लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०३२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ०३१ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः ३२
[[लेखकः :|]]
अध्यायः ०३३ →

श्रीकृष्ण उवाच-
शृणु त्वं राधिके माघे जातविघ्ननिमित्तकम् ।
ग्रहादिपूजनं चक्रे स्वयं गोपालकृष्णकः ।। १ ।।
फाल्गुने विष्णुयागे च कारयामास भूसुरैः ।
क्षेत्रविघ्नप्रशान्त्यर्थं ग्रहशान्त्यर्थमित्यपि ।। २ ।।
सौराष्ट्रवर्तिबालानां योगक्षेमौ यथा शुभौ ।
भवेतां च यथा दानान्यसंख्यानि ह्यदात्तदा ।। ३ ।।
देवानां च विभिन्नानां पूजां पिता ह्यकारयत् ।
मात्रादीनां तथा पूजां बलिं श्रेष्ठमदापयत् ।। ४ ।।
श्रीराधिकोवाच-
ग्रहा बालग्रहाः के ते येऽर्दयन्तीह बालकान् ।
कथंरूपा ग्रहा ह्येते वदात्र कृष्णकान्त मे ।। ५ ।।
श्रीकृष्ण उवाच-
पुरा स्कन्दोऽभवत्पुत्रो रुद्रस्य वीर्यसंभवः ।
पार्वत्याश्च तथा वह्नेः गंगाया दर्भकस्य च ।। ६ ।।
षण्णां च ऋषिपत्नीनां बालः स्कन्दस्तदाऽभवत् ।
देवसेनापतिर्जातो लक्ष्मीस्तमाश्रयत्ततः ।। ७ ।।
श्रीजुष्टः पञ्चमीं स्कन्दस्तस्माच्छ्रीपञ्चमी स्मृता ।
षष्ठ्यां कृतार्थोऽभूद् यस्मात् तस्मात् षष्ठी महातिथिः ।। ८ ।।
श्रिया जुष्टं महासेनं देवसेनापतिं कृतम् ।
सप्तर्षिपत्न्यः षड्देव्यस्तत्सकाशमथाऽगमन् ।। ९ ।।
ऋषिभिः सम्परित्यक्ता ऊचुः पुत्रं तु कार्तिकम् ।
वयं पुत्र परित्यक्ता भर्तृभिश्चाल्पकारणात् ।। 2.32.१ ०।।
अस्माभिः किल जातस्त्वमिति ब्राह्म्यमुदाहृतम् ।
तेन दोषेणोज्झिताः स्म तस्मान्नस्त्रातुमर्हसि ।। १ १।।
स्वर्गस्थानाच्च्युताः प्रशंकिता वै ऋषिभिर्वयम् ।
तदक्षयो भवेत् स्वर्गस्त्वत्प्रसादाद्धि नः कुरु ।। १२ ।।
त्वां पुत्रं चाप्यभीप्सामः कृत्वैतदनृणो भव ।
एतत्काले महेन्द्रश्च स्कन्दं प्राह महामतिः ।। १३ ।।
अभिजिन्नामभगिनी तपस्तप्तुं वनं गता ।
रोहिण्यास्तु कनिष्ठा सा ज्येष्ठतां तपसेच्छति ।। १४।।
तत्स्थानं वर्तते रिक्तं स्कन्द पूरय तत्स्थलम् ।
कृत्तिकाभिश्च नक्षत्रसंख्यापूर्तिं विधेहि वै ।। १५।।
स्कन्दस्ताः कृत्तिकारूपा मातॄः षड् पर्ययोजयत् ।
नक्षत्रं कृत्तिकाख्यं तद् भाति वै वह्निदैवतम् ।। १६ ।।
ननु षट्कृत्तिकास्तत्र सप्तशीर्षामता कथम् ।
इति चेच्छ्रूरयतां तत्र कारणं तद्वदामि च ।। १७।।
विनता चाब्रवीत् स्कन्दं मामपि तत्र सन्नय ।
स्कन्दो ददौ सप्तमं च स्थानं तस्यै तदा शुभम् ।। १८।।
एवं तत् कृत्तिकानक्षत्रं मतं सप्तशीर्षकम् ।
