध्यायः ०५८ →

श्रीराधिकोवाच-
आरबीजे गतो यस्तु यमराजः प्रतापवान् ।
किं चकार ततस्तत्र कथां कथय केशव ।। १ ।।
श्रीकृष्ण उवाच-
आरबीजे यमराजो गत्वा व्यनादयन्मुहुः ।
भेरीं रणकृतोत्साहां वाद्यानि विविधानि च ।। २ ।।
रणतूर्याणि च दूता व्यनादयन्मुहुर्मुहुः ।
शब्दास्ते ध्वनयो व्योम्नि रोदस्युभे समापृताः ।। ३ ।।
व्योममार्गेण यमराट् निनादयन् दिशो मुहुः ।
आजुहावाऽसुरान् देशेऽरण्येऽद्रौ संस्थिताँस्तदा ।। ४ ।।
ते च श्रुत्वाऽवलोक्याऽपि सशस्त्राश्चर्यसंभृताः ।
निर्ययुर्दशसाहस्रा रक्तबीजोऽग्रणीस्तथा ।। ५ ।।
व्योमगा जलगाः केचित् केचिद्विमानयायिनः ।
केचित्तु कुक्कुटारोहाः केचित्कुञ्जरवाहनाः ।। ६ ।।
केचित्तु गर्दभारोहाः केचिदुष्ट्रकृताऽऽसनाः ।
केचिद्गवयपृष्ठस्थाः केचिन्मेषवृषासनाः ।। ७ ।।
केचित् खच्चरवाहाश्च केचिद्घोटकवाहनाः ।
अजपृष्ठे स्थिताश्चाऽन्ये मयूरपृष्ठसंस्थिताः ।। ८ ।।
केचिन्महिषवाहाश्च केचिद् गेन्डकपृष्ठगाः ।
अन्ये च मकरारोहा गोमायूरथसंस्थिताः ।। ९ ।।
वृकवाहास्तथा चाऽन्ये सूकरारोहिणः परे ।
गृध्रगर्जनपृष्ठस्थास्तथाऽन्ये वाहवर्जिताः ।। 2.57.१ ०।।
सगदाः सकृपाणाश्च सधनुष्काः ससायकाः ।
समुद्गरपरिघाश्च सासिखड्गाः सशक्तिकाः ।। १ १।।
सतोमराः सवर्माणः सशूलाः गोलकाऽन्विताः ।
सधूष्कृतीतूपयन्त्राः सकुन्ताः पाशवेदिनः ।। १२।।
सयष्टिकाः सानलाश्च विद्यत्तारप्रजालिनः ।
मायापाशधराश्चापि क्षेपणादिसमन्विताः ।। १३।।
शरजालयुताश्चान्ये धनुर्धरा महाभटाः ।
निर्ययुः रणशब्दान् वै श्रुत्वा दैत्याः समन्ततः ।। १४।।
अपश्यद् दानवान् सज्जान् युद्धगान् यमराट् स्वयम् ।
अथाऽऽजुहाव च पुनर्यमराजोऽभिधानकैः ।। १५।।
भो रक्त भो आरबीज भो मर्क भो मदानक ।
भो असीरक भो पेगन् भो अदीन परीमक ।। १६।।
भो हेडेमृत्यो विहरिन भो हसन् वशरासुर ।
भो इराक दमा तुष्क लीलाबीज त्रिराशिक ।। १७।।
युद्धं कुरुत वा यात पातालं तु निजालयम् ।
कथं दत्थ महाकष्टं बकदानर्षिसाधवे ।। १८।।
फलं ददामि तूर्णं वो यदीतो न प्रयास्यथ ।
इत्युक्तास्ते महागर्वा महाबलपराक्रमाः ।। १९।।
मद्यमांसाशना दुष्टा मत्स्यकुक्कुटभक्षिणः ।
वदन्तः कटुशब्दाँश्च किरन्तश्च शरोत्करान् ।। 2.57.२०।।
सर्वे चाययुरव्यग्रा यमदूतोपमाः खलाः ।
तानागतान् बाणजालैर्यानस्थोऽद्भुतविक्रमः ।।२१।।
यमः संछादयामास स्वदूतैः सह राधिके ।
एवं बाणैरवच्छाद्य सर्वास्तान् दानवान् यमः ।। २२।।
पाकासुरान् जघानापि तीक्ष्गाग्रैर्मार्गणैर्यमः ।
तथाऽन्यान् दीननाम्नश्च दैत्यान् जघान सर्वशः ।।२३।।
दैत्या अपि महाशूरा विजघ्नुर्यमपार्षदान् ।
