लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ००९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ००८ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः ९
[[लेखकः :|]]
अध्यायः ०१० →

श्रीकृष्ण उवाच-
शृणु चान्यच्चरित्रं च राधिके परमात्मनः ।
मासे याते द्वितीये च तृतीये शुक्लपक्षके । । १ । ।
गृहाद् बहिर्निष्क्रमणं चक्रे माता सुतस्य वै ।
पुण्याहवाचनं तत्र नान्दीश्राद्धादिकं तथा । । २ ।।
अकारयत् पिता विप्रैराशीर्भिः समयोजयत् ।
लोमशस्याऽऽश्रमं गत्वा ह्यनामयच्च पादयोः । । ३ । ।
गुरुस्तस्य हि तिलकं भाले कुंकुमचन्द्रकम् ।
कृत्वा के स्वकरौ दत्वा ददौ मन्त्रं च कर्णके । । ४ । ।
'अनादिश्रीकृष्णनारायाणो मे शरणं नमः ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा ' । । ५ । ।
बालः श्रुत्वा प्रत्युवाच मन्त्रं वारत्रयं पुनः ।
लोमशर्षिस्तथा माता जनकाद्या मुदं ययुः । । ६ । ।
कण्ठीं द्विरावृतां कण्ठे तौलसीं स न्यधारयत् ।
पुष्पहारं ददौ कण्ठे कृष्णस्य लोमशो मुनिः । । ७ । ।
मुखे कणं शर्कराया ददौ हस्तेन लोमशः ।
दुग्धं चापाययत् कृष्णं मुहुः पस्पर्श पाणिना ।। ८ ।।
ददौ माता तदा बालं खेलनार्थं तदाश्रमे ।
स्थिताभ्यः कन्यकाभ्यः श्रीकृष्णकान्ताभ्य एव च ।। ९ ।।
ताश्चुचुम्बुर्मुहुः कान्त हासयामासुरुत्सुकाः ।
निन्युरुद्यानकं पार्श्वे पुष्पवल्लीनिकुंजके ।। 2.9.१० ।।
अहं पूर्वमहं पूर्वमित्यास कलहस्तदा ।
कान्तं चैकं रामयितु कन्यकानां च योषिताम् ।। ११ ।।
कोटीनां कन्यकानां च विलोक्य भावना प्रभुः ।
कोटिरूपाणि च चक्रू तदुद्याने विशेषतः । । १ २।।
बालचन्द्रो यथा तासां सुखदः संभवेत् तथा ।
प्रावर्तत सदा तासां त्वधीनः कृष्णकान्तकः ।। १३ । ।
काचित्कृष्णं रमयति चुम्बयति मुहुर्मुहुः ।
काचित्तु वक्षसि कृत्वा दत्वा स्नेहभरं वचः । । १४।।
हासयति स्वकं कान्तं बालरूपं मनोहरम् ।
काचिदंके निधायैनं गण्डयोः करशाखया ।। १५।।
स्पृष्ट्वा मुहुर्मुहुः कान्तं चित्तं रञ्जयति स्थिरम् ।
काचित्तन्मस्तके दत्वा हैयंगवीनमुत्तमम् ।। १ ६। ।
शनैर्मर्दयति हस्ततलेन बालरूपिणम् ।
काचिच्छलाकया बिन्द्वीं ददाति भालकेऽरुणाम् ।। १७।।
काचित् करोति तिलकं रक्तं स्वर्णशलाकया ।
कौंकुमं राजसं मनोहरं चाकर्षकं प्रभुम् । । १८ । ।
