लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०१०

विकिस्रोतः तः
Jump to navigation Jump to search

श्रीकृष्ण उवाच-
अपरं चापि चरितं श्रीकृष्णस्य परात्मनः ।
शृणु राधे कथयामि ब्रह्मानन्दरसप्रदम् ।। १ ।।
पञ्चमे च पिता मासि चक्रे पुत्रस्य वै क्षितौ ।
उपवेशनसंस्कारं ददौ दानानि वै तदा ।। २ ।।
एकादश्यां कृष्णपक्षे प्रातरुत्थाय वै पिता ।
स्नात्वा च नैत्यकं कृत्वा सौधांऽगनसमीपतः ।। ३ ।।
मण्डपं कारयामास कदलीदलशोभितम् ।
अशोकाऽभ्रादिपत्राणां तोरणानि शुभानि च ।। ४ ।।
बन्धयामास कलशान् स्थापयामास चोपरि ।
ध्वजमारोहयामास वेष्टयामास चाम्बरैः ।। ५ ।।
उल्लोचं योजयामास बबन्ध च पताकिकाः ।
कुण्डस्तम्भींश्च परितः क्लृप्तयामास वल्लिकाः ।। ६ ।।
फलपुष्पितवृक्षाँश्च चलानस्थापयत्तदा ।
मण्डपे दीपकाचाँश्च मणीन् प्रकाशकाँस्तथा ।। ७ ।।
निदधे खचितान् स्थाने मालासु मौक्तिकीष्वपि ।
तथाऽवलम्बयामास चित्राणि च वितानके ।। ८ ।।
स्तम्भेष्वपि च मध्ये च कोणेष्वपि मनोहराः ।
देवीं सुरान् मूर्तिरूपान् नद्धयामास रूपिणः ।। ९ ।।
कानकीभिर्वालुकाभिर्मृद्वीभिस्तदधस्तलम् ।
कृत्वा हृद्यं निषाद्य चासनान्यनुत्तमानि च ।। 2.10.१ ०।।
चित्ररंगानि रम्याणि त्वौर्णकौशेयकानि च ।
आस्तीर्य परितस्तत्र बृसीः स्वल्पाश्च दीर्घिकाः ।। १ १।।
सिंहासनानि च श्रेष्ठः पट्टिकां निदधे पिता ।
अनादिश्रीकृष्णनारायणस्य भुवि चासनम् ।। १२।।
दिव्यं सौवर्णसाराढ्यं स्थापयामास मध्यके ।
भूमिं दिव्यां कृष्णमृत्तिकामयीं मण्डपेऽपि च ।। १३ ।।
बालनिषादनार्थं च रक्षयामास शोभनाम् ।
वेदिका कारयामास पवित्रां चतुरस्रिकाम् ।। १४।।
सौवर्णपट्टिकां दीर्घां सद्रत्नसारकाञ्चिताम् ।
निधाय तत्र च क्षौममौर्णं वस्त्रं च पाण्डुरम् ।। १ ५।।
रक्तं चाम्बरमेवाऽपि गोधूमेषु निधाय च ।
सजलं कलशं पार्श्वे तण्डुलान् कुंकुमादिकम् ।। १६।।
पुष्पं चन्दनं कर्पूरं मालिकाः कज्जलादिकम् ।
नैवेद्यं विविधं पेयं ताम्बूलैलादिकं तथा ।। १७।।
पञ्चपात्रं स्थालिकां चाचमनीं च फलानि च ।
सर्व पूजोपकरणं तौलसीदलजानि च ।। १८।।
दानवस्तूनि सर्वाणि स्थापयामास वै पिता ।
धरादेव्याः सुवर्णस्य वराहस्य प्रभोस्तथा ।। १ ९।।
कारयामास च मूर्तिद्वयं सर्वांगशोभनम् ।
सभूषं साम्बरं सौम्यं दिव्यं देवस्वरूपिणम् ।।2.10.२० ।।