अथ ताः कृत्तिकाः प्रोचुः स्कन्दं पुनर्यथेप्सितम् ।। १ ९।।
ब्राह्मी माहेश्वरी चैव वैष्णवी च नरायणी ।
गायत्री दुर्गिका माया याश्चैताः सप्तमातरः ।। 2.32.२०।।
अनादिकालतः पूर्वं या लोकस्य प्रकल्पिताः ।
अस्माकं तु भवेत् स्थानं तासां चैव न तद्भवेत् ।।२ १ ।।
भवेम पूज्या लोकस्य न ताः पूज्या हि कार्तिक ।
ताभिश्चोक्त्वा वियोगो नः ऋषिभ्यः कारितो यतः ।।२२।।
इच्छाम आसां मातॄणां प्रजा याः पितृदेवताः ।
ता अस्माकं भोगकर्त्र्यो भवन्तु ऋषिवत् सदा ।। २३ ।।
स्कन्दः प्राह प्रदत्तं तच्चन्द्रपत्न्यो भवन्तु वै ।
परिरक्षत चान्यांश्च पुत्रतुल्यान् सदा तु नः ।।२४।।
कृत्तिकाश्च तदा प्राहुः पुत्र कुर्मस्तथा वयम् ।
किन्तु षोडशवर्षीया भवन्ति तरुणा प्रजाः ।। २५ ।।
भोक्तुं देहि च नो मर्त्यप्रजा रूपैः पृथग्विधैः ।
स्कन्दः प्राह तथाऽस्त्वेतत् सुखयुक्ता भवन्तु च ।। २६ ।।
अहं तु वः प्रदास्यामि रौद्रमात्मानमव्ययम् ।
परमं तेन सहिताः सुखं स्वर्गे वसन्तु वै ।। २७।।
इत्युक्त्वा कार्तिको देहात् पुरुषं पावकप्रभम् ।
उत्पाद्य ग्रहरूपं तं ददौ ताभ्यः सुखाप्तये ।।२८।।
तं नीत्वा रौद्ररूपं ता ययुश्चान्द्रमसीं भुवम् ।
स्कन्दापस्मारमित्याहुर्ग्रहं तं तत्त्ववेदिनः ।। २९ ।।
विनता तु महारौद्रा कथ्यते शकुनिग्रहः ।
पूतनां राक्षसीं प्राहुस्तं विद्यात्पूतनाग्रहम् ।।2.32.३ ०।।
कष्टां दारुणरूपेण घोररूपां निशाचरीम् ।
पिशाची दारुणाकारा कथ्यते शीतपूतना ।।३ १ ।।
गर्भान् सा मानुषीणां तु हरते घोरदर्शना ।
अदितिं रेवतीं प्राहुर्ग्रहस्तस्यास्तु रैवतः ।। ३२।।
सोऽपि बालान् महाघोरो बाधते वै महाग्रहः ।
दैत्यानां या दितिर्माता तामाहुर्मुखमण्डिकाम् ।। ३३।।
अत्यर्थं शिशुमांसेन संप्रहृष्टां दुरासदाम् ।
कुमाराश्च कुमार्यश्च या जाताः स्कन्दसंभवाः ।।३४।।
तास्ते गर्भभुजः सर्वे क्रूरकार्या महाग्रहाः ।
कुमाराणां स्त्रियो याश्च कुमारीणां नराश्च ये ।। ३५।।
ते जायमानान् गृह्णन्ति बालकान् रौद्रकर्मिणः ।
गवां माता तु सुरभिर्या विद्यते सुरालये ।।३६।।
शकुनिस्तामथाऽऽरुह्य सह भुंक्ते शिशून् भुवि ।
सरमा नाम या माता शुनां देवी तु राधिके ।।३७।।
सापि गर्भान् समादत्ते मानुषीणां सदैव ह ।
पादपानां तु या माता करञ्जनिलयाभिधा ।। ३८।।
सैका तु वरदा रक्षाकरी भूतानुकम्पिनी ।
तां करञ्जद्रुमे पुत्रार्थिनोऽर्चयन्ति मानवाः ।। ३९।।
अथाऽप्यन्या मातरश्च ग्रहा मांसमधुप्रियाः ।
दिवा च रात्रौ तिष्ठन्ति सततं सूतिकागृहे ।।2.32.४०।।