नाराचैस्तोमरैर्विद्युद्यन्त्रैः शक्त्यादिभिस्तदा ।।२४।।।
ऋष्टिभिर्भिन्दिपालैश्च परिघैश्च गदादिभिः ।
गोलकैः पर्वतैश्चापि वृक्षैः शृंगैः शिलादिभिः ।।२५।।
हस्तिभिर्घोटकैश्चापि निजघ्नुर्यमकिंकरान् ।
दूताः शैलसमा दैत्यान् जघ्नुश्चात्यति जीवतः ।।२६।।
रक्तबीजो जघानोरौ गदया त्वतिवेगतः ।
शृंगवन्तं यमदूतं व्यनदच्च पुनः पुनः ।। २७।।
दूतोऽपि तां गदां धृत्वा रक्तबीजं च मस्तके ।
जघान चातिवेगेन दैत्यो मूर्छामवाप ह ।। २८।।
द्वितीयां च गदां धृत्वा बहुभारां यमानुगः ।
आविध्य चाम्बरे गुर्वी मुमोच रक्तबीजके ।। २९।।।
तावद्वै रक्तकस्तामायान्तीं संगृह्य चाम्बरे ।
शृंगवन्तं प्रति शीघ्रं मुमोच लीलया यथा ।।2.57.३ ०।।
दूतो धृत्वा गदां नैजां शतबाणैर्हि रक्तकम् ।
भेदयामास बहुधा क्षुरप्रैश्च शिलीमुखैः ।।३ १ ।।
शुशुभे रक्तकस्तत्र पलाशः पुष्पवान् यथा ।
रक्तबीजस्तु तावद्वै समुत्थाय निजायुधम् ।। ३२।।
शक्तिं शतप्रघण्टां च प्राहिणोत् शृंगकं यमम् ।
शैलपादो यमः शक्तिमुत्प्लुत्य द्रुतमम्बरे ।।३ ३।।
हस्ते धृत्वा मुमोचैव रक्तबीजस्य वक्षसि ।
शृंगवाँश्च गदां तस्य मुमोचोन्मथ्य मस्तके ।।३४।।
युगपत्त्वागते रोद्धुं समर्थो नाऽभवद् यतः ।
शक्तेः ररक्ष चात्मानं तावद् गदा महत्तमा ।।३५।।
शैलसमा ब्रह्मरन्ध्रे पपाताऽतीव वेगतः ।
द्वेधाऽभवत् कटाहं च शिरसः सोऽपतद्भुवि ।।३६।।
दैत्या निन्युर्हि तं दूरं रक्तबीजं महाबलम् ।
आरबीजस्तदा शक्तिं मुमोच शैलपादके ।। ३७।।
वह्निभां शतघण्टां च स्वर्णपट्टाभिभूषिताम् ।
शृंगवान् तां परिगृह्य गदां मुमोच आयसीम् ।।३८।।
शैलपादो महाशक्तिं मुमोच वेगतस्तथा ।
गदया ताडितो मूर्ध्नि शक्त्या भिन्नस्तथोरसि ।।३ ९।।
आरबीजो ममाराऽत्र व्यसुः क्रन्दन् क्षणान्तरे ।
अथ मर्कस्तथा मदानकश्चेत्युभयाऽसुरौ ।।2.57.४०।।
शृंगस्यापि विनाशाय दुद्रुवतुश्च रंहसा ।
तदा दूतः शैलपादश्चार्कहनुस्तदावुभौ ।।४१।।
दुद्रुवतुर्गदे धृत्वा व्यनादयतां रोदसी।
सान्निध्ये च गदायुद्धं प्रावर्तत परस्परम् ।।४२।।
ब्रह्माण्डक्षयकाराश्च घातशब्दास्तदाऽभवन् ।
चन्द्रकर्णोऽपि दूतस्तं मदानकममारयत् ।।४३।।
अर्कहनुस्तदा मर्कं दैत्यं शक्त्या व्यपोथयत् ।
शैलपादश्च नाराचैरन्ध्रचन्द्रैः शिलीमुखैः ।।४४।।
क्षुरप्रैश्चातितीक्ष्णैश्च शरैर्बिभेद दानवान् ।
मर्कहस्तौ स्कन्धभागाच्चिच्छेद् बहुलीलया ।।४५।।
मदानकस्य च पादौ चिच्छेद सक्थिमूलतः ।
करपादान् विना जातो मर्कमदानकावुभौ ।।४६।।
तौ परित्यज्य च तदा जयशब्दान् जगुर्यमाः ।
असीरको महादैत्यो बधीरकेण यामिना ।।४७।।