काचिद् बालं गण्डके च चिबुके च मनोहराम् ।
बिन्द्वीं करोति रक्तां च मानसस्य सुखावहाम् । । १९ । ।
काचित्तु स्थलपद्मानां दलानां मालिकां नवाम् ।
मृद्वीं कृत्वा गले तस्य ददाति शान्तगन्धिनीम् ।।2.9.२०।।
अन्या तु नेत्रयोस्तस्य घृतजं कज्जलं शुभम् ।
अञ्जयति प्रतेजोऽर्थं रूपार्थं रङ्गमादिनी ।।२१ ।।
अन्या बालं करे प्रोच्छालयत्येव तदाऽम्बरे ।
अपरा वक्षसि त्वेनं तथोदरे मुहुर्मुहुः ।।२२।।
मुखेनोष्ठेन प्राणेन भंभंभंभं करोति च ।
वादयते शनैर्गालं किल्किलायति चापरा ।।२३।।
काचित् स्ववक्षसि पादौ तस्य धृत्वा प्रमोदते ।
काचित् कट्यां तु संस्थाप्य बाहुना तं धृतं प्रभुम् ।।२४।।
नृत्यन्तं च मयूरं वै दर्शयत्येव चेष्टया ।
इतरा पादयोस्तस्य करयोश्च मनोहरम् ।।।२५।।
मनाक् संरञ्जनद्रव्यं योजयति सुदर्शनम् ।
अन्या कूजन्तमेवैनं कोकिलं त्वाम्रसंगतम् ।।२६।।
दर्शयति प्रतिकूजयति हासयते हरिम् ।
काचित् कृष्णस्य वैं नासां संस्करोत्यम्बरेण च ।।२७।।
काचिच्च वायुना लग्नं रजो मार्जयति द्रुतम् ।
अन्याऽङ्गुल्या शाखिसंस्थं मर्कटं दर्शयत्यपि ।।२८।।
तथाऽन्या शुक्लपुष्पाणां गुच्छान् धृत्वा नवान्नवान् ।
सौगन्ध्यं बालकृष्णाय समर्पयति सादरम् । ।२९।।
तमन्या गद्गदं शब्दं श्रावयते च मोदते ।
अपरा तु रसं मिष्टं मनाग्ददाति वै मधु ।।2.9.३ ०।।
तथाऽन्या गायति गीतिं काचिन्नृत्यति भूतले ।
अपरा चक्रवद् बालं भ्रामयति भ्रमत्यपि ।।३ १ ।।
काचित् सौगन्धिकं विष्णुतैलं सम्मर्दयत्यपि ।
तथाऽन्या वल्लिकादोलामारुह्याऽऽन्दोलयत्यपि ।।।३२।।
द्वितीया शीतनाशार्थं कम्बलिकां ददात्यपि ।
अन्या वह्निं ज्वालयित्वा पार्श्वे तिष्ठति तद्युता ।।३३ ।।
अपरा मृगपृष्ठे तं समारोहयति प्रिया ।
तथाऽन्या मृगशावाग्रे नीत्वा स्थापयति प्रियम् ।।३४।।
गवां वत्सान् प्रति नीत्वा तांश्च दर्शयति प्रियान् ।
शशकर्णौ परा धृत्वा कृष्णं दर्शयते तु खे ।।३५।।
दर्पणे च मुखं तस्य तथा दर्शयति प्रिया ।
पराभ्यः संश्रावयन्ति त्वन्याश्चिह्नानि यानि च ।।३६।।
नूतनाश्च समागत्य पश्यन्ति तानि वै मुदा ।
श्रीकृष्णश्चाम्बरं दृष्ट्वा किल्किलेति करोति च ।।३७।।
काँश्चिन्मुखं स्वमुद्घाट्य ब्रह्माण्डं दर्शयत्यपि ।
अन्या गोलोकमाद्यं चाक्षर वैकुण्ठमित्यपि ।।३८।।
स्वतनौ भगवाँस्तत्र निजाभ्यो दर्शयत्यपि ।