पृथ्वीं देवीं सुरूपां च लक्ष्मीरूपां सुशोभनाम् ।
समासीनां प्रकृत्वैव स्वस्तिकासनदर्शनाम् ।।।२ १ ।।
पादौ तस्यास्तु पातालं जङघे तस्या रसातलम् ।
जानू महातलं तस्याः सक्थिनी च तलातलम् ।।२२।।
सक्थिमूले सुतलं च श्रोण्युभे वितलं तथा ।
जघनं चाऽतलं तस्या गर्भस्तु भूतलं तथा ।। २३।।
उदरं भुवरेवास्या हृदयं स्वः शुभावहम् ।
कण्ठो महो मुखं जनश्चक्षूंषी तप उत्तमम् ।।२४।।
ललाटं सत्यलोकश्च मूर्ताविति तथाऽकरोत् ।
साक्षाद्वै दृश्यते यत्र साऽब्धिपर्वतकानना ।।२५।।
वाराहस्य तथा मूर्तिं द्विपादां च समासने ।
समासीनां शुभ्रवर्णां दृढरोमसमुज्ज्वलाम् ।।२६।।
लम्बघोणां पिङ्गकेशां सूक्ष्मनेत्रां सकेशराम् ।
वक्रीकृत्य च पादो द्वौ नितम्बाभ्यां भुवि स्थिताम् ।।२७।।
हस्ताभ्यामग्रगाभ्यां च गदाचक्रधरां वराम् ।
वनमालाधरां दन्तोत्तमोद्धृतधरां तथा ।।२८।।
समुकुटां सकटकां सकुण्डलां ससूत्रिकाम् ।
सधौत्रां सकटिसूत्रां जलोपरि व्यवस्थिताम् ।।२९।।
एवंविधां शुभां रम्यां कानकीं च वराहिकाम् ।
प्रतिमां कारयामास गोपालकृष्ण एव च ।।2.10.३०।
तत्पूजाद्युपचाराँश्च स्थापयामास मण्डपे ।
अथ प्राप्ते शुभे रम्ये क्षणे पिता तु लोमशम् ।। ३१ ।।
महर्षिं वाद्यघोषाद्यैराह्वयामास सादरम् ।
आनाय्य चासने न्यस्य पूजां तस्य चकार ह ।। ३२।।
ततः प्रवर्तिताः स्वस्तिवाचो गिरश्च योषिताम् ।
कीर्तनानि च वाद्यानि तदावाद्यन्त चाभितः ।। ३ ३।।
दुग्धं दधि घृतं तोयं शर्करां नूतनं मधु ।
पञ्चामृतं समानीय पिता चास्थापयत् पुरः ।।३४।।
पुत्रं शुद्धिं कारयित्वा माता चानाय्य मण्डपे ।
अंके कृत्वा स्थिता तत्र रिक्तभूभागकोत्तमे ।।३५।।
लोमशेन गणेशस्य मातॄणां पूजनं शुभम् ।
कारितं च सुराणां भूदेवानां च सतां तथा ।।३६।।
अथ वैदिकमन्त्रैश्च लोमशो भूवराहयोः ।
पूजनं कारयामास दम्पतीभ्यां शुभावहम् ।।३७।।
कन्यका बालकृष्णस्य गुणान् गायन्ति गीतिकाः ।
पृथ्वी देवी दिव्यकन्या समागत्य ततो हरिम् ।।३८।।
नत्वा स्वस्याः प्रतिमायामावाहने स्थिराऽभवत् ।
हरिश्चाऽऽवाहने जाते चतुर्बाहुस्वरूपवान् ।।३९।।
समागत्य ततो देवे वराहेऽन्तः स्थितोऽभवत् ।
लोमशस्तौ तथाऽऽवाह्याऽऽचमनं प्रददौ प्रियम् ।।2.10.४० ।।
अर्घं ददौ च पाद्यं चाऽऽसनं ददौ शुभावहम् ।
पञ्चामृतेन च स्नानं स्नानं शुद्धोदकेन च ।।४१ ।।
