लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०३१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०३० लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः ३१
[[लेखकः :|]]
अध्यायः ०३२ →

श्रीकृष्ण उवाच-
श्रूयतां राधिके देवी शावदीना तु कालिका ।
अश्वपट्टसरस्तीरे दिव्योवास वटाश्रिता ।। १ ।।
क्षेत्ररक्षां करोत्येव चाष्टादशभुजा प्रिया ।
सिंहवाहनयुक्ता च कृष्णनारायणांगना ।। २ ।।
कन्यकानां सदा रक्षां करोति दिव्यविग्रहा ।
प्रत्यक्षा दृश्यते लोकैः कृष्णनारायणेच्छया ।। ३ ।।
तत्तीर्थं कालिकातीर्थं वर्ततेऽश्वसरोवरे ।
पश्चिमे तत्र सेतौ वै कृतप्रासादसन्निधौ ।। ४ ।।
माघस्नानसमाप्तौ च कृष्णनारायणं प्रभुम् ।
पूजयामासुरत्यर्थं प्रजा विप्राश्च कन्यकाः ।। ५ ।।
महोत्सवो महान् जातो दिव्यो मोक्षप्रदो हि सः ।
अथ सर्वत्र वार्ता सा प्रासरद् वायुवेगतः ।। ६ ।।
जलमानववीक्षार्थं जनास्त्वायान्ति दूरतः ।
दृष्ट्वा दृष्ट्वा महाश्चर्यं मन्यन्ते श्रीहरेर्बलम् ।। ७ ।।
हरिणा स वारिनरो वारिणा प्रोक्षितस्तदा ।
दिव्यरूपो हस्तपादावयवः समपद्यत ।। ८ ।।
तुष्टाव श्रीहरिं सेवामार्थयत्पादयोः सदा ।
श्रीहरिस्तं सरस्येव क्षेत्रपालं व्यधात्सदा ।। ९ ।।
तव वंशो मानसश्च सर्वत्र प्रसरिष्यति ।
जलमानुषसृष्टिः सा भविष्यतीति चाह तम् ।। 2.31.१ ०।।
जडदेहं तदा तस्य जलमध्ये व्यसर्जयत् ।
ततो दिव्या जलनरा जलनार्योऽभवन् शतम् ।। १ १।।
अथ लोका महाकालीं पश्यन्त्यथ व्रजन्ति च ।
कथयन्ति प्रतापं श्रीकृष्णनारायणस्य ते ।। १ २।।
भजन्ते श्रीकृष्णनारायणं श्रीपरमेश्वरम् ।
मुक्तिं यान्ति बहवश्च श्रीशस्वामिप्रतापतः ।। १३।।।
पयोव्रतं ताः कन्याश्च चक्रुस्तत्राश्रमे यतः ।
हरिः कान्तः प्रभुः प्राप्तस्तदर्थं मानितं तु प्राक् ।। १४।।
राधिके व्रतपुष्ट्यर्थं गावः कामदुघास्तदा ।
पयो ददति नित्यं वै व्रतं कुर्वन्ति कन्यकाः ।। १५।।
श्रीहरिं निर्मलदुग्धैः स्नपयन्ति प्रगे च ताः ।
पश्चाद्वार्भिः स्नापयित्वा वस्त्रभूषादिभिः प्रभुम् ।। १६।।
शृंगारयन्ति भावेन सुगन्धयन्ति सद्द्रवैः ।
मर्दयन्ति प्रभोर्देहं रञ्जयन्ति सुगीतिकैः ।। १७।।
हासयन्ति सुमाधुर्यैस्तोषयन्ति सुनर्तनैः ।
आनन्दयन्ति सुस्पर्शैस्तर्पयन्ति सुभोजनैः ।। १८।।
स्तुवन्ति वर्धयन्त्येव नीराजनक्षमापनैः ।
एवं कृष्णव्रतकर्त्र्यः पिबन्ति दुग्धमेव ताः ।। १ ९।।
मासपूर्णं व्रतं कृत्वा चक्रुः कृष्णार्पणं च तत् ।
दानहोमोत्सवमुद्यापनं कृत्वा च पूर्णताम् ।। 2.31.२०।।