एवं सर्वाः कुमार्यश्च मोदन्ते कृष्णलीलया ।।३९।।
आनन्दं ब्रह्मणो लब्ध्वा बभूवुः कृतवाञ्च्छिताः ।
ततः श्रीभगवाँस्तानि रूपाण्यन्तर्जहार च ।।2.9.४०।।
एक एवाऽभवल्लक्ष्मीकरगो वै चतुर्भुजः ।
माणिक्यायास्तथा चांऽके द्विभुजो हि ततोऽभवत् ।।४१ ।।
ततः श्रीकम्भरालक्ष्मीकट्यामेकलकोऽभवत् ।
सर्वा विलोक्य सामर्थ्यं तृप्ता जातास्ततः पिता ।।।४२।।
पूजयामास विधिना लोमशं च गुरुं मुनिम् ।
चन्दनेनाऽर्चयामास ललाटं तिलकान्वितम् ।।४३।।
चन्द्रकं कारयामासाऽक्षतैर्लाजासुपुष्पकैः ।
हारैश्च पादुकाभिश्च फलैः पत्रैः सुकन्दकैः ।।४४।।
मूलैर्मृगाजीनवर्यैर्दुग्धैर्घृतैश्च तन्दुलैः ।
वस्त्रैश्च वल्कलैः क्रतावुपयुक्तसुवस्तुभिः ।।४५।।
लोमशं तोषयामास जगृहुस्तस्य चाशिषः ।
. कन्यकाभ्यश्च सौभाग्यद्रव्याणि जननी ददौ ।।४६।।
वस्त्राणि वलयाँश्चापि तथोपकरणानि च ।
भक्ष्यभोज्यानि पेयानि मृष्टान्नानि घृतानि च ।।४७।।
ददौ माता च केशानां प्रसाधनानि वै तदा ।
अनन्तानि तदिष्टानि सर्ववस्तूनि वै ददौ ।।४८।।
माता रक्षति कौमारे सर्वास्ताः पुत्रिका यथा ।
स्वर्गं द्वितीयं वै तत्र ब्रह्मचर्याश्रमं महत् ।।४९।।
वैकुण्ठमिव मायादिशून्यं हरेरनुग्रहात् ।
लोमशस्याऽऽश्रमं त्वासीन्मुक्तकन्याविराजितम् ।।2.9.५०।।
अहर्निशं हरिः कृष्णो नारायणोऽत्र चिन्त्यते ।
नारायणप्रियाः सर्वे सर्वाश्चासन् न चेतरे ।।५१।।
लोमशो वर्तते नित्यमुक्तो मायाविवर्जितः ।
अक्षरोऽव्यय एवाऽसौ मुक्तात्मा ब्रह्मपारगः ।।५२।।।
यदाश्रमे न कामोऽस्ति न च क्रोधो विराजते ।
न लोभो नैव मोहोऽस्ति मदाद्यास्तु कथं तदा ।।५३।।।
यत्र लिंगविकारो न यत्र योनिक्रिया न च ।
यत्र कामो न वै चाऽस्ति लोमशस्याऽऽश्रमस्तथा ।।५४।।
लीनमूर्ध्वं महत्स्थानं शान्तिर्यत्र तु शाश्वती ।
लोमशश्चाऽऽक्षराणां वै चतुष्टयं शुभार्थकम् ।।५५।।
एतादृशं ब्रह्मविदं यदा पूजयते पिता ।
तदा प्रभाभिधा कन्या बालकृष्णं प्रिय प्रभुम् ।।५६।।
रन्तुं रमयितुं नीत्वा ययावुद्यानजं द्रुमम् ।
राजचम्पकवृक्षं तं समाश्रित्य प्रिया सखी ।।५७।।
निषसाद ददौ बाला वृत्तीः सर्वा हरौ किल ।
तावत् तत्र समायातो व्योम्ना क्रोधनकोऽसुरः । ।६८। ।
यस्तु रुद्रललाटाद्वै जलमध्ये व्यजायत ।
ब्राह्मणा स्वललाटाद्वै यदा रुद्रः प्रकाशितः । ।५९। ।