वस्त्रैः सम्मार्जनं कृत्वा सौगन्धिकं ददौ ततः ।
वस्त्राणि धातुसूत्राढ्यऽमूल्यानि प्रददौ भूषाः ।।४२।।
उपवीतं ददौ चन्द्र तिलकं कुंकुमं तथा ।
कज्जलं सिन्दूरकं च विष्णुतैलं ततो ददौ ।।४३।।
अलक्तकं कैसरं चन्दनं पुष्पदलानि च ।
तुलसीपत्रकं माला हारान् मनोहरान् ददौ ।।४४।।
शृंगारं चार्पयत् सर्वविधं सौभाग्यसद्द्रवान्।
ददौ च शृंखलाः सौम्यकटकानूर्मिकादिकान् ।।४५।।
कुंकुमं चाऽबीरकं चाऽक्षतान् गुलालकादिकम् ।
दत्वा धूपं तथा दीपं नैवेद्यं पायसं ददौ ।।४६।।
सर्वधान्यसुमिष्टान्नं जलं शार्करमिश्रितम् ।
पानार्थं प्रददौ ताम्बूलकं चैलालविंगकम् ।।४७। ।
फलं सौगन्धिकद्रव्यं शोभनं कानकासनम् ।
दक्षिणां स्वर्णरूप्यादि प्रददौ लोमशो मुनिः ।।४८।।
धरादेव्याश्च देवस्याऽऽरार्त्रिकं प्रचकार च ।
नमः स्तुतिं प्रदक्षिणमाशिषः कुसुमाञ्जलिम् ।।४९।।
दण्डवत् प्रार्थनां क्षमायाचनां प्रचकार सः ।
एवं देवं पूजयित्वा वैदिकान् ब्राह्मणाँस्तदा ।।2.10.५ ० ।।
आसीनान् सन्निधौ सम्पूजयामास पिता तदा ।
वाद्यानि च तदाऽवाद्यन्तातीव नर्तनं शुभम् ।।५१ ।।
देव्यश्चक्रुश्च किन्नर्यों ह्यगायन्त सुगीतिकाः ।
माता पुत्रं पूजनान्ते लोमशोक्तविधानतः ।।५२।।
पूजिताया धरायाश्च सन्निधौ प्रोक्षिते स्थले ।
अर्चिते वन्दिते क्षमायाचिते सन्यषादयत् ।।५ ३ ।।
तदा देवी धरा मूर्तिमती प्राविर्बभूव ह ।
अंके कृत्वा हरिं कृष्णं पूजयामास चाशिषा ।।५४।।
कुंकुमाद्यैस्तथा मिष्टपायसेनाऽऽदयत् हरिम् ।
अन्या देव्यः पुपूजुश्चानर्चुश्च कन्यकास्तदा ।।५५।।
धरादेव्या श्रीहरये दुःखवारणकाञ्जलिः ।
मस्तके निहितः स्वस्या मस्तके चावतारितः ।।५६।।
वाराहश्च स्वयं विष्णुर्दिव्यस्तदा चतुर्भुजः ।
समभूत् सर्वप्रत्यक्षो बालकृष्णं ननाम च ।।५७।।
स्वर्णसिहासनं बालकृष्णाय सूकरो ददौ ।
स्वर्णशय्यां वसुमतीं ददौ धरा तु शाश्वतीम् ।।५८।।
ताभ्यां तत्र स्थापितश्च बालकृष्णं क्रमादथ ।
विसर्जनं च पूजायाश्चकार लोमशो मुनिः ।।५९।।
तदा वै कम्भरालक्ष्मीर्भोजयामास लोमशम् ।
ब्राह्मणानृषिमुख्याँश्च सतः साध्वीश्च कन्यकाः ।। 2.10.६०।।
दक्षिणाः सर्वशो दत्वा नत्वा कृत्वा च वन्दनम् ।
सर्वान् विसर्जयामास शाययामास वै सुतम् ।।६१ ।।
एवं भूम्युपवेशस्योत्सवं पिता चकार ह ।