पेगन् दैत्यश्चाग्निमालाभिधेन तु यमेन च ।
युयुधाते हि नाराचैः ववृषतुः शरान् बहून् ।।४८।।
आकाशं छादितं बाणैस्तदा नाराचवृष्टिभिः ।
दैत्यानां धनुरामुक्तैः सहस्रायुतकोटिभिः ।।४९।।
अग्निमालो बधीरश्च दूतौ व्योमचरौ तदा ।
वह्निमुत्पाद्य बाणौघान् ज्वालयामासतुर्द्रुतम् ।।2.57.५०।।
बधीरको महाशैलोऽभवद्वै पञ्चयोजनः ।
पपातासीरके पेगन्यपि तौ चूर्णितो मृतौ ।।५१ ।।
अदीनासुरकस्तत्र धृत्वा तोमरमुज्ज्वलम् ।
विकटास्यं यमं वेगाज्जघानोरसि दूरतः ।।५२।।
परीमकोऽसुरश्चापि नाडीघातं यमं तदा ।
मद्गलेनाऽभिसम्पद्य ताडयामास निर्भयः ।।५३ ।।
हेडेमृत्युः कालदंष्ट्रं यमं तताड वै बलात् ।
परिघेन महाशैलशृंगनिभेन चोरसि ।।५४।।
आकाशे उड्डयामासुस्त्रयस्ते तु महासुराः ।
वेगेनोड्डीय च दूतान् मारयामासुरुल्बणाः ।।५५।।
तदा त्वेते त्रयो दूतास्तथाऽन्ये षट् महाबलाः ।
मिलिता नव चाकाशे जघ्नुस्त्र्यसुरकान् शरैः ।।५६ ।।
गदाभिर्मुद्गरैश्चापि महादण्डैश्च पर्वतैः ।
निपेतुस्ते त्रयो भग्नशिरोग्रीवोरुवक्षसः ।।५७।।
व्यसवः समजायन्त दूतास्तत्राऽनदँस्तदा ।
अथ दैत्यो विहारी च हसा च वशरासुरः ।।५८।।
मिलित्वा ते त्रयो जघ्नुर्लम्बनासं यमं तदा ।
सहाया रोदनश्चापि नर्मकश्चाद्रिमालकः ।।५९।।
गदाः शक्तीस्तथा ऋष्टीर्धृत्वोत्पेतुस्तदाम्बरे ।
दैत्यान् त्रीन् पोथयामासुर्निपत्योत्पत्य मारतः ।।2.57.६ ०।।
लम्बनासो यमः पाशैर्विहारिणं बबन्ध ह ।
गदया मारयामास व्यसुं क्षणात्तदाऽकरोत् ।।६ १।।
रोदनो गदया मूर्ध्नि तताड वशरासुरम् ।
त्रिशूलं मारयामास वक्षस्येव बलादति ।।६२।।
प्रोतं पृष्ठे जगामेदं वशरोऽपि मृतोऽभवत् ।
हसानं नर्मकश्चापि दूतो ममार भल्लकैः ।।६३ ।।
हसा कण्ठे विभिन्नश्च पादो क्षिप्त्वा ममार ह ।
इलाकस्य ततो युद्धं चाऽद्रिमालयमेन च ।।६४।।
दमनस्य महायुद्धं मोहपाशयमेन तु ।
तुष्कदैत्यस्यापि युद्धं कालकर्णयमेन वै ।।६५।।
लीलाबीजस्य दैत्यस्य मर्दहस्तयमेन च ।
बहुभिर्हेतिभिश्चासीद् भयानकं च निर्दयम् ।।६६।।
दैत्यास्तं मुशलैर्जध्नुर्यमान् यमाश्च मुद्गरैः ।
मुशला मुद्गरा भग्ना वज्रलेपनिभेषु वै ।।६७।।
ततस्ते गदया व्योम्नि योधयामासुरुल्बणाः ।
चूर्णीभूता गदास्तत्र गदाभिरेव तत्र च ।।६८।।
अथ शक्तीः समादाय निजघ्नुस्ते महारुषा ।
अन्योन्यशक्तीरागृह्य भंक्त्वा चिक्षिपुरम्बरे ।।६९।।
अथ पर्वतशृंगैश्च निजघ्नुर्दानवास्तदा ।
यमा वज्रैः शैलशृंगाण्यदारयँश्च लीलया ।।2.57.७०।।
अथ बाणैश्च भल्लैश्च त्रिशूलैर्बहुवेगिभिः ।
निजघ्नुर्मारणार्थास्ते परस्परं घृणां विना ।।७१ ।।
धृत्वा संगृह्य हेतींश्च भंक्त्वा भंक्त्वा परस्परम् ।