उक्तः सृष्ट्यर्थमेवाऽथ स वै व्याकुलमानसः ।
जलाऽन्तःस्थोऽभवत् तत्रोद्वेगं प्राप क्षणं स्मरन् । ।2.9.६ ० ।।
तेन जातो ललाटेऽस्य रुद्रस्य स्वेदबिन्दुकः ।
तद्बिन्दुजोऽभवत् क्रूरो देवद्वेष्टा सुरेतरः । ।६१ ।।
क्रोधनोऽयं बलवाँश्च तपस्तेपेऽतिदारुणम् ।
तपसा सिद्धिमापन्नो व्योमगः कामरूपधृक् । ।६२। ।
सोऽयं योगेन वै ज्ञात्वा कुंकुमवापिकाभुवि ।
अनादिश्रीकृष्णनारायणं दैत्यविरोधिनम् ।।६३ ।।
उद्याने वर्तते कन्याकरे मत्वेति वै तदा ।
जिघृक्षुर्बालकं तत्र त्वाययौ रभसाऽसुरः । ।६४।।
कन्यारूपधरो भूत्वा रामयितुं समागतः ।
प्रभाहस्तगतं कृष्णमनापृच्छ्य तदाऽऽददे । ।६५।।
बालकृष्णो विदित्वैव तस्य वै दुष्टभावनाम् ।
हस्तौ कृत्वा लम्बमानौ तस्य विनाशनाय च । ।६६ ।।
मुक्तिदानाय च देवस्तस्या हस्तगतोऽभवत् ।
प्रभा ज्ञात्वा सखी कांचिद् ददौ तस्मै तु बालकम् । ।६७।।
क्रोधना कन्यका सा तु बालं नीत्वा क्षणान्तरे ।
वृक्षवल्लीषु च तूर्णमदृश्यभावतां गता । ।६८।।
प्रभा न पश्यति त्वेनां समाजुहाव तां तदा ।
क्रोधना त्वम्बरे नीत्वा ययावभ्रपथं द्रुतम् । ।६९।।
मारयितुं च तं बालं कृतयत्ना मुहुर्मुहुः ।
गले पाशं ददात्येषा किन्तु सा हस्तयोस्तदा ।।2.9.७० ।।
वह्निना दह्यमाना च बालकण्ठं प्रमुञ्चति ।
आकाशस्था वह्निदग्धा शिखाव्याप्ताऽभवत्तदा । ।७ १ । ।
श्रीकृष्णदेहजाद् वह्नेर्ज्वालाभिर्दग्धदेहिका ।
हाहेत्यवोचत् कृष्णं संप्राक्षिपद् भूतले तदा ।।७२। ।
किन्तु कृष्णशरीरोत्थो वह्निस्तां नैव मुञ्चति ।
वह्निर्ज्वलंश्च बहुधा धूम्रकेतुर्यथा च खे । ।७३ । ।
तां कन्यां दहति क्रूरो वह्निस्त्राणं न विद्यते ।
तदा सा क्षिप्रमुत्प्लुत्य बालमनु ह्यवातरत् । ।७४।।
बालस्तु प्रभया गत्वा धृतः शीघ्रं करेण ह ।
प्रभा प्राप्तं हरिं धृत्वा दुद्राव लोमशं प्रति । ।७५। ।
तावत् सा क्रोधना प्राह स्वसमेऽग्निं प्रशामय ।
ज्वलामि कर्मणा मेऽत्र रक्ष दुष्टां तु पापिनीम् । ।७६।।
इत्युक्त्वा चाग्रतो मार्गं रुद्ध्वा तुष्टाव बालकम् ।
नाथ कृष्ण कृपासिन्धो मां त्वं तारय कष्टतः ।।७७।।
शंकरस्य तु पुत्रोऽहं नाम्ना क्रोधनकोऽस्मि च ।
सुराणां द्वेषकर्ताऽहं तालनाम्नाऽसुरेण च । ।७८ । ।
प्रेषितस्तव नाशार्थं पापं चोपार्जितं मया ।
अघात्ये यन्मम बुद्धिर्घातनार्थमुपासिता । ।७ ९ । ।