परिहारं ततश्चक्रे पुत्रः स्वपिति शान्तिमान् ।।६२।।
अथाऽऽगता तदा तत्र भिक्षुकी भोजनेच्छया ।
दीनवेषा दीनरवा दिव्यरूपाऽतिमानिनी ।। ६३ ।।
अदृष्टपूर्वा काचित् सा पुत्रं द्रष्टुं समिच्छति ।
मात्रा पृष्टा च काऽसि त्वं किमिच्छसि ददामि ते ।।६४।।
सा प्राह यदि सत्याऽसि देहि मेऽत्र सुतं तव ।
कन्दरा सिंहिका नाम्नी धरापुत्री कुमारिका ।।६६।।
अस्मि वसामि शैलेषु विहरामि वनेष्वपि ।
मम माता धरादेवी पूजिताऽद्य दिने त्वया ।।६६ ।।
ज्ञात्वाऽहं त्वत्र चायाता दर्शनार्थं सुतस्य ते। ।
अयं मनोहरो बालः कृष्णनारायणः प्रभुः ।।६७। ।
दृष्टमात्रो हृदये मे वासं चकार दुःखहा। ।
अहं तपाम्यरण्येषु कान्तार्थे तमसाऽऽवृता ।।६८।।
निराहारा च निस्तेजस्कोदरा चाप्यसंस्कृता।
अन्या अपि भगिन्यो मे सन्त्यद्रिषु सहस्रशः ।।६ ९ ।
कुमारिका हि ताः सर्वास्तपन्ति कान्तलब्धये ।
यदि त्वं मन्यसे मातर्देहि मे पुत्रकं तव ।।2.10.७० ।।
रामयिष्ये सुतं तेऽत्र लब्ध्वा शान्तिं प्रमोदनम् ।
तपःफलं परं प्राप्य दत्वा सुतं तु ते पुनः । ।७१ । ।
यास्यामि कान्तनिर्दिष्टं स्थानं स्यास्यामि तत्र च ।
मातस्तेऽनुग्नहश्चेन्मे वद् देहि सुतं तव । ।७२ ।।
सत्यं शपे धरापुत्री चास्मि कान्तविमर्षिणी ।
श्रुत्वैवं भिक्षुको माता कन्दरा प्राह कन्यके । ।७३ ।।
यद्येवं चेद् धरापुत्रि! रमयैनं गृहाण च ।
श्रुत्वा तु कन्दरा तुष्टा प्रसन्ना मोदसंभृता ।।७४।।
शीघ्रं जग्राह सुप्तं तं बालं गमयितुं करे ।
स्पृष्ट्वा चुचुम्ब तं प्रेम्णा निद्रास्थं वीक्ष्य सा मुहुः ।।७५।।
मात्रा दत्तं भोजनं च भक्षयामास कन्यका ।
बालकृष्णं च दोलायामारोप्याऽऽन्दोलनं च सा ।।७६।।
करोति स्म दर्शनं च मुहुः करोति भामिनी ।
अथ स्वसृस्नेहवशा सुनत्वा कम्भरां सतीम् । ।७७।।
आज्ञां गृहीत्वा त्वानेतुं गता स्वभगिनीस्तदा ।
मेर्वादिशैलवर्तिन्यो या या यत्राऽभवँश्च ताः ।।७८।।
तापसीः सा समाहूय सम्भूय पुनरागता ।
तापस्यो गह्वराः सर्वाः कन्दराऽग्रसराः शुभाः ।।७९।।
आगत्याऽयुतसाहस्रकन्यकाः परमेश्वरम् ।
सन्द्रष्टुं कुंकुमवाप्यधिष्ठात्रीं मातरं सतीम् ।।।2.10.८०।।
कम्भरां तुष्टुवुः प्रेम्णा प्रार्थयामासुरच्युतम् ।
देहि नो मातरित्येवमर्थयामासुरच्युतम् ।।८१ ।।
श्रुत्वा मिष्टस्वरान् बालो बुबुधे शीघ्रमेव तु ।