चिक्षिपुर्भूतले सर्वे बाणैर्बाणाँश्च चिच्छिदुः ।।७२।।
अथ शस्त्राणि सन्त्यज्य मूढमारैरमारयन् ।
मुष्टामुष्टि निजघ्नुश्च कण्ठाकण्ठि ह्यमर्दयन् ।।७३।।
पादापादि तथा केशाकेशि युद्धमभूत्तदा ।
अद्रिमालयमः पृथ्व्यामिलाकं संनिपात्य च ।।७४।।
मोहपाशो दमनं चासुरं निपात्य वै भुवि ।
कालकर्णस्तुष्कदैत्यं निपात्य भुवि चाम्बरात् ।।७५।।
मर्दहस्तोऽपि च लीलाबीजं निपात्य भूतले ।
वायुतुल्यबलैर्दैत्यान् निष्पीड्योरस्सु जानुभिः ।।७६ ।।
वक्षोऽस्थ्नां ते प्रचक्रुश्च चूर्णानि कणशस्तदा ।
आक्रुश्याऽऽक्रुश्य च प्राणाँस्तत्यजुः रणदुर्मदाः ।।७७।।
यत्र निष्पीडिता दूतैः पृथ्व्यां तत्राऽभवन् भरैः ।
गर्ता योजनविस्तारा याम्यघातैर्मुहुर्मुहुः ।।७८।।
नदा रक्तप्रवाहाश्च जलं रक्तं तदाऽभवत् ।
शैलाभदैत्यदेहानां रुधिरैर्भूस्तदाऽरुणा ।।७९।।
समजायत रक्ताभा राधिके हि रणांगणे ।
अथाऽन्ये दैत्यवर्याश्च पाको दीनस्त्रिराशिकः ।।2.57.८ ० ।।
अलीथकः शिरोधाश्च पिण्डितायश्च वायुजः ।
त्रिथुको बंसुरश्चोर्ध्वमीनश्चेति तदग्रगाः ।।८ १ ।।
युयुधुश्च यमैः सार्धं बिन्दुमालादिभिस्तदा ।
गर्वगंजो यमस्तं तु बिन्दुमालो विभूतिकः ।।८२।।
गडेडः खञ्जनश्चापि हडेडो भषकाननः ।
शार्दूलो धडघातश्च कटकटो दहनाशनः ।।८ ३ ।।
इत्येवमाद्याः संजघ्नुर्दैत्यान् दारुणगर्वकान् ।
उद्धत्योद्धृत्य च पृथ्व्यां ताडयामासुरीश्वराः ।।८४।।
भेदयामासुरेवैतानासुरान् सक्थिमध्यतः ।
पाटयामासुरेवैतान् द्वेधा नितम्बमध्यतः ।।८५।।।
मृतास्ते ये हस्तगता यमानां सर्व एव ह ।
अन्ये दूराद् वैदिशास्या दुद्रुवुर्जीवनार्थकाः ।।८६।।
दैत्यसैन्यमभूद् रंकं हतोत्साहं विनायकम् ।
खण्डितं छिन्नभिन्नं च जितप्रायं समन्ततः ।।८७।।
तदा दध्मुर्यमदूताः शंखान् भेरीन् बिगूलकान् ।
विजयेन तु सर्वे ते वीतक्लमाः सुखाननाः ।।८८ ।।
नृत्यन्तश्च हसन्तश्च हासयन्तोऽभवन् सुखाः ।
रक्तबीजो विलोक्यैवं विजयं याम्यभागगम् ।।८९।।
पराजयं निजं वीक्ष्य व्रीडानम्रोऽभवत् क्षणम् ।
अथ सैन्यं धावमानं रुरोध रणवाद्यकैः ।। 2.57.९० ।।
रणसंकेतशब्दैश्च वारयामास सैन्यपान् ।
स्वयं गजं समारुह्य युद्धार्थं चाऽग्रगोऽभवत् ।। ९१ ।।
तावत् सैन्यं सैन्यपाश्चाप्यभ्यधावन् सुरोषिणः ।
यमराजं चाम्बरे ते विमानस्याऽभितः क्षणात् ।। ९२।।
परिवव्रुर्विनाशार्थं जगृहुर्यमराजकम् ।
यथा पतङ्गकोट्यश्च शुककोट्यश्च पञ्जरम् ।। ९३ ।।
तथा दानवयूथानि दध्रुर्यमेश्वरं क्षणात् ।
विमानं दृश्यते नैव दैत्याब्भ्राच्छादितं तदा ।। ९४।।
यमराजः स्वयं क्रोधात् कालदण्डं मुमोच ह ।