तस्थुस्तत्रैव संभेजुः श्रीकृष्णं पुरुषोत्तमम् ।
अनादिश्रीकृष्णनारायणं प्राणपतिं प्रभुम् ।।२ १ ।।
श्रीराधिकोवाच-
कथं कृष्णः परब्रह्म म्लेच्छराक्षसकन्यकाः ।
जातिनिकृष्टभावोत्था जग्राह पावनः प्रभुः ।।२२।।
श्रीकृष्ण उवाच-
शृणु राधे कथयामि मम दिव्यां कथां तव ।
परेण ब्रह्मणा चाहं पुरा स्वांशः प्रकाशितः ।।२३।।
मया राधा तदंशा च पत्नीरूपा कृता तदा ।
साहौदर्यं रोधते न तेजस्विनां तदत्र वै ।।२४।।
परेण ब्रह्मणा नारायणश्चतुर्भुजः कृतः ।
परब्रह्मसमुत्था च लक्ष्मीस्तेन प्रिया कृता ।।२५।।
साहौदर्यं बाधते न नारायणावतारके ।
ब्रह्मणा स्वस्य वंशीया सावित्री संविवाहिता ।।२६।।
गायत्री वंशजा पुत्री ब्रह्मणा स्वप्रिया कृता ।
सरस्वती तथा पुत्री पत्नीत्वेन सुमानिता ।।२७।।
ब्रह्मपौत्रस्य पुत्र्यश्च दक्षजाः कुलजाश्च ताः ।
ब्रह्मपुत्रैः प्रपुत्रैश्च सर्वा एव विवाहिता ।।२८।।
कश्यपेन पुरा तिर्यग्जातीयाः स्वप्रियाः कृताः ।
दनुश्च दितिरेवेमे राक्षस्यौ कश्यपस्त्रियौ ।।२९।।
अरुन्धती श्वपची च वसिष्ठेन विवाहिता ।
काली च भैरवी दुर्गा तामस्यः शंकरप्रियाः ।।2.31.३ ०।।
वृन्दा तुलसी दैत्यस्य पत्न्यौ विष्णुविवाहिते ।
म्लेच्छा गोरोमतो जाता गवां वंशास्तु ते स्मृताः ।।३ १ ।।
समर्थो भगवान् सर्वान् पवित्रयति तत्क्षणात् ।
न तस्याग्रे जातिभावो नोच्चता नीचता न च ।।३२।।
भावगम्यो हि भगवान् भावितो भावयत्यपि ।
सर्वं तस्य सः सर्वस्मिन् तदात्मकः स एव ह ।।३३।।
सर्वभोक्ता सर्वकर्ता सर्वपतिः पतीश्वरः ।
तस्याऽऽज्ञया पुरा ब्रह्मा युगलानि समसृजत् ।। ३४।।
तद्युगलं भ्रातृस्वसृरूपं सहस्रमास ह ।
ततः सृष्टिः कृतयुगे भवत्येव न दूषणम् ।। ३५।।
तदा कन्याः परस्मै वै दातुं .प्रथा न चाऽभवत् ।
अथ कन्याविहीनानां वंशसन्तानसिद्धये ।।३६।।
कन्यादानं प्रदातव्यमन्यस्मै नियमोऽभवत् ।
परगोत्रे प्रदातव्या कन्येति नियमस्त्वनु ।। ३७।।
असपिण्डे प्रदातव्या साजात्ये नियमोऽभवत् ।
एवं सर्वैर्लभ्यते वै कन्या वंशप्रदा ततः ।।३८।।
अन्ये धर्माः पुरा सृष्टौ सृष्ट्यारंभेऽपि चापराः ।
अन्ये धर्माः कृते त्वाद्ये त्रेतादावपरे वृषाः ।।३५।।
कलौ धर्मा अधर्मास्ते तदानीमभवन् प्रिये ।
कृतधर्माः कलौ सर्वे न तु धर्मतया मताः ।।2.31.४०।।
तेजोभेदाद् भिन्नधर्माः प्रवर्तन्ते युगे युगे ।
तस्मात् कृष्णस्य दोषो न तत्क्रिया धर्म एव सः ।।४१ ।।
तत्कृतः सः पराम्नायः शास्ति सर्वं जगत् सदा ।
स चाम्नायो नैव कृष्णं शासितुं क्षमते क्वचित् ।।।४२।।