कद्रूः सूक्ष्मवपुर्भूत्वा गर्भिणीं प्रविशत्यथ ।
तत्र भुंक्ते च तं गर्भं नागतुल्यं प्रसूयते ।।४१ ।।
गन्धर्वाणां च जननी गर्भं नीत्वैव गच्छति ।
तेन विलीनगर्भा च मानुषी दृश्यते जनैः ।।४२।।
अप्सरसां जनित्री तु गर्भमास्ते प्रगृह्य तु ।
उपनष्टो गर्भ इति जना वदन्ति तादृशि ।।४३ ।।
रक्तोदधेस्तु या कन्या धात्री स्कन्दस्य या स्मृता ।
सा लोहितायनी नाम्ना कदम्बे पूज्यते जनैः ।।४४।।
पुरुषेषु यथा रुद्रस्तथाऽऽर्या प्रमदासु सा ।
आर्या माता कुमारस्य पृथक्कामार्थमिज्यते ।।।४५।।।
एते सर्वे कुमाराणां भक्षका वै महाग्रहाः ।
यावत्षोडशवर्षाणि शिशूनामशिवा हि ते ।।४६।।
ये तु मातृगणाश्चापि ये च नरगणा ग्रहाः ।
सर्वे स्कन्दग्रहा नाम लोके बोध्या दुःखप्रदाः ।।४७।।
तेषां प्रशमनं कार्यं स्नानं धूपमथाऽञ्जनम् ।
बलिकर्मोपहाराश्च स्कन्दस्येज्या विशेषतः ।।४८।।
एवमभ्यर्चिताः सर्वे आयुर्वीर्यबलप्रदाः ।
अथोर्ध्वं षोडशाद्वर्षाद् ये भवन्ति नृणां ग्रहाः ।।४९।।
तान् वदामि शृणु राधे माहेश्वरा हि ते मताः ।
यः पश्यति नरो देवान् जाग्रत् वा शयितोऽपि वा ।।2.32.५०।।
उन्माद्यति तदा क्षिप्रं तं तु देवग्रहं विदुः ।
आसीनश्च शयानश्च यः पश्यति नरः पितॄन् ।।५१ ।।
उन्माद्यति तदा क्षिप्रं स तु पितृग्रहः स्मृतः ।
अवमन्यते यः सिद्धान् शप्तः क्रोधेन साधुभिः ।।।५२।।
उन्माद्यति च क्षिप्रं यः स तु सिद्धग्रहः स्मृतः ।
सञ्जिघ्राति च यो गन्धान् रसाँश्चाऽऽखादयत्यपि ।।५३ ।।
समुन्माद्यति क्षिप्रं च स ज्ञेयो राक्षसो ग्रहः ।
गन्धर्वाश्चापि यं दिव्याः संविशन्ति नरं प्रियम् ।।५४।।
उन्माद्यति स तु क्षिप्रं ग्रहो गान्धर्व एव सः ।
अधिरोहन्ति यं नित्यं पिशाचाः पुरुषं प्रति ।।।५५।।
उन्माद्यति स तु क्षिप्रं ग्रहः पैशाच एव सः ।
आविशन्ति च यं यक्षाः पुरुषं कालपर्यये ।।५६।।
उन्माद्यति स तु क्षिप्रं ज्ञेयो यक्षग्रहस्तु सः ।
दोषो ग्रहश्च वैक्लव्यं भयं च घोरदर्शनम् ।।५७।।
कश्चित् क्रीडितुकामो वै भोक्तुकामस्तथाऽपरः ।
अभिकामस्तथैवाऽन्य इत्येषः त्रिविधो ग्रहः ।।५८।।
यावद्वार्धक्यसंवेशो भवन्त्येते ग्रहा नॄणाम् ।
अतः परं देहिनां तु ग्रहतुल्यो भवेज्ज्वरः ।।५९।।
संयमितेन्द्रियं भक्तं शुचिं निप्यमतन्द्रितम् ।
आस्तिकं श्रद्दधानं च वर्जयन्ति ग्रहाः सदा ।।2.32.६०।।
न स्पृशन्ति ग्रहा भक्तान् सतीः साधून् प्रशीलिनः ।
अथ स्वाहाऽब्रवीत् स्कन्दो मम पुत्रोऽसि वै प्रियः ।।।६१।।
देहि मे शाश्वतं वासं वस्तुं पुत्र सहाऽग्निना ।