तदहं च क्षमां याचे रक्ष मां मोक्षणं कुरु ।
इत्युक्तो बालकृष्णोऽसौ करुणावरुणालयः । ।2.9.८ ० । ।
नैसर्गिककृपापूर्णः क्रोधनं प्राह वै तदा ।
कथं त्वं कन्यका जाता मम नाशाय मानिनि! । ।८ १ । ।
नैव जानासि मां सर्वान्तरात्मानं परेश्वरम् ।
नाडीप्राणा मम हस्ते सृष्टेर्मुक्तेर्भवन्ति च । ।८२।।
वद त्वं चापराधं मे कृतवत्यसि शोभने ।
कं दण्डं निर्ममे तेऽर्थ वदाऽत्र तत् करोमि ते । ।८ ३ । ।
क्रोधना प्राह तं कृष्ण कान्तं मनोहरं प्रभुम् ।
उवाच मे गात्रदाहं प्रशामय प्रभो तथा । ।८४। ।
कान्तो मे भव देवेश कन्या त्वां प्रवृणोम्यहम् ।
मानसं मे त्वयि कृष्णनारायण प्रधावति ।।८५ । ।
मोक्षं देहि तथा चान्ते त्वासुरत्वं विनाशय ।
हरिः प्राह तथाऽस्त्वेतत् तव सर्वं भविष्यति । ।८६ । ।
मम स्पर्शात् तव गात्रं दिव्यं सदा तु कान्यकम् ।
मदर्थं जायतां रम्यं लोमशाश्रमवृत्ति च । ।८७। ।
कन्यासु च त्वया स्थेयं कन्यारूपेण भामिनि! ।
द्वितीयं ते तथारूपं मोक्षं यात्वक्षरं पदम् । ।८८। ।
तृतीयं ते तथा रूपं पौरुषं वह्निसदृशम् ।
क्रोधनं सर्वथा क्रूरं क्रोधनाख्यं भुवस्तले । ।८९। ।
मुनिरूपं भवत्वेव क्रोधनस्त्वं सदा भव ।
एवं रूपत्रयं कृष्णो दत्तवान् क्रोधनाय वै । । 2.9.९० । ।
जन्मान्तरे च दुर्वासाः क्रोधनोऽयं भविष्यति ।
सर्वदा वैष्णवश्रेष्ठो नारायणसमो गुणे । । ९१ । ।
नारायणाऽवतारेषु निमित्तोऽयं भविष्यति ।
इत्युक्त्वा भगवान् राधे क्रोधनां कन्यकां शुभाम् । । ९२। ।
कृत्वा शश्वत्कन्यकां सुरूपां तस्यास्तथेष्टकम् ।
द्वितीयं कान्यकं रूपं चापि तस्याः सुमोक्षगम् ।। ९३ ।।
कृत्वप्विप्रेषयद् धामाऽक्षरं विमानतः क्षणात् ।
तृतीयं पौरुषं रूपं तामसं च तत्पाऽभवत् ।। ९४।।
तपश्चचार परमं लोमशाश्रमसन्निधौ ।
क्रोधनाख्यं परं तीर्थ चाश्वपट्टसरस्तटे ।। ९५।।
जातं तदिति विज्ञेयं राधे मोक्षप्रदं शुभम् ।
अथ प्रभा तथा कन्या क्रोधना बालकृष्णकम् ।।९६।।
नीत्वा लोमशपूजायाः स्थानमाययतुस्तदा ।
नवीना कन्यका केयं चेति पृष्टा प्रभाऽवदत् ।।९७।।
नारायणचमत्कारं श्रुत्वाऽऽश्चर्यं ययुर्हि ते ।
लोमशस्य पूजनं च कृत्वा माता पिता हरिः ।।९८।।
ययुर्गृहं कन्यका सा कन्यासु हरिवाञ्च्छया ।
सदा निवासमकरोत् कृष्णकान्तप्रियाऽभवत् ।।९९।।
अथ प्रदोषसमये विधिवच्छशिनोऽर्चनम् ।