आम्नायस्य महामाता क्रिया कृष्णस्य वर्तते ।
तस्मात् कृष्णक्रियाः सर्वा आत्माम्नायस्वरूपिणी ।।४३।।
न सः कामो न सः क्रोधो न व्यवायो न हिंसनम् ।
न तच्चौर्यं न सांकर्यं कृष्णकृतं तु यद्भवेत् ।।४४।।
कामो दिव्यस्तथा क्रोधो व्यवायो दिव्य एव सः ।
हिंसा चौर्यं च सांकर्यं दिव्यं कृष्णकृतं सदा ।।४५।।
राधा दिव्या रतिर्दिव्या दिव्या वैभवभोग्यता ।
सर्वं दिव्यं परब्रह्ममयं तत्र न दूषणम् ।।४६।।
यत्राऽस्ति तेजसां राशिस्तमस्तत्र न विद्यते ।
तमस्तु दूषणं प्रोक्तं तेजस्विषु न संभवेत् ।।४७।।
अल्पदृष्ट्या विलोक्यन्ते दूषणानि तमोऽधिकैः ।
ब्रह्मदृष्ट्या तु तान्येव भूषणानि भवन्ति हि ।।४८।।
यादृक् स्नेहः स्त्रियां पुत्रे सुतायां जनकादिषु ।
स एव साधुषु कृतो मोक्षं ददाति निर्गुणः ।।४९।।
सत्सु साध्वीषु च दोषा भस्मतां यान्ति योगतः ।
हरेर्योगाद् दिव्यभावाः सन्तः साध्व्यो भवन्ति हि ।।2.31.५०।।
यथा राधे तव पुत्राः क्षारोदा अपि सर्वथा ।
पावनास्तीर्थरूपास्ते दिव्यरूपा भवन्ति हि ।।।५ १ ।।
यथा लिंगं काममूलं दोषात्मकं जगत्सु वै ।
शंकरस्य तु योगेन ब्रह्मवत्पूज्यते हि तत् ।।५२।।
पाषाणाद्या ब्रह्मयोगात् पूज्यन्ते प्रतिमात्मकाः ।
त्या सर्वं त्वया राधे पूजनीयं मदन्वयात् ।।५३।।
म्लेच्छता कृष्णयोगेन व्रजत्येवाऽच्छतां प्रिये ।
भगं वै ब्रह्मयोगेन यज्ञकुण्डे प्रदृश्यते ।।।५४।।
पत्नीहस्ते त्वश्वलिंगं त्वश्वमेधे प्रदीयते ।
सर्वत्र ब्रह्मयोगेन पावित्र्यं कल्पते प्रिये ।।।५५।।
तस्माच्छंका न कर्तव्या म्लेच्छकन्याः कथं प्रियाः ।
यत्प्रियं श्रीहरेस्तत्तु शुद्धमेव न संशयः ।।५६।।
अथ त्विदं प्रवक्ष्यामि धर्मतत्त्वं निबोध मे ।
प्राग्भवम् ऋषिभिर्दृष्टं धर्मविद्भिर्महात्मभिः ।।५७।।
अनावृताः पुरा किल स्त्रियस्त्वासन् वरानने ।
कामचारविहारिण्यः स्वतन्त्राश्चारुहासिनी ।।।५८।।
तासां व्युच्चरमाणानां कौमारात् सुभगे पतीन् ।
नाऽधर्मोऽभूद् वरारोहे स हि धर्मः पुराऽभवत् ।।५९।।
तं चैव प्राचीनधर्मं तिर्यग्योनिगताः प्रजाः ।
सर्वदाऽनुविधीयन्ते ऋतुधर्ममनुसृताः ।।2.31.६०।।
प्रमाणदृष्टो धर्मोऽयं पूज्यते च महर्षिभिः ।
उत्तरेषु च देशेषु कुरुष्वपि प्रवर्तते ।।६१।।
पर्वतीयप्रजास्वेषः धर्मो बहुपतित्वकः ।
देवीष्वपि च स्वर्गादौ वर्तते धर्म एव सः ।।६२।।
दासीष्वपि च सर्वत्र वर्तते धर्म एव सः ।
स्त्रीणामनुग्रहप्राप्तः स वै धर्मः सनातन ।।६३।।
अथोद्दालकपुत्रेण कदाचित् श्वेतकेतुना ।