स्कन्दः प्राह द्विजैर्मन्त्रैः स्तुतं हव्यं च कव्यकम् ।।६२।।
होष्यत्यग्नौ सदा स्वाहेत्युक्त्वा वासः सदाऽस्तु ते ।
यत्र गृहं न हवनं तत्र त्वं ग्रहरूपिणी ।।६३।।
भविष्यसि न सन्देहः पञ्चके पञ्चखादिनी ।
इत्युक्ता वह्निना सार्धं स्वाहा वसति नित्यदा ।।६४।।
इत्येवं ते ग्रहाः प्रोक्ता विनाशकाः क्वचित् क्वचित् ।
तस्मात्ते पूजनीया वै सन्तुष्टाः सुखदाः स्मृताः ।।६५।।
गोपालकृष्णः फाल्गुन्यामष्टम्यां तत्समर्चनम् ।
कारयामास मन्त्रैश्च तत्तद्बलिप्रदानकैः ।।६६।।
पायसैः पोलिकाभिश्च शाकैर्भर्जितसत्कणैः ।
हव्यैः कव्यैर्ग्रहान् सर्वान् तर्पयामास भावतः ।।६७।।
अथ स्कन्दस्तथा कृत्वा विनता पूतनादिकाः ।
दित्यदितिपिशाच्यश्च सुरभिः शकुनिस्तथा ।। ६८।।
सरमा कद्रुकी गन्धर्वाप्सरसां च मातरः ।
धात्री रक्तायनी देवपितृसिद्धग्रहास्तथा ।।।६९।।
पैशाचरक्षोगान्धर्वा यक्षाः कामा ज्वरास्तथा ।
स्वाहाश्चेत्यपरे वंशाः षड्विंशतिगणाश्च ते ।।2.32.७०।।
प्रत्यक्षाश्चाययुर्व्योम्ना चाऽवतेरुः सरोवरे ।
यत्र पूजा भवत्येषा सौम्यरूपधराश्च ते ।।७१।।
पूजां प्राप्य बलिं दुग्धपाकादि प्राप्य सर्वथा ।
तृप्ताश्च तुष्टुवुर्नारायणं श्रीपरमेश्वरम् ।।७२।।
वयं नारायण विष्णो दुष्टकार्यकरा ग्रहाः ।
पापपारं न यास्यामस्तथैव निर्मिता यतः ।।७३।।
तरेम तु यथा मायासागरं तत्कृपां कुरु ।
क्षमस्व दुष्टभावानामपराधान् सदा हि नः ।७४।।
यत्र नारायणः कृष्णस्तत्र नाऽस्मत्प्रपीडनम् ।
नात्र क्षेत्रे प्रविशामः पीडनार्थं कदाचन ।।७५ ।।
कुर्वस्मान्पावनान् कृष्ण चरणामृतदानतः ।
त्वं ग्रहाणां ग्रहो देवो नियामकः परेश्वरः ।।७६।।
वासं त्वच्चरणे देहि पावयित्वा सदा शुभान् ।
प्रपन्नाः स्मस्तव चांके गृहाण नः स्वकिंकरान् ।।७७।।
इत्यभ्यर्थ्य निपेतुस्ते पादयोः श्रीहरेस्तदा ।
अनादिश्रीकृष्णनारायणेनाऽद्भिः सुसंस्कृताः ।।७८।।
प्रोक्षिताः पाविताश्चापि जलपानेन तर्पिताः ।
स्पृष्टाश्च भोजिताः सर्वे दिव्यभावं तदा गताः ।।७९।।
उज्ज्वला देवरूपास्ते यथा वै पार्षदा हरेः ।
ततः प्राह हरिस्ताँश्च दिव्यरूपैः सरस्तटे ।।2.32.८० ।।
नित्यं वसन्तु चात्रैव निरातंका निरामयाः ।
निरुपद्रवरूपाश्च सदा श्रेयस्कराः सुराः ।।८ १।।
ग्रहतीर्थं दक्षिणेऽत्र तटे ख्यातं भविष्यति ।
सदा वः प्रतिमाश्चात्र पूजयिष्यन्ति ये जनाः ।।८२।।
देशान्तरस्थितानां वै तेषां वंशजबालकाः ।
मा पीड्यन्तां भवद्भिर्वै देशान्तरगतैरपि ।।८३ ।।