माता दुग्धं पाययित्वा ददौ ताभ्यः कृपानिधिम् । ।८२।।
तावत्तासामाग्रहोऽभून्मम पूर्वं ममेति च ।
तस्यास्तस्या ग्रहणेऽयं द्वितीयरूपवान् मुहुः । ।८३ ।।
भवत्येवं बालदात्र्या दयिते यावदेव न ।
तावद् द्वितीयरूपेण ग्रहित्र्या हस्तगोऽभवत् ।।८४।।
कन्दराणामयुतं च बालकृष्णान्वितं तद्वा ।
ह्यभवच्छान्तिमापन्नं रमते स्म च तेन ताः ।।८२ ।।
मेनिरे जनुसाफल्यं सर्वास्ताः कन्यकास्तदा ।
पूजयामासुरेतास्तं मनोगं बालमोहनम् । ।८६।।
हरिर्हसँश्च ताः प्राह वरदानाय तास्तदा ।
अर्थयामासुरस्यैव प्रभोः सेवां सदाऽनघाम् ।।८७।।
कैंकर्य च यशः कीर्तिं सत्सेवां कृष्गाकान्तताम् ।
तथास्त्विति हरिः प्राह वासं च लोमशाश्रमम् ।।८८ ।।
ददौ तासां कन्यकानां पुनः प्राह हरिश्च ताः ।
कन्दरासु च सर्वासु कार्यरूपासु सर्वदा । ।८९।।
साधवो मे योगिजना निवत्स्यन्ति विरागिणः ।
सतां समागमो नित्यं भवतीनां भविष्यति ।। 2.10.९० । ।
यशः कीर्तिः सतां सेवा सदा वः संभविष्यति ।
सतां भक्त्या च मे भक्तिः पावित्र्यं च भविष्यति ।। ९१ । ।
युष्माकं मम योगश्च सदाऽत्र कन्दरासु वै ।
स्थितानां नित्यं भवतु मुक्तिं दास्यामि शाश्वतीम् ।।९२ ।।
अहं च कन्दरे साध्वि वत्स्यामि तव गह्वरे ।
सिंहगह्वरसंज्ञं तद् गह्वरं संभविष्यति । ।९३ ।।
यत्रैकादशिका कन्याः जन्म प्राप्स्यति गह्वरे ।
तद्व्रतं तव पुत्र्याश्चैकादश्याः सर्वथा प्रजाः ।।९४।।
करिष्यन्ति गह्वराणि तीर्थानि कन्दराणि च ।
भविष्यन्ति तारकाणि ममाऽनुग्रहतः सदा ।। ९५।।
एवमुक्त्वा च भगवान् स्वमातृसन्निधौ च ताः ।
आभाष्याऽऽहूय च गुरुं लोमशाय ददौ तु ताः ।। ९६। ।
कृष्णनारायणं नत्वा भुक्त्वा पीत्वाऽऽश्रमं ययुः ।
कृष्णश्चैकस्वरूपोऽभून्माताऽऽश्चर्यं जगाम च । ।९७।।
कृतपुण्याश्च ता मेने कृतकृत्या निजात्मसु ।
लब्धव्ये परमे लब्धे किमन्यत्त्ववशिष्यते ।। ९८। ।
कृपानाथः कृपां कृत्वा मिलत्येव हि राधिके ।
कृपानुग्रहलाभार्थे प्राकट्यं परमात्मनः ।।९९। ।
पठनाच्छ्रवणाच्चास्य स्मरणाच्छ्रावणादपि ।
भुक्तिं मुक्तिं कोटियज्ञफलं कान्तं लभेत च ।। 2.10.१० ०। ।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने बालकृष्णस्य प्रभोर्भूम्युपवेशनसंस्कारे भूमेरयुतपुत्रीणां सिद्धिकादिकन्दराणां श्रीकृष्णनारायणपतिप्राप्त्यादिनिरूपणनामा दशमोऽध्यायः । । १० ।।