दण्डाद् दण्डा व्यजायन्त शतशोऽथ सहस्रशः । ।९५। ।
यं दैत्यं स्पृशति द्राक् च दण्डयोगात् स नश्यति ।
भस्म भवति तत्रैव नाऽस्थि चाप्यवशिष्यते ।। ९६ ।।
एवं वै बहुसाहस्रा हता दैत्यास्तदाऽम्बरे ।
यमदण्डेन संदग्धा ययुर्याम्यगृहाणि ते ।। ९७।।
ये जिजीविषवस्ते तु दृष्ट्वा नाशं क्षणान्तरे ।
दुद्रुवुश्च ययुः सर्वे त्यक्त्वा पातालमेव च ।। ९८ ।।
पुत्रपौत्रान् सुतान् पत्नीः पशून् पक्षिण इत्यपि ।
नैजां सुसम्पदं योग्यां नीत्वा पातालमाविशन् ।। ९९।।
रक्तबीजो मृतश्चापि पुनः कालान्तरे हि सः ।
धुन्धुर्नाम्ना महादैत्यो भविष्यतीति राधिके ।। 2.57.१०० ।।
अन्ये दैत्यास्तत्सहाया भविष्यन्ति युगान्तरे ।
अथर्षिर्बकदानश्च ज्ञात्वा चासुरनाशनम् ।। १०१ ।।
जलाद्बहिर्विनिर्गत्य धर्मराजं समागमत् ।
सत्कारं त्वकरोच्चापि प्रशंसामकरोत्तथा ।। १ ०२।।
रक्षार्थं त्वर्थयद् दूतं धर्मराजो ददौ यदा ।
अरवं नाम दूतं स्वं ददौ दूतीं तथाऽरवीम् ।। १०३ ।।
शतदासान् शतदासीर्ददौ रक्षार्थमेव च ।
बकदानाश्रमे ते च ताश्च वासं समादधुः ।। १ ०४।।
आरवा नाम पुत्राश्च युगेऽयुतास्ततोऽभवन् ।
अयुताश्च ततः पुत्र्योऽभवन् दूतीप्रसंगजाः ।। १ ०५।।
तेषां तासां प्रजास्तत्राऽभवन् कोट्यधिकास्ततः ।
एवं वै राधिके तत्र यमो विनाश्य दानवान् ।। १ ०६।।
राज्यं दत्वा स्वदूताय मुनेः रक्षां विधाय च ।
ययौ विमानमारुह्य चाश्वपट्टसरोवरम् ।। १ ०७।।
यमराजो द्वितीयेन स्वरूपेण भटैः सह ।
वैष्णवैर्वैष्णवो भूत्वा न्यवसत् कृष्णसन्निधौ ।। १ ०८।।
अश्वपट्टसरस्येव स्नात्वा संस्नाप्य किंकरान् ।
महाप्रासादमाकृत्वा तीर्थावासं चकार सः ।। १ ०९।।
रुद्रो रुद्रगणैः साकं नारदः सनता सह ।
स्वस्वाऽऽवासान् प्रचक्रुस्ते कृष्णनारायणाज्ञया ।। 2.57.११० ।।
द्वासप्ततिसहस्रकन्यकाः स्नाता हरेर्गृहे ।
नत्वा श्रीकम्भरालक्ष्मीं सत्कृता भोजितास्ततः ।। ११ १।।
कान्ताज्ञया लोमशस्याश्रमे. तस्थुर्निरन्तरम् ।
विमानं सर्वदा चास्ते यौतकान्वितमेव च ।। ११ २।।
श्रीमद्गोपालकृष्णस्योद्याने दिव्यं दिवं यथा ।
कन्यास्ताः पूर्वकामाश्च जाता दृष्ट्वा हरेर्गृहम् ।। ११३ ।।
यस्य कोणे विमानं तत् परिलीयेत तादृशम् ।
पठनाच्छ्रवणादेतच्चरित्रं पुण्यवान् भवेत् ।। १ १४।।
विघ्ननाशो भवेत्तस्य मालिन्यं परिनश्यति ।
धर्मराजस्य दूतेभ्यो भयं तस्य न विद्यते ।। १ १५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने यमराजद्वारा रक्तबीजादिदशसाहस्रदैत्यानां विनाशः, अरवाख्यदूताय राज्यदानं बकदानऋषिरक्षा
आरववंशोद्भवश्चेत्यादिनिरूपणनामा सप्तपञ्चाशत्तमोऽध्यायः ।। ५७ ।।