अथ द्वितीयरूपैश्च विचरन्तु महीमिमाम् ।
यथाकार्यं प्रकुर्वन्तु ग्रहकृत्यं नियामितम् ।।८४।।
कुंकुमवापिकाक्षेत्रं दशयोजनविस्तृतम् ।
विहायाऽन्यत्र वै छिद्रे सति कुर्वन्तु धर्षणम् ।।८५।।
तत्रापि मम भक्तानां मा कुर्वन्तु प्रधर्षणम् ।
ब्रह्मशीलव्रतानां च मा कुर्वन्तु प्रधर्षणम् ।।८६।।
सतां सतीनां विप्राणां ब्रह्मिष्ठानां न धर्षणम् ।
कुर्वन्तु तपतां चापि व्रतिनां पुण्यकर्मणाम् ।।८७।।
गोभूदेवसतां सेवां प्रकुर्वतां च नापि वै ।
शुचीनां योगिनां चापि भक्तिजुषां कुटुम्बिनाम् ।।८८
प्रधर्षणं पीडनं वा कुर्वन्तु नैव सर्वथा ।
नास्तिकानां निन्दकानां पिशुनानां तु धर्षणम् ।।८९
हिंसकानां मत्सरिणां दुष्टानां त्वाचरन्तु तत् ।
अदैवानां चापितॄणामनग्नीनां प्रधर्षणम् ।।2.32.९०
चौराणां मद्यपानां च परदुःखप्रदायिनाम् ।
खलानां धर्महीनानां कुर्वन्तु धर्षणं मुहुः ।।९ १
अन्यायिनां परन्यासभक्षिणां भेदिनां तथा ।
भवत्यो धर्षणं कुर्वन्तु सत्कार्यविरोधिनाम् ।। ९२
कुंकुमवापिकाक्षेत्रं महादिव्यं सुखात्मकम् ।
कृष्णनारायणतुल्यं पुण्यपापविवर्जितम् ।।९३
ब्रह्मार्पणमयं मोक्षभूमिकं मन्निवासनम् ।
तत्र मुक्तस्वरूपाश्च निवसन्तु मदाश्रये ।।९४।
गुरुर्मे लोमशस्त्वत्र मन्त्रं दास्यति मे तु वः ।
यान्तु तत्र मनुं प्राप्य तिष्ठन्तु वैष्णवा ग्रहाः ।। ९५।
इत्युक्तास्ते ग्रहाः सर्वे द्वेधारूपाः शुभाशुभाः ।
बभूवुः कृष्णसंकल्पात् छायात्मानो ह्यसौख्यकाः ।। ९६।।
मूलरूपास्तु ते दिव्याः प्रययुर्लोमशाश्रमम् ।
लोमशः प्रददौ मन्त्रं कृष्णनारायणात्मकम् ।।९७।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।
स्रजं च तौलसीं कण्ठे ददौ तेभ्यः सुपुण्ड्रकम् ।। ९८।।
एवं ते वैष्णवा भूत्वा तस्थुश्चाऽश्वसरस्तटे ।
छायात्मानो ययुर्देशान्तराणीष्टानि यानि वै ।। ९९।।
इत्येवं भगवान् सर्वग्रहशान्तिं चकार ह ।
भक्तानां सुखदास्ते च मुक्ताः श्रेयस्कराः सदा ।। 2.32.१० ०।।
इत्येवं राधिके दिव्यश्चमत्कार उदाहृतः ।
शृणुयात्तं पठेद्वा यस्तस्य मोक्षो भवेत् सुखम् ।। १० १।।
धनधान्यपशुपक्षिधनानि च बहून्यपि ।
पुत्रपौत्रसुतापुत्रतद्वंशाश्च निरामयाः ।। १ ०२।।
भविष्यन्ति देवतुल्याः सर्वानन्दपरिप्लुताः ।
सर्वेतिवर्जिता द्वन्द्ववर्जिताः स्वर्गविग्रहाः ।। १ ०३।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने बालग्रहादीनां पूजने तेषां प्रत्यक्षाऽऽगमनं तेषां नामरूपादिभिर्वर्णनं चेतिनिरूपणनामा द्वात्रिंशोऽध्यायः ।। ३२ ।।