मर्यादा स्थापिता तेन कोपात्तामपि संशृणु ।।६४।।
श्वेतकेतोः किल पुरा समक्षं मातरं पितुः ।
जग्राह ब्राह्मणः पाणौ गच्छाव इति चाब्रवीत् ।।६५।।
ऋषिपुत्रस्तदा कोपं चकाराऽमर्षनोदितः ।
मातरं तां नीयमानां बलाद् दृष्ट्वा पितुः पुरः ।।६६।।
क्रुद्धं पुत्रं पिता दृष्ट्वा श्वेतकेतुमुवाच ह ।
मा पुत्र कोपं कार्षीस्त्वमेष धर्मः सनातनः ।।६७।।
अनावृता हि सर्वेषां वर्णानामंगना भुवि ।
यथा गावः स्थिताः स्वे स्वे भोक्तरि प्रमदास्तथा ।।६८।।
श्वेतकेतुस्तु तं धर्मं सर्वथा वै न चक्षमे ।
चकार चैव मर्यादामिमां स्त्रीपुंसयोर्भुवि ।।६९।।
मानुषेष्वेव नान्येषु शृणु तां राधिके प्रिये ।
व्युच्चरन्त्याः पतिं नार्या अद्यप्रभृति पातकम् ।।2.31.७०।।
भ्रूणहत्यासमं घोरं भविष्यत्यसुखावहम् ।
भार्यां तथा व्युच्चरतः कौमारब्रह्मचारिणीम् ।।७१।।
पतिव्रतामेतदेव भविता पातकं भुवि ।
पत्या नियुक्ता या चैव पत्नी पुत्रार्थमेव वा ।। ७२।।
न करिष्यति तस्याश्च भविष्यति तदेव हि ।
उद्दालकस्य पुत्रेण धर्म्या वै श्वेतकेतुना ।।७३ ।।
मर्यादा स्थापिता तस्मात् स वै धर्मो व्यवस्थितः ।
ऋतौ ऋतौ स्त्रिया भर्ता नातिवर्तव्य एव च ।।७४।।
शेषेष्वन्येषु कालेषु स्वातन्त्र्यं स्त्री किलाऽर्हति ।
सौदासेन निजपत्नी नियुक्ता पुत्रजन्मनि ।।७५।।
मदयन्ती जगामर्षिं वसिष्ठं गुरुमेव तु ।
तस्माल्लेभे च सा पुत्रमश्मकं नाम विश्रुतम् ।।७६।।
अथोतथ्य इति ख्यात आसीद्धीमान् ऋषिः पुरा ।
ममता नाम भार्याऽऽसीत्तस्य परमसंमता ।।७७।।
उतथ्यस्य यवीयाँस्तु पुरोधास्त्रिदिवौकसाम् ।
बृहस्पतिर्महातेजा ममतामन्वपद्यत ।।७८।।
उवाच ममता तं तु देवरं वदतांवरम् ।
अन्तर्वत्नी त्वहं भ्रात्रा तव तस्मात्तु देवर ।।७९।।
अमोघरेतास्त्वं चापि द्वयोर्गर्भे न संभवः ।
एवमुक्तोऽपि स कामं नियन्तुं न शशाक ह ।।2.31.८०।।
रेमे सार्धं तया चाथोत्सृजन्तं रेत एव तम् ।
अभ्यभाषत गर्भस्थ औतथ्योऽत्र न संभवः ।।८ १।।
द्वयोः कृते नावकाशो न पीडां कर्तुमर्हसि ।
अश्रुत्वैव तु तद्वाक्यं गर्भस्थस्य बृहस्पतिः ।।८२।।
शुक्रोत्सर्गं चकारैव तच्छुक्रं गर्भशबालकः ।
पद्भ्यां हतं पपातोर्व्यां ततः क्रुद्धो बृहस्पतिः ।।८३।।
शशाप गर्भं मूर्ख त्वं तमो दीर्घं प्रवेक्ष्यसि ।
स वै दीर्घतमा ऋषिर्जात्यन्धः समजायत ।।८४।।
किन्तु विद्वानतः पत्नीं प्रद्वेषीं नाम लब्धवान् ।
स पुत्रान् जनयामास गौतमादीन् तपस्विनः ।।८५।।
दीर्घतमा वृषवच्च प्रकाशे मैथुनक्रियाम् ।
जनानां सन्निधौ चक्रे मर्यादानाशकृद् यथा ।।८६।।