अकारयत् पिता माता वामदेव्यमगापयत् ।। 2.9.१० ०।।
पुत्रस्याऽकारयन्माता सौम्यं वै विधुदर्शनम् ।
चन्द्रपत्न्यस्तथा चन्द्रो जहृषुर्वीक्ष्य माधवम् ।। १०१ ।।
हरिश्चन्द्रं विलोक्यैवाऽङ्गुल्याऽऽह मातरं तदा ।
चन्द्रमानय मातर्मे सन्निधौ चेति वै हृदा ।। १ ०२।।
चन्द्रो ज्ञात्वा हरेर्भावं सप्तविंशतिसंयुतः ।
सप्तविंशतिपत्नीनां रथैर्युक्तः समाययौ ।। १० ३।।
कुंकुमवापिकाक्षेत्रं चान्द्रमण्डलसदृशम् ।
अभवत् सर्वथा दिव्यं यदा चन्द्रोऽगमत् तदा ।। १ ०४।।
चन्द्रेण तु समानीता मणयो विविधास्तथा ।
मालिका दिव्यतेजःसंभृताः शीताऽमृतावहाः ।। १ ०५।।
हरये त्वर्पितास्तत्र मात्रा चन्द्रमसस्तथा ।
तत्पत्नीनां स्वागतादिसत्कारश्च कृतः शुभः ।। १ ०६।।
पाद्यं चार्घ्यं मधुपर्कं दत्तं भोजनपानकम् ।
पूजयित्वा हरिं चन्द्र आशीर्वादान् प्रयुज्य च ।। १ ०७।।
ययौ स्वभवनं स्वर्गे श्रीकृष्णो मुदितोऽभवत् ।
अथ सर्वेऽपि पित्राद्या लोमशं मुनिसत्तमम् ।। १ ०८।।
कृत्वा च दण्डवद्भक्त्या समर्प्योपायनानि च ।
सुप्रसादं गृहीत्वापि गृहीत्वाऽऽशिष एव च ।। १ ०९।।
कन्याभ्यश्चाशिषो दत्वा ययुः स्वं भवनं प्रति ।
एवं वै राधिकेऽनादिकृष्णनारायणस्य हि ।। 2.9.११० ।।
संस्कारं पावनं चमत्कारयुक्तं सुखावहम् ।
श्रोतॄणां मुक्तिदं तस्य स्मर्तॄणां सम्पदांप्रदम् ।। १११ ।।
लोकपुत्रधनेच्छूनां स्वर्गाऽपत्यधनप्रदम् ।
विद्यैश्वैर्यादिवाञ्छानां विद्यासिद्धिप्रदं परम् ।। ११ २।।
भुक्तिदं मुक्तिदं चापि सौभाग्यदं तु योषिताम् ।
आवेदितं च ते राधे! बालरूपस्य पावनम् ।। ११ ३।।
सर्वतीर्थफलाऽवाप्तिरस्य वै चिन्तया भवेत् ।
सर्वक्रतूनामवभृथजं पुण्यं लभेत्तथा ।। १ १४।।
सर्वदानफलं चापि सर्वयोगफलं तथा ।
प्राप्तौ श्रीकृष्णकान्तस्य समाप्यते तु राधिके ।। १ १५।।

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने बालकृष्णप्रभोस्तृतीये मासि शुक्लदले बहिर्निष्क्रमणसंस्कारे योषिद्भिः कारिते लालनरमणे बहुरूपता, दिव्यदर्शनम्, लोमशाश्रमे प्रभा कृष्णकान्तं नीत्वा ययौ, तत्र क्रोधनोऽसुरः क्रोधना कन्या भूत्वा हरिमहरत् । व्योम्नि सा हरिणा दग्धा तं मुमोच, तां दिव्यां त्रिरूपां कृत्वा लोमशाश्रमे, मोक्षे, दुर्वासोभाविजन्मनि चेतिन्यरूपयत् । विधुदर्शनं चमत्कारश्चेत्येवमादिनिरूपणनामा नवमोऽध्यायः ।। ९ ।।