ऋषयस्तं तिरश्चक्रुर्भिन्नमर्यादमेव च ।
प्रद्वेषी तं सेवते न ततस्तामब्रवीन्मुनिः ।।८७।।
भार्ये त्वं मां कथं नैव सेवसे वद कारणम् ।
प्रद्वेषी तु पतिं प्राह भर्ता तु भरणान्मतः ।।८८।।
पतिश्च पालनाच्चापि त्वयि द्वयं न विद्यते ।
प्रत्युताऽहं भरणे ते ससुता क्लेशभागिनी ।।८९।।
भवाम्यशक्ता च ततो भर्त्रन्तरं करोमि च ।
यथेष्टं कुरु विप्रेन्द्र गच्छाम्यहं जनान्तरम् ।। 2.31.९०।।
दीर्घतमा उवाच-
अद्यप्रभृति मर्यादा मया लोके वितन्यते ।
एक एव पतिर्नार्या यावज्जीवं परायणम् ।।९ १ ।।
मृते जीवति वा पत्यौ नाऽपरं प्राप्नुयान्नरम् ।
परे प्राप्ते पतिता सा भवेदिति नियम्यते ।।९२।।
श्रुत्वा कोपयुता पुत्रानुवाच पितरं प्रति ।
बध्वोडुपे क्षिपन्त्वेनं चान्धं विप्रियवादिनम् ।।९३।।
पुत्रा बध्वा पितरं तं चोडुपे समवासृजन् ।
गंगायां स चानुस्रोतः प्लवमानः प्रवाहके ।।९४।।
नौका प्रवाहपतिता दूरदेशं गता यदा ।
नौकास्थमेकलमन्धं श्रीशनामजपान्वितम् ।।९५।।
अपश्यद्वै बलिः राजा जग्राहैनं निनाय च ।
गृहं ज्ञात्वा ऋषिं पत्न्यां नियुयोज सुतार्थकः ।।९६।।
सुदेष्णा राजपत्नी सा न स्वीचकार तं मुनिम् ।
स्वां तु धात्रेयिकां तस्मै वृद्धाय प्राहिणोत्तदा ।।९७।।
तस्यां काक्षीवदादींश्चैकादश पुत्रकान् मुनिः ।
जनयामास च ततः सुदेष्णा तं ह्यरोचयत् ।।९८।।
ततो जाताः सुदेष्णायां कुमाराः पञ्च तत्सुताः ।
अंगो वंगः कलिंगश्च पुण्ड्रः सुह्मश्च ते बलाः ।।९९।।
तेषां देशा भविष्यन्ति तत्तन्नामभिरेव ते ।
एवं बलेः पुरा वंशः प्रख्यातो वै महर्षिणा ।। 2.31.१० ०।।
पराशरो मप्स्यगन्धां धीवरीं समपद्यत ।
एवं पूर्वतरो धर्मो नारायणस्य का कथा ।। १०१ ।।
सर्वं नारायणभोग्यं नारायणस्य वर्ष्म च ।
सर्वं नारायणपत्नीरूपं पतिर्नरायणः ।। १ ०२।।
मा शंकां त्वं कुरु राधे कृष्णनारायणं प्रति ।
मायायां गर्भदो यः स मायिक्यामपि गर्भदः ।। १ ०३।।
स्रष्टा पाता च संहर्ता स एव परमेश्वरः ।
सर्वकन्याश्च गृह्णीयाद् योग्यं तस्य सदा हि तत् ।। १ ०४।।
पठनाच्छ्रवणाच्चास्य धर्मतत्त्वं पुराभवम् ।
ज्ञायेत च विलीयेत संशयः पुण्यभाग् भवेत् ।। १ ०५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने कन्यकानां पयोव्रतं, पुराधर्मतत्त्वे श्वेतकेतुकृतमर्यादा, सौदासपत्न्यां वसिष्ठपुत्रेऽश्मकः, उतथ्यभार्या बृहस्पतिस्पृष्टा, दीर्घतमा बलेर्दास्यां राज्ञ्यां च पुत्रानुत्पादयामास, ततो मर्यादाकरणं चेत्यादिनिरूपणनामा एकत्रिंशोऽध्यायः ।। ३१